भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 34

34.2

। ऽप्य् अभावधर्मः स्य्. + + .. .. भयधर्मो हेतुः स्याद् इत्य् आह । अनाश्रितेत्यादि । एतद् आह । यदि विधिना भावात्मकं धर्मम् अङ्गीकृत्याभावस्योच्येत । एकप्रतिषेधेन वा तद्विपरीतवस्तुभागात्मकं
व्1 ॥। द् विरोधस् तच् च नास्ति यतो व्यति + + + .. .यार्थप्रतिषेधमात्रस्य धर्मत्वेन कल्पितस्याभावे ऽप्य् अविरोधात्* । तत्र व्यतिरेकग्रहणेन विधिमुखोपात्तं धर्मम् अपनयति मात्रग्रहणेन प्रतिषेधोपायलभ्यं वस्तुभागात्मकं । व्यतिरेकमात्रम् एव कस्माद् भवतीत्य् आह । अपर्युदासेनेति प्रतिषेधोपसर्जनो हि विधिः पर्युदा ।

34.3

। नाश्रितवस्तुन इति यत्रान्याव्यवच्छेदेन + स्त्व् आश्रीयते स पर्युदासस्य विषयो न चेह वस्तु किञ्चिद् आश्रितं तद् एव व्यवच्छेदमात्रम् आह नेत्यादि । न भवति मूर्त इत्य् अमूर्तत्वं मूर्तप्रतिषेधलक्षणम् अभावे ऽपि स्यान् निरुपाख्यस्येत्यादि । अयं भावः प्रतिषेधो हि निवृत्तिः । सा च क्रिया न च क्रियाश्रयम् अन्तरेण क्रिया युज्यते । तस्माद् अभावो न प्रति ।

34.4

। .. त्य् अभिप्रायः । ननु सन्त्य् अभावे ऽपि शब्दा इत्य् अत्रान्तरे निरुपाख्यस्यापि प्रतिषेधविषयत्वं प्रतिपादितम् एव सत्यं किंतु निर्विषयस्य नञो ऽप्रयोगाद् इत्य् अनेन पूर्वपक्षेणोक्तम् इदं तु क्रियाकारकसंबन्धद्वारेणेति विशेषः । यदि न प्रतिषेधविषयता निरुपाख्यस्य तत् किम् इदानीं निरुपाख्यं विधिविषयो ऽस्तु त .. ।

34.5

। षयः प्रतिषेधविषय एव । कस्माद् विधीत्यादि । विधेर् या निवृत्तिः स एव प्रतिषेधो विधिप्रतिषेधाभ्याम् अपरस्याभावात्* न च निवृत्तिर् नाम काचिद् वस्तुभूता क्रियास्ति येनाभावेषु न स्यात्* । तद् एतद् अनन्तरोक्तं व्यवच्छेदमात्रं द्वयोर् अपि भावाभावयोः संभवत् सत्वे साध्ये गमकत्वं कथम् आत्मसात् कुर्यात्* यस्माद् वि .. ।

34.6

। त्र शंका तस्या व्यवच्छेदेन सत्वे च साध्ये विपक्षो ऽसत्वं न चोभयधर्मस्य हेतोर् विपक्षाद् असतो व्यावृत्तिर् अस्ति स च वादी स्ववाचा स्ववचनेन सत्तासाधनस्य हेतोर् उभयधर्मतां ब्रुवाणः । सतो ऽन्यत्रापि असत्य् अप्य् उभयधर्मस्य हेतोर् वृत्तिं भाषते । एवं ह्य् अस्योभयधर्मत्वं स्याद् यदि सति चासति + वर्तेत । सत्ताया .. ।

34.7

। .. .. .. ..ं .. .. तुं सत्तायां वदतो ऽस्य वादिनो विरुद्धो हेतुः स्यात्* । सत्वविपरीतस्यासत्वस्य साधनात्* कः पुनर् अभावस्यैव धर्मो भवतीत्य् आह । भावमात्रेत्यादि । यो हि वस्तुमात्रव्यापी अर्थक्रियाकारित्वकृतकत्वादिलक्षणो ऽर्थः । तस्य व्यवच्छेदो नियमेनाभावस्यैव धर्मः । सर्वभावनिषेधस्याभाव एव भा .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc