प्रमाणवार्त्तिकटीका · अध्याय 33
। त्य् आह । तथा चेत्यादि । लिङ्गस्य धूमादेर् अव्यभिचारस् तु साध्यधर्मेण । अन्यत्रेति विशिष्टधर्मिसंबन्धत्यागेनान्यस्मिन्न् अपरामृष्टाधारविशेषे धर्मिमात्रे । अन्ये तु साध्यधर्मिणो ऽन्यत्र दृष्टान्तधर्मिणीति व्याचक्षते । त ॥।
र् प्रमाणवार्त्तिकटीका
र्1 ॥। .. न दर्शितं लिङ्गं तत्र विवादाश्रये धर्मिणि । प्रसिद्धं निश्चितं तद्युक्तं तेन व्यापकेन धर्मेण युक्तं साध्यधर्मिणं गमयिष्यतीति । तस्माद् इत्यादिनोपसंहारः । यत् तूक्तं यथा सत्तायां साध्यायां अनन्वयो दोषः । तथा हेताव् अपीति तत्रोत्तरं अपरामृष्टेत्यादि । अपरामृ .. ।
। सत्तामात्रस्य हेतोर् अन्वयो दृष्ट्यान्तधर्मिणि वृत्तिर् न विहन्यते । किंभूतस्य साध्यस्य वस्तुमात्रे साधने क्रियमाणे इत्य् आह तन्मात्रव्यापिनः सत्तामात्रव्यापिनः साधनेत्यादिना व्याचष्टे । वस्तुमात्रव्यापिनि साध्यधर्मे स्वभावविशेषापरिग्रहेण साधने पुनः सत्वे क्रियमाणे नान्वयव्याघातः न साधनशून्यो दृष्टा ।
। .. त्वमात्रस्य हेतुत्वेनाश्रयणे ऽपीत्य् अर्थः । न पुनः साध्यत्वे सत्ताया विशेषानाश्रयः कस्मात् सत्तामात्रे साध्ये साधनवैफल्यात्* । सत्तायां साध्यमुखेन दोषम् उक्त्वा साधनमुखेनाह । अपि चेत्यादि । सत्तायां साध्यायां हेतुर् भावधर्मो वा उपादीयेत । भावाभावधर्मो वा एकान्तेनैव धर्. .. .. तत्रासिद्धे प्रधाना .. ।
। .. स्य स सत्वे साध्ये व्यभिचारी अनैकान्तिकः । यो ऽप्य् अभावस्य धर्मः स सत्वे साध्ये विरुद्धो सत्वस्यैव साधनात्* । यस्याश् च सत्तायां साध्यायाम् असिद्धादिदोषाद् धेतुर् एव नास्ति सा सत्ता साध्यते कथं तद्धेतुर् इति सत्तासाधनहेतुः त्रय अवयवा यस्या दोषजातेर् दोषप्रकृतेः सा त्रयि तां यथासंभवं नाति ।
। .. दिनैतद् एव विभजते । भावधर्मो हि हेतुर् उपादीयमानस् तत्कार्यात्मको वा स्यात् तत्स्वभावभूतो वा न तावद् आद्यः पक्षः कार्यकारणभावस्यैवासिद्धेः । कारणविशेषेण हि कार्यकारणभावः प्रत्यक्षानुपलंभसाधनः स च प्रधाने नास्ति कार्यव्यतिरेकलक्षणो ऽपि कार्यकारणभावः कारणम्. ।
। .. स्वभावतया भावधर्मो हेतुर् उच्यते । स कथम् असिधसत्ताके प्रधानादौ स्यात्* । यस्माद् यो हि वादी भावधर्मं हेतुं तत्र प्रधानादाव् इच्छति स कथं प्रधानादिकं भावं नेच्छेत्* । भावस्वभावस्यैव तद्धर्मत्वात्* । कथं तर्हि स्वभावस्यायं धर्म इति व्यतिरेकेण कथ्यत इति चेद् आह । स्वभाव एव हीत्यादि । कया ।
। .. क्षिप्तभेदान्तरत्वेन धर्मिणं व्यवस्थाप्य पुनस् तम् एव प्रतिक्षिप्तभेदान्तरतया धर्मत्वेन व्य्वस्थाप्य तथाकृतसंकेतेन शब्देन व्यतिरेकीव भिन्नरूप इव धर्मिणः । सकाशात्* ज्ञातृवाञ्छेतुरोधेन निर्दिश्यते । एतच् च प्राग् एव निञ्ञीतम् इत्य् आह । न हीत्यादि । उक्तम् एतद् भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर् द्वयोर् इत्यादिना ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0