प्रमाणवार्त्तिकटीका · अध्याय 32
। निर्विशेषणम् अस्तीत्य् अस्मिन्न् अर्थे सिद्धे ऽपि सति प्रधानादेः सिद्धिर् अस्तु नैवेति यावत्* । न हि ज्ञेयसत्तामात्रे विवादस् तद् एवाह तथापीति नैवाभिमतं । किञ्चित् सिद्धं स्याद् इत्य् अर्थः । अन्यत्रेति अग्निर् अत्र धूमाद् इत्यादिके प्रयोगे त ॥।
व्1 ॥। .. विरहिणेति तेन प्रदेशेनायोगस् तेन विरहः प्रदेशेनायोग इत्य् अर्थः । सो ऽस्ति यस्य सामान्यस्य तत् तथोक्तं विशिष्टप्रदेशसंबन्धिनेति यावत्* । अन्वयो न सिद्ध एव विशिष्टप्रदेशसंबन्धिनः । सामान्यस्यान्यत्रावृत्तेः नेत्यादिना परिहरति । न वै कश्चि ।
। .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. + + .. नान्तरीयकाग्न्यविनाभावी दर्शनीयः कीदृशेन वाक्येनेत्य् आह यत्रेत्यादि । यत्र क्वचिद् धूमस् तत्राग्निर् इति । स धूमस् तथेति सर्वोपसंहारव्याप्तिदर्शनेन । अग्निमात्रेण व्याप्तः सिद्धो यत्रैव प्रदेशे धर्मिणि स्वयं स्वेन धूमरूपेण निराकृतभ्रान्तिकारणेन दृश्यते तत्रैव प्र ।
। .. नुमेयप्रतीतौ साध्यनिर्देशेन न किञ्चित् प्रयोजनं । तेन विनापि साध्यसिद्धेः तद् एवाह तत्रेत्यादि । तत्र सामान्यधर्मिणि लिङ्गस्य दर्शनं तस्याख्यानमात्रात् साध्यधर्मिणं लिङ्गस्य यः संबन्धो ऽन्वयव्यतिरेकलक्षणस् तस्य चाख्यानमात्रात्* । इष्टस्य साध्यस्य सिद्धेः यतश् च साध्यधर्मिणो न निर्देशस् तदा तदनिर्देशे च कथं तद्विशिष्टेन धर्मवि .. ।
। .आद् अयं धूमो ऽग्निना साध्यधर्मेणाविनाभावी सिद्धो यत्र प्रदेशे दृश्यते तत्रार्थाद् एवाग्निस् तेन प्रदेशेनायोगं व्यवच्छिनत्ति । अग्निमन्तं प्रदेशं साधयतीति यावत्* । इति हेतोः स प्रदेशस् तथेत्य् अग्निमत्वेन साध्य उच्यते । प्रमाणव्यापारपृष्टभावितया । न पुनस् तथोपन्यासपूर्वकः विशिष्टप्रदेशसंबन्ध्यग्नि .. .. .. ।
। .. .. .. .. .. .. त्* । अथ पुनः पक्षोपन्यासपूर्वक एवान्वयस् तत्पूर्वकत्वे वा पाक्षोपन्यासपूर्वकत्वे वान्वयस्य न्यायप्राप्ते कः प्रतिज्ञां साधनाद् अपाकरोति । पक्षनिर्देशस्यापि तदानीं साधनत्वात्* । न चैवं तस्मात् स्थितम् एतत्* । पक्षम् अनुपदर्शयैव साधयधर्मसामान्येन लिङ्गस्य व्याप्तिः । कथनी .. .. .. .. चार्यदिङ्नागस्य्. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0