प्रमाणवार्त्तिकटीका · अध्याय 31
। .. .. .. क इति सुखदुःखमोहात्मकः । तथाभूतो ऽप्य् एको ऽनवयवः । परेणेष्यते अन्यो वेति कर्तृत्वादियुक्तः यथाकथंचिद् अपीति यथोक्तैर् धर्मैः समस्तैर् व्यस्तैर् वा विशेषितः तत्स्वभाव इति यथोक्तविशेषणविशिष्टस्वभावः । स च धर्मी तथे
9 ॥। .. .. ति सत्तामात्रे विवादाभावात्* ।
q प्रमाणवार्त्तिकटीका
र्1 ॥। विकल्पेन सत्तायाम् उक्तः । तथा हि आधारविसेषेण केनचिद् अविशेषितम् अग्न्यादिसत्तामात्रम्* साध्यम् आधारविशिष्टं वा । आद्ये पक्षे सिद्धसाध्यता । यद् आह तत्रापीत्यादि । यत्रापीत्य् अग्न्यादिके साध्ये । द्वितीये पक्षे साध्यशून्यो दृष्टान्तः स्याद् आह विशिष्टेत्यादि । विशिष्ट आधारो यत्राग्न्यादिकं सा .. ।
। .. भिमतस्य सपक्षे ऽनन्वयाद् असिद्धिः न ह्य् आधारान्तरसंबन्धो ऽग्निर् आधारान्तरे वर्तते । नेत्याद्य् आचार्यः न वै स आधारः साध्यधर्मित्वेनाभिमतस् तम् अग्न्यादिकं विशेषीकरोति यत्र धूमस् तत्राग्निसामान्यम् अस्ति चात्र धूमस् तस्मायत्राप्य् अग्न्य्सामान्यम् इत्य् एवं सामान्यस्यैव प्रतीतेः यद्य् आधारेण न विशेषीक्रियते । कथं तर्हि पक्षस्य धर्म इत्य् एवं विशे .. ।
। .. .. .. स्तस्य व्यवच्छेदेन विशेषणात्* पक्षस्य धर्म एवेति न तु पक्षस्यैव धर्मेत्य् उक्तं प्राक्* पक्षधर्मस् तदङ्शेन व्याप्त इत्य् अस्य श्लोकस्य विवरणे वक्ष्यते च चतुर्थे परिच्छेदे । तस्माद् इत्य् उपसंहारः । तत्रेति प्रदेशादौ । तदयोगव्यवच्छेनेति तस्मिन् प्रदेशादौ धर्मिणि साध्यधर्मस्यायोगव्यवच्छेदेन । ततश् च सामान्यस्य साधनान् ना ।
। .. वः । प्रधानादिके ऽपि धर्मिणि अयोगव्यवच्छेदेन सत्तामात्रं साध्यम् इति चेद् आह न तथेहापीति । क्वचिद् इति प्रधानादिके धर्मिणि कस्मात् प्रधानादिशब्दवाच्यस्यैवार्थस्य त्रैगुण्यादिलक्षणस्याभावात्* । निर्विशेषणैव सा सत्ता । विशेषणभूतस्याधारस्याभावात्* । कथम् इत्यादि परः । सत्वज्ञेयत्वादयो बहवो ध .. ।
। धर्मत्वेनेष्टैः सो ऽपि प्रधानादिः सिद्ध एव तस्मिन् सत्तासामान्यं साध्यते । अत्रापि ज्ञेयादिरूपेण धर्मी कल्प्यमानो न तावत् सुखाद्यात्मकः एको नित्यत्वादिभिर् विशेषैः सिद्धः शक्यते कल्पयितुम्* । तस्यैवं विशेषस्य साध्यत्वात्* । तस्माद् अनेन किञ्चिज् ज्ञेयम् अस्तीति साध्यं त .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0