भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 30

30.2

। .. .. .. रपरिकल्पितस्याभावस्य प्रतिषेध इति चेद् इष्टस् तावद् अभावविषयः । शब्दः तस्मात् कथंचिद् अभावव्यवहारं प्रवर्तयता अवश्यम् अभावविषया ज्ञानशब्दा एष्टव्या । यत् पुनर् एतद् उक्तं अर्थनिषेधे सति । अनर्थकशब्दाप्रयोगात् कारणान् निर्विषयस्य नञो ऽप्रयोग इत्य् अत्रोत्तरं वक्ष्यते । अनादिवासनोद्भूतविक ॥।
प् प्रमाणवार्त्तिकटीका
र्1 ॥। त्* । स्वभावाभावाद् अभावस्य रूपाभिधायिनः । स्वभावाब्भिधायिनः शब्दा नाशङ्क्या एव यतस् ते शब्दा अभावविषयाः व्यवच्छेदस्यान्यापोहस्य वाचकाः सिद्धा एव । वस्तुनि वृत्तिर् व्यापारो येषां शब्दानां तेषां किं रूपम् अभिधेयं विधिरूपेण वस्त्व् अभिधेयम् आहोस्विद् भ्. ।

30.3

। .. .. .. त्तव्यस्य विषयीकर्तव्यस्य रूपस्य वस्तुस्वभावस्य तद्भावे तस्य रूपस्य सत्तायम्म् अभावायोगात्* । तस्य रूपस्य भावस् तद्भावः । स एव लक्षणं यस्य भावस्य स तथोक्तः अयम् एव स मुख्यो विवेको ऽन्यापोहो यः सर्वभावविरहः । तस्य विवेकस्य तथाभावख्यापिन इति विवेकरूपाभि .. ।

30.4

। ..ंबन्धः । ते शब्दा विकल्पाश् च एकं व्यावृत्तिसमाश्रयभूतं वस्तुप्रतिसरणम् अधिष्ठानं येषां शब्दानां विकल्पानाञ् च ते तथोक्ताः । तथा ह्य् अकृतकव्यवच्छेदेन यद् एव वस्तु कृतकशब्दस्य विकल्पस्य वाधिष्ठानं । तद् एवानित्यानात्मादिशाब्दानां विकल्पानाञ् च । ते तथाभूता अपि भिन्नविषया एवेति संबन्धः । कस्माद् यथास्वम् इत्यादि । या व्यावृत्तिर् यतो .. .. ।

30.5

। त्यत्वलक्षणस्य व्यवच्छेदस्य नित्य इत्यादि । तेषां यथास्वं अवधीनां भेदास् तैर् भेदैर् उपकल्पिता नचिता अनित्यत्वादीनां विवेकानां भेदाः परस्परं विशेषास् तैर् भेदैः भिन्नेष्व् इव विवेकेषु विकल्पबुद्धौ प्रतिभात्सु । प्रतिभासमानेषु तेषां शब्दानां विकल्पानां चोपलयनात्* । यथाक्रमं वाचकत्वेन ग्राहकत्वेन चोपश्लेषात्* । .. ।

30.6

। स्यैव साध्यसाधनभावे ऽपि न साध्यसाधनयोः संसर्ग एकत्वं ततश् च यद् उक्तं स्वभावे साध्ये प्रतिज्ञार्थैकदेशो हेतुः स्याद् इति स दोषो नास्तीत्य् आह । तं नेत्यादि । तद् इति तस्मात्* । स चायं स्वभाव इति संबन्धः । हेतुत्वेनापदिश्यमान उच्यमान उपाधिभेदापेक्षो विशेषणभेदापेक्ष उच्यते । केवलो वेत्य् उपाध्यन .. ।

30.7

। अनित्यत्वे साध्ये कृतकत्वम् उपाधिभेदापेक्षम्* तदनपेक्षं तु सत्वं । अपेक्षितेत्यादिनोपाधिभेदापेक्षित्वं कृतकत्वस्याह । वस्तुभूतायाः असिद्धेः परस्य हेत्वभिमतस्य जननशक्तिर् एव परव्यापारः । अन्वयव्यतिरेकानुविधानम् एव चापेक्षा । स्वभावनिष्पत्तौ स्वभावनिष्पत्तिनिमित्तम् अपेक्षितः । परव्यापारो येन भावे .. .. ।

30.8

। ः । स्वभावाभिधायिन्य् अपि सती परोपाधिर् इत्य् अन्यविशेषणम् एनं स्वभावम् आक्सिपति । एतेनेति कृतकत्वस्योपाधिभेदापेक्षप्रतिपादनेन । प्रत्ययानां काराणां भेदः प्रत्ययभेदस् तेन भेत्तुं शीलं यस्य स तथा । तद्भावः प्रत्ययभेदभेदित्वं । स्थानप्रयत्नादिकारणभेदेन हि भिद्यते शब्दः । आदिशब्दात् प्रयत्नानन्तरीयकत्वादयो व्याख्याताः । एते ऽपि हेतु .. ।

30.3

। इति । एवम् इत्यादिनोपसंहारः । क्वचिद् इति प्रयोगे । उपाधिभेद .. .. .. पेक्षं । अत एव सामान्येन हेतुफलभावेन पदद्वयं अनित्य एव साध्ये यथा सत्वं । स्वभावभूतश् चासौ धर्मविशेषश् चेति विग्रहः । तस्य परिग्रहेण क्वचित् स्वभावो हेतुर् उच्यते इति प्रकृतं । यथा तत्रैवेति अनित्यत्वे साध्ये
9 ॥। ः । स्वभावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते । प्रादुर्भावस्य धर्मविशेषत्वेन प्रतीतेः । न तु सत्तावच् छुद्धस्य स्वभावमात्रस्य प्रतीतिः ।
व्1 ॥। .. भावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते । प्रादुर्भावस्य धर्मविसेषत्वेन प्रतीतेः । न तु सत्तावच् छुद्दस्य स्वभावमात्रस्य प्रतीतिः । अयम् अप्य् उपाध्यपेक्ष एव स्वभावो द्रष्टव्यः । कृतकत्वादौ परभूत उपाधिर् इह त्व् आत्मभू एव धर्मविशेष इत्य् एतावान् भेदः । अनया दिशेति । उपाध्यपेक्षहेतुप्रविभागदिसा । धर्मी सामान्येन सिद्धो विशेषेण ।
2 ॥। साध्येति न्यायः तत्र यदि सत्ताख्यः स्वभावः सत्तास्वभावः । सत्वम् इ .इ + .. .. कृतकत्वादिको ऽपि स्वभावस् तन्निवृत्यर्थं । सत्ताग्रहणं व्यतिरिक्तापि सत्ता कैश्चिद् इष्टेति स्वभावग्रहणं । आत्मभूता सत्तेत्य् अर्थः । सत्तास्वभावश् चेत्* हेतुः न सत्ता साध्यते । कथं साध्यापि स्यात्* । अथ मतं सत्तासामान्ये साध्ये सिद्धसाध्यता स्याद् अतः सत्ताविशेषः साध्यस् तस्मिंश् च साध्ये ।

30.4

। .. .. दृष्टान्तः । स्याद् अतो न सत्ता साध्यते । तदा हेताव् अपि सत्वे विशेषस्यानन्वयात् साधनशून्यो दृष्टान्तः स्यात्* तद् आहानन्वयो हीत्यादि । भेदानां विशेषाणां व्याहतो दुष्टः । हेतुसाधयोर् इति सप्तमीद्विवचनं । हेतौ साध्ये चेत्य् अर्थः । अन्यत्र चानात्मादौ । तद् इति सत्वं । किलशब्दो ऽनभिमतद्योतकः एवं प्रसाध्यमानम् इति अस्ति प्रधानम् इत्यादिना प्रधानादि ।

30.5

। साधयितुं शक्यते । कस्मात् तस्य विशेषस्यानन्वयात्* । यथाहेत्य् आचार्यदिङ्नागः । अस्ति प्रधानं इत्य् अन्नेन प्रधान{म् इत्य् अनेन प्रधा} स्वलक्षणम् एव साध्यत इति यत् सांख्येनोक्तं तत् प्रमाणस्यानुमानस्य विषयाज्ञानात्* । सामान्यविषयं ह्य् अनुमानं न स्वलक्षण[योगेन} विषयं । व्याहन्यते दुष्यति किं तर्हि हेताव् अपि । तुल्यदोषत्वात्* । तद् एवाह न हेतुर् इत्यादि । .. .. ।

30.6

। .. .इत्य् आह तत इत्यादि । ततो ऽसाधारणाद् धेतोः । भावः सत्ता सा उपादानं विशेषणं यस्य धर्मिणः स तथा । मात्रशब्दो ऽवधारणे । सत्ताविशेषणमात्र इत्यः । एवंभूते साध्ये सामान्यधर्मिणि सांख्यस्य न कश्चिद् अर्थः सिद्धः स्यात्* । त्रैगुण्यादिलक्षणस्यासिद्धेः तद् एवं स्व .. क्ष्यासिद्ध्या साधनं वैफल्यम् उक्तं । परस्यापी .. ।

30.7

। .. म् इति सामान्यमात्रं । अनेन सिद्धसाध्यतोक्ता । अथ वा न कश्चिद् अर्थः सिद्धः स्यात्* । अनिषिद्धं च तादृशं ह्यर्थे चशब्दः यस्मात् तादृशम् अनिषिद्धम् अतः सिद्धसाध्यतादोषान् न कश्चिद् अर्थः सिद्धः । स्याद् इति । न सर्वथेत्यादिना व्याचष्टे । सत्तासाधन इति सात्तासिद्धौ । भावमात्रविशेषण इति सत्तामात्रविशेषणः । अनिर्दिष्टः विशेषो यस्य्. ।

30.8

। .. । किं तु स वादी तथा सामान्येन नास्ति कश्चिद् इति । कञ्चनास्य धर्मिणो भेदं विशेषम् अपरामृष्यानुपादाय अनेनेति वादिना उपात्तभेद इत्य् अपात्तविशेषः त्रिगुणात्मको नित्य इत्यादिना उपात्तभेदे साध्ये ऽस्मिन् प्रधानादिके धर्मिणि । भवेद् धेतुर् अनन्वयः । नास्य साध्यविशेषेण द्षृटान्ते ऽन्वयो ऽस्तीत्य् अनन्वयः । साध्यशून्यो दृष्टान्त इति ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc