भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 29

29.2

। . तु यौगपद्याद् अभिमान एष मन्दमतीनां विकल्पः । स्वलक्षणाकार इति । विचारितश् चैतत् प्रमाणविनिश्चये शास्त्रकारेणेति नेह प्रतन्यते ।
व्1 ॥। न्धो वाच्यः कथं तर्ह्य् आचार्यदिग्नागेन तस्यावाच्यत्वम् उक्तम् इत्य् अत आह । संबन्धस्येत्यादि । स्वेन रूपेणेति संबन्धरूपेणेति संबन्धनं संबन्ध इति । परस्परापेक्षालक्षणम्* । भावमात्रम् असत्वभूतं तस्य धर्मः । तेन च रूपेण तस्याभिधाय्कः शब्दो नास्ति । संबन्धशब्दो ऽभिधायक एष्टव्यः । स च प्रयुक्तः । कयोर् इत्य् आक्ष् ।

29.3

। .. व्यतिरेकस्य हेतुः संबन्धस् तदा संबन्धिरूपेण प्रतीयते । तद् आहाभिधाने संबन्धित्वेनेत्यादि । राजपुरुषयोः संबन्ध इत्य् अभिधाने राजपुरुषाभ्यां परस्परानपेक्षाभ्यां निष्कृष्टरूपस्येव संबन्धस्य संबन्धित्वेन बुद्धाव् उपस्थानात्* । यथाभिप्रायम् अप्रतीतिः राज्ञः पुरुष इति परस्परापेक्षालक्षणः संबन्धो यथा ज्ञातुम् इ .. ।

29.4

। त्* । यथोक्तविधिना संबन्धिरूप एवेति । न स्वरूपेणाभिधीयते । तस्मान् नाभावत् संबन्धे ऽपि प्रसंग इति । अभावो यथा बुद्ध्या विषयीक्रियत इति । वाच्यः प्रसक्तो नैवं संबन्धे ऽपि वाच्यत्वम् इत्य् अर्थः । अभावो हि स्वेन रूपेण बुद्ध्या विषयीक्रियते शब्देनापि तथैवाभिधीयते । संबन्ध ।

29.5

। प्य् अभिधीयते । संबन्धिरूपापन्नस्यैव विषयीकरणाहाभिन्नाच । तथा चाह असत्वभूतः संबन्धो रूपं तस्य न गृह्यते नाभिधानं स्वरूपेण संबन्धस्यास्ति किञ्चिन्नेति । तस्मात् स्थितम् एतद् विकल्पविषयो ऽवश्यं वाच्य इति । ततश् च यदि नास्ति संबन्ध इति मतिस् तदा तत्प्रभवो ऽपि शब्दः प्रवर्तत एव तथा चाभावविषयः .. ।

29.6

। .ईकरणं नेष्यते । तदा नेह घट इत्य् अत्र कस्य निषेधो न तावद् देशादेस् तस्य सत्वात्* । न संबन्धस्य तदभावस्याग्रहणाद् इति यत्किञ्चिद् एतत्* । अपि चाभावम् अभिधेयं यो ब्रूते तं ब्रुवाणं प्रत्य् अयम् अभावनभिधानवादी अभावो न वाच्य इति । प्रतिविदधत्* । अब्रुवाणः कथं प्रतिविदध्यात्* । न ह्य् अभावशब्दम् अनुच्चारयता तस्यावाच्य .. ।

29.7

। .. .. ॥। .. .. .. .. .. .. .. + + + .. .. + + .. नेनैवाभावशब्देन तस्योक्तः .. .. .. .. स्यात्* । कथंचन स्याद् अभावस्यैवानभ्युपगमात्* । अभावो नैवास्ति तेनासत्वाद् अवचनम् अभावस्येति चेद् आह । अथाभावम् एवेत्यादि । तेनेत्य् अभावस्यासंबन्धेन । इदानीम् इति अभावस्यासत्वे । तद् एवाभावो नास्तीति वचनं कथं अभावो नास्तीत्य् अस्यैवाभावशब्दस्य प्रयोगो न स्यात्* । कथंचन स्यात् । क .. ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc