प्रमाणवार्त्तिकटीका · अध्याय 2
। .. न्यापोहविशिष्टो भेदो गृह्यत इत्य् अभिधानाद् आचार्यदिङ्नागप्रभृतिः स्वलक्षणस्य सामान्यसंसृष्टस्य ग्रहणं । प्रतिज्ञातम् इत्य् आशङ्काम् अपनयन्न् आह भेद इत्यादि । भेदः सामान्यसंसृष्टः प्रतीयत इत्य् अत्रापि वचने ग्राह्यं न स्वलक्षणं स्वलक्षणम् एव निर्दिष्टम् इति नैवं बोद्धव्यम् इत्य् अर्थः । .. .. .. द्धिसन्निचेशिन एव भे ॥।
व्1 ॥। ष्टा गृह्यन्त इति तत्रापि बोद्धव्यं । अन्ये तु भेदः सामान्यं संसृष्टो ग्राह्य इति पुल्लिङ्गेन पठन्ति । तत्रायम् अर्थो भेदः । सामान्यसंसृष्टो ग्राह्य इत्य् अत्रापि वचने न स्वलक्षणं बोद्धव्यं इति । किं पुनः कारणं तत्रैवं बोद्धव्यम् इति चेद् आह समानेत्यादि । अनेकस्मिन्न् एकत्वा ।
। .. स्मिन्न् उपाधिबहुत्वं भिन्नाकारः आदिशब्दाद् धर्मधर्म्याकारपरिग्रहः । न तत् स्वलक्षणग्राह्यं कथंचन किं कारणं तत्रैकस्मिं स्वलक्षणे कृतकत्वानित्यत्वादिरूपेण बहुभेदानान् धर्माणां किं विशिष्टानां भेदानां वस्तुरूपाणां तत्रैकस्मिन् स्वलक्षणे ऽयोगात्* । न ह्य् एकस्मिन् वस्तुनि वस्तुरूपाणि बहूनि युज्यन्ते निरंशत्वात्* स्वलक्षण ।
। .. .. .. .. तत्प्रातिपादिका श्रुतिर् इति असाधारणेन रूपेण तस्य स्वलक्षणस्य प्रतिपादकः शब्दो नास्ति कल्पना वास्ति नेत्य् प्रकृतं । असाधारणेन रूपेण स्वलक्षणस्य ग्राहको विकल्पापि नास्तीत्य् अर्थः । किं कारणं सामान्येनैव शब्दस्य कल्पनायाश् च वृत्तितः तत्प्रतिपादिका न श्रुतिर् अस्तीति ब्रुवता स्वलक्षणे ।
। पुनर् इत्यादि । न तु सामान्येनैव वृत्तित इत्य् अनन्तरम् उक्तत्वाद् अयुक्तं चोद्यं । सत्यम् एतद् अधिकं तु परिहारम् अभिधातुम् उपन्यासः संकेतेनअ विषयीकृतः संकेतितस् तम् आहुः शब्दाः व्यवहाराय स स्मृत इति संकेतः । यस्मिन् स्वलक्षणे संकेतः क्रियत इतीष्यते । तत स्वलक्षणं तदा व्यवहारकाले नास्ति न हि संकेत ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0