भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 28

28.2

। .इहरति । अग्नाव् अनुष्णं नास्तीत्य् अनेन सर्वत्रोष्णम् असद् इति न ब्रूमः । एवं ह्य् उच्यमाने सत्वं प्रतिज्ञाय पुनः सर्वत्र सत्वनिषेधे सदसत्वम् एकत्र प्रतिज्ञातं भवेत्* । केवलं तत्र त्व् अग्नौर् अनुष्णं नास्तीति ब्रूमः । ततश् चान्यत्र सतो ऽन्यत्रासत्वम् अविरुद्धं । अयम् एव च न्याय इत्य् आह । देशेत्यादिः इह ना .. ॥।
ओ प्रमाणवार्त्तिकटीका
र्1 ॥। .. स्य नधर्मिणो निषेधः कस्मात् तन्निषेधे धर्मिणोनिषेधे तद्विषयस्य शब्दस्य निर्विषयतया प्रवृत्यभावात्* ततश् च धर्मिशब्दाप्रवृत्तेर् अनिर्दिष्टो विषयो यस्य नञस्! तस्याप्रयोगात्* । इदम् इह नास्तीत्य् अवश्यम् इदम् आदिपदैर् विषयः प्रतिषेधस्योपस्थाप्यो ऽन्यथा किंविषयो ऽयं प्रतिषेध इत्य् एवं न ज्ञायेत ।

28.3

। त्रापीति देशकालधर्मनिषेधेन देशादीनाम् आदिशब्दात् कालस्य परिग्रहः । व्यक्तिभेदात् तु बहुवचनं नार्थस्येति धर्मस्य न त्व् अर्थशब्देन धर्मिणो निर्देशः । परेणापि धर्मिनिषेधस्योनिष्टत्वात्* । न धर्मि शशविषाणादिः । प्रतिषिध्यते नापि देशादिः । किंतु शशविषाणं नास्तीति शशस्य विषाणेन सह .. + + +ः स .. ।

28.4

। .. प्य् अनिषेधात्* । तद् एवासतीत्यादिना साधयति । असति संबन्धे शब्दाप्रवृत्ति आदिशाब्दाद् अनिर्दिष्टविशयस्य नञो! ऽप्रयोगात्* । अथवा तुल्यो दोषः कथं निषेधात्* । असति यो निषेधस् तस्य त्वयैव निषेधाद् इति व्याख्येयम्* । कथं निषेध इत्य् आहासतीत्यादि । असतो वास्य संबन्धस्य निषेधे तद्वत् संबन्धवत्* धर्मिणो .. ।

28.5

। र्हि नेह प्रदेशे घटो नेदानीं काल इत्य् एवं प्रतिषेधोक्तौ सत्यां नानेन देशेन कालेन वा घटस्य संबन्धास्तीति प्रतीतिः । तथा नैवं नानेन प्रकारेण घटो ऽस्तीत्य् उक्तौ नैतद्धर्मा घट इति प्रतीतिः । तथेत्य् एवं प्रतीतौ सत्यां । तथापीत्यादि चोदकः नेदानीम् इत्यादिनापि कथं संबन्धो निषिद्धो यावद् अस्य पुन्सः संबन्धो धर्मो वा नास्त्. ।

28.6

। .. र्मो नास्तीति मतिः । धर्मनिषेधो ऽपि संबन्धनिषेध एव धर्मधर्मिणोः संबन्धनिषेधात्* । संयोगसमवायलक्षणभेदात् तु संबन्धो धर्मो वेति भेदेनोक्तम्* न चास्याः संबन्धो नास्तीति मतेः कथंचिद् भावे सत्तायां संभवः । कस्मात्* । अभावेष्व् इत्यादि । तथाशब्दो यथार्थम् आक्षिपति यत्तदोर् नित्याभिसंबन्धात्* सत्सु देशादिषु यथा नास्तीति बुद्धेर् अभावः । सत्स्वभावबुद्धेर् विरोधात्* । त .. ।

28.7

। .. शान् नेदम् इहेत्य् आद्या प्रतीतिः । सा तदभावे संबन्धप्रतीत्यभावे न स्यात्* प्रतीतौ वा तदभावस्य संबन्धाभावस्य यादृशी संबन्धाभावप्रतीतिः यथा प्रतीति सा विद्यते यस्य पुन्सस् तस्य यथाप्रतीतिमतः । तत्प्रभावाः संबन्धाभावप्रतिबन्धाः संबन्धाभावविषया । केन वार्यन्ते । विकल्पविषय एव । संबन्धाभावो न शब्दा .. ।

28.8

। न शब्दानां विषयः विकलविषयस् त्व् अवश्यम्* शब्दविषय इत्य् अर्थः । ते चेत् प्रवृत्ता इति वितर्काः । ननु पुरतो ऽवस्थिते नीलादौ नीलम् इत्यादि विकल्पः । स्वलक्षणविषयो न च स्वलक्षणम्* । शाब्दवाच्यम् इत्य् अत आह । न हीत्यादि । अवाच्यम् अर्थम् इति स्वलक्षणं वितर्काधिकाराद् विकल्पबुद्धयो गृह्यन्ते । समीहन्त इत्य् आलम्बन्ते । सामान्याकारव ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc