भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 27

27.2

। .. म् आकारम् अपश्यन्* कथं बुद्ध्याधिमुच्येतार्थान् इति संबन्धः । किं विशिष्टया बुद्ध्येत्य् आहासंसृष्टेत्यादि ।
व्1 ॥। रो यस्मिन्न् अर्थे स तथोक्तः । स यस्या बुद्धेर् अस्ति सा असंसृष्टान्याकारवती विभक्तार्थग्राहिण्येति यावत्* । अभिलपेद् वा कथं प्रतिनियतसंकेतेन ध्वनिनेत्य् आकूतं । कस्मान् नाधिमुच्येतेत्य् आह । विभागाभावाद् भावानाम् इति तत्संहारवाद इति । भेदसंहारवादो न स्यात् स्याद् उष्ट्र इत्यादिकः । अथ पुनर् असंसृष्टौ दध्युष्ट्रौ प्रतिपद्य संह्. ।

27.3

। .. सर्गिन्या उष्ट्ररूपेणैव दधिरूपेणैव वा संसर्गिण्या बुद्धेर् असंसृष्टाकारग्राहिण्या क्वचिद् उष्ट्रे दधिनि च यत् प्रतिनियमात्* । तत्प्रतिभासभेदकृत एव बुद्धिप्रतिभासभेदकृत एव एव तयोर् दध्युष्ट्ररूपयोः स्वभावभेदो ऽपि । कस्मात्* । एकानेकेत्यादि प्रतिभासभेदस्यानेकव्यवस्थितिर् विषय एकव्यवस्थितिः प्रतिभासाभेदस्येति योज्यं । भिन्नप्रतिभास .इ ।

27.4

। .. ति नैक उष्ट्रो दधि वा तदुभयरूपः दध्युष्ट्रात्मकरूपं यस्येति विग्रहः । मिथ्यावाद एव स्याद्वादः । भेदलक्षणम् इति व्यावृत्तिलक्षणं प्रकृत्या स्व .. .. .. । आ .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. वानां वस्तूनां स्वभावभेदः । स्वभावेनैवान्यस्माद् व्यावृत्तिः । तत्रेति निरूपाख्येषु ।

27.5

। .. .. चान्यापोहवादिना शक्यं वक्तुम्* । नैव निरुपाख्येषु शब्दानां प्रवृत्तिर् इति यतस् तेष्व् अप्य् अवश्यं शब्दप्रवृत्त्या भाव्यं कस्मात्* कथंचित्* । ज्ञानशब्दविषयत्वेनाव्यवस्थापितेषु निरूपाख्येषु सर्वत्रार्थे विधिप्रतिषेधायोगात्* । यदि क्वचिद् असत आकारस्य निषेधेन ज्ञानाभिधाने स्यातां तदा निषिद्धाकारपरिहृते ऽर्थे .. ।

27.6

। .इ .. कौ विधिप्रतिषेधौ । आश्रयो यस्य व्यवहारस्य स तथोक्तः । तम् एव व्यवहाराभावम् उष्ट्रेत्यादिनाह । उष्णस्वभावो ऽग्निर् इत्य् अन्वयाश्रयो व्यवहारः । नानुष्ण इति व्यतिरेकाश्रयः अयम् अप्य् अतिप्रसिद्धो लोकव्यवहारो न स्याद् इत्य् अपिशब्देनाह । उष्णव्यवस्था ह्य् अनुष्णव्यवच्छेदेन । तस्य चानुष्णस्योष्णाभा ।

27.7

। .. .. .. प्येत तद् आह स्वभावान्तरेत्यादि । उष्णाभाव एवोष्णस्वभावाद् अन्तरं विलक्षणं तद्विरहरूपेणेति स्वभावान्तरम् उक्तं । अत एवासत इत्य् एतद् घटते । न तु स्वभावविशेषस् स्वभावान्तरं । कथंचिद् अपि विकल्पबुद्धेः शब्दस्य च विषयत्वेना .. वस्थापनात्* ।

27.8

। .. प्रतिपत्तिर् यथाग्निस्वभावस्यैवं सर्वस्य पदार्थस्य ततो व्यामूढम् अनिश्चितरूपं जगत् स्यात्* । स्याद् एतन् न तत्र वह्न्यादौ कस्यचिद् असतो निषेधो येनाभावे ऽप्य् अवश्यं शब्दप्रवृत्या भाव्यम् इति । चोद्यते किंत्व् अनुष्णं स्पर्शाख्यं सद् एव वस्त्व् एव अग्नेश् चार्थान्तरं निषिध्यत इति । उष्णो ऽग्नि नानुष्णः । अग्नाव् अनुष्णस्पर्शो नास्तीत्य् एवं निषेधात् कथम् इत्यादि चो .. ॥। सद् एवेति वचनात् सत्व .इ ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc