प्रमाणवार्त्तिकटीका · अध्याय 26
। वः । द्वयोर् इति गवि चाश्वे च । यस्माद् एको ऽपि हि कारणत्वेनाभिमतो गोपदार्थः ततां अर्थक्रियां वाहओधस्वभावां तत्स्वभावत्वात्* । तदर्थक्रियाकरणस्वभावत्वाद् एव करोति । तदन्यस्यापि तस्माद् गोद्रव्याद् अन्यस्यापि अश्वस्य तद् वाहदोह .. .. र .. .. ॥।
न् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. व्. त्. स्. व्. + .. स्य भेद .. .. .. न अह्रीका नग्नतया । निर्लज्जः क्षपलकाः अयुक्ताभिधानस्य कुस्मितत्वात् किम् अपीत्य् आह । अश्लीलं ग्राम्यं । सर्वः सर्वस्वभावो न च सर्वस्वभाव इति यत् प्रलपन्ति प्रतिक्षिप्तं तद् अपि । कस्माद् एकान्तसंभावाद् एकस्यैवान्तस्यात्यन्तभेदप्रकारस्य संभवात् स्याद् उष्ट्रो दधिस्वलक्षणस्यैक्यात् स्यान् न दधि अवस्थाभेदाद् अश्लीलम् इत्य् अस्य व्याख्यानम् अयुक्तम् इ ॥। अश्लीलम् इत्य् अस्य ग्राम्यपर्यायत्वात् । अहेयोपादेयम् इति । अत्याज्याम् अग्राह्यं च । कस्माद् अपरिनिष्ठानात्* । यदि हि किंचित् सुखसाधन .. .. .इश्चितम् अन्यच् च दुः .. ।
। .. स्वभावत्वान् न च सर्वस्वभावत्वात्* । अतश् चाकुलम् एकस्यान्तस्य ग्रहीतुम् अशक्यत्वात्* । तदन्वये वा तस्य स्वभावभेदस्य परपरम् अन्वये वा सर्वस्योभयरूपत्वं उभयग्रहणम् अनेकत्वोपलक्षणं तस्मिन् सति । तद्विशेषस्य उष्ट्र उष्ट्र एव न दधि । दधि दध्य् एव नोष्ट्र इत्य् एवंलक्षणस्य निराकृतेः दधि खादेत्य् ए .. ।
। .. कारेण स्याद् दधि । नापि स एवोष्ट्र एवोष्ट्र इत्य् एकान्तवादः । येनान्यो ऽपि दध्यादिकः स्याद् उष्ट्रः तथा दध्य् अपि स्याद् उष्ट्रः नापि तद् एव दध्य् एव येनान्यद् अप्य् उष्ट्रादिकं स्याद् दधि एतेन सर्वस्योभयरूपत्वं व्याख्यातं । तद्विशेषनिराकृतेर् इत्य् एतत् तद् अनयोर् इत्यादिना व्याचष्टे । उभयथा हि द .उ .. .. .. विशेषः स्या ।
। .. द्य् उष्ट्रस्वरूप एव नियतं स्यात्* । एवं दध्नो ऽपि वाच्यं । आद्यस्य तावद् असंभवस् तद् इत्यादिना कथ्यते तद् एवम् अनयोर् दध्युष्ट्रयोर् न कश्चिद् विशेष इति संबन्धः । एकस्यापीत्य् दध्न उष्ट्रस्य वा कस्यचित् तद्रूपाभावस्य उष्ट्ररूपाभावस्य दधिरूपभावस्य चाभावात्* । द्वितीयस्यापि प्रकारस्याभावम् आह स्वरूपस्येत्यादि । अ .. .. .. ।
। यतस्य उष्ट्रस्वभावनियतस्य दधिस्वभावनियतस्य चाभावात्* । अथास्ति दध्युष्ट्रयोर् अतिशयः कश्चिद् येनातिशयेन दधि खादेति चोदितः पुरुषो भेदेन वर्तते । उष्ट्रपरिहारेण दध्य् एव प्रवर्तते । स एवातिशायो दधि स चान्यत्रोष्ट्रो नास्ति अनुभयं विभक्तस्वरूपं सर्वं वस्तु .. .. .. परमार्थः एकत्वं तु ।
। .. .. .. .. .. .. .. व्याख्ये .. + + + + + . इति दधिक्षीरयोः तथा चोदित इति दधि खादेति चोदितः पुरुषो भेदेन वर्तते । उष्ट्रपरिहारेण दध्य् एव प्रवर्तते । स एवातिशयो दधि स सान्यत्रोष्ट्रे नास्तीति अनुभयं विभक्तस्वरूपं सर्वं वस्तु तद् एव परमार्थः एकत्वं तु कल्पितं । दध्नैवापरम् उष्ट्रादिकम् अनुभवरूपम् इतिय् व्याख्येयम्* । .. .. ।
। चोदित इति दधि खादेति चोदितः । क्षीरविकारो दधि नान्यत्रेत्य् उष्ट्रे । स एवातिशयो दधि किंभूत अर्थक्रियार्थिप्रवृत्तिविषयः दधिसाध्यार्थक्रिया .. तया यो ऽर्थी पुरुषस् तस्य प्रवृत्तिविषयः किं कारणं तत्फलेत्यादि । दध्नैव साध्यत्वात् फलविशेषः सैवासौ विशेषश् चेति विग्रहः । तस्योपादानभावो हेतुभावस् तेन लक्षितः स्वभावो यस्य वस्तुनस् तद् ए .. .. .इ .इ ।
। दधिस्वभावः । अन्यत्रेत्य् उष्ट्रे । कस्मात्* । दध्यर्थिनस् तत्रोष्ट्रे प्रवृत्यभावात्* । भिन्नौ नियतार्थौ । धीध्वनी ज्ञानं शब्दश् च । तदभावात्* भिन्नबुद्धिशब्दभावात्* । भेदानां संहारवादस्य । एकीकरणवादस्यासंभवः । भेदेन गृहीतयोः श्रुतयोर् वा एकत्वेनोपसंहरो निर्देशः स्याद् उष्ट्रो दधीत्यादि । सो ऽयम् इत्यादिना व्याचष्टे । क्व ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0