प्रमाणवार्त्तिकटीका · अध्याय 25
। ..ं .. दितम् इति .. .. परिणामेन स .. .. + .. .च्. दनया गवादीनां भेदा .. गवादिशब्दैश् चोदनया तदेत्य् अर्थः । क्रियार्थिनः प्रवृत्तिकाले प्राप्तुम् अनभिप्रेतत्वात्* द्रव्यादिसामान्यस्येति विभक्तिविपरिणामेन संबन्धः । सत्यं गवादयो विशेषाश् चोद्यन्ते ऽर्थक्रियार्थिभिस् ते तु भेदा द्रव्य
व्1 ॥। .. .. .. इत्य् अत आह । गवादिसमावेशाद् इति । अव्यतिरेकवादिनः सांख्यस्य गवादिषु भेदेषु सामान्यतां समावेशात् तादात्म्येनानुप्रवेशाद् गवादिस्वभावत्वाद् इति यावत्* । भेदस्वभावत्वं सामान्यानाम् इष्टम् एवेति चेद् इत्य् आह तदात्मभूतानां चेति । गवादिस्वभावानां सामान्यानां । गवादिव .. .. ।
। .. .. मान्य .. शेष रूपत्वाद् एवेति + वत्* । ततश् च विशेष एव चोद्यते तद् एवाह तम् एवेत्यादि । तम् एव चानन्यसाधारणं भावम् अयम् अर्थक्रियार्थी पुरुषो भेदाभेदप्रकारैः पर्यनुयुंकुते । अन्यापोहवादिना ऽपि व्यावृत्तिलक्षणो द्रव्यत्वाद्यभेदः स्वलक्षणाद् इष्टस् ततो ऽत्यन्तभेदो विशेषाणां विरुद्ध ।
। .. .. व्यत्वाद्यभेदो ऽस्य .. स्याबाधक एव तस्य कल्पितत्वात्* तस्मात् पारमार्थिको भेदः स्वलक्षणानाम् उपकल्पितम् एकत्वम् अनेन च प्रकारेण भेदाभेदाव् इष्टाव् अस्माभिस् तद् एव दर्शयन्न् आह । सर्वत्रेत्यादि । सामान्यस्य च व्यावृत्तिलक्षणस्याभ्युपगमाद् इति संबन्धः । न व्यावृत्तिरूपेण सामान्ये ।
। उक्तम् इति सामान्याद् अव्यतिरेकाद् भेदानाम् ऐक्यं भेदवद् एव वा । सामान्यस्याप्य् अनेकत्वम् इत्य् उक्तं प्राङ् न सामान्यम् अङ्गीकृत्य भेदानाम् ऐक्यम् उच्यते । किंतु यो ऽसौ विशेषस् तेनैवाभेद इत्य् आह । स्वात्मनैवेत्यादि । स्वेनैव विशेषरूपेण गवाश्वादीनाम् अभेदे तद्. .. द्रव्यं नि ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0