प्रमाणवार्त्तिकटीका · अध्याय 24
। .. .. .इ .. .ऐव प्रति + + + ततो व्यवहर्तृणाम् अध्यवसायवशात्* । शब्दव्यापारापेक्षया एतद् उक्तं । शाब्दे तु ज्ञाने स्वलक्षणप्रतिभासो नास्तीति स्वलक्षणम् अवाच्यम् उक्तम् इत्य् अविरोधः । द्रव्यत्वादयस् तु तत्रेति गौर् इत्यादिशब्दैर् गवादिचोदनायां । कस्माद् यथास्वं द्रव्यत्वादिशब्दैस् तेषां द्रव्यात् पृथगभिधान्. ॥।
म् प्रमाणवार्त्तिकटीका
र्1 ॥। .. त्यादि । अर्थस्य गवादेस् तेन गोत्वादिना सामान्येनाव्यभिचारात्* । ततो ऽर्थाद् गतिः सामान्यानां स्यान् न तु विशेषशब्दः सामान्ये व्याप्रियते निर्लोठितं चैतद् आचार्यदिङ्नागेन सामान्यपरीक्षादौ यथा विशेषशब्दानां न सामान्ये वृत्तिर् इति । अत्र चोद्यते .. .. .उ ..ः सामान्य .. ।
। तद् अपि .. द् एव । तथा विकल्पबुद्धिप्रतिभासस्य न बाह्येन द्रव्येणाव्यभिचारा स्ति तस्य स्वतन्त्रत्वात्* । उच्यते स्वलक्षणम् एव सजातीयव्यावृत्तं विशेषस् तद् एव विजातीयव्यावृत्तिम् अपेक्ष्याभेदेनोपात्तं सामान्यम् इत्य् उच्यते । ततः सामान्यविशेषयोर् वस्तुत एकत्वात् कृ ।
। .. भेदात् तु केवलं क्वचिच् छाब्दी प्रतिपत्ति । क्वचिद् आर्थीत्य् उच्यते । तद् इति तस्माद् अयं पुरुषः । गवादिप्रत्युपस्थापितं गवादिशब्दसंनिपातितम् अर्थक्रियाश्रयं । अर्थान्तरस्य सामान्यस्योपन्यासेन । भेदसामान्याकारतया द्विमुखा बुद्धिर् यस्य स तथोक्तः । यो ऽस्य गवादेर् आत्मा स्वभावः अनन्यभागसाधारणः ।
। यम् अर्थं .. .. .. मन्तं पुरस्कृत्येत्य् आलंब + । कृत्य विशिष्टार्थक्रियार्थी ताम् एवाह यथेत्यादि । यथा गोर् वाहदोहादाव् अर्थी गाम् एव पुरस्कृत्य प्रवर्तते । अन्यसंभविन इति गोर् अन्यस्मिन्न् अश्वे संभविनो ऽर्थस्यार्थी गां पुरस्कृत्य न प्रवर्तत इति वाक्यार्थः । समर्थनीयः को ऽर्थो ऽन्यसंभवीत्य् आह । यथा युद्ध .. वेस इति .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0