भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 23

23.2

। .. .. किंतु तयोर् अपि भेदसामान्ययोर् भेदो भवेद् यदि । क्वचिद् भेदे सामान्ये वा अस्य सांख्यस्य भेदो ऽभेदो वा ऐकान्तिको न हीति संबन्धः । एकत्ववादित्वात् परस्य भेद ऐकान्तिको नास्तीति गम्यत एवाभेदस् तु कथम् ऐकान्तिको नेत्य् अत्र कारणम् आह । विवेकेनेत्यादि । सामान्यं शक्तिः व्यक्तयो विशेषा इत्य् एवं भेदेन व्यवस्थानात्* । येनेत्याद्य् आ .. .. ॥।
व्1 1 ॥। .. .. .. सामान्यम् इत्य् एतद् येनात्मना व्यवस्थाप्यते यदि .. .. त्मना सामान्यविशेषयोर् भेदास् तदा भेद एवात्यन्तं यदीत्यादिना व्याचष्टे । यम् आत्मानम् इति शक्तिव्यक्त्यात्मकं । तेनात्मना सामान्यविशेषयोर् यदि भेद इति संबन्धः । एतद् एव स्फुटयन्न् आह यस्माद् इत्यादि । तौ हि भेदव्यस्थापकाव् आत्मानौ तयोर् इति सामान्य्. ।

23.3

। भूतौ तौ चेद् व्यतिरेकिणौ परस्परभिन्नौ तदा व्यतिरेक ए + + भेद एव । किं कारणं स्वभावभेदात्* । स्यात् मतम् अवस्थावस्थात्रोर् भेदव्यवस्थापको भाव एव भिद्यते न स्वभाव इत्य् आह । स्वभावो हीत्यादि । स्वभाव एव भाव इत्य् अर्थः । तथा चेति भेदसामान्ययो{र् इति सामान्यविशेषयोः स्वात्मनौ स्वभावभूतौ तौ चेद् व्यतिरेकिणौ परस्प ।

23.4

। भेद एव किं कारणं स्वभावभेदात्* । स्यात् मतम् अवस्थात्रोर् भेदव्यवस्थापको भाव एव भिद्यते न स्वभाव इत्य् आह} र् अत्यन्तभेदे सति भेदस्य निःसामान्यता सामान्यस्य निर्विशेषता स्याद् इति संबन्धः । सामान्यस्य भेदवत्वं भेदानां च सामान्यवत्वं न स्याद् असंभवाद् इति यावत्* । यद्वद्घटादीनां भेदानां संबन्धाभावात् परस्परं तद्वत्ता नास्ति .. ।

23.5

। .. नकत्वेन संबन्धाभावात्* उक्तम् इति न स्यात् सामान्यभेदधीर् इत्य् अत्रान्तरे । अथ वा अस्थाने ऽयं यत्नः क्रियते परैः । कल्पितं सामान्यं स्वलक्षणाद् भिन्नं । किं वा नेति तद् धि नित्यम् इष्यते । परैस् ततश् चानर्थक्रियाकारित्वाच् छशविषाणप्रख्यं । तत्रार्थक्रियार्थिनः .. .. भेदाभेदचिन्त ।

23.6

। .. .. म् अन्यत्र यथा परिकल्पिताया व्यावृ .. त्य् एतद् दर्शयितुम् आहापि चेत्यादि । यम् आत्मानम् अर्थक्रियायोग्यं पुरस्कृत्यालंबनीकृत्य तत्साध्यफलवाञ्छावान्* तेनात्मना यत्साध्यं फलं तदभिलाषवान्* । अयं पुरुषः प्रवर्तते । तदाश्रयौ तदधिष्ठानौ भेदाभेदौ चिन्त्येते । तस्य चार्थक्रियायोग्यस्य स्वा .. ।

23.7

। .. ल्पबुद्धिप्रतिभासानुरोधिन्या कृतव्य .. .. .. समानता अस्त्य् एवाध्यवसिततद्भावा इयतैवार्थक्रियार्थिनो भेदाभेदचिन्ता । समाप्ता ततो ऽनर्थक्रियाकारिणः सामान्यस्य किं स्वलक्षणेन । भेदाभेदचिन्तयेति । वस्त्व् एव सामान्यम् अस्तु किं परिकल्पितया व्यावृत्येत्य् आह । वस्तु नान्वेतीति स्वलक्षणानां परस्परं .. ।

23.8

। .. .. र्.. त । तद् आह प्रवृत्यादीत्यादि । आदिशब्दात् तुल्योत्पत्तिनिरोधादिप्रसंगतः । सर्व एवेत्यादिना व्याचष्टे । विशेषम् एवार्थक्रियायोग्यं । स्वभावाख्यम् आत्मभूतम् इत्य् अर्थः । कस्य भावस्य वस्तुनो ऽधिकृत्य प्रवर्तते । स एव हीत्य् अर्थक्रियाकारी विशेषः । तथेति गौर् इत्यादिशब्दैः अर्थक्रियार्थी हि स्वलक्ष ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc