भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 22

22.2

। .इताद् अवस्थाभेदात्* । अन्यथा तत्ववादिनः सांख्यस्याभेदो ऽपि दुर्लभः ।
ल् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. .. .. .. .. .. सर्वस्योपयोगाद् अकारकत्वम् एव नास्तीत्य् अत आह । पर्यायेणेति । स पर्यायः किं तस्यैवैकस्य वस्तुनो नैवेत्य् अर्थः । भेदाधिष्ठानत्वात् पर्यायस्येति भावः । अथेत्यादिना व्याचष्टे । सर्वेषां भेदानां सर्वत्र कार्ये पर्यायेण क्रमेण उपयोगात्* । एतच् च यदा प्रधानशक्त्. .. ।

22.3

। .. .. .. .. .. .. .. + + .. प्रधानशक्तिर् एव वस्तु सती सैवार्थक्रियायाम् उपयुज्यते । भेदाः केवलं व्यवस्थामात्रहेतुवः परमार्थतस् त्व् असन्त एव । तदेदम् उच्यते । शक्तेर् वेत्यादि । त्रैगुण्यलक्षणायाः तन्निवेशिन्याः पूर्वम् अकारकाभिमतपदार्थनिवेशिन्याः पश्चाद् रूपान्तरेण कारकाभिमतरूपेण विपरिणतया ।

22.4

। .. .. .. यस्य सत् तथोक्तः एकस्य .. .. स्य कथं नैव । एतेन स किं तस्यैव वस्तुन इत्य् एतद् विवृतं । शक्तेर् वेति यदुक्तं । तत्राह विपरिणामो वेति । पूर्वस्माद् अवस्थाभेदाद् अव्यतिरेकिण्याः शाक्तेः परिमाणो ऽवस्थान्तरप्राप्तिर् वा कथं ॥ अथेष्यते पूर्वावस्थायाः पश्चाद् विशेषः त्रैगुण्यस्य ततो विशेषे वा .. .. चि .. .. .उ .. ।

22.5

। .. .एष्यते । भेदसामान्ययोश् च परस्पर्. + + द एवं च सति तद्वति सामान्यविशेषवति वस्तुनि अत्यन्तं भेदाभेदौ स्यातां । विशेषेभ्यः सामान्यस्याव्यतिरेकात्* भिन्नं रूपम् इत्य् अन्तभेदः सामान्यस्याभावात्* । सामान्याद् विशेषाणाम् अव्यतिरेकाद् ऐक्यम् इत्य् अन्ताभेदः । सर्वथा विशेषाणाम् अभावात् । एकं भेदसामा ।

22.6

। । सदृशासदृशात्मनोः सामान्यविशेषयो .. .. वाश् चेद् भेदिन इति संबन्धः । अभिन्नेनात्मना प्रधानाख्येन तेषाम् एव भेदानां सात्मभूतेन तद्वन्तः । स्युर् अभिन्नस्वभाववन्तः स्युः ॥ अभिन्नः स्वभावः प्रधानाख्य आत्मा रूपं यस्य भेदस्य स तदभिन्नस्वभावात्मा तद्भावस् तस्माद् भेदस्यापि कुतः । परस्परं भेदो नैव अनेना ।

22.7

। ..ः आत्मा न भवति .. दस्यानेकात्मकत्वात्* । .. .. स्. .. .. दात्मना भेदात्मना तेनापि सामान्यपदार्थेन । तथेति सामान्यात्मना भवितुं न युक्तं भेदाद् अव्यतिरिक्तत्वात् सामान्यस्य समानता नास्तीत्य् अर्थः । एतेनात्यन्तभेदो व्याख्यातः तथाभावे हीति । सामान्यात्मकत्वे प्रधानस्येष्यमाणे प्रधानात्मातद्धर्मा भेदधर्मा न स्यात्* । अव्य ।

22.8

। .आन् न स्याद् इत्य् अर्थः । अवस्थातद्वतोः परस्परं भेदः स्याद् इति यावत्* । तम् एव साधयन्न् आह । न ह्य् अयम् इत्यादि । अयम् एकस्वभावः । प्रवृत्तिनिवृत्तिमान् न युक्त इति संबन्धः । स्थानं प्रवृत्तिः । विगमो निवृत्तिः । तथा हि स्थितायां शक्तौ अवस्थानां निवृत्तिर् इष्यते । एतेनान्योन्यं वा तयोर् भेद इत्यादि व्याख्यातम्* । नेत्यादिना पराभिप्रायम् आशंकते सामा ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc