भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 21

21.2

। .आध्यात्मिको भेदो विशेष एव परस्परविलक्षण एव । किंभूतो भिन्नप्रतिभासादिः । भिन्नः । प्रतिभासादिर् यस्येति विग्रहः । अभिन्नो ऽप्य् अत्र प्रतिभासो ऽस्ति । तेनाभेदो ऽपीति चेद् आह । न चात्रेत्यादि । अत्रेति भेदेषु
व्1 ॥। .. तीयं यद्बलेनाभिन्नप्रतिभासबलेन । अतो विशेष एव भेद एव । न त्व् अभेदो ऽपि । स एव विशेषो ऽर्थो वस्तु । ये त्व् अपरे सामान्यधर्मा वृक्षत्वादयस् तस्यैव व्यावृत्तयः कल्पिताः । तत्कार्यम् इत्यादि । कार्यादि यद् असमानाधिकरण्यान् नपुन्सकं । अन्यथा विशेषस्य प्रक्रान्तत्वात्* स इति स्यात्* । तद् एव विशेषरूपं कार्यं कारणं चोक्तं तद् एव स्वलक्षणम् उच्यते तत्त्यागाप्तिफला इति तस्यैव विशेषस्य । हेयस्योपा ।

21.3

। .. फलं यासां प्रवृत्तीनां तास् तथोक्ताः स चार्थक्रियाकारी विशेष .. .. .. स्यैवेति विशेषस्यापरस्माद् विजातीयाद् भेदो व्यावृत्तिमात्रं न तु वस्तुभूतं किञ्चित् सामान्यं नाम यदि स्यात् तदुपलब्धिलक्षणप्राप्तम्* । भेदव्यतिरेकेणोपलभ्येत । यस्मान् न हि तस्य सामान्यस्यार्थत्वे वस्तुत्वे सति दृश्यस्य सतः रूपानुपलक्षणं स्वरूपाग्र .. ..ं .. .. ।

21.4

। .. .. देष्व् अभेदप्रत्ययस्य न हि स्वयम् अगृहीतपर + नहेतुः यथा सांख्यस्याभेदाविशेषे ऽपि न सर्वं सर्वसाधनं तथा बौद्धस्य भेदाविशेषे ऽपि कस्य पुनश् चोद्यस्यायं समाधिर् इत्य् आह । यद् उक्तम् इत्यादि । तज्जननस्वभावाद् इति । शाल्यंकुरजननस्वभावात्* । भिन्नः पृथिव्यादि । अस्येत्य् अंकुरस्य कथं जनकः स्यात्* जनकत्वे वा .. .. .. .यमाने भेद .. ।

21.5

। .. .. म् इदं तु द्वितीयम् उच्यते किं पुन .. .. म् इ .. ह । यदीत्यादि । तुल्ये ऽपि भेदे यदि .. .. स्य भेद प्रतिनियतकार्यजनकाजनकत्वलक्षणो विशेषो न स्यात्* । स्याद् एतच् चोद्यम् इति । यथेत्यादिना श्लोकार्थम् आह । तथा विशेषे ऽपि भविष्यति न सर्वः सर्वस्य जनक इति संबन्धः । वस्तुधर्मतयेति वस्तुशक्त्या भावानां अभेदे त्व् अभ्युपगम्यमाने तस्य .. र्.. .. ।

21.6

। .. त्रेत्यादिना व्याचष्टे । हेतुर् उपादानका + + । प्रत्ययाः सहकारिणः स्वे हेतुप्रत्ययाः स्वहेतुप्रत्ययास् तैर् नियमितो विशिष्टकार्यनिर्वर्तनसमर्थः कृतः स्वभावो येषां ते तथोक्तास् तद्भावस् तस्मात्* नान्य इत्य् अकारकाभिमताद् अन्ये न कारकास् स्युः किं कारणं अतत्स्वभावत्वात्* । अतत्कार्यजननस्वभावत्वात्* । तस्येत्य् एकस्य त्रैगुण्यस्य तत्रैवेत्य् एकस्मिन्न् एव कार्ये तथेति .. नैवाभिन्नेन .. ।

21.7

। .. .. ब्. ज्. यश् च शालिबीजस्या .. .. एव + .. बीजस्येत्य् एकत्रैकस्य क्रियाक्रिये प्रसज्येते । तरिगुण्यस्य तेन तेन सन्निवेशे .. भेदो ऽप्य् अस्ति । अतो भेदात् कस्यचिद् अक्रिया चेत्* नेत्यादि प्रतिव .. .. .. । भेदश् चेद् अक्रियाहेतुर् न कुर्यः सहकारिणः तेषाम् अपि परस्परं भेदात्* । नेत्यादिना व्याचष्टे सर्वाकाराविवेकं सर्वथैक्यं कस्माद् भेदस्यापि ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc