प्रमाणवार्त्तिकटीका · अध्याय 20
। .. ..ं । .. .. .इ .. .. .. मिथ्याज्ञानम् एव कथम् इति चेद् आह । यद् इत्यादि यस्माद् एकत्र एकाकारं तद्विषयस्य विकल्पविज्ञानविषयस्य सामान्यस्य न स्थितिर् अस्थितिर् वा । कस्मात् तस्य मिथ्याज्ञानविषयस्याभावात्* । समानदोषताम् अपनीय पुनः प्रकारान्तरेण प्रक्रान्तं चोद्यं । .. ॥।
क् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .य .व्. भावः यच् च तस्य शालिबीजस्य शाल्यंकुरजनकं रूपं ततो जनकाद् रूपाद् अन्यः पृथिव्यादिर् जनकः कथम् इति । तत्रेत्य् उपन्यासे तत्र वा चोद्ये प्रतिविधीयते । शालिबीजाद् अन्यस्य पृथिव्यादेस् तज्जनकम् अंकुरजनकं रूपं नास्तीति न ब्रूमः । किं तर्हि यद् एकस्य श्. ।
। .. रूपेणेति न शालिबीजरूपेण किं कारणम् अतत्वाद् अतत्स्वभावत्वात्* । न चात्र बाधकं प्रमाणम् अस्तीत्य् आह । ते यथास्वम् इत्यादि ते पृथिव्यादयः । यथास्वम् इति यस्य यत्स्वलक्षणं तेन भिन्नाश् च परस्परम् एकस्य कार्यस्य जनकाश् च स्वभावेन प्रकृतेति को ऽत्र विरोधो । न कश्चिद् बाधकप्रमाणाभावात्* । {स्वभावेन वस्तुस्थित्य} न तु शाल्यंकुरजनकाभिमतेन शालिबीजरूपेण विकलस्य पृथिव्यादेः शाल्याम्कुरकार्यत्वविरुद्धम् इत्य् अथ आह । एक .. ।
। + + + + + .इबीजस्वभावो न स्यात्* + .. त्कार्यः । किंतु तत्कार्य एव । स शाल्यंकुरः कार्यम् अस्येति विग्रहः । यदि तु बीजस्यैवांकुरजनकत्वं स्यात्* स्याद् विरोधस् तच् च नास्ति । तद् आह तेनैवेत्यादि । तेनैवेति शालिबीजेनैव । तत्कार्यम् अंकुराख्यं अपि चेत्यादिना पूर्वोक्तं स्मरयति । एकापाये फलाभावाद् विशेषेभ्यस् तदुद्भव इति ।
। .. .. नकरूपेण । यद् एकस्य बीजस्य जनकं + + + न्यस्य पृथिव्यादेस् तन् नास्ति न तावतेति । बीजरूपवैकल्यमात्रेणाजनकाः पृथिव्यादयः अप्य् अभेद इत्यादि । तेषु भेदेष्व् अभेधो ऽप्य् अस्तीत्य् अर्थः । स्याद् एतद् इत्यादिना व्याचष्टे न पुनस् तेषाम् इति विशेषाणां तद् एवाभिन्नं रूपम् एकशक्तितया योगात्* । तेनेत्य् आचार्यः । तेनाभिन्नेन रूपेण ते विशेषा अ ।
। .. .. विशेषाः । तस्य सामान्यरूपस्य नित्य + नानपायात्* । (इन् थे मर्गिन्:) ॥। यरूपेन तेन सामान्यरूपेण ते विशेषा जनकाः । किं कारणं तस्य सामान्यरूपस्य नित्यस्यानपायात्* । एककारणस्थिताव् अपि कार्योत्पादप्रसंगात्* एतच् च नापैत्य् अभिन्नं तद्रूपं विशेषाः खल्व् अपायिनः । इत्यादिना प्राग् उक्तं स्यातां । नाशोत्पादौ सकृद् इत्यादिना विरुद्धधर्माध्यासाद् भेदं प्रसाध्य प्रतिभासभेदेनापि साधयितुम् आह । किञ्चेत्यादि । किं विशिष्टः प्रतिभास अनन्यभाक्* प्रति .. क्तिभिन्नः ।
। .. .. मुच्चीयते । तस्येत्य् अभेदवादिनः बुद्धिप्रतिभासभेदः । बुद्धेर् आकारभेदः वि .. .. + + + .. श् चेति । पृथगुत्पत्तिविनाशादिकः । सति वा तस्मिं प्रतिभासादिभेदे भावानां अभेदे ऽभ्युपगम्य्माने न क्वचिद् भेदकः स्यात्* । सुखदुःखमोहचैतन्येष्व् अपि । तथा चेत्य् अभेदे सति अयं प्रविभाग इति प्रतिभासादिप्रविभागः एकात्मवत्* यथैकस्मिन् सुख्. नि न प्र .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0