भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 1

1.2

अ प्रमाणवार्त्तिकटीका
र्1 ॥। .. दः अयं च विकल्पबुद्ध्यारोपितत्वाद् असमीक्षिततत्वार्थ्ः । अनपेक्षितस् तत्वार्थो वस्त्वर्थो येनेति विग्रहः । यथा लोके बुद्ध्यारूढो ऽप्य् अध्यवसिततद्भावतया प्रतीयते । तं धर्मादिविभागं तथेति लोकप्रतीतिवत्* । साध्यसाधनसंस्थितिर् विद्वद्भिर् अवकल्प्यत इति संबन्धः । किम् अर्थं पर ।

1.3

। .. य । किं पुनः कारणम् एकत्वादिव्यवहारस्य वस्तुन्य् असंभव इत्य् अत आह । संसृज्यन्त इत्यादि पारमार्थिकाः अर्थाः स्वतो न संसृयन्ते ततो न सामान्यव्यवहारो वस्तुनि । न भिद्यन्ते कृतकत्वादिभिर् धर्मैः प्रत्येकं तस्य वस्तुनो ऽनेकत्वायोगात्* अतश् च तेष्व् अर्थेषु बहुषु रूपम् एकं । एकस्मिन् वार्थे ऽनेकं रूपं यद् अध्यवसीयते तद् बुद्धेर् विक ।

1.4

। .. न्ते । न भिद्यन्ते पारमार्थिका अर्थास् ततः कारणात्* । सामान्यम् इदं बहूनां । तथा धर्माणां धर्मिणां च भेद इत्य् अपि यो ऽयं भेदो नानात्वव्यवहारः । स बौद्धे ऽर्थे न बाह्ये स्वलक्षणे बुद्धिप्रतिभासस्यालीकत्वात् कथं तत्र कृतकत्वादिधर्मभेद इति चेद् आह । तस्यैव चेत्यादि । बुद्धिप्रतिभासस्यैव एतद् उक्तं भवति बाह्येनैकत्वाध्यवसाया ।

1.5

। था तद्दर्शनायातो ऽपि विकल्पप्रतिभासो ऽध्यवसीयत इति । अत एवाह प्रकल्प्यत इति । यथा प्रत्यक्षेण वस्तुस्वलक्षणम् एव गृह्यते तथा साधनानुमितेनानित्यत्वादिना साध्यधर्मेण विशिष्टं स्वलक्षणम् एव कस्मान् न गृह्यत इत्य् आह साध्येत्यादि । इदं साध्यम् इदं साधनम् इत्य् अस्मिन् संकल्पे वस्तुदर्शनहानितः कुतः स्व ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc