प्रमाणवार्त्तिकटीका · अध्याय 19
। .. .इ .इ । भेदसामान्ये भिन्ने इत्य् एतदभिधानमात्रं नेष्टं स्यात्* । न तु वस्तु नेष्टं । वस्तु तु भेदसामान्यात्मकं परस्परं भिन्नम् इष्टम् एव । एतच् चोक्तं प्राक्* । नामान्तरं वार्थम् अभ्युपगम्य तथाभिधानाद् इत्यादिना । तद् इति तस्मात्* । इमे भावा इति । विशेषाः सामान्यं वा । परस्परं भिन्ना एव । किंभू .आ नैकयोगक्षेम्. ॥।
7 तः कारणात्* । न स्यात् सामान्यभेदधीः । सामान्यविशेषयोः परस्परसंबन्धवती बुद्धिर् न स्याद् इत्य् अर्थः । बुद्ध्यभावाच् च व्यपदेशो ऽपि प्रतिक्षिप्त एव ।
व्1 ॥। .. .. .. .. .य्. .. .. .. .. .. .. .. .. पदेशाभावोक्तो बुद्ध्यभावनान्तरीयकत्वात्* । तदभावस्य बुद्ध्यभावो ऽप्य् अर्थात् कथित एवेति । तद् इति तस्माद् इदं सामान्यं भेदेभ्यो ऽर्थान्तरं । भेदेष्व् अनायत्तं । कस्मात् तैर् भेदैस् तस्य सामान्यस्याजन्यत्वात्* । द्वितीयो ऽर्थस् तद् इदं भेदात्मकं वस्तु । सामन्याद् अर्थान्तरं तस्मिन् सामान्यो ।
। .. .. भेदस्येदं सामान्यम् इति व्यपदेशं .आर्.. .इ । भेदो वा अस्य सामान्यस्येति । अन्यापोहे ऽपि सामान्ये एष प्रसंग इति । स एकस्मिन् विनश्यति । तिष्ठत्य् आत्मेत्यादिकः । तथा हि धवे खदिरे वा विनश्यति । अवृक्षव्यावृत्तिस् तिष्ठत्य् एव वृक्षान्तरे । नेत्यादिना परिहरति । अयम् अत्रार्थस् त्रिविधो ह्य् अन्यापोहः । एकस् ताव .य्. ।
। .. ह । स्वभावपरभावाभ्यां यस्माद् व्यावृत्त्. + + + + + .. यं च शब्दलिङ्गाश्रयस्य व्यवहारस्याश्रयत्वेन व्यवस्थाप्यते । न तु शब्दवाच्यतया । अन्यव्यवच्छेदमात्रं द्वितीयः । अन्यापोहनम् अन्यापोह इति कृत्वा । यः सर्वत्राभेदेन पूर्वाचार्यैः व्यव्स्थाप्यते । प्रतिषेधमात्रस्य सर्व .. .इ .. .. षात्* । विकल्प ।
।.. .. कारस्य शाब्दवाच्यतयाभिमतः । त .. य .. + .आवृत्तं । स्वलक्षणम् अधिकृत्योच्यते । तद् अयुक्तं । तद्विषयस्यात्मभूतं तस्मिन् विनश्यति विनश्यत्य् एवाभेदात्* । यच् च तिष्ठति स्वलक्षणान्तरं तत् तस्माद् अन्यद् इष्यत एव । यच् च प्रतिषेधमात्रं तस्य निःस्वभावत्वान् नैतच् चोद्यं । तद् आह । व्यावृत्तेर् निःस्वभावत्वाद् इति । न स्थानास्थ्. .. क .. ।
।.. इति । इयं स्थानास्थानक + + + + .. तस्येत्य् अन्यापोहस्य स्वभावानुषंगिण्यो वस्त्वनुपातिन्यः यापि विकल्पबुद्ध्याकारलक्षणान्यव्यावृत्तिः । स उपप्लवश् च विभ्रमश् च । सामान्यधियो विकल्पिकाया बुद्धेर् अतः सापि बहिर् नास्त्य् एव यत एवं तेनापि विप्लवत्वेन कारणेन सा .. वृत्तिर् अदूषाणा । .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0