प्रमाणवार्त्तिकटीका · अध्याय 18
। .. .. .. .. .. नादिर् हेतुपरंपरा न भिन्नानां भावानां हेतुप्रविभागे बाधकं प्रमाणम् अस्ति । तद् एवाह भिन्नेत्यादि । स्वभावाद् इति वस्तुस्थितेः एकत्वे तु बाधकम् अस्तीत्य् आह । अभेदे त्व् इत्यादि । परस्परम् अभेदाद् एकस्य नाशे सर्वस्य युगपन्नाश
ज् प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. शेः । स्वभावेनाभेदात्* । विभागोत्पत्तीत्यादि । एकस्योत्पत्तिर् अन्यस्यानुत्पत्तिर् एकस्य स्थितिर् अन्यस्य निरोध इत्य् एवं विभागेनोत्पत्यादयो न स्युः । किंतु सकृद् एव स्युः । स्वात्मवद् इति । यथैकस्यावस्थाविशेषस्य न विभागेनोत्पत्यादयस् तद्वद् इ {.. न्वयव्यतिरेकस् तदभेदस्य लक्षणं सत्य् अपि भा} ।
। .. .य्. .र्. ह्. .. म् इत्यादि । सूत्रे तु न्. + .. द्भवग्रहणम् उपलक्षणं । तथा तेनैवाविभागोत्पत्यादिना उपलक्षणान् निश्चयाद् अभेदस्य अन्यथा भेदाभेदौ केन लक्ष्येते । एकाकारस्यापीति तुल्याकारस्यापि व्यतिरेकः पृथगुत्पत्यादिमत्वं तद् भेदस्य लक्षणं । अविभागोत्पत्यादिमत्वम् अव्यतिरेकस् तद् अभेदस्य लक्षणं .. ।
। र् उत्पादानुत्पादप्रभृतिकयोर् युग .. + त्म्. + विरोधात्* । नाभेद एवार्थानां किंतु भेदो ऽप्य् अस्ति । तेन कारणेन । नैवं । न सकृदुत्पत्यादिप्रसंग इति चेद् आह । नेत्याद्य् अस्यैव व्याख्यानं । न वै सर्वेणाकारेणाव्यतिरेकम् अभेदं ब्रूमो येनैवं स्यात्* । सकृन्नाशोत्पादादि .य्. त्* । .. ।
। .. .. .. लक्षणो भिन्नो न्. .य्. त्रैगुण्यात्मकः सुखदुःखमोहात्मतायाः सर्वत्राविशेषात् । इति यथोक्ताद् अवस्थालक्षणाद् भादात्* । एवं तर्हि सामान्यस्य नित्यत्वात्* सर्वत्र स्थानं । विशेषाणान् तु विनाश इत्य् एतद् अङ्गीकृतं ततश् च एकस्मिन् विशेषे विनश्यति सति । यस् तिष्ठति सामान्यात्मा । न स तस्य विशेषस्य .. .. ..ः । वि .. .. .. ।
। .. न्यथा स्थानास्थानयोर् एकाश्रयत्वे ऽभ्युपगम्य .. + + .. + .. .. म्माव् एकात्मन्य् अङ्गीकृतौ । ततश् च को ऽन्यो धर्मो भेदको नैव कश्चित्* नैव विरुद्धौ धर्माव् एकत्राङ्गिक्रियेते । यस्माद् विशेषाः पृथगुत्पात्यादिना सर्वाकारविवेकिनः । सामान्यं तु पृथगुत्पत्याद्यभावात् सर्वत्राविवेकीत्य् अत आह । सर्वाकारेत्यादि सर्वाकारविवेकाविवेकि ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0