प्रमाणवार्त्तिकटीका · अध्याय 17
। म् अस्ति । अविकले तस्मिन् सामान्यरूपे कार्यम् अभवत्* । तस्य सामान्यस्याजननात्मतां सूचयति तस्मात्* । विशेषाणाम् एव भावाभावाभ्यां कार्यस्य भावाभावौ । येषां च विशेषाणां साकल्यवैकल्याभ्यां कार्यं भावाभाववत्* ।
व्1 ॥। ः कार्यस्योत्पत्तिः । तस्मिन् सति भवतीति । हेतुभावयोग्ये विशेषे सति भवतः कार्यस्य तदन्यस्माद् इति । विशेषाद् अन्यस्मात् सामान्यात्* । अतिप्रसंगात्* । सर्वः सर्वस्य कारणं स्यात्* । यत एवं तस्माद् विशेषा एव जनकाः । न सामान्यं जनकः । ततो ऽजनकत्वात् त एव विशेषा वस्तु परमार्थसन्त इत्य् अर्थः । किं कारणं यस्मात्* । स पारमार्थिक्. .. ।
। .ईत्यादिना व्याचष्टे –व्याचक्षते?–– । अर्थक्रियायोग्यता वस्तुनो लक्षणं अयोग्यता त्व् अवस्तुनो लक्षणम् इति संबन्धः । वक्ष्यामः अर्थक्रियासमर्थं यत् तत्र परमार्थसद् इत्यादिना । सर्वार्थक्रियायोग्यो ऽर्थो विशेषात्मको । नान्वेति । विशेषस्य व्यक्त्यन्ताननुयायित्वात्* । यो ऽन्वेति । सामान्यात्मा । तस्मात् सामान्यात्मनो न कार्यसंभवः । तस्माद् इ ।
। द् इत्य् अर्थः । ततः एवेति । विशेषाद् एव । .. .. + + .. .इ .. निष्पत्तेः तद् एवं परैः कल्पितस्यान्वयिरूपस्याजनकत्वं प्रतिपादितम् अधुना यत् परेणोक्तम् एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्तभेदत इति । तत् परिहर्तुं तद् एव चोद्यम् आवर्तयति । स्वभावानन्वयात् तर्हीत्यादिना । ज्वरादिशमने कश्चित् सह .. त्येकम् ए ।
। सः । एकस्य बीजादेर् यज्जनकं रूपं तदन्य् + पृथिव्यादेर् नास्तीति कृत्वान्यः सहकारी अजनकः स्यात्* । जनकस्वभावाद् भिन्नस्वभावस्य जनकत्वे वाभ्युपगम्यमाने भेदाविशेषात् सर्वो यवबीजादिर् अपि । शाल्यंकुरस्य जनकः स्यात्* । नैतद् इत्यादिना परिहरति । शालिबीजस्यैकस्य । जनकस्य ।
। .इः । शाल्यंकुरस्य नापरो .. .. .ई .. ..ः । चशब्द श्लोकपूरणार्थः । एवकारार्थो वा । किं कारणं । स्वभावो ऽयं भावानां एकस्य यो जनक आत्मा तस्माद् आत्मनः स्वभावाद् भिद्यमानाः सर्वे समं तुल्यं जनकाः प्राप्नुवन्ति । भेदाविशेषात्* । न वा कश्चिज् जनक इति । स्याद् एतच् चोद्यं । यद्य् एषाम् एकस्मा .. .. .. द् आत्मनो ।
। .. .. ..ं .. .. द् एव । तत इति । विशेषसं .. + + भेदाविशेषे ऽपि । कुतश्चिद् आत्मातिशयाद् विशिष्टकार्यप्रतिनियतलक्षणात्* । कश्चिज् जनकः पृथिव्यादि । शाल्यंकुरस्य नापरो यवबीजादि । कस्मात्* । शाल्यंकुरजननाविशेषस् तस्य पृथिव्यादेः । सहकारिणः स्वभावो नापरस्य यवबीजादेः । अयम् एव विभागः । किं कृ .. ।
। .. .. .. युक्तं स्यात्* । कुतो हेतोर् अयं यथोक्तः स्वभाव इति । अवश्यं हि स्वभावभेदस्य हेतुना भाव्यं । यतो निर्हेतुकत्वे हेत्व् अनपेक्षिणो देशादिनियमाभावेनातिप्रसंगात्* । सर्वत्र सर्वदा सर्वात्मना भावप्रसंगात्* । तस्मात् स्वभावो ऽस्य कारणाभिमतस्य स्वहेतोः सकाशाद् भवतीत्य् उच्यते । तस्य ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0