प्रमाणवार्त्तिकटीका · अध्याय 13
। .. .. .. .. .. .. णो ऽस्तित्वाद् अदोष इति चेद् अह । पचत एवेत्यदि । यदि अतीतस्य सत्वं स्यात्* । वर्तमानवद् उपलभ्येतोपलब्धिलक्षणप्राप्तं च कएमेष्यते स्यान् मतं कर्म
ग् प्रमाणवार्त्तिकटीका
र्1 ॥। द्रव्यसंबन्धो ऽस्यासंबन्धात् कारणान् न सामान्यं पाचकाद्यभिधानप्रत्ययस्य हेतुः । असंबद्धम् अपि हेतुर् इति चेद् आह । नेत्यादि । अयुक्तम् इत्य् असंबद्धः । शब्दग्रहणम् उपलक्षणं । असंबद्धं सामान्यं न ज्ञानशब्दकारणम् इत्य् अर्थः । अतिप्रसंगात् गोत्वं अप्य् अश्वज्ञा ।
। .. .. ..त्* । कर्माभावाद् एव न कर्तरि । पाचके पारंपर्येणापि न समवेतम् अतः । संबद्धसंबन्धो ऽप्य् अस्य सामान्यस्य द्रव्येण सह नास्ति । अन्यथेति असंबद्धस्यापि ज्ञानादिहेतुत्वे स्थित्यभावाच् च कर्मण इत्यादि यद् उक्तं तत्रातीतेत्यादिनो ऽन्तरम् आशंकते । अतीतं विन ।
। तानागतम् असत्* ज्ञानाभिधानयोर् न निमित्तम् इति संबन्धः । किं कारणं तयोर् इत्यादि । तयोः ज्ञानाभिधानयोः असद् धीत्यादिना व्याचष्टे । उपाख्यायते । प्रकाश्यते वस्त्व् अनयेत्य् उपाख्या ऽर्थक्रियाशक्तिः । सा निर्गता यस्माद् असतस् तत् तथोक्तं । असद् यस्माद् अर्थक्रियाशक्तिविकलं तद् एवंभूतं कथं शब्द .. ।
। ष्यते तदा तस्य वस्तुत्वम् एव स्यान् न .. + किं कारणम् इत्य् आह । कार्येत्यादि लक्षणशब्दः स्वभाववचनः । तद् इति तस्मात्* अतीतं प्रच्युतरूपं । अनागतम् असंप्राप्तरूपं । कर्मणः सकाशाद् अन्यच् च व्यक्त्यादिकं ज्ञानाभिधानयोः निमित्तत्वेन नेष्टं सामान्यवादिना । व्यक्तिः कर्माश्रयो द्रव्यं आदिशब्दात् संकेतवा .. ।
। था चेति अन्वयिनोः पाचकादिशब्दज्ञा .. + + निमित्तत्वे सति न जातिसिद्धिः चशब्दान् नित्यं सत्वम् असत्वं वा शब्दज्ञानयोः स्यात्* । कस्मान् न जातिसिद्धिर् इति चेद् आह । तस्या इत्यादि । तस्या जातेः अभिन्नस्य ज्ञानस्याभिधानस्य च निमित्तत्वे नेष्टत्वात्* यथा च पाचकादिविषये ते अनिमित्ते प्रवर्तते तथान्यत्रापीति केन नि ।
। .. ंकते । कर्माश्रयस्य द्रव्यस्य शक्तिः । शब्दग्रहणम् उपलक्षणं पाचकादिज्ञानस्यापि शक्तिनिमित्तं । नेत्यादिना प्रतिषेधति न पाचकादिशक्तिः पाचकादिशब्दनिमित्तं । किं कारणं शक्तेर् द्रव्याद् अव्यतिरेकेण द्रव्यवद् एवानन्वयात्* । अनन्वयिनश् चार्थस्यान्वयिज्ञानाभिधानं प्रति निमित्तत्वानभ्युपगमाद् अभ्युपगमे ।
। संगात्* भिन्नैव शक्तिर् इति चेद् आह न हीत्यादि । यदि द्रव्याद् अन्यैव शक्तिः स्यात् तदा तस्या एव शक्तेः पाकाद्यर्थक्रियासूपयोगेन कारनेण द्रव्यस्य शक्त्याधारस्यानुपयोगित्वप्रसंगात्* । तस्यां पाकादिनिवर्त्तिकायां शक्तौ तस्य द्रव्यस्योपयोगः एवम् अपि पारंपर्येण पाकादौ द्रव्यम् उपयुक्तं स्याद् इति भावः । किम् इत्यादि सिद्धान्त .. ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0