प्रमाणवार्त्तिकटीका · अध्याय 14
। तथा हि पाकादिनिर्वर्त्तिकायां प्रथमायां शक्तौ द्रव्यं यया शाक्त्योपयुज्येत । सापि शक्तिर् यदि व्यतिरिक्ताभ्युपगम्येत तदा पाकादिनिर्वर्त्तिकायां शक्तौ द्रव्यस्योपयोगाय शक्त्यन्तरस्य द्रव्याद् व्यतिरेकिणो ऽभ्युपगमे ऽतिप्रसंगात्* । तस्याम् अपि शक्ताव् उपयोगायापरा व्यतिरिक्ता शक्तिः । कल्पनी .. .. ॥।
व्1 ॥। व्यतिरिक्तां शक्तिर् द्रव्यम् एव प्रथमायां पाकादिनिर्वर्त्तिकायां शक्ताव् उपयुज्यत इति वाच्यं । एवं च द्रव्यस्योपयोगे शक्ताविशेष्यमाणे तद्द्रव्यम् अर्थक्रियायां पाकादिलक्षणायाम् एवोपयुज्यत इति किं नेष्यते । द्रव्यस्यार्थक्रियायाश् चान्तरकाले किम् अनर्थिकया शाक्त्या कल्पितया । यत एवं तस्मात् पाकाद्यर्थक्रियाशक्तिर् इत्य् अनेन द्रव्यम् एवोच्यते । क्. .. ।
। न्तरं नान्वेतीति कृत्वा ततो द्रव्यात् पाचकः पाचक इत्य् अन्वयी शब्दो न स्याज् ज्ञानं च शब्दग्रहणं तूपलक्षणं । पाचकादिषु द्रव्येषु पाचकत्वादि सामान्यम् अस्ति । तन्निबन्धनम् अन्वयिशब्दज्ञानम् इति चेद् आह । सामान्यम् इत्यादि । सामान्यं पाचकत्वादि यदीष्यते । तदा पाकादिक्रियानिर्वर्त्तनशक्त्यवस्थायाः प्राग् एव द्रव्यस्योत्पत्तिसमकाल + + द्रव्यसमवे ।
। चकादिज्ञानाभिधानविषयः स्याद् इति भ्. .. .. .. .. .. .. वेत् तदा पश्चाद् अपि न भवेत्* तस्य द्रव्यस्याविशेषात्* । अस्त्य् एव सर्वकालं द्रव्ये पाचकत्वादि किंतु प्राग् अनभिव्यक्तम् अतो न शब्दज्ञानयोर् निमित्तम् इत्य् अत आह । व्यक्तम् इति प्राग् एव चाहिव्यक्तं भवेद् इत्य् अर्थः । सत्तादिवत्* । यथा सत्ताद्रव्यत्वादि यावद्द्रव्यभावि । अर्थक्रियाया .. .. ।
। .. र्थे जात्याश्रये तत्समवायस्य सामान्य .. .. + + स्य अकादाचित्कत्वात् सर्वकालभावित्वात् । एतद् एव द्रढयन्न् आह । यावन्ति हीत्यादि । अर्थे जात्याश्रये समवायधर्मणि संबन्धयोग्यानि । तानि सामान्यानि । अस्यार्थस्य य उत्पादस् तेन सह समवयन्ति अस्मिन् सामान्याश्रय इति विभक्तिविपरिणामेन संबन्धः । उत्पा .. .. कालम् एव द्रव्येण्. ।
। .. । अथ सिद्धान्तम् अतिक्रम्य पश्चाद्भावित्वं सामान्यस्य कल्प्यते । तदा तद्व्यतिक्रमे सिद्धान्तातिक्रमे तस्य सामान्याश्रयस्य पश्चाद् अप्य् अविशेषात्+ । न तत्समवायः स्यात्* । तेन सामान्येन समवायो न स्यात्* । यथा फलस्य एकस्वभावस्यापि रक्तता प्राग् न भवति । पश्चाच् च भवति । तद्वत् पुरुषस्य पाचकत्वसामान्यम् इत्य् अत । तत्संबन्धीत्यादि । त .. ।
। .. .. .. .ऐ .. .. .. .. .. ति सामान्यसमवायः + स्येति पुन्सः । न ह्य् अविगुणे स्वभावे स्थितस्य तत्संबन्धो न भवेत्* । तत्रैव च सामान्यसमवायविगुणे स्वभावे स्थितस्यास्य द्रव्यस्य पश्चात् सामान्यसमवायो भवतीति । दुरन्वयं दुर्बोधम् एतत्* । फलस्याप्य् आम्रादेः पूर्वं पश्चाच् च यद्य् एकस्वभावता तत्रापि तुल्यं चोद्यं । सामान्यसंबन्धम् एव तदा द्र ।
। .. कारेत्यादि । पाकादिलक्षणा क्रिया तत्कृतो य उपकारस् तदपेक्षस्य द्रव्यस्य सामान्यं प्रति व्यंजकत्वे ऽभ्युपगम्यमाने तस्य द्रव्यस्याक्षणिकत्वाद् अविकारिणो नापेक्षा सहकारिणं प्रति । अथ .. क्रियेत तदाप्य् अतिशाये ऽस्य द्रव्यस्य क्षणिकत्वम् आपद्यते । क्षणिकत्वाच् चोत्पादानन्तरं ध्वंसि ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0