प्रमाणवार्त्तिकटीका · अध्याय 12
। वच्छेदमात्रम् अप्रतिक्षिप्तभेदान्तरं प्रतिपादं धर्मिवचनः । पाचकत्वशब्दस् तु तम् एव व्यवच्छेदं
व्1 ॥। प्रतिक्षिप्त भेदान्तरम् आहेति । धर्मवचनः ततो धर्मिधर्मभेदकल्पनया पाचकस्य पाचकत्वम् इति । व्यतिरेकविभक्तिः । प्रयुज्यते एवं द्रव्यशब्दस्याप्य् अद्रव्यव्यवच्छेदमा ।
। नुकारिण्य् एव बुद्धिर् अतो यथाव्यवच्छेदं संकेतानुसारेण विशेषवती बुद्धिर् एकत्राप्य् अविरुद्धा एतच् च भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर् द्वयोर् इत्यादिषु प्रदेशेषु प्रतिपादितं । तस्माद् इत्यादिनोपसंहारः यथा व्यक्तीनां भेदस् तद्वत् कर्म्म्. + –इन्सेर्तिओन् ओf लिने 7 ॥। यानि कर्माणि पाकाख्यानि तेषु कर्मसु या कर्मजातिः समवेता सैवाभेदाद् धेतुः पाचकाभेदप्रत्ययस्य नेत्यादिना प्रतिषेधति न जातिर् हेतुर् इति प्रकृतं । किं कारणं कर्मसंश्रयात्* । कर्मणि समवतत्वाद् अर्थान्तरसंबन्धिनीति । द्रव्याद् अर्थान्तरं कर्मसंबन्धिनी अर्थान्तर इति द्रव्ये । न हि .. ।
। तिः समवेता न च तानि कर्माणीति पाचकाख्यानि शब्दग्रहणम् उपलक्षणं तथा पाचकप्रत्ययेन परिच्छिद्यन्ते तस्य पाकाख्यस्य कर्मण आश्रयो द्रव्यं पाचकशब्देनोच्यते । न च तत्र द्रव्ये कर्मजातिः । समवता एवं तावद् अर्थान्तरसंबन्धित्वं कर्मजातेर् आश्रित्य द्रव्यविषयं पाचका ।
। ः श्रुत्यन्तरं श्रुतिग्रहणम् उपलक्षणम् एवं ज्ञानान्तरनिमित्तत्वात्* । श्रुत्यन्तरम् एवाह पाक इत्यादि । तत इति कर्मजातेः कर्मविषयाभिधानस्य प्रत्ययस्य च हेतुत्वात् कर्मजातेर् इत्य् अभिप्रायः । स्यान् मतं न कर्मजातिः । पाचकप्रत्ययं जनयति किंतु कर्मजातिसमाश्रयात् कर्मै ।
। क्तिवद् भेदान् न हेतुः कर्मास्येत्यादि । ननूक्तं जातिसमाश्रयाद् भिन्नम् अपि कर्माभिन्नप्रत्ययहेतुर् इत्य् उक्तम् इदम् अयुक्तं तु जातिसंबन्धे ऽपि कर्मणः तथैव भिन्नत्वात्* । किंचेत्यादिनोपचयहेतुम् आह । –इन्सेर्तिओन् ओf लिने 6: क्षणिकस्य कर्मणः स्थित्यभावाच् च कारणान् न कर्मनिमित्तः पाचकाद्यभेदप्रत्ययः । न हीत्यादिना व्या ॥। तस्य च पाचकाद्यभेदप्रत्ययस्य कर्मनिमित्तत्वे ऽभ्युपगम्यमाने निरुद्धे कर्मणि पुरु ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0