भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिकटीका · अध्याय 11

11.2

। सामान्यम् एवादौ गृह्यत इतीष्यते परेण सामान्यग्रहणद्वारेणैव व्यक्तेर् ग्रहणाभ्युपगमात्* । अतश् च व्यंजकाप्रतिपत्त्यापि व्यंग्यस्यस् ग्रहणाद् व्यंजकधर्मातिक्रमो व्यक्तेः । एतद् एवाह । कथं हीत्यदि । सेति व्यक्तिः सामान्यस्य व्यंजिका च स्याद् इति संबन्धः । तत्प्रतिपत्तिद्वारेणेति सामान्यप्रतिपत्तिद्वारे ॥।
4 मान्यदर्शनबलेन व्यक्तेर् दर्शने ऽभ्युपगम्यमाने व्यङ्ग्या सा व्यक्तिः प्रसज्यते सामान्यस्येत्य् अध्याहारः । पदीपेन । घटवद् इति तृतीयेति योगविभागात् समासः । सुप्सुपेति वा । यथा प्रदीपेन घटो व्यङ्ग्यस् तद्वत्* सामान्येन व्यक्तिर् व्यङ्ग्या प्राप्तेत्य् अर्थः । तत्प्रतिपत्तिम् अन्तरेण सामान्यप्रतिपत्तिं विना व्यक्तेर् अदृश्यरूप ॥।
5 .. व्यंजकम् इत्य् एतद् उपात्तं । ततः प्रदीपघटाभ्यां तुल्यम् इति द्वन्द्वाद् एव वतिर् द्रष्टव्यः । पूर्वनिपातलक्षणस्य व्यभिचारित्वाद् घटशब्दस्यापूर्वनिपातः । प्रदीपवत् सामान्यं व्यंजकं घटवच् च व्यक्तिर् व्यङ्ग्या । प्रसज्यत इति वाक्यार्थः । अनेनेति सामान्यवादिना । सामान्यम् विना किम् असंभवत् कार्यम् अ ॥।
6 क्ताव् इति वह्वायासः । अशक्यसाधनतया बहुदुःखहेतुः । परस्परेत्यादि परः । भेदाद् विलक्षणत्वाद् धेतोर् व्यतिरेकिणीष्व् अनन्वयिनीसु अन्वयिन एकाकारस्य प्रत्य ॥।
f प्रमाणवार्त्तिकटीका
र्1 ॥। .. .. .. आचार्यः । ये पाचकादिशब्दाः क्रियानिमित्तान् इच्छन्ति तान् प्रत्य् एतद् उच्यते । अभिन्नेन सामान्याख्येनार्थेन विना पाचकादिषु कथम् एकः शब्दो वाचकः । वाचकग्रहणेन प्रत्ययो ऽप्य् अन्वयी गृहीत एव तेन विना शब्दस्याप्रवृत्तेः । अत एव वृत्तौ शब्दप्रत्ययानुवृत्तिर् अ ।

11.3

। ते पाचकादयो ऽभिन्नास् सन्तो ऽपि तथेत्य् अभेदेन प्रतीयेरन्* ज्ञानेन उपलक्षणम् एतत् तथाभिधीयेरन्* पाचकेष्व् अधिश्रयणादिलक्षणं पाचकेष्व् अध्ययनात्मकम् एवम् अन्येष्व् अपि यथायोगं कर्मैकप्रत्ययादिनिमित्तम् अस्तीति चेत्* । स इत्य् अन्वयी प्रत्ययग्रहणम् उपलक्षणम् एव श .. ।

11.4

। .आक्योपन्यासे । तत् कर्मेति वा संबन्धनीयं । प्रतिपाचकं कर्मणो भेदात्* । येनापराधेन ता व्यक्तयः तथेत्य् अभिन्नप्रत्ययहेतुत्वेन सत्यं न किञ्चिद् अपराधः । किंतु तासां व्यक्तीनाम् एकरूपत्वात्* । तथा हि द्रव्यम् एकरूपम् अनंशत्वात्* । तद् एव चेद् अभिनप्रत्ययनिबन्धनं न तु ततो व्यतिरिक्तं धर्म ।

11.5

। क्तेर् आकारस् तदाकारस् तस्माद् अन्यो ऽभेदाकारः । स एव विशेषः सो ऽस्ति यस्यां सा अतदाकारविशेषवती द्रव्याकाराद् अन्याकारेत्य् अर्थः । एतद् उक्तं भवति । द्रव्येभ्यो एव प्रत्ययो द्रव्यम् इत्य् एवमाकारः । ततो ऽन्येनैवाकारेण पाचकप्रत्ययः । स यदि द्रव्यनिमित्तम् एव स्यात् तदा द्रव्य ।

11.6

। द्रव्यस्याभाव इति प्रतिषेधप्रत्ययो ऽप्य् अतदाकार इति शक्येत व्यपदेष्टुं । न चासौ वस्त्वन्तरनिबन्धनः परेणेष्टो विशेषप्रत्ययानाम् एव धर्मान्तरनिबन्धनत्वात्* । विशेषग्रहणे च केवलक्रियमाने चैत्रप्रत्ययो मैत्रापेक्षया भवति विशेषवान्* । न त्व् अतदाकारः चैत्राद्यभिधा ।

11.7

। स्पर्शाद् विशेषवांस् .. तस्मात् तत्र द्रव्यव्यतिरिक्तेन निमित्तान्तरेण भाव्यम् इति । उक्तम् इत्य् आचार्यः । यथा व्यतिरेको गोर् गोत्वं पाचकस्य पाकत्वम् इत्यादिको यथा च विशेषप्रत्यया अनन्तरोक्तास् तथोक्तम् इति संबन्धः । कथम् उक्तम् इत्य् आह । यथास्वम् इत्यादि अर्थान्तरविवेको ऽर्थान्तरव्यवच्छेदः ।

मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc