प्रमाणवार्त्तिकटीका · अध्याय 10
। .. .. .. प्राग् एव सामान्यग्रहणम् इष्टं तद्द्वारेण तु व्यक्तेस् ततो व्यंजिकाया व्यक्तेर् ग्रहणम् अन्तरेणापि व्यङ्ग्याभिमतस्य सामान्यस्य प्रतिपत्तिर् इष्टेति विपर्ययः यो ऽपि हीत्यादिना व्याचष्टे । स्वाश्रयो यत्र समवेतं सामान्यं तस्य जातेर् ग्राहकम् इन्द्रियं तयोः संयोगस् तदपेक्षा प्रतीतिर् यस्य सामान्यस्य तत्तथोक्तं । शब्दश्रोत्रेन्द्रिय .. ॥।
5 .. संयोगग्रहणं संबन्धोपलक्षणार्थं द्रष्टव्यं । आश्रयशून्याः प्रदेशा विजातीयव्यक्त्यध्यासिता व्यक्तिशून्याश् च तत्र न दृश्यते । यथोक्तसंयोगाभावात्* । तस्याप्य् एवंवादिनः क्वचिद् व्यक्तिदर्शने सत्य् अस्त्य् एवाश्रयेणेन्द्रियसंयोगो जातेः सर्वत्र स्थिताया उपकारक इति । तत् आश्रयेन्द्रियसंयोगाद् धेतोस् तद्दर्शी क्वचिद् व्यक्तिभेद जातिदर्शी यथा .. ॥।
व्1 ॥। .इका व्यक्तिस् तत्रैव जातेः स्वरूपं दृश्यं नान्यत्रेति चेद् आह । न हीत्यादि तस्या इति । जातेः क्वचिद् व्यक्तौ दृश्यमानायां तदीयम् इति सामान्यसंबन्धि एकस्य दृष्टादृष्टत्वनिरोधात्* । एवं तावद् व्यक्तेर् व्यंजिकात्वम् अभ्युपगम्य चशब्दोपात्तो ऽर्थो व्याख्यातः । अधुना न च सा व्यक्त्यपेक्षिणीत्यादि व्याख्यातुम् आह । व्यक्तिव्यंग्यत्वाद् इत्यादि ।
। .. .. .. .. .. ष्टादृष्टं रूपम् अस्तीत्य् अतो ऽपूर्वपक्ष एवायं केवलं दोषान्तराभिधानार्थं । गजनिमीलनं कृत्वोपन्यस्तः । तथाभूतस्येति न्याय्यस्य तत्रेति जातितद्वतोर् न्याय्यम्* व्यङ्ग्यव्यंजिकभावस्येत्यादिना प्राह । स्वरूपशून्ये देशे प्रदीपादिरहिते देशे । स्वव्यङ्ग्यं घटादिकं । नैवं यथोक्तेन न्यायेन व्यक्तिर् व्यंजिका ।
मूल पाठ: Pramāṇavārttikaṭīkā · Edition: M. Inami, K. Matsuda und T. Tani: A study of the Pramāṇavārttikaṭīkā by Śākyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0