प्रमाणवार्त्तिककारिका · भाग 2140
03096 यथा वस्त्व् एव वस्तूनां साधने साधनं मतम्
03096 तथा वस्त्व् एव वस्तूनां स्व-निवृत्तौ निवर्तकम्
03097 एतेन कल्पना-न्यस्तो यत्र क्वचन सम्भवाद्
03097 धर्मः पक्षसपक्षान्यतरत्व-आदिर् अपोदितः
03098 तत्र अपि व्यापको धर्मो निवृत्तेर् गमको मतः
03098 व्याप्यस्य स्व-निवृत्तिश् चेत् परिच्छिन्ना कथंचन
03099 यद् अप्रमाणता अभावे लिङ्गं तस्य एव कथ्यते
03099 तद् अत्यन्त-विमूढ-अर्थम् आगोपालम् असंवृत्तेः
03100 एतावन् निश्चय-फलम् अभावे अनुपलम्भनम्
03100 तच् च हेतौ स्वभावे वा अदृश्ये दृश्यतया मते
03101 अनुमानाद् अनित्य-आदेर् ग्रहणे अयं क्रमो मतः
03101 प्रामाण्यम् एव न अन्यत्र गृहीत-ग्रहणान् मतम्
03102 न अन्यास् या अनित्यता भावात् पूर्व-सिद्धः स च इन्द्रियात्
03102 न अनेक-रूपो वाच्यो असौ वाच्यो धर्मो विकल्पजः
03103 सामान्य-आश्रय-संसिद्धौ सामान्यं सिद्धम् एव तत्
03103 तद्-असिद्धौ तथा अस्य एव ह्य् अनुमानं प्रवर्तते
03104 क्वचित् तद् अपरिज्ञानं सदृश-अपर-सम्भवात्
03104 भ्रान्तेर् अपश्यतो भेदं माया-गोलक-भेद-वत्
03105 तथा ह्य् अलिङ्गम् आबालम् असंश्लिष्ट-उत्तर-उदयम्
03105 पश्यन् परिच्छिनत्त्य् एव दीप-आदि-नाशिनं जनः
03106 भाव-स्वभाव-भूतायाम् अपि शक्तौ फले अदृशः
03106 अनानन्तर्यतो मोहो विनिश्चेतुर् अपाटवात्
03107 तस्य एव विनिवृत्त्य्-अर्थम् अनुमान-उपवर्णनम्
03107 व्ययस्यन्ति ईक्षणाद् एव सर्व-आकारान् महा-धियः
03108 व्यावृत्तेः सर्वतस् तस्मिन् व्यावृत्ति-विनिबन्धनाः
03108 बुद्धयो अर्थे प्रवर्तन्ते अभिन्ने भिन्न-आश्रया इव
03109 यथा-चोदनम् आख्याश् च सो असति भ्रान्ति-कारणे
03109 प्रतिभाः प्रतिसन्धत्ते स्व-अनुरूपाः स्वभावतः
03110 सिद्धो अत्र अप्य् अथवा ध्वंसो लिङ्गाद् अनुपलम्भनात्
03110 प्राग् भूत्वा ह्य् अभवद् भावो अनित्य इत्य् अभिधीयते
03111 यस्य उभय-अन्त-व्यवधि-सत्ता सम्बन्ध-वाचिनी
03111 अनित्यता श्रुतिस् तेन तावन्ताव् इति कौ स्मृतौ
03112 प्राक् पश्चाद् अप्य् अभावश् चेत् स एव अनित्यता न किम्
03112 षष्ठ्य्-आद्य्-अयोगाद् इति चेद् अन्तयोः स कथं भवेत्
03113 सत्ता-सम्बन्धयोर् ध्रौव्याद् अन्ताभ्यां न विशेषणम्
03113 अविशेषणम् एव स्याद् अन्तौ चेत् कार्य-कारणे
03114 असम्बन्धान् न भावस्य प्राग्-अभावं स वाञ्छति
03114 तद्-उपाधि-समाख्याने ते अप्य् अस्य च न सिध्यतः
03115 सत्ता स्व-कारण-अश्लेष-करणात् कारणं किल
03115 सा सत्ता स च सम्बन्धो नित्यौ कार्यम् अथ इह किम्
03116 यस्य अभावः क्रियेत असौ न भावः प्राग्-अभाववान्
03116 सम्बन्ध-अनभ्युपगमान् नित्यं विश्वम् इदं ततः
03117 तस्माद् अनर्थास् कन्दिन्यो अभिन्न-अर्थ-अभिमतेष्व् अपि
03117 शब्देषु वाच्य-भेदिन्यो व्यतिरेकास् पदं धियः
03118 विशेष-प्रत्यभिज्ञानं न प्रतिक्षण-भेदतः
03118 न वा विशेष-विषयं दृष्ट-साम्येन तद्-ग्रहात्
03119 निदर्शनं तद् एव इति सामान्य-अग्रहणं यदि
03119 निदर्शनत्वात् सिद्धस्य प्रमाणेन अस्य किं पुनः
03120 विस्मृतत्वाद् अदोषश् चेत् तद् एव अनिदर्शनम्
03120 दृष्टे तद्भाव-सिद्धिश् चेत् प्रमाणाद् अन्य-वस्तुनि
03121 तत्त्व-आरोपे विपर्यासस् तत् सिद्धेर् अप्रमाणता
03121 प्रत्यक्ष-इतरयोर् ऐक्याद् एक-सिद्धिर् द्वयोर् अपि
03122 सन्धीयमानं च अन्येन व्यवसायं स्मृतिं विदुः
03122 तल्-लिङ्ग-अपेक्षणान् नो चेत् स्मृतिर् न व्यभिचारतः
03123 प्रत्यक्षं कल्पना-अपोढं प्रत्यक्षेण एव सिध्यति
03123 प्रत्यात्मवेद्यः सर्वेषां विकल्पो नाम-संश्रयः
03124 संहृत्य सर्वतश् चिन्तां स्तिमितेन अन्तर-आत्मना
03124 स्थितो अपि चक्षुषा रूपम् ईक्षते सा अक्षजा मतिः
03125 पुनर् विकल्पयन् किंचिद् आसीन् मे कल्पना ईदृशी
03125 इच्छा च इति न पूर्व-उक्त-अवस्थायाम् इन्द्रियाद् गतौ
03126 एकत्र दृष्टो भेदो हि क्वचिन् न अन्यत्र दृश्यते
03126 न तस्मात् भिन्नम् अस्त्य् अन्यत् सामान्यं बुद्ध्य्-अभेदतः
03127 तस्माद् विशेष-विषया सर्वा एव इन्द्रियजा मतिः
03127 न विशेषेषु शब्दानां संकेतस्य अप्रवृत्तितः
03128 अनन्वयाद् विशेषाणां संकेतस्य अप्रवृत्तितः
03128 विषयो यश् च शब्दानां संयोज्येत स एव तैः
03129 अस्य इदम् इति सम्बन्धे याव् अर्थौ प्रतिभासिनौ
03129 तयोर् एव हि सम्बन्धो न तदा इन्द्रिय-गोचरः
03130 विशद-प्रतिभासस्य तदा अर्थस्य अविभावनात्
03130 विज्ञान-आभास-भेदश् च पदार्थानां विशेषकः
03131 चक्षुषो अर्थ-अवभासे अपि यं परो अस्य इति शंसति
03131 स एव योज्यते शब्दैर्न् न खल्व् इन्द्रिय-गोचरः
03132 अव्यावृत-इन्द्रियस्य अन्य-वाङ् मात्रेण अविभावनात्
03132 न च अनुदित-सम्बन्धः स्वयं ज्ञान-प्रसङ्गतः
03133 मनसोर् युगपद् वृत्तेः सविकल्प-अविकल्पयोः
03133 विमूढो लघुवृत्तेर् वा तयोर् ऐक्यं व्ययस्यति
03134 विकल्प-व्यवधानेन विच्छिन्नं दर्शनं भवेत्
03134 इति चेद् भिन्न-जातीय-विकल्पे अन्यस्य वा कथम्
03135 अलात-दृष्टि-वद् भाव-पक्षश् चेद् बलवान् मतः
03135 अन्यत्र अपि समानं तद् वर्णयोर् वा सकृच् श्रुतिः
03136 सकृत् संगत-सर्व-अर्थेष्व् इन्द्रियेष्व् इह सत्स्व् अपि
03136 पञ्चभिर् व्यवधाने अपि भात्य् अव्यवहित इव या
03137 सा मतिर् नाम पर्यन्त-क्षणिक-ज्ञान-मिश्रणात्
03137 विच्छिन्न-आभा इति तच् चित्रं तस्मात् सन्तु सकृद् धियः
03138 प्रतिभास-अविशेषश् च सा अन्तर-अनन्तरे कथम्
03138 शुद्धे मनो-विकल्पे च न क्रम-ग्रहणम् भवेत्
03139 यो अग्रहः संगते अप्य् अर्थे क्वचिद् आसक्त-चेतसः
03139 सक्त्या अन्य-उत्पत्ति-वैगुण्याच् चोद्यं वा एतद् द्वयोर् अपि
03140 शीघ्र-वृत्तेर् अलात-आदेर् अन्वय-प्रतिघातिनी
03140 चक्र-भ्रान्तिं दृशा धत्ते न दृशां घटनेन सा
03141 केचिद् इन्द्रियजत्व-आदेर् बाल-धी-वद् अकल्पनाम्
03141 आहुर् बाला विकल्पे च हेतुं संकेत-मन्दताम्
03142 तेषां प्रत्यक्षम् एव स्याद् बालानाम् अविकल्पनात्
03142 संकेत-उपाय-विगमात् पश्चाद् अपि भवेन् न सः
03143 मनो अव्युत्पन्न-संकेतम् अस्ति तेन स चेन् मतः
03143 एवम् इन्द्रियजे अपि स्याद् शेषवच् च इदम् ईदृशम्
03144 यद् एव साधनं बाले तद् एव अत्र अपि कथ्यताम्
03144 साम्याद् अक्ष-धियाम् उक्तम् अनेन अनुभव-आदिकम्
03145 विशेषणं विशेष्यं च सम्बन्धं लौकिकीं स्थितिम्
03145 गृहीत्वा संकलय्य एतत् तथा प्रत्येति न अन्यथा
03146 यथा दण्डिनि जात्य्-आदेर् विवेकेन अनिरूपणात्
03146 तद्वता योजना न अस्ति कल्पना अप्य् अत्र न अस्त्य् अतः
03147 यद्य् अप्य् अन्वयि विज्ञानं शब्द-व्यक्त्य्-अवभासि तत्
03147 वर्ण-आकृत्य्-अक्षर-आकार-शून्यं गोत्वं हि वर्ण्यते
03148 समानत्वे अपि तस्य एव न ईक्षणं नेत्र-गोचरम्
03148 प्रतिभास-द्वय-अभावाद् बुद्धेर् भेदश् च दुर्लभः
03149 समवाय-अग्रहाद् अक्षैः सम्बन्ध-अदर्शनं स्थितम्
03149 पटस् तन्तुष्व् इह इत्य् आदि-शब्दाश् च इमे स्वयं कृताः
03150 शृङ्गङ् गवि इति लोके स्याच् शृङ्गे गौर् इत्य् अलौकिकम्
03150 गव-आख्य-परिशिष्ट-अङ्ग-विच्छेद-अनुपलम्भनात्
03151 तैस् तन्तुभिर् इयं शाटि इत्य् उत्तरं कार्यम् उच्यते
03151 तन्तु-संस्कार-सम्भूतं न एक-कालं कथंचन
03152 कारण-आरोपतः कश्चिद् एक-अपोधारतो अपि वा
03152 तन्त्व्-आख्यां वर्तयेत् कार्ये दर्शयन् न आश्रयं श्रुतेः
03153 उपकार्योपकारित्वं विच्छेदाद् दृष्टिर् एव वा
03153 मुख्यं यद् अस्खलज् ज्ञानम् आदि-संकेत-गोचरः
03154 अनुमानं च जात्य्-आदौ वस्तुनो न अस्ति भेदिनि
03154 सर्वत्र व्यपदेशो हि दण्ड-आदेर् अपि सांवृतात्
03155 वस्तु-प्रासाद-माला-आदि-शब्दाश् च अन्य-अनपेक्षिणः
03155 गेहो यद्य् अपि संयोगस् तन् माला किं नु तद् भवेत्
03156 जातिश् चेद् गेह एको अपि माला इत्य् उच्येत वृक्ष-वत्
03156 माला-बहुत्वे तच् शब्दः कथं जातेर् अजातितः
03157 माला-आदौ च महत्त्व-आदिर् इष्टो यश् च औपचारिकः
03157 मुख्य-अविशिष्ट-विज्ञान-ग्राह्यत्वान् न औपचारिकः
03158 अनन्यहेतुता तुल्या सा मुख्य-अभिमतेष्व् अपि
03158 पदार्थ-शब्दः कं हेतुम् अन्यं षट्कं समीक्षते
03159 यो यथा रूढितः सिद्धस् तत्-साम्य-आद्यस् तथा उच्यते
03159 मुख्यो गौणश् च भावेष्व् अप्य् अभावस्य उपचारतः
03160 संकेत-अन्वयिनी रूढिर् वक्तुर् इच्छा अन्वयी च सः
03160 क्रियते व्यवहार-अर्थं छन्दः शब्द-अंश-नाम-वत्
03161 वस्तु-धर्मतया एव अर्थास् तादृग् विज्ञान-कारणम्
03161 भेदे अपि यत्र तज्-ज्ञानात् तत् तथा प्रतिपद्यते
03162 ज्ञानान्य् अपि तथा भेदे अभेद-प्रत्यवमर्शने
03162 इत्य् एतत् कार्य-विश्लेषस्य अन्वयो न एक-वस्तुनः
03163 वस्तूनां विद्यते तस्मात् तन् निष्ठा वस्तुनि श्रुतिः
03163 बाह्य-शक्ति-व्यवच्छेद-निष्ठा अभावे अपि तच्-श्रुतिः
03164 विकल्प-प्रतिबिम्बेषु तन् निष्ठेषु निबध्यते
03164 ततो अन्यापोह-निष्ठत्वाद् उक्ता अन्यापोह-कृच् श्रुतिः
03165 व्यतिरेकी इव यज् ज्ञाने भात्य् अर्थ-प्रतिबिम्बकम्
03165 शब्दात् तद् अपि न अर्थ-आत्मा भ्रान्तिः सा वासना-उद्भवा
03166 तस्य अभिधाने श्रुतिभिर् अर्थे को अंशो अवगम्यते
03166 तस्य अगतौ च संकेत-क्रिया व्यर्था तद् अर्थिका
03167 शब्दो अर्थ-अंशकम् आह इति तत्र अन्यापोह उच्यते
03167 आकारः स च न अर्थे अस्ति तम् वदन्न् अर्थ-भाक् कथम्
03168 शब्दस्य अन्वयिनः कार्यम् अर्थेन अन्वयिना स च
03168 अनन्वयी धियो अभेदाद् दर्शन-अभ्यास-निर्मितः
03169 तद्-रूप-आरोप-गत्या अन्यव्यावृत्त-अधिगतेः पुनः
03169 शब्द-अर्थो अर्थः स एव इति वचनेन विरुध्यते
03170 मिथ्या-अवभासिनो वा एते प्रत्ययाः शब्द-निर्मिताः
03170 अनुयान्ति इमम् अर्थ-अंशम् इति वा अपोह-कृच् श्रुतिः
03171 तस्मात् संकेत-काले अपि निर्दिष्ट-अर्थेन संयुतः
03171 स्व-प्रतीति-फलेन अन्यापोहः सम्बन्ध्यते श्रुतौ
03172 अन्यत्र अदृष्ट्य्-अपेक्षत्वात् क्वचित् तद्-दृष्ट्य्-अपेक्षणात्
03172 श्रुतौ सम्बध्यते अपोहो न एतद् वस्तुनि युज्यते
03173 तस्माज् जात्य्-आदि-तद्-योगा न अर्थे तेषु च न श्रुतिः
03173 संयोज्यते अन्यव्यावृत्तौ शब्दानाम् एव योजनात्
03174 संकेत-स्मरण-उपायं दृष्ट-संकलन-आत्मकम्
03174 पूर्व-अपर-परामर्श-शून्ये तच् चाक्षुषे कथम्
03175 अन्यत्र गत-चित्तो अपि चक्षुषा रूपम् ईक्षते
03175 तत् संकेत-अग्रहस् तत्र स्पष्टस् तज्जा च कल्पना
03176 जायन्ते कल्पनास् तत्र यत्र शब्दो निवेशितः
03176 तेन इच्छातः प्रवर्तेरन् न ईक्षेरन् बाह्यम् अक्षजाः
03177 रूपं रूपम् इति ईक्षेत तद् धियं किम् इति ईक्षते
03177 अस्ति च अनुभवस् तस्याः सो अविकल्पः कथं भवेत्
03178 तस्य एव अनुभवे दृष्टं न विकल्प-द्वयं सकृत्
03178 एतेन तुल्य-काल-अन्य-विज्ञान-अनुभवो गतः
03179 स्मृतिर् भवेद् अतीते च सा अगृहीते कथं भवेत्
03179 स्याच् च अन्य-धी-परिच्छेदा अभिन्न-रूपा स्व-बुद्धि-धीः
03180 अतीतम् अपदृष्टान्तम् अलिङ्गं च अर्थ-दर्शनम्
03180 सिद्धं तत् केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम्
03181 तत् स्वरूप-अवभासिन्या बुद्ध्या अनन्तरया यदि
03181 रूप-आदिर् इव गृह्येत न स्यात् तत् पूर्व-धी-ग्रहः
03182 सो अविकल्पः स्व-विषयो विज्ञान-अनुभवो यथा
03182 अशक्य-समयं तद्वद् अन्यद् अप्य् अविकल्पकः
03183 सामान्य-वाचिनः शब्दास् तद् एक-अर्था च कल्पना
03183 अभावे निर्विकल्पस्य विशेष-अधिगमः कथम्
03184 अस्ति चेन् निर्विकल्पं च किंचित् तत्-तुल्य-हेतुकम्
03184 सर्वन् तथा एव हेतोर् हि भेदाद् भेदः फल-आत्मनाम्
03185 अनपेक्षित-बाह्य-अर्थ-योजना समय-स्मृतेः
03185 तथा अनपेक्ष्य समयं वस्तु-शक्त्या एव नेत्र-धीः
03186 संकेत-स्मरण-अपेक्षं रूपं यद्य् अक्ष-चेतसि
03186 अनपेक्ष्य न चेच् शक्यं स्यात् स्मृताव् एव लिङ्ग-वत्
03187 तस्यास् तत्-संगम-उत्पत्तेर् अक्ष-धीः स्यात् स्मृतेर् न वा
03187 ततः काल-अन्तरे अपि स्यात् क्वचिद् व्याक्षेप-सम्भवात्
03188 क्रमेण उभय-हेतुश् चेत् प्राग् एव स्याद् अभेदतः
03188 अन्यो अक्ष-बुद्धि-हेतुश् चेत् स्मृतिस् तत्र अप्य् अनर्थिका
03189 यथा समित-सिद्ध्य्-अर्थम् इष्यते समय-स्मृतिः
03189 भेदश् च असमितो ग्राह्यः स्मृतिस् तत्र किम् अर्थिका
03190 सामान्य-मात्र-ग्रहणे भेद-अपेक्षा न युज्यते
03190 तस्माच् चक्षुश् च रूपां च प्रतीत्य उदेति नेत्र-धीः
03191 साक्षाच् चेत् ज्ञान-जनने समर्थो विषयो अक्ष-वत्
03191 अथ कस्माद् द्वय-अधीन-जन्म तत् तेन न उच्यते
03192 समीक्ष्य गमकत्वं हि व्यपदेशो न गृह्यते
03192 तच् च अक्ष-व्यपदेशे अस्ति तद्-धर्मश् च नियोज्यताम्
03193 ततो लिङ्ग-स्वभावो अत्र व्यपदेशे नियोज्यताम्
03193 निवर्तते अव्यापकस्य स्वभावस्य निवृत्तितः
03194 संचितः समुदायः सामान्यं तत्र च अक्ष-धीः
03194 सामान्य-बुद्धिश् च अवश्यं विकल्पेन अनुबुध्यते
03195 अर्थ-अन्तर-अभिसम्बन्धाज् जायन्ते ये अणवो अपरे
03195 उक्तास् ते संचितास् ते हि निमित्तां ज्ञान-जन्मनः
03196 अणूनां स विशेषश् च न अन्तरेण अपरान् अणून्
03196 तद् एक-अनियमाज् ज्ञानम् उक्तं सामान्य-गोचरम्
03197 अथ एक-आयतनत्वे अपि न अनेकं दृश्यते सकृत्
03197 सकृद् ग्रह-अवभासः किं वियुक्तेषु तिल-आदिषु
03198 प्रत्युक्तं लाघवं च अत्र तेष्व् एव क्रम-पातिषु
03198 किम् न अक्रम-ग्रहस् तुल्य-कालाः सर्वाश् च बुद्धयः
03199 काश्चित् तास्व् अक्रम-आभासाः क्रमवत्यो अपराश् च किम्
03199 सर्व-अर्थ-ग्रहणे तस्माद् अक्रमो अयं प्रसज्यते
03200 न एकं चित्र-पतंग-आदि रूपं वा दृश्यते कथम्
03200 चित्रं तद् एकम् इति चेद् इदं चित्रतरं ततः
03201 न एकं स्वभावं चित्रं हि मणि-रूपं यथा एव तत्
03201 नील-आदि-प्रतिभासश् च तुल्यश् चित्र-पट-आदिषु
03202 तत्र अवयव-रूपं चेत् केवलं दृश्यते तथा
03202 नील-आदीनि निरस्य अन्यच् चित्रं चित्रं यद् ईक्षसे
03203 तुल्य-अर्थ-आकार-कालत्वे न उपलक्षितयोर् धियोः
03203 नाना-अर्था क्रमवत्या एका किम् एक-अर्था अक्रमा अपरा
03204 वैश्वरूप्याद् धियाम् एव भावानां विश्वरूपता
03204 तच् चेद् अनङ्गं केन इयं सिद्धा भेद-व्यवस्थितिः
03205 विजातीनाम् अनारम्भान् न आलेख्य-आदौ विचित्र-धीः
03205 अरूपत्वान् न संयोगश् चित्रो भक्तेश् च न आश्रयः
03206 प्रत्येकम् अविचित्रत्वाद् गृहीतेषु क्रमेण च
03206 न चित्र-धी-संकलनम् अनेकस्य एकया अग्रहात्
03207 नाना-अर्था एका भवेत् तस्मात् सिद्धान्तो अप्य् अविकल्पिका
03207 विकल्पयन्न् अप्य् एक-अर्थं यतो अन्यद् अपि पश्यति
03208 चित्र-अवभासेष्व् अर्थेषु यद्य् एकत्वं न युज्यते
03208 सा एव तावत् कथं बुद्धिर् एका चित्र-अवभासिनी
03209 इदं वस्तु-बल-आयातं यद् वदन्ति विपश्चितः
03209 यथा यथार्थाश् चिन्त्यन्ते विशीर्यन्ते तथा तथा
03210 किं स्यात् सा चित्रता एकस्यां न स्यात् तस्यां मताव् अपि
03210 यदि इदं स्वयम् अर्थानां रोचते तत्र के वयं
03211 तस्मान् न अर्थेषु न ज्ञाने स्थूल-भासस् तदात्मनः
03211 एकत्र प्रतिषिद्धत्वाद् बहुष्व् अपि न सम्भवः
03212 परिच्छेदो अन्तर् अन्यो अयं भागो बहिर् इव स्थितः
03212 ज्ञानस्य अभेदिनो भेद-प्रतिभासो ह्य् उपप्लवः
03213 तत्र एकस्य अप्य् अभावेन द्वयम् अप्य् अवहीयते
03213 तस्मात् तद् एव तस्य अपि तत्त्वं या द्वय-शून्यता
03214 तद्-भेद-आश्रयिणी च इयं भावानां भेद-संस्थितिः
03214 तद्-उपप्लव-भावे च तेषां भेदो अप्य् उपप्लवः
03215 न ग्राह्य-ग्राहक-आकार-बाह्यम् अस्ति च लक्षणम्
03215 अतो लक्षण-शून्यत्वान् निःस्वभावाः प्रकाशिताः
03216 व्यापार-उपाधिकं सर्वं स्कन्ध-आदीनां विशेषतः
03216 लक्षणं स च तत्त्वं न तेन अप्य् एते विलक्षणाः
03217 यथा स्व-प्रत्यय-अपेक्षाद् अविद्या-उपप्लुत-आत्मनाम्
03217 विज्ञप्तिर् वितथ-आकारा जायते तिमिर-आदि-वत्
03218 असंविदित-तत्त्वा च सा सर्व-अपर-दर्शनैः
03218 असम्भवाद् विना तेषां ग्राह्य-ग्राहक-विप्लवैः
03219 तद्-उपेक्षित-तत्त्व-अर्थैः कृत्वा गज-निमीलनम्
03219 केवलं लोक-बुद्ध्या एव बाह्य-चिन्ता प्रतन्यते
03220 नील-आदिश् चित्र-विज्ञाने ज्ञान-उपाधिर् अनन्यभाक्
03220 अशक्य-दर्शनस् तं हि पतत्य् अर्थे विवेचयन्
03221 यद् यथा भासते ज्ञानं तत् तथा एव प्रकाशते
03221 इति नाम एक-भावः स्याच् चित्र-आकारस्य चेतसि
03222 पट-आदि-रूपस्य एकत्वे तथा स्याद् अविवेकिता
03222 विवेकी न विवक्षा अन्यद् अविवेकी च न ईक्षते
03223 को वा विरोधो बहवः संजात-अतिशयाः पृथक्
03223 भवेयुः कारणं बुद्धेर् यदि न आत्म-इन्द्रिय-आदि-वत्
03224 हेतु-भावाद् ऋते न अन्या ग्राह्यता नाम काचन
03224 तत्र बुद्धिर् यद् आभासा तस्यास् तद्-ग्राह्यम् उच्यते
03225 कथं वा अवयवी ग्राह्यः सकृत् स्व-अवयवैः सह
03225 न हि गो-प्रत्ययो दृष्टः सास्ना-आदीनाम् अदर्शने
03226 गुण-प्रधान-अधिगमः सह अप्य् अभिमतो यदि
03226 सम्पूर्ण-अङ्गो न गृह्येत सकृन् न अपि गुण-आदिमान्
03227 विवक्षा-परतन्त्रत्वाद् विशेषण-विशेष्ययोः
03227 यद् अङ्ग-भावेन उपात्तन् तत् तेन एव हि गृह्यते
03228 स्वतो वस्त्व्-अन्तर-अभेदाद् गुण-आदेर् भेदकस्य च
03228 अग्रहाद् भेद-बुद्धिः स्यात् पश्यतो अप्य् अपरापरम्
03229 गुण-आदि-भेद-ग्रहणान् नानात्व-प्रतिपद् यदि
03229 अस्तु नाम तथा अप्य् एषां भवेत् सम्बन्धि-संकरः
03230 शब्द-आदीनाम् अनेकत्वात् सिद्धो अनेक-ग्रहः सकृत्
03230 संनिवेश-ग्रह-अयोगाद् अग्रहे संनिवेशिनाम्
03231 सर्वतो विनिवृत्तस्य विनिवृत्तिर् यतो यतः
03231 तद्-भेद-उन्नीत-भेदो असौ धर्मिणो अनेक-रूपता
03232 ते कल्पिता रूप-भेदा निर्विकल्पस्य चेतसः
03232 न विचित्रस्य चित्र-आभाः कादाचित्कस्य गोचरः
03233 यद्य् अप्य् अस्ति सितत्व-आदिर् यादृग् इन्द्रिय-गोचरः
03233 न सो अभिधीयते शब्दैर् ज्ञानयो रूप-भेदतः
03234 एक-अर्थत्वे अपि बुद्धीनां नाना-आश्रयता स चेत्
03234 श्रोतृ-आदि-चित्तानि इदानीं भिन्न-अर्थानि इति तत् कुतः
03235 जातो नाम आश्रयो अन्योन्यः चेतसां तस्य वस्तुनः
03235 एकस्य एव कुतो रूपं भिन्न-आकार-अवभासि तत्
03236 वृत्तेर् दृश्य-अपरामर्शेन अभिधान-विकल्पयोः
03236 दर्शनात् प्रत्यभिज्ञानं गव-आदीनां निवारितम्
03237 अन्वयाच् च अनुमानं यद् अभिधान-विकल्पयोः
03237 दृश्ये गव-आदौ जात्य्-आदेस् तद् अप्य् एतेन दूषितम्
03238 दर्शनान्य् एव भिन्नान्य् अप्य् एकां कुर्वन्ति कल्पनाम्
03238 प्रत्यभिज्ञान-संख्यातां स्वभावेन इति वर्णितम्
03239 पूर्व-अनुभूत-ग्रहणे मानसस्य अप्रमाणता
03239 अदृष्ट-ग्रहणे अन्ध-आदेर् अपि स्याद् अर्थ-दर्शनम्
03240 क्षणिकत्वाद् अतीतस्य दर्शने च न सम्भवः
03240 वाच्यम् अक्षणिकत्वे स्याल् लक्षणं स-विशेषणम्
03241 निष्पादित-क्रिये कंचिद् विशेषम् असमादधत्
03241 कर्मण्य् ऐन्द्रियम् अन्यद् वा साधनं किम् इति इष्यते
03242 सकृद् भावश् च सर्वासां धियां तद्भाव-जन्मनाम्
03242 अन्यैर् अकार्य-भेदस्य तद्-अपेक्ष-अविरोधतः
03243 तस्माद् इन्द्रिय-विज्ञान-अनन्तर-प्रत्यय-उद्भवः
03243 मनो अन्यम् एव गृह्णाति विषयं न अन्धदृक् ततः
03244 स्वार्थ-अन्वय-अर्थ-अपेक्षा एव हेतुर् इन्द्रियजा मतिः
03244 ततो अन्य-ग्रहणे अप्य् अस्य नियत-ग्राह्यता मता
03245 तद् अतुल्य-क्रिया-कालः कथम् स्व-ज्ञान-कालिकः
03245 सहकारि भवेद् अर्थ इति चेद् अक्ष-चेतसः
03246 असतः प्राग् असामर्थ्यात् पश्चाच् च अनुपयोगतः
03246 प्राग्भावः सर्व-हेतूनां न अतो अर्थः स्व-धिया सह
03247 भिन्न-कालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः
03247 हेतुत्वम् एव युक्तिज्ञा ज्ञान-आकार-अर्पण-क्षमम्
03248 कार्यं ह्य् अनेक-हेतुत्वे अप्य् अनुकुर्वद् उदेति यत्
03248 तत् तेन अर्पित-तद्-रूपं गृहीतम् इति च उच्यते
03249 अशक्य-समयो ह्य् आत्मा राग-आदीनाम् अनन्यभाक्
03249 तेषाम् अतः स्वसंवित्तिर् न अभिजल्प-अनुषङ्गिणी
03250 अवेदकाः परस्य अपि ते स्वरूपं कथं विदुः
03250 एक-अर्थ-आश्रयिणा वेद्या विज्ञानेन इति केचन
03251 तद्-अतद्-रूपिणो भावास् तद्-अतद्-रूप-हेतुजाः
03251 तत्-सुख-आदि किम् अज्ञानं विज्ञान-अभिन्न-हेतुजम्
03252 सा अर्थे सति इन्द्रिये योग्ये यथास्वम् अपि चेतसि
03252 दृष्टं जन्म सुख-आदीनां तत्-तुल्यं मनसाम् अपि
03253 असत्सु सत्सु च एतेषु न जन्म-अजन्म वा क्वचित्
03253 दृष्टं सुख-आदेर् बुद्धेर् वा त ततो न अन्यतश् च ते
03254 सुख-दुःख-आदि-भेदश् च तेषाम् एव विशेषतः
03254 तस्या एव यथा बुद्धेर् मान्द्य-पाटव-संश्रयाः
03255 यस्य अर्थस्य निपातेन ते जाता धी-सुख-आदयः
03255 तं मुक्त्वा प्रतिपद्येत सुख-आदीन् एव सा कथम्
03256 अविच्छिन्ना न भासेत तत्-संवित्तिः क्रम-ग्रहे
03256 तल्-लाघवाच् चेत् तत्-तुल्यम् इत्य् असंवेदनं न किम्
03257 न च एकया द्वय-ज्ञानं नियमाद् अक्ष-चेतसः
03257 सुख-आद्य्-अभावे अप्य् अर्थाच् च जातेः तच् शक्त्य्-असिद्धितः
03258 पृथक् पृथक् च सामर्थ्ये द्वयोर् नील-आदि-वत् सुखम्
03258 गृह्येत केवलं तस्य तद्-हेत्व्-अर्थम् अगृह्णतः
03259 न हि संवेदनं युक्तम् अर्थेन एव सह-ग्रहे
03259 किं सामर्थ्यं सुख-आदीनां न इष्टा धीर् यत् तद् उद्भवा
03260 विना अर्थेन सुख-आदीनां वेदने चक्षुर्-आदिभिः
03260 रूप-आदिः स्त्र्य्-आदि-भेदो अक्षणा न गृह्येत कदाचन
03261 न हि सत्य् अन्तरङ्गे अर्थे शक्तेर् धीर् बाह्य-दर्शनी
03261 अर्थ-ग्रहे सुख-आदीनां तज्-जानां स्याद् अवेदनम्
03262 धियोर् युगपद् उत्पत्तौ तत्-तद्-विषय-सम्भवात्
03262 सुख-दुःख-विदौ स्यातां सकृद् अर्थस्य सम्भवे
03263 सत्य् आन्तरे अप्य् उपादाने ज्ञाने दुःख-आदि-सम्भवः
03263 न उपादानं विरुद्धस्य तच् च एकम् इति चेन् मतम्
03264 अविज्ञानस्य विज्ञानं केन उपादान-कारणम्
03264 आधिपत्यं तु कुर्वीत तद्-विरुद्धे अपि दृश्यते
03265 अक्ष्णोर् यथा एक आलोको नक्तंचर-तद्-अन्ययोः
03265 रूप-दर्शन-वैगुण्य-अवैगुण्ये कुरुते सकृत्
03266 तस्मात् सुख-आदयो अर्थानां स्व-संक्रान्त-अवभासिनाम्
03266 वेदकाः स्वात्मनश् च एषाम् अर्थेभ्यो जन्म केवलम्
03267 अर्थ-आत्मा स्वात्मभूतो हि तेषां तैर् अनुभूयते
03267 तेन अर्थ-अनुभव-ख्यातिर् आलम्बस् तु तद्-आभता
03268 कश्चिद् बहिः स्थितान् एव सुख-आदीन् अप्रचेतनान्
03268 ग्राह्यान् आह न तस्य अपि सकृद् युक्तो द्वय-ग्रहः
03269 सुख-आद्य्-अभिन्न-रूपत्वान् नील-आदेश् चेत् सकृद् ग्रहः
03269 भिन्न-अवभासिनोर् ग्राह्यं चेतसोस् तद् अभेदि किम्
03270 तस्य अविशेषे बाह्यस्य भावना-तारतम्यतः
03270 तारतम्यं च बुद्धौ स्यान् न प्रीति-परितापयोः
03271 सुख-आद्य्-आत्मतया बुद्धेर् अपि यद्य् अविरोधिता
03271 स इदानीं कथं बाह्यः सुख-आद्य्-आत्मा इति गम्यते
03272 अग्राह्य-ग्राहकत्वाच् चेद् भिन्न-जातीययोः
03272 अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता
03273 कार्यकारणता अनेन प्रत्युक्त-अकार्यकारणे
03273 ग्राह्यग्राहकता-अभावाद् भावे अन्यत्र अपि सा भवेत्
03274 तस्मात् त आन्तरा एव संवेद्यत्वाच् च चेतनाः
03274 संवेदनं न यद् रूपं न हि तत् तस्य वेदनम्
03275 अतत्-स्वभावो अनुभवो बौद्धांस् तान् समवैति चेत्
03275 मुक्त्वा अध्यक्ष-स्मृत-आकारां संवित्तिं बुद्धिर् अत्र का
03276 तांस् तान् अर्थ-अनुपादाय सुख-दुःख-आदि-वेदनम्
03276 एकम् आविर्भवद् दृष्टं न दृष्टं त्व् अन्यद् अन्तरा
03277 संसर्गाद् अविभागश् चेद् अयो-गोलक-वह्नि-वत्
03277 भेद-अभेद-व्यवस्था एवम् उच्छिन्ना सर्व-वस्तुषु
03278 अभिन्न-वेदनस्य ऐक्ये यन् न एवं तद्-विभेद-वत्
03278 सिध्येद् असाधनत्वे अस्य न सिद्धं भेद-साधनम्
03279 भिन्न-आभः सित-दुःख-आदिर् अभिन्नो बुद्धि-वेदने
03279 अभिन्न-आभे विभिन्ने चेद् भेद-अभेदौ किम् आश्रयौ
03280 तिरस्कृतानां पटुना अप्य् एकदा भेद-दर्शनात्
03280 प्रवाहे वित्ति-भेदानां सिद्धा भेद-व्यवस्थितिः
03281 प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनाम् अयम्
03281 विधूत-कल्पना-जालं स्पष्टम् एव अवभासते
03282 काम-शोक-भय-उन्माद-चौर-स्वप्न-आद्य्-उपप्लुताः
03282 अभूतान् अपि पश्यन्ति पुरतो अवस्थितान् इव
03283 न विकल्प-अनुबद्धस्य स्पष्ट-अर्थ-प्रतिभासिता
03283 स्वप्ने अपि स्मर्यते स्मार्तं च तत् तादृग् अर्थवत्
03284 अशुभा पृथिवी कृत्स्न-आद्य्-अभूतम् अपि वर्ण्यते
03284 स्पष्ट-आभं निर्विकल्पं च भावना-बल-निर्मितम्
03285 तस्माद् भूतम् अभूतं वा यद् यद् एव अभिभाव्यते
03285 भावना-परिनिष्पत्तौ तत् स्फुट-अकल्प-धी-फलम्
03286 तत्र प्रमाणं संवादि यत् प्राङ् निर्णीत-वस्तु-वत्
03286 तद्-भावनाजं प्रत्यक्षम् इष्टं शेषा उपप्लवाः
03287 शब्द-अर्थ-ग्राहि यद् यत्र तज्-ज्ञानं तत्र कल्पना
03287 स्वरूपं च न शब्द-अर्थस् तत्र अध्यक्षम् अतो अखिलम्
03288 त्रिविधं कल्पना-ज्ञानम् आश्रय-उपप्लव-उद्भवम्
03288 अविकल्पकम् एकं च प्रत्यक्ष-आभं चतुर्विधम्
03289 अनक्षजत्व-सिद्ध्य्-अर्थम् उक्ते द्वे भ्रान्ति-दर्शनात्
03289 सिद्ध-अनुमा-आदि-वचनं साधनाय एव पूर्वयोः
03290 संकेत-संश्रय-अन्य-अर्थ-समारोप-विकल्पने
03290 प्रत्यक्ष-असन् निवृत्तित्वात् कदाचिद् भ्रान्ति-कारणम्
03291 यथा एव इयं परोक्ष-अर्थ-कल्पना स्मरण-आदिका
03291 समय-अपेक्षिणी न अर्थं प्रत्यक्षं प्रत्यवस्यति
03292 तथा अनुभूत-स्मरणम् अन्तरेण घट-आदिषु
03292 न प्रत्ययो अनुयंस् तच् च प्रत्यक्षात् परिहीयते
03293 अपवादश् चतुर्थो अत्र तेन उक्तम् उपघातजम्
03293 केवलं तत्र तिमिरम् उपघात-उपलक्षणम्
03294 मानसं तद् अपि इत्य् एके तेषां ग्रन्थो विरुध्यते
03294 नील-द्वि-चन्द्र-आदि-धियां हेतुर् अक्षाण्य् अपि इत्य् अयम्
03295 पारंपर्येण हेतुश् चेद् इन्द्रिय-ज्ञान-गोचरे
03295 विचार्यमाणे प्रस्तावो मानसस्य इह कीदृशः
03296 किं वा ऐन्द्रियं यद् अक्षाणां भाव-अभाव-अनुरोधि चेत्
03296 तत्-तुल्यं विक्रिया-वच् चेत् सा इव इयं किं निषिध्यते
03297 सर्प-आदि-भ्रान्ति-वच् च अस्याः स्याद् अक्ष-विकृताव् अपि
03297 निवृत्तिर् न निवर्तेत निवृत्ते अप्य् अक्ष-विप्लवे
03298 कदाचिद् अन्य-सन्ताने तथा एव अप्य् एत वाचकैः
03298 दृष्ट-स्मृतिम् अपेक्षेत न भासेत परिस्फुटम्
03299 सुप्तस्य जाग्रतो वा अपि या एव धीः स्फुट-भासिनी
03299 सा निर्विकल्प-उभयथा अप्य् अन्यथा एव विकल्पिका
03300 तस्मात् तस्य अविकल्पे अपि प्रामाण्यं प्रतिषिध्यते
03300 विसंवादात् तद्-अर्थं च प्रत्यक्ष-आभं द्विधा उदितम्
03301 क्रिया-साधनम् इत्य् एव सर्वं सर्वस्य कर्मणः
03301 साधनं न हि तत् तस्याः साधनं या क्रिया यतः
03302 तत्र अनुभव-मात्रेण ज्ञानस्य सदृश-आत्मनः
03302 भाव्यं तेन आत्मना येन प्रतिकर्म विभज्यते
03303 अनात्मभूतो भेदो अस्य विद्यमानो अपि हेतुषु
03303 भिन्ने कर्मण्य् अभिन्नस्य न भेदेन नियामकः
03304 तस्माद् यतो अस्य आत्म-भेदो अस्य अधिगतिर् इत्य् अयम्
03304 क्रियायाः कर्म-नियमः सिद्धा सा तत्-प्रसाधना
03305 अर्थेन घटयत्य् एनां न हि मुक्त्वा अर्थ-रूपताम्
03305 अन्यः स्व-भेदाज् ज्ञानस्य भेदको अपि कथंचन
03306 तस्मात् प्रमेय-अधिगतेः साधनं मेय-रूपता
03306 साधने अन्यत्र तत्-कर्म-सम्बन्धो न प्रसिध्यति
03307 सा च तस्य आत्मभूता एव तेन न अर्थ-अन्तरं फलम्
03307 दधानं तच् च ताम् आत्मन्य् अर्थ-अधिगमन-आत्मना
03308 सव्यापारम् इव आभाति व्यापारेण स्व-कर्मणि
03308 तद्-वशात् तद्-व्यवस्थानाद् अकारकम् अपि स्वयम्
03309 यथा फलस्य हेतूनां सदृश-आत्मतया उद्भवात्
03309 हेतु-रूप-ग्रहो लोके क्रियावत्त्वे अपि कथ्यते
03310 आलोचना-अक्ष-सम्बन्ध-विशेषण-धियामतः
03310 न इष्टं प्रामाण्यम् एतेषां व्यवधानात् क्रियां प्रति
03311 सर्वेषाम् उपयोगे अपि कारकाणां क्रियां प्रति
03311 यद् अन्त्यं भेदकं तस्यास् तत्-साधकतमं मतम्
03312 सर्व-सामान्य-हेतुत्वाद् अक्षाणाम् अस्ति न ईदृशम्
03312 तद्-भेदे अपि ह्य् अभिन्नस्य तस्य इदम् इति तत् कुतः
03313 एतेन शेषं व्याख्यातं विशेषण-धियां पुनः
03313 अताद्रूप्ये न भेदो अपि तद्वद् अन्य-धियो अपि वा
03314 न इष्टो विषय-भेदो अपि क्रिया-साधनयोर् द्वयोः
03314 एक-अर्थत्वे द्वयं व्यर्थं न च स्यात् क्रम-भाविता
03315 साध्यसाधनताभावः सकृद्-भावे धियो अंशयोः
03315 तद्-व्यवस्था-आश्रयत्वेन साध्य-साधन-संस्थितिः
03316 सर्व-आत्मना अपि सम्बद्धं कैश्चिद् एव अवगम्यते
03316 धर्मैः स नियमो न स्यात् सम्बन्धस्य अविशेषतः
03317 तद् अभेदे अपि भेदो अयं यस्मात् तस्य प्रमाणता
03317 संस्काराच् चेद् अताद्रूप्ये न तस्य अप्य् अव्यवस्थितेः
03318 क्रिया-करणयोर् ऐक्य-विरोध इति चेद् असत्
03318 धर्म-भेद-अभ्युपगमाद् वस्त्व्-अभिन्नम् इति इष्यते
03319 एवंप्रकारा सर्वा एव क्रिया-कारक-संस्थितिः
03319 भावे ह्य् अभिन्न-अभिमतेष्व् अध्यारोपेण वृत्तितः
03320 का अर्थ संविद् यद् एव इदं प्रत्यक्षं प्रतिवेदनम्
03320 तद्-अर्थ-वेदनं केन ताद्रूप्याद् व्यभिचारि तत्
03321 अथ सो अनुभवः क्व अस्य तद् एव इदं विचार्यते
03321 सरूपवन्ति तत् केन स्थूल-आभासश् च ते अणवः
03322 तन् न अर्थ-रूपता तस्य सत्य-अर्थ-अव्यभिचारिणी
03322 तत् संवेदन-भावस्य न समर्था प्रसाधने
03323 तत् सारूप्य-तदुत्पत्ती यदि संवेद्य-लक्षणम्
03323 संवेद्यं स्यात् समान-अर्थं विज्ञानं समनन्तरम्
03324 इदं दृष्टं श्रुतं वेदम् इति यत्र अवसाय-धीः
03324 स तस्य अनुभवः सा एव प्रत्यासत्तिर् विचार्यते
03325 दृश्य-दर्शनयोर् येन तस्य तत्-साधनं मतम्
03325 तयोः सम्बन्धम् आश्रित्य द्रष्टुर् एष विनिश्चयः
03326 आत्मा स तस्य अनुभवः स च न अन्यस्य कस्यचित्
03326 प्रत्यक्ष-प्रतिवेद्यत्वम् अपि तस्य तदात्मता
03327 न अन्यो अनुभाव्यस् तेन अस्ति तस्य न अनुभवो परः
03327 तस्य अपि तुल्य-चोद्यत्वात् स्वयं सा एव प्रकाशते
03328 नील-आदि-रूपस् तस्य असौ स्वभावो अनुभवश् च सः
03328 नील-आद्य्-अनुभवः ख्यातः स्वरूप-अनुभवो अपि सन्
03329 प्रकाशमानस् तादात्म्यात् स्वरूपस्य प्रकाशकः
03329 यथा प्रकाशो अभिमतस् तथा धीर् आत्म-वेदिनी
03330 तस्याश् च अर्थ-अन्तरे वेद्ये दुर्घटौ वेद्य-वेदकौ
03330 अवेद्य-वेदक-आकारा यथा भ्रान्तैर् निरीक्ष्यते
03331 विभक्त-लक्षण-ग्राह्य-ग्राहक-आकार-विप्लवा
03331 तथा अकृत-व्यवस्था इयं केश-आदि-ज्ञान-भेद-वत्
03332 यदा तदा न संचोद्य-ग्राह्य-ग्राहक-लक्षणा
03332 तदा अन्य-संविदो अभावात् स्वसंवित् फलम् इष्यते
03333 यदि बाह्यो अनुभूयेत को दोषो न एव कश्चन
03333 इदम् एव किम् उक्तं स्यात् स बाह्यो अर्थो अनुभूयेत
03334 यदि बुद्धिस् तद्-आकारा सा अस्त्य् आकार-निवेशिनी
03334 सा बाह्याद् अन्यतो वा इति विचारम् इदम् अर्हति
03335 दर्शन-उपाधि-रहितस्य अग्रहात् तद्-ग्रहे ग्रहात्
03335 दर्शनं नील-निर्भासं न अर्थो बाह्यो अस्ति केवलः
03336 कस्यचित् किंचिद् एव अन्तर्वासनायाः प्रबोधकम्
03336 ततो धियां विनियमो न बाह्य-अर्थ-व्यपेक्षया
03337 तस्माद् द्वि-रूपम् अस्त्य् एकं यद् एवम् अनुभूयते
03337 स्मर्यते च उभय-आकारस्य अस्य संवेदनं फलम्
03338 यदा निष्पन्न-तद्भाव इष्टो अनिष्टो अपि वा परः
03338 विज्ञप्ति-हेतुर् विषयस् तस्याश् च अनुभवस् तथा
03339 यदा सविषयं ज्ञानं ज्ञान-अंशे अर्थ-व्यवस्थितेः
03339 तदा य आत्म-अनुभवः स एव अर्थ-विनिश्चयः
03340 यदि इष्ट-आकार आत्मा स्याद् अन्यथा वा अनुभूयते
03340 इष्टो अनिष्टो अपि वा तेन भवत्य् अर्थः प्रवेदितः
03341 विद्यमाने अपि बाह्य-अर्थे यथानुभवम् एव सः
03341 निश्चित-आत्मा स्वरूपेण न अनेक-आत्मत्व-दोषतः
03342 यदि बाह्यं न विद्येत कस्य संवेदनं भवेत्
03342 यद्य् अगत्या स्वरूपस्य बाह्यस्य एव न किं मतम्
03343 अभ्युपाये अपि भेदेन न स्याद् अनुभवो द्वयोः
03343 अदृष्ट-आवरणान् नो चेन् न नाम-अर्थ-वशा गतिः
03344 तम् अनेक-आत्मकं भावम् एक-आत्मत्वेन दर्शयेत्
03344 तद् अदृष्टं कथं नाम भवेद् अर्थस्य वेदकम्
03345 इष्ट-अनिष्ट-अवभासिन्यः कल्पना न अक्ष-धीर् यदि
03345 अनिष्ट-आदाव् असन्धानं दृष्टं तत्र अपि चेतसाम्
03346 तस्मात् प्रमेये बाह्ये अपि युक्तं स्व-अनुभवः फलम्
03346 यतः स्वभावो अस्य यथा तथा एव अर्थ-विनिश्चयः
03347 तदा अर्थ-आभासता एव अस्य प्रमाणं न तु सन्न् अपि
03347 ग्राहक-आत्मा अपरार्थत्वाद् बाह्येष्व् अर्थेष्व् अपेक्ष्यते
03348 यस्माद् यथा निविष्टो असाव् अर्थ-आत्मा प्रत्यये तथा
03348 निश्चीयते निविष्टो असाव् एवम् इत्य् आत्म-संविदः
03349 इत्य् अर्थ-संवित् सा एव इष्टा यतो अर्थ-आत्मा न दृश्यते
03349 तस्या बुद्धि-निवेश्य-अर्थः साधनं तस्य सा क्रिया
03350 यथा निविशते सो अर्थः तथा हि स प्रकाशते
03350 अर्थ-स्थितेस् तदात्मत्वात् स्वविद् अप्य् अर्थविन् मता
03351 तस्माद् विषय-भेदो अपि न स्वसंवेदनं फलम्
03351 उक्तं स्वभाव-चिन्तायां तादात्म्याद् अर्थ-संविदः
03352 तथा अवभासमानस्य तादृशो अन्य-अदृशो अपि वा
03352 ज्ञानस्य हेतुर् अर्थो अपि इत्य् अर्थस्य इष्टा प्रमेयता
03353 यथा कथंचिन् न अस्य अर्थ-रूपं युक्त्या अवभासिनः
03354 अविभागो अपि बुद्ध्य्-आत्म-विपर्यासित-दर्शनैः
03354 ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते
03355 मन्त्र-आद्य्-उपप्लुत-अक्षाणां यथा मृच्छकल-आदयः
03355 अन्यथा एव अवभासन्ते तद्-रूप-रहिता अपि
03356 तथा एव अदर्शनात् तेषाम् अनुपप्लुत-चक्षुषाम्
03356 दूरे यथा वा मरुषु महान् अल्पो अपि दृश्यते
03357 यथा अनुदर्शनं च इयं मेय-मान-फल-स्थितिः
03357 क्रियते अविद्यमाना अपि ग्राह्य-ग्राहक-संविदाम्
03358 अन्यथा एकस्य भावस्य नाना-रूप-अवभासिनः
03358 सत्यं कथं स्युर् आकारास् तद् एकत्वस्य हानितः
03359 अन्यस्य अन्यत्व-हानेश् च न अभेदो अरूप-दर्शनात्
03359 रूप-अभेदं हि पश्यन्ती धीर् अभेदं व्यवस्यति
03360 भावा येन निरूप्यन्ते तद्-रूपं न अस्ति तत्त्वतः
03360 यस्माद् एकम् अनेकं वा रूपं तेषां न विद्यते
03361 साधर्म्य-दर्शनाल् लोके भ्रान्तिर्न् नाम उपजायते
03361 अतदात्मनि तादात्म्य-व्यवसायेन न इह तत्
03362 अदर्शनाज् जगत् यस्मिन्न् एकस्य अपि तदात्मनः
03362 अस्ति इयम् अपि या त्व् अन्तर् उपप्लव-समुद्भवा
03363 दोष-उद्भवा प्रकृत्या सा वितथ-प्रतिभासिनी
03363 अनपेक्षित-साधर्म्य-दृग्-आदिस् तैमिर-आदि-वत्
03364 तत्र बुद्धेः परिच्छेदो ग्राहक-आकार-सम्मतः
03364 तादात्म्याद् आत्मवित् तस्य स तस्या साधनं ततः
03365 तत्र आत्म-विषये माने यथा राग-आदि-वेदनम्
03365 इयं सर्वत्र संयोज्या मान-मेय-फल-स्थितिः
03366 तत्र अप्य् अनुभव-आत्मत्वात् ते योग्याः स्वात्मसंविदि
03366 इति सा योग्यता मानम् आत्मा मेयः फलं स्ववित्
03367 ग्राहक-आकार-संख्याता परिच्छेद-आत्मता आत्मनि
03367 सा योग्यता इति च प्रोक्तं प्रमाणं स्वात्मवेदनम्
03368 सर्वम् एव हि विज्ञानं विषयेभ्यः समुद्भवत्
03368 तद्-अन्यस्य अपि हेतुत्वे कथं स्याद् विषय-आकृतिः
03369 यथा एव आहार-काल-आदेर् हेतुत्वे अपत्य-जन्मनि
03369 पित्रोस् तद् एकस्य आकारं धत्ते न अन्यस्य कस्यचित्
03370 तद्-हेतुत्वेन तुल्ये अपि तद्-अन्य-विषयं मतम्
03370 विषयत्वं तद्-अङ्गेन तद्-अभावे न तद् भवेत्
03371 अनर्थ-आकार-शङ्का स्याद् अप्य् अर्थवति चेतसि
03371 अतीत-अर्थ-ग्रहे सिद्धे द्विरूपत्व-आत्म-वेदने
03372 नील-आद्य्-आभास-भेदित्वान् न अर्थो जातिर् अतद्वती
03372 सा वा अनित्या न जातिः स्यान् नित्या वा जनिका कथम्
03373 नाम-आदिकं निषिद्धं प्राङ् न अयम् अर्थवतां क्रमः
03373 इच्छा-मात्र-अनुबन्धित्वाद् अर्थ-शक्तिर्न् न सिध्यति
03374 स्मृतिश् च ईदृग्विधं ज्ञानं तस्याश् च अनुभवाद् भवः
03374 स च अर्थ-आकार-रहितः सा इदानीं तद्वती कथम्
03375 न अर्थाद् भावस् तदा अभावात् स्यात् तथा अनुभवे अपि सः
03375 आकारः स च न अर्थस्य स्पष्ट-आकार-विवेकतः
03376 व्यतिरिक्तं तम् आकारं प्रतीयाद् अपरस् तथा
03376 नित्यम् आत्मनि सम्बन्धे प्रतीयात् कथितं च न
03377 एका एकेन अभिसम्बन्धे प्रतिसन्धिर् न युज्यते
03377 एक-अर्थ-अभिनिवेश-आत्मा प्रवक्तृ-श्रोतृ-चेतसोः
03378 तद् एक-व्यवहारश् चेत् सादृश्याद् अतदाभयोः
03378 भिन्न-आत्म-अर्थः कथं ग्राह्यस् तदा स्याद् धीर् अनर्थिका
03379 तच् च अनुभव-विज्ञानम् उभय-अङ्ग-अवलम्बिना
03379 एक-आकार-विशेषेण तज्-ज्ञानेन अनुबध्यते
03380 अन्यथा ह्य् अतद्-आकारं कथं ज्ञाने अधिरोहति
03380 एक-आकार-उत्तरं ज्ञानं तथा ह्य् उत्तरम् उत्तरम्
03381 तस्य अर्थ-रूपेण आकाराव् आत्म-आकारश् च कश्चन
03381 द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते
03382 अर्थ-कार्यतया ज्ञान-स्मृताव् अर्थ-स्मृतेर् यदि
03382 भ्रान्त्या सङ्कलनं ज्योतिर् मनस्कारे च सा भवेत्
03383 सर्वेषाम् अपि कार्याणां कारणैः स्यात् तथा ग्रहः
03383 कुलाल-आदि-विवेकेन न स्मर्येत घटस् ततः
03384 यस्माद् अतिशयाज् ज्ञानम् अर्थ-संसर्ग-भाजनम्
03384 सारूप्यात् तत् किम् अन्यत् स्याद् दृष्टेश् च यमल-आदिषु
03385 आद्या अनुभय-रूपत्वे ह्य् एक-रूपे व्यवस्थितम्
03385 द्वितीयं व्यतिरिच्येत न परामर्श-चेतसा
03386 अर्थ-संकलन-अश्लेषा धीर् द्वितीय-अवलम्बते
03386 नील-आदि-रूपेण धियं भासमानां पुरस् ततः
03387 अन्यथा ह्य् आद्यम् एव एकं संयोज्येत अर्थ-सम्भवात्
03387 ज्ञानं न अदृष्ट-सम्बन्धं पूर्व-अर्थेन उत्तरोत्तरम्
03388 सकृत्-संवेद्यमानस्य नियमेन धिया सह
03388 विषयस्य ततो अन्यत्वं केन आकारेण सिध्यति
03389 भेदश् च भ्रान्ति-विज्ञानैर् दृश्येत इन्दाव् इव अद्वये
03389 संवित्ति-नियमो न अस्ति भिन्नयोर् नील-पीतयोः
03390 न अर्थो असंवेदनः कश्चिद् अनर्थस्य अपि वेदनम्
03390 दृष्टं संवेद्यमानं तत् तयोर् न अस्ति विवेकिता
03391 तस्माद् अर्थस्य दुर्वारं ज्ञान-काल-अवभासिनः
03391 ज्ञानाद् अव्यतिरेकित्वं हेतु-भेद-अनुमा भवेत्
03392 अभावाद् अक्ष-बुद्धीनां सत्स्व् अप्य् अन्येषु हेतुषु
03392 नियमं यदि न ब्रूयात् प्रत्ययात् समनन्तरात्
03393 बीजाद् अङ्कुर-जन्म-अग्नेर् धूमात् सिद्धिर् अतीदृशी
03393 बाह्य-अर्थ-आश्रयिणी या अपि कारक-ज्ञापक-स्थितिः
03394 सा अपि तद्-रूप-निर्भासास् तथा नियत-संगमाः
03394 बुद्धिर् आश्रित्य कल्प्येत यदि किं वा विरुध्यते
03395 अनग्नि-जन्यो धूमः स्यात् तत्-कार्यात् कारणे अगतिः
03395 न स्यात् कारणतायां वा कुत एकान्ततो गतिः
03396 तत्र अपि धूम-आभासा धीः प्रबोध-पटु-वासनाम्
03396 गमयेद् अग्नि-निर्भासां धियम् एव न पावकम्
03397 तद्-योग्य-वासना-गर्भ एव धूम-अवभासिनीम्
03397 व्यनक्ति चित्त-सन्तानो धियं धूमो अग्नितस् ततः
03398 अस्त्य् एष विदुषां वादो बाह्यं त्व् आश्रित्य वर्ण्यते
03398 द्वैरूप्यं सह-संवित्ति-नियमात् तच् च सिध्यते
03399 ज्ञानम् इन्द्रिय-भेदेन पटु-मन्द-आविल-आदिकाम्
03399 प्रतिभास-भिदाम् अर्थे बिभ्रद् एकत्र दृश्यते
03400 अर्थस्य अभिन्न-रूपत्वाद् एक-रूपं भवेन् मनः
03400 सर्वं तद्-अर्थम् अर्थाच् चेत् तस्य न अस्ति तद्-आभता
03401 अर्थ-आश्रयेण उद्भवतस् तद्-रूपम् अनुक्रुवतः
03401 तस्य केनचिद् अंशेन परतो अपि भिदा भवेत्
03402 तथा ह्य् आश्रित्य पितरं तद्-रूपो अपि सुतः पितुः
03402 भेदं केनचिद् अंशेन कुतश्चिद् अवलम्बते
03403 मयूर-चन्द्रक-आकारं नील-लोहित-भास्वरम्
03403 सम्पश्यन्ति प्रदीप-आदेर् मण्डलं मन्द-चक्षुषः
03404 तस्य तद्-बाह्य-रूपत्वे का प्रसन्न-ईक्षणे अक्षमा
03404 भूतं पश्यंश् च तद्-दर्शी कथं च उपहत-इन्द्रियः
03405 शोधितं तिमिरेण अस्य व्यक्तं चक्षुर् अतीन्द्रियम्
03405 पश्यतो अन्य-अक्ष-दृश्ये अर्थे तद्-अव्यक्तं कथं पुनः
03406 आलोक-अक्ष-मनस्काराद् अन्यस्य एकस्य गम्यते
03406 शक्तिर् हेतुस् ततो न अन्यो अहेतुश् च विषयः कथम्
03407 स एव यदि धी-हेतुः किं प्रदीपम् अपेक्षते
03407 दीप-मात्रेण सद्भावाद् उभयं न अपि कारणम्
03408 दूर-आसन्न-आदि-भेदेन व्यक्त-अव्यक्तं न युज्यते
03408 तत् स्याद् आलोक-भेदाच् चेत् तत् पिधान-अपिधानयोः
03409 तुल्या दृष्टिर् अदृष्टिर् वा सूक्ष्मो अंशस् तस्य कश्चन
03409 आलोकेन न मन्देन दृश्यते अतो भिदा यदि
03410 एकत्वे अर्थस्य बाह्यस्य दृश्य-अदृश्य-भिदा कुतः
03410 अनेकत्वे अणुशो भिन्नो दृश्य-अदृश्य-भिदा कुतः
03411 मान्द्य-पाटाव् अभेदेन भासो बुद्धि-भिदा यदि
03411 भिन्ने अन्यस्मिन्न् अभिन्नस्य कुतो भेदेन भासनम्
03412 मन्दं तद् अपि तेजः किम् आवृत्तेर् इह सा न किम्
03412 तनुत्वात् तेजसो अप्य् एतद् अस्त्य् अन्यत्र अप्य् अतानवम्
03413 अत्यासन्ने च सुव्यक्तं तेजस् तत् स्याद् अतिस्फुटम्
03413 तत्र अप्य् अदृष्टम् आश्रित्य भवेद् रूप-अन्तरं यदि
03414 अन्योन्य-आवरणात् तेषां स्यात् तेजो विहतिस् ततः
03414 तत्र एकम् एव दृश्येत तस्य अनावरणे सकृत्
03415 पश्येत् स्फुट-अस्फुटं रूपम् एको अदृष्टेन वारणे
03415 अर्थ-अनर्थौ न येन स्तस् तद्-अदृष्टं करोति किम्
03416 तस्मात् संविद् यथाहेतु जायमान-अर्थ-संश्रयात्
03416 प्रतिभास-भिदां धत्ते शेषाः कुमति-दुर्नयाः
03417 ज्ञान-शब्द-प्रदीपानां प्रत्यक्षस्य इतरस्य वा
03417 जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः
03418 व्यक्तिः कुतो असतां ज्ञानाद् अन्यस्य अनुपकारिणः
03418 व्यक्तौ व्यज्येत सर्वो अर्थस् तद्-हेतोर् नियमो यदि
03419 न एषा अपि कल्पना ज्ञाने ज्ञानं त्व् अर्थ-अवभासतः
03419 तं व्यनक्ति इति कथ्येत तद्-अभावे अपि तत्-कृतम्
03420 न आकारयति च अन्यो अर्थो अनुपकारात् सह-उदितः
03420 व्यक्तो न आकारयन् ज्ञानं स्व-आकारेण कथं भवेत्
03421 वज्र-उपल-आदिर् अप्य् अर्थः स्थिरः सो अन्य-अनपेक्षणात्
03421 सकृत् सर्वस्य जनयेज् ज्ञानानि जगतः समम्
03422 क्रमाद् भवन्ति तान्य् अस्य सहकार्य्-उपकारतः
03422 आहुः प्रतिक्षणं भेदं स दोषो अत्र अपि पूर्ववत्
03423 संवेदनस्य तादात्म्ये न विवादो अस्ति कस्यचित्
03423 तस्य अर्थ-रूपता सिद्धा सा अपि सिध्यति संस्मृतेः
03424 भेदेन अननुभूतेस् भिन्न-विभक्ते स्व-गोचरैः
03424 एवम् एतन् न खल्व् एवम् इति सा स्यान् न भेदिनी
03425 न च अनुभव-मात्रेण कश्चिद् भेदो विवेचकः
03425 विवेकिनी न च अस्पष्ट-भेदे धीर् यमल-आदि-वत्
03426 द्वैरूप्य-साधनेन अपि प्रायः सिद्धं स्ववेदनम्
03426 स्वरूपभूत-आभासस्य तदा संवेदन-ईक्षणात्
03427 धिया अतद्रूपया ज्ञाने निरुद्धे अनुभवः कुतः
03427 स्वं च रूपं न सा वेत्ति इत्य् उत्सन्नो अनुभवो अर्थिनः
03428 बहिर् मुखं च तज्-ज्ञानं भात्य् अर्थ-प्रतिभास-वत्
03428 बुद्धेश् च ग्राहिका बुद्धिर् नित्यम् अन्तर्मुखा-आत्मनि
03429 यो यस्य विषय-आभासस् तं वेत्ति न तद् इत्य् अपि
03429 प्राप्ता का संविद् अन्या अस्ति ताद्रूप्याद् इति चेन् मतम्
03430 प्राप्तं संवेदनं सर्व-सदृशानां परस्परम्
03430 बुद्धिः सरूपा तद्-विच् चेत् न इदानीं वित्-सरूपिका
03431 स्वयं सो अनुभवस् तस्या न स सारूप्य-कारणः
03431 क्रिया-कर्म-व्यवस्थायास् तल्-लोके स्यान् निबन्धनम्
03432 स्वभावभूत-तद्-रूप-संविद् आरोप-विप्लवात्
03432 नील-आदेर् अनुभूत-आख्या न अनुभूतेः पर-आत्मनोः
03433 धियो नील-आदि-रूपत्वे बाह्यो अर्थः किं प्रमाणकः
03433 धियो अनील-आदि-रूपत्वे स तस्य अनुभवः कथम्
03434 यदा संवेदन-आत्मत्वं न सारूप्य-निबन्धनम्
03434 सिद्धं तत् स्वत एव अस्य किम् अर्थेन उपनीयते
03435 सर्वात्मना हि सारूप्ये ज्ञानम् अज्ञानतां व्रजेत्
03435 साम्ये केनचिद् अङ्गेन स्यात् सर्वं सर्व-वेदनम्
03436 यथा नील-आदि-रूपत्वान् नील-आद्य्-अनुभवो मतः
03436 तथा अनुभव-रूपत्वात् तस्य अप्य् अनुभवो भवेत्
03437 न अनुभूतो अनुभव इत्य् अर्थ-वत् तद्-विनिश्चयः
03437 तस्माद् अदोष इति चेत् न अर्थे अप्य् अस्त्य् एष सर्वदा
03438 कस्माद् वा अनुभवे न अस्ति सति सत्ता-निबन्धने
03438 अपि च इदं यद् आभाति दृश्यमाने सित-आदिके
03439 पुंसां सित-आद्य्-अभिव्यक्ति-रूपं संवेदनं स्फुटम्
03439 तत् किं सित-आद्य्-अभिव्यक्तेः पररूपम् अथ आत्मनः
03440 पररूपे अप्रकाशायां व्यक्तौ व्यक्तं कथं सितम्
03440 ज्ञानं व्यक्तिर् न सा व्यक्ता इत्य् अव्यक्तम् अखिलं जगत्
03441 व्यक्तेर् व्यक्त्य्-अन्तर-व्यक्ताव् अपि दोष-प्रसङ्गतः
03441 दृष्ट्या च अज्ञात-सम्बन्धं विशिनष्टि तया कथम्
03442 यस्माद् द्वयोर् एक-गतौ न द्वितीयस्य दर्शनम्
03442 द्वयोः संसृष्टयोर् दृष्टौ स्याद् दृष्टम् इति निश्चयः
03443 सरूपं दर्शनं यस्य दृश्यते अन्येन चेतसा
03443 दृष्ट-आख्या तत्र चेत् सिद्धं सारूप्ये अस्य स्ववेदनम्
03444 अथ आत्म-रूपन् नो वेत्ति पररूपस्य वित् कथम्
03444 सारूप्याद् वेदना-आख्या च प्राग् एव प्रतिपादिता
03445 दृष्टयोर् एव सारूप्य-ग्रहो अर्थं च न दृष्टवान्
03445 प्राक् कथं दर्शनेन अस्य सारूप्यं सो अध्यवस्यति
03446 सारूप्यम् अपि न इच्छेद् यः तस्य न उभय-दर्शनम्
03446 तदा अर्थो ज्ञानम् इति च ज्ञाते च इति गता कथा
03447 अथ स्वरूपं सा तर्हि स्वयम् एव प्रकाशते
03447 यत् तस्याम् अप्रकाशायाम् अर्थः स्याद् अप्रकाशितः
03448 एतेन अनात्मवित् पक्षे सर्व-अर्थ-अदर्शनेन ये
03448 अप्रत्यक्षां धियं प्राहुस् ते अपि निर्वर्णित-उत्तराः
03449 आश्रय-आलम्बन-अभ्यास-भेदाद् भिन्न-प्रवृत्तयः
03449 सुख-दुःख-अभिलाष-आदि-भेदा बुद्धय एव ताः
03450 प्रत्यक्षास् तद्-विविक्तं च न अन्यत् किंचिद् विभाव्यते
03450 यत् तज्-ज्ञानम् परो अप्य् एनां भुञ्जीत अन्येन विद् यदि
03451 तज्जा तत् प्रतिभासा वा यदि धीर् वेत्ति न अपरा
03451 आलम्बमानस्य अन्यस्य अप्य् अस्त्य् अवश्यम् इदं द्वयम्
03452 अथ न उत्पद्यते तस्मान् न च तत् प्रतिभासिनी
03452 सा धीर्न् निर्विषया प्राप्ता सामान्यं च तद्-अग्रहे
03453 न गृह्यत इति प्रोक्तं न च तद्-वस्तु किंचन
03453 तस्माद् अर्थ-अवभासो असौ न अन्यस् तस्या धियस् ततः
03454 सिद्धे प्रत्यक्ष-भाव-आत्मविदौ गृह्णाति तत् पुनः
03454 न अध्यक्षम् इति चेद् एष कुतो भेदः समर्थयोः
03455 अदृष्ट-एक-अर्थ-योग-आदेः संविदो नियमो यदि
03455 सर्वथा अन्यो न गृह्णीयात् संविद् भेदो अप्य् अपोदितः
03456 येषां च योगिनो अन्यस्य प्रत्यक्षेण सुख-आदिकम्
03456 विदन्ति तुल्य-अनुभवास् तद्वत् ते अपि स्युर् आतुराः
03457 विषय-इन्द्रिय-सम्पात-अभावात् तेषां तद्-उद्भवम्
03457 न उदेति दुःखम् इति चेत् न वै दुःख-समुद्भवः
03458 दुःख-असंवेदनं किं तु दुःख-ज्ञान-समुद्भवः
03458 न हि दुःख-आद्य्-असंवेद्यं पीडा-अनुग्रह-कारणम्
03459 भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा
03459 न तद्-आलम्बनं ज्ञानं न तदा एवं प्रयुज्यते
03460 भिन्ने ज्ञानस्य सर्वस्य तेन आलम्बन-वेदने
03460 अर्थ-सारूप्यम् आलम्ब आत्मा वित्तिः स्वयं स्फुटः
03461 अपि च अध्यक्षता अभावे धियः स्याल् लिङ्गतो गतिः
03461 तच् च अक्षम् अर्थो धीः पूर्वो मनस्कारो अपि वा भवेत्
03462 कार्य-कारण-सामग्र्याम् अस्यां सम्बन्धिना अपरम्
03462 सामर्थ्य-अदर्शनात् तत्र न इन्द्रियं व्यभिचारतः
03463 तथा अर्थो धी-मनस्कारौ ज्ञानं तौ च न सिध्यतः
03463 न अप्रसिद्धस्य लिङ्गत्वं व्यक्तिर् अर्थस्य चेन् मता
03464 लिङ्गं सा एव ननु ज्ञानं व्यक्तो अर्थो अनेन वर्णितः
03464 व्यक्ताव् अननुभूतायां तद्-व्यक्तत्व-अविनिश्चयात्
03465 अथ अर्थस्य एव कश्चित् स विशेषो व्यक्तिर् इष्यते
03465 न अनुत्पाद-व्ययवतो विशेषो अर्थस्य कश्चन
03466 तद् इष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते
03466 स च ज्ञातो अथवा अज्ञातो भवेज् ज्ञातस्य लिङ्गता
03467 यदि ज्ञाते अपरिच्छिन्ने ज्ञातो असाव् इति तत् कुतः
03467 ज्ञातत्वेन अपरिच्छिन्नम् अपि तद् गमकं कथम्
03468 अदृष्ट-दृष्टयो अन्येन द्रष्टा दृष्टा न हि क्वचित्
03468 विशेषः सो अन्य-दृष्टाव् अप्य् अस्ति इति स्यात् स्व-धी-गतिः
03469 तस्माद् अनुमितिर् बुद्धेः स्व-धर्म-निरपेक्षिणः
03469 केवलान् न अर्थ-धर्मात् कः स्व-धर्मः स्व-धियो परः
03470 यः प्रत्यक्षो धियो हेतुः तुल्य-कारण-जन्मनः
03470 तस्य भेदः कुतो बुद्धेर् व्यभिचार्य्-अन्यजश् च सः
03471 रूप-आदीन् पञ्च विषयानि इन्द्रियाण्य् उपलम्भनम्
03471 मुक्त्वा न कार्यम् अपरं तस्याः समुपलभ्यते
03472 तत्र अत्यक्षं द्वयं पञ्चस्व् अर्थेष्व् एको अपि न ईक्ष्यते
03472 रूप-दर्शनतो जातो यो अन्यथा व्यस्त-सम्भवः
03473 यद् एवम् अप्रतीतं तल् लिङ्गम् इत्य् अप्य् अलौकिकम्
03473 विद्यमाने अपि लिङ्गे तां तेन सार्धम् अपश्यतः
03474 कथं प्रतीति-लिङ्गं हि न अदृष्टस्य प्रकाशकम्
03474 तत एव अस्य लिङ्गात् प्राक् प्रसिद्धेर् उपवर्णने
03475 दृष्टान्त-अन्तर-साध्यत्वं तस्य अपि इत्य् अनवस्थितिः
03475 इत्य् अर्थस्य धियः सिद्धिः न अर्थात् तस्याः कथंचन
03476 तद्-अप्रसिद्धाव् अर्थस्य स्वयम् एव अप्रसिद्धितः
03476 प्रत्यक्षां च धियं दृष्ट्वा तस्याश् च इष्ट-अभिधा-आदिकम्
03477 पर-चित्त-अनुमानं च न स्याद् आत्मन्य् अदर्शनात्
03477 सम्बन्धस्य मनो-बुद्धाव् अर्थ-लिङ्ग-अप्रसिद्धितः
03478 प्रकाशिता कथं वा स्यात् बुद्धिर् बुद्ध्य्-अन्तरेण वः
03478 अप्रकाश-आत्मनोः सा स्याद् व्यङ्ग्यव्यञ्जकता कुतः
03479 विषयस्य कथं व्यक्तिः प्रकाशे रूप-संक्रमात्
03479 स च प्रकाशस् तद्-रूपः स्वयम् एव प्रकाशते
03480 तथा अभ्युपगमे बुद्धेः बुद्धौ बुद्धिः स्ववेदिका
03480 सिद्धा अन्यथा तुल्य-धर्मा विषयो अपि धिया सह
03481 इति प्रकाश-रूपा नः स्वयं धीः सम्प्रकाशते
03481 अन्यो अस्यां रूप-संक्रान्त्या प्रकाशः सम्प्रकाशते
03482 सादृश्ये अपि हि धीर् अन्या प्रकाश्या न तया मता
03482 स्वयं प्रकाशनाद् अर्थस् तद्-रूपेण प्रकाशते
03483 यथा प्रदीपयोर् दीप-घटयोश् च तद्-आश्रयः
03483 व्यङ्ग्यव्यञ्जकभावेन व्यवहारः प्रतन्यते
03484 विषय-इन्द्रिय-मात्रेण न दृष्टम् इति निश्चयः
03484 तस्माद् यतो अयं तस्य अपि वाच्यम् अन्यस्य दर्शनम्
03485 स्मृतेर् अप्य् आत्मवित् सिद्धा ज्ञानस्य अन्येन वेदने
03485 दीर्घ-आदि-ग्रहणं न स्याद् बहु-मात्र-अनवस्थितेः
03486 अवस्थिताव् अक्रमायां सकृद् आभासनान् मतौ
03486 वर्णः स्याद् अक्रमो दीर्घः क्रमवान् अक्रमां कथम्
03487 उपकुर्याद् असंश्लिष्यन् वर्ण-भागः परस्परम्
03487 अक्रमेण ग्रहाद् अन्त-क्रम-वद् धीश् च नो भवेत्
03488 आन्त्यं पूर्व-स्थिताद् ऊर्ध्वं वर्धमानो ध्वनिर् भवेत्
03489 स्थाने स्वयं न नश्येत् सा पश्चाद् अप्य् अविशेषतः
03489 दोषो अयं सकृद् उत्पन्न-अक्रम-वर्ण-स्थिताव् अपि
03490 सकृद् यत्न-उद्भवाद् व्यर्थः स्याद् यत्नश् च उत्तरोत्तरः
03490 व्यक्ताव् अप्य् एष वर्णानां दोषः समनुषज्यते
03491 अनेकया तद्-ग्रहणे या अन्त्या धीः सा अनुभूयते
03491 न दीर्घ-ग्राहिका सा च तन् न स्याद् दीर्घ-धी-स्मृतिः
03492 पृथक् पृथक् च बुद्धीनां संवित्तौ तद्-ध्वनिः श्रुतेः
03492 अविच्छिन्न-आभता न स्याद् घटनं च निराकृतम्
03493 विच्छिन्नं शृण्वतो अप्य् अस्य यद्य् अविच्छिन्न-विभ्रमः
03493 ह्रस्व-द्वयोच् चारणे अपि स्याद् अविच्छिन्न-विभ्रमः
03494 विच्छिन्ने दर्शने च अक्षाद् अविच्छिन्न-अधिरोपणम्
03494 न अक्षात् सर्व-अक्ष-बुद्धीनां वितथत्व-प्रसङ्गतः
03495 सर्व-अन्त्यो अपि हि वर्ण-आत्मा निमेष-तुलित-स्थितिः
03495 स च क्रमाद् अनेक-अणु-सम्बन्धेन नितिष्ठति
03496 एक-अण्व्-अत्यय-कालश् च कालो अल्पीयान् क्षणो मतः
03496 बुद्धिश् च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते
मूल पाठ: Pramāṇavārttikakārikā (without the svārthānumāna-chapter) · Edition: d Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2, 1971/72, 1-206. [The chapters II, III of our ordering correspond to the chapters I, II of Miyasaka's edition] · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0