प्रमाणवार्त्तिककारिका · भाग 120
एxप्लनतोर्य् रेमर्क्स्
अ नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द्
इन् थे बसिच् तेxत्स्. इन् थे चसे ओf थे स्व्, थे ह्ब् अन्द् थे व्न्, थे fइर्स्त् थ्रेए fइगुरेस्
इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले,
स्व्16026=स्व् 160,26; ह्ब्02314=ह्ब् 23,14; व्न्06110=व्न् 61,10). इन् थे चसे ओf थे
प्व् अन्द् थे न्ब्, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए
fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, प्व्02232=प्व्, थे
प्रमनसिद्धि-छप्तेर् व्.232; न्ब्03015=न्ब्, थे परर्थनुमन-छप्तेर् सुत्र 15.
इन् थे चसे ओf थे स्प्, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले,
स्प्00015=स्प्, व्.15).
3. इन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय्
इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे
दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत्
ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग्
एxचेप्तिओन्स्:
3.1. थे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो
wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
3.2. सुffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. बुत् सुffइxएस्
मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स्
सुछ् अस् अ नुमेरल्+ -ध।-विध।-प्रकर रेमैन् अल्सो उन्दिविदेद्.
3.3. चोम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त।-त्व ओर् -भव।-भुत fउन्दमेन्तल्ल्य्
रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: कर्यकरनभव।-भुत।-त.
3.4. चोम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे
wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति,
तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
3.5. सोमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो
उन्दिविदेद्. fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ,
परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय,
सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
4. थोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे सन्धि रुलेस् (fओर् एxअम्प्ले, -द्
धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf
उसिन्ग् थिस् दतबसे तो मके अन् क्wइच् इन्देx.
1. औगुस्त्. 1997 । त्सुकुब
मोतोइ ओनो
नोते:
थिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् इ मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf
एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. इ wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द्
पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे
fउतुरे.
ए-मैल्: ओनो@लोगोस्.त्सुकुब.अच्.ज्प्
02001 प्रमाणम् अविसंवादि ज्ञानम् अर्थक्रिया-स्थितिः
02001 अविसंवादनं शब्दे अप्य् अभिप्राय-निवेदनाद्
02002 वक्तृ-व्यापार-विषयो यो अर्थो बुद्धौ प्रकाशते
02002 प्रामाण्यं तत्र शब्दस्य न अर्थ-तत्त्व-निबन्धनम्
02003 गृहीत-ग्रहणान् न इष्टं सांवृतं धी-प्रमाणता
02003 प्रवृत्तेस् तत्-प्रधानत्वाद् हेय-उपादेय-वस्तुनि
02004 विषय-आकार-भेदाच् च धियो अधिगम-भेदतः
02004 भावाद् एव अस्य तद्-भावे स्वरूपस्य स्वतो गतिः
02005 प्रामाण्यं व्यवहारेण शास्त्रं मोह-निवर्तनम्
02005 अज्ञात-अर्थ-प्रकाशो वा स्वरूप-अधिगतेः परं
02006 प्राप्तं सामान्य-विज्ञानम् अविज्ञाते स्वलक्षणे
02006 यज् ज्ञानम् इत्य् अभिप्रायात् स्वलक्षण-विचारतः
02007 तद्वत् प्रमाणं भगवान् अभूत-विनिवृत्तये
02007 भूत-उक्तिः साधन-अपेक्षा ततो युक्ता प्रमाणता
02008 नित्यं प्रमाणं न एव अस्ति प्रामाण्याद् वस्तु-संगतेः
02008 ज्ञेय-अनित्यतया तस्या अध्रौव्यात् क्रम-जन्मनः
02009 नित्याद् उत्पत्ति-विश्लेषाद् अपेक्षाया अयोगतः
02009 कथंचिन् न उपकार्यत्वाद् अनित्ये अप्य् अप्रमाणता
02010 स्थित्वाप्रवृत्ति-संस्थान-विशेष-अर्थक्रिया-आदिषु
02010 इष्टसिद्धिर् असिद्धिर् वा दृष्टान्ते संशयो अथवा
02011 सिद्धं यादृग् अधिष्ठातृ-भाव-अभाव-अनुवृत्तिमत्
02011 संनिवेश-आदि तद् युक्तं अस्माद् यद् अनुमीयते
02012 वस्तु-भेदे प्रसिद्धस्य शब्द-सामान्याद् अभेदिनः
02012 न युक्ता अनुमितिः पाण्डु-द्रव्याद् इव हुताशने
02013 अन्यथा कुम्भकारेण मृद्-विकारस्य कस्यचिद्
02013 घट-आदेः करणात् सिध्येद् वल्मीकस्य अपि तत्-कृतिः
02014 साध्येन अनुगमात् कार्ये सामान्येन अपि साधने
02014 सम्बन्धि-भेदाद् भेद-उक्ति-दोषः कार्यसमो मतः
02015 जात्य्-अन्तरे प्रसिद्धस्य शब्द-सामान्य-दर्शनात्
02015 न युक्तं साधनं गोत्वाच् शब्द-आदीनां विषाणि-वत्
02016 विवक्षा-परतन्त्रत्वान् न शब्दाः सन्ति कुत्र वा
02016 तद्-भावाद् अर्थ-सिद्धौ तु सर्वं सर्वस्य सिध्यै
02017 एतेन कापिल-आदीनाम् अचैतन्य-आदि चिन्तितम्
02017 अनित्य-आदेश् च चैतन्यम् मरणात् त्वग्-अपोहतः
02018 वस्तु-स्वरूपे असिद्धे अयं न्यायः सिद्धे विशेषणम्
02018 अबाधकम् असिद्धाव् अप्य् आकाश-आश्रय-वद् ध्वनेः
02019 असिद्धाव् अपि शब्दस्य सिद्धे वस्तुनि सिध्यति
02019 औलूक्यस्य यथा बौद्धेन उक्तं मूर्त्य-आदि-साधनम्
02020 तस्य एव व्यभिचार-आदौ शब्दे अप्य् अव्यभिचारिणी
02020 दोष-वत् साधनं ज्ञेयं वस्तुनो वस्तु-सिद्धितः
02021 यथा तत् कारणं वस्तु तथा एव तद्-अकारणम्
02021 यदा त कारणं केन मतं न इष्टम् अकारणम्
02022 शास्त्र-ओषध-अभिसम्बन्धाच् चैत्रस्य व्रण-रोहणे
02022 असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते
02023 स्वभाव-भेदेन विना व्यापारो अपि न युज्यते
02023 नित्यस्य अव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम्
02024 येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने
02024 तद्-हेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः
02025 स्वभाव-परिणामेन हेतुर् अङ्कुर-जन्मनि
02025 भूम्य्-आदिस् तस्य संस्कारे तद्-विशेषस्य दर्शनात्
02026 यथा विशेषेण विना विषय-इन्द्रिय-संहतिः
02026 बुद्धेर् हेतुस् तथा इदं चेन् न तत्र अपि विशेषतः
02027 पृथक् पृथग् अशक्तानां स्वभाव-अतिशये असति
02027 संहताव् अप्य् असामर्थ्यं स्यात् सिद्धो अतिशयस् ततः
02028 तस्मात् पृथग् अशक्तेषु येषु सम्भाव्यते गुणः
02028 संहतौ हेतुता तेषां न ईश्वर-आदेर् अभेदतः
02029 प्रामाण्यं च परोक्ष-अर्थ-ज्ञानं तत् साधनस्य च
02029 अभावान् न अस्त्य् अनुष्ठानम् इति केचित् प्रचक्षते
02030 ज्ञानवान् मृग्यते कश्चित् तद्-उक्त-प्रतिपत्तये
02030 अज्ञा-उपदेश-करणे विप्रलम्भन-शङ्किभिः
02031 तस्माद् अनुष्ठेय-गतं ज्ञानम् अस्य विचार्यताम्
02031 कीट-संख्या-परिज्ञानं तस्य नः क्व उपयुज्यते
02032 हेय-उपादेय-तत्त्वस्य हान्य्-उपायस्य वेदकः
02032 यः प्रमाणम् असाव् इष्टो न तु सर्वस्य वेदकः
02033 दूरं पश्यतु वा मा वा तत्त्वम् इष्टं तु पश्यतु
02033 प्रमाणं दूर-दर्शी चेद् एत गृध्रान् उपास्महे
02034 साधनं करुणा-अभ्यासात् स बुद्धेर् देह-संश्रयात्
02034 असिद्धो अभ्यास इति चेन् न आश्रय-प्रतिषेधतः
02035 प्राण-अपान-इन्द्रिय-धियां देहाद् एव न केवलात्
02035 स्व-जाति-निरपेक्षाणां जन्म जन्म-परिग्रहे
02036 अतिप्रसङ्गाद् यद् दृष्टं प्रतिसन्धान-शक्तिमत्
02036 किम् आसीत् तस्य यन् न अस्ति पश्चाद् येन न सन्धिमत्
02037 न स कश्चित् पृथिव्य्-आदेर् अंशो यत्र न जन्तवः
02037 संस्वेदज-आद्या जायन्ते सर्वं बीज-आत्मकं ततः
02038 तत् स्व-जात्य्-अनपेक्षाणाम् अक्ष-आदीनां समुद्भवे
02038 परिणामो यथा एकस्य स्यात् सर्वस्य अविशेषतः
02039 प्रत्येकम् उपधाते अपि न इन्द्रियाणां मनो मतेः
02039 उपघातो अस्ति भङ्गे अस्यास् तेषां भङ्गश् च दृश्यते
02040 तस्मात् स्थित्य्-आश्रयो बुद्धेर् बुद्धिम् एव समाश्रितः
02040 कश्चिन् निमित्तम् अक्षाणां तस्माद् अक्षाणि बुद्धितः
02041 यादृश्य्-आक्षेपिका सा आसीत् पश्चाद् अप्य् अस्तु तादृशी
02041 तज्-ज्ञानैर् उपकार्यत्वाद् उक्तं काय-आश्रितं मनः
02042 यद्य् अप्य् अक्षैर् विना बुद्धिर् न तान्य् अपि तया विना
02042 तथा अप्य् अन्योन्य-हेतुत्वं ततो अप्य् अन्योन्य-हेतुके
02043 न अक्रमात् क्रमिणो भावो न अप्य् अपेक्षा अविशेषिणः
02043 क्रमाद् भावन्ती धीः कायात् क्रमं तस्य अपि शंसति
02044 प्रतिक्षणम् अपूर्वस्य पूर्वः पूर्वः क्षणो भवेत्
02044 तस्य हेतुर् अतो हेतुर् दृष्ट एव अस्तु सर्वदा
02045 चित्त-अन्तरस्य सन्धाने को विरोधो अन्त्य-चेतसः
02045 तद्वद् अप्य् अर्थतश् चित्तम् असन्धानं कुतो मतम्
02046 असिद्ध-अर्थः प्रमाणेन किं सिद्धान्तो अनुगम्यते
02046 हेतोर् वैकल्यतस् तच् चेत् किं तद् एव अत्र न उदितम्
02047 तद्-धी-वद् ग्रहण-प्राप्तेर् मनो-ज्ञानं न स इन्द्रियात्
02047 ज्ञान-उत्पादन-सामर्थ्य-भेदान् न सकलाद् अपि
02048 अचेतनत्वान् न अन्यस्माद् हेत्व्-अभेदात् सहस्थितिः
02048 अक्ष-वद् रूप-रस-वद् अर्थ-द्वारेण विक्रिया
02049 सत्ता-उपकारिणी यस्य नित्यं तद्-अनुबन्धतः
02049 स हेतुः सप्तमी तस्माद् उत्पादाद् इति च उच्यते
02050 अस्तु उपकारको वा अपि कदाचिच् चित्त-सन्ततेः
02050 वह्न्य्-आदि-वद् घट-आदीनां विनिवृत्तिर् न तावता
02051 अनिवृत्ति-प्रसङ्गश् च देहे तिष्ठति चेतसः
02051 तद्-भावे भावाद् वश्यत्वात् प्राण-अपानौ ततो न तत्
02052 प्रेरण-आकर्षणे वायोः प्रयत्नेन विना कुतः
02052 निर्ह्रास-अतिशय-आपत्तिर् निर्ह्रास-अतिशयात् तयोः
02053 तुल्यः प्रसङ्गो अपि तयोर् न तुल्यं चित्त-कारणे
02053 स्थित्य्-आवेधकम् अन्यच् च यतः कारणम् इष्यते
02054 न दोषैर् विगुणो देहो हेतुर् वर्त्य्-आदि-वद् यदि
02054 मृते शमीकृते दोषे पुनर् उज्जीवनं भवेत्
02055 निवृत्ते अप्य् अनले काष्ठ-विकार-अविनिवृत्ति-वत्
02055 तस्य अनिवृत्तिर् इति चेन् न चिकित्सा-प्रयोगतः
02056 अपुनर्भावतः किंचिद् विकार-जननं क्वचित्
02056 किंचित् विपर्ययाद् अग्निर् यथा काष्ठ-सुवर्णयोः
02057 आद्यस्य अन्यो अप्य् असंहार्यः प्रत्यानेयस् तु यत् कृतः
02057 विकारः स्यात् पुनर्भावः तस्य हेम्नि खरत्व-वत्
02058 दुर्लभत्वात् समाधातुर् असाध्यं किंचिद् ईरितम्
02058 आयुः क्षयाद् वा दोषे तु केवले न अस्त्य् असाध्यता
02059 मृते विष-आदि-संहारात् तद् दंशच् छेदतो अपि वा
02059 विकार-हेतोर् विगमे स न उच्छ्वसिति किं पुनः
02060 उपादान-अविकारेण न उपादेयस्य विक्रिया
02060 कर्तुं शक्य-अविकारेण मृदः कुण्ड-आदिनो यथा
02061 अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते
02061 उपादानं न तत् तस्य युक्तं गो-गवय-आदिवत्
02062 चेतः-शरीरयोर् एवं तद्-हेतोः कार्य-जन्मनः
02062 सहकारात् सहस्थानम् अग्नि-ताम्र-द्रवत्व-वत्
02063 अनाश्रयात् सद्-असतोर् न आश्रयः स्थिति-कारणम्
02063 सतश् चेद् आश्रयो न अस्याः स्थातुर् अव्यतिरेकतः
02064 व्यतिरेके अपि तद्-हेतुस् तेन भावस्य किं कृतम्
02064 अविनाश-प्रसङ्गः स नाश-हेतोर् मतो यदि
02065 तुल्यः प्रसङ्गस् तत्र अपि किं पुनः स्थिति-हेतुना
02065 आनाशक-आगमात् स्थानं ततश् चेद् वस्तु-धर्मता
02066 नाशस्य सत्य-बाधो असाव् इति किं स्थिति-हेतुना
02066 यथा जल-आदेर् आधार इति चेत् तुल्यम् अत्र च
02067 प्रतिक्षण-विनाशे हि भावानां भाव-सन्ततेः
02067 तथा उत्पत्तेः सहेतुत्वाद् आश्रयो अयुक्तम् अन्यथा
02068 स्याद् आधारो जल-आदीनां गमन-प्रतिबन्धतः
02068 अगतीनां किम् आधारैर् गुण-सामान्य-कर्मणाम्
02069 एतेन समवायश् च समवायी च कारणम्
02069 व्यवस्थितत्वं जात्य्-आदेर्न् निरस्तम् अनपाश्रयात्
02070 परतो भाव-नाशश् चेत् तस्य किं स्थिति-हेतुना
02070 स विनश्येद् विना अप्य् अन्यैर्न् न शक्ताः स्थिति-हेतवः
02071 स्थितिमान् साश्रयः सर्वः सर्व-उत्पत्तौ च साश्रयः
02071 तस्मात् सर्वस्य भावस्य न विनाशः कदाचन
02072 स्वयं विनश्वर-आत्मा चेत् तस्य कः स्थापकः परः
02072 स्वयं न नश्वर-आत्मा चेत् तस्य कः स्थापकः परः
02073 बुद्धि-व्यापार-भेदेन निर्ह्रास-अतिशयाव् अपि
02073 प्रज्ञा-आदेर् भवतो देह-निर्ह्रास-अतिशयौ विना
02074 इदं दीप-प्रभा-आदीनाम् आश्रितानां न विद्यते
02074 स्यात् ततो अपि विशेषो अस्य न चित्ते अनुपकारिणि
02075 राग-आदि-वृद्धिः पुष्ट्य्-आदेः कदाचित् सुख-दुःखजा
02075 तयोश् च धातु-साम्य-आदेर् अन्तरर्थस्य संनिधेः
02076 एतेन संनिपात-आदेः स्मृति-भ्रंश-आदयो गताः
02076 विकारयति धीर् एव अभ्यन्तरर्थ-विशेषजा
02077 शार्दूल-शोणित-आदीनां सन्तान-अतिशये क्वचित्
02077 मोह-आदयः सम्भवन्ति श्रवण-ईक्षणतो यथा
02078 तस्मात् स्वस्य एव संस्कारं नियमेन अनुवर्तते
02079 यथा श्रुत-आदि-संस्कारः कृतश् चेतसि चेतसि
02079 कालेन व्यज्यते अभेदात् स्याद् देहे अपि ततो गुणः
02080 अनन्य-सत्त्व-नेयस्य हीन-स्थान-परिग्रहः
02080 आत्म-स्नेहवतो दुःख-सुख-त्याग-आप्ति-वाञ्छया
02081 दुःखे विपर्यास-मतिस् तृष्णा च आबन्ध-कारणम्
02081 जन्मिनो यस्य ते न स्तो न स जन्म अधिगच्छति
02082 गत्य्-आगती न दृष्टे चेद् इन्द्रियाणाम् अपाटवात्
02082 अदृष्टिर् मन्द-नेत्रस्य तनु-धूम-आगतिर् यथा
02083 तनुत्वान् मूर्तम् अपि तु किंचित् क्वचिद् अशक्तिमत्
02083 जल-वत् सूत-वद् हेम्नि न अदृष्टेर् असद् एव वा
02084 पाण्य्-आदि-कम्पे सर्वस्य कम्प-प्राप्तेर् विरोधिनः
02084 एकस्मिन् कर्मणो अयोगात् स्यात् पृथक् सिद्धिर् अन्यथा
02085 एकस्य च आवृत्तौ सर्वस्य आवृत्तिः स्याद् अनावृत्तौ
02085 दृश्येत रक्ते च एकस्मिन् रागो अरक्तस्य वा गतिः
02086 न अस्त्य् एक-समुदायो अस्माद् अनेकत्वे अपि पूर्ववत्
02086 अविशेषाद् अणुत्वाच् च न गतिश् चेन् न सिध्यति
02087 अविशेषो विशिष्टानाम् ऐन्द्रियत्वम् अतो अनणुः
02087 एतेन आवरण-आदीनाम् अभावश् च निराकृतः
02088 कथं वा सूत-हेम-आदि-मिश्रं तप्त-उपल-आदि वा
02088 दृश्यं पृथग् अशक्तानाम् अक्ष-आदीनां गतिः कथम्
02089 संयोगाच् चेत् समानो अत्र प्रसङ्गो हेम-सूतयोः
02089 दृश्यः संयोग इति चेत् कुतो अदृष्ट-आश्रये गतिः
02090 रस-रूप-आदि-योगश् च विरुद्ध उपचारतः
02090 इष्टस्। चेद् बुद्धि-भेदो अस्तु पङ्क्तिर् दीर्घा इति वा कथम्
02091 संख्या-संयोग-कर्म-आदेर् अपि तद्वत् स्वरूपतः
02091 अभिलापाच् च भेदेन रूपं बुद्धौ न भासते
02092 शब्द-ज्ञाने विकल्पेन वस्तु-भेद-अनुसारिणा
02092 गुण-आदिष्व् इव कल्प्य-अर्थे नष्ट-अजातेषु वा यथा
02093 मतो यद्य् उपचारो अत्र स इष्टो यन् निबन्धनः
02093 स एव सर्व-भावेषु हेतुः किं न इष्यते तयोः
02094 उपचारो न सर्वत्र यदि भिन्न-विशेषणम्
02094 मुख्यम् इत्य् एव च कुतो अभिन्ने भिन्न-अर्थता इति चेत्
02095 अनर्थ-अन्तर-हेतुत्वे अप्य् अपर्यायः सित-आदिषु
02095 संख्या-आदि-योगिनः शब्दास् तत्र अप्य् अर्थ-अन्तरं यदि
02096 गुण-द्रव्य-अविशेषः स्याद् भिन्नो व्यावृत्ति-भेदतः
02096 स्याद् अनर्थ-अन्तर-अर्थत्वे अप्य् अकर्म-अद्रव्य-शब्द-वत्
02097 व्यतिरेकी इव यच् च अपि सूच्यते भाव-वाचिभिः
02097 संख्या-आदि-तद्वतः शब्दैस् तद्-धर्म-अन्तर-भेदकम्
02098 श्रुतिस् तन्-मात्र-जिज्ञासोर् न वा क्षिप्त-अखिला परा
02098 भिन्नं धर्मम् इव आचष्टे योगो अङ्गुल्या इति क्वचित्
02099 युक्ता अङ्गुली इति सर्वेषाम् आक्षेपाद् धर्मि-वाचिनी
02099 ख्यात-एक-अर्थ-अभिधाने अपि तथा विहित-संस्थितिः
02100 रूप-आदि-शक्ति-भेदानाम् अनाक्षेपेण वर्तते
02100 तत्-समान-फला अहेतु-व्यवच्छेदे घट-श्रुतिः
02101 अतो न रूपं घट इत्य् एक-अधिकरणा श्रुतिः
02101 भेदो अयम् ईदृशो जाति-समुदाय-अभिदायिनोः
02102 रूप-आदयो घटस्य इति तत्-सामान्य-उपसर्जनाः
02102 तच्-शक्ति-भेदाः ख्याप्यन्ते वाच्यो अन्यो अप्य् अनया दिशा
02103 हेतुत्वे च समस्तानाम् एक-अङ्ग-विकले अपि न
02103 प्रत्येकम् अपि सामर्थ्ये युगपद् बहु-सम्भवः
02104 न अनेकत्वस्य तुल्यत्वात् प्राण-अपानौ नियामकौ
02104 एकत्वे अपि बहु-व्यक्तिस् तद्-हेतोर् नित्य-संनिधेः
02105 न अनेक-हेतुर् इति चेन् न अविशेषात् क्रमाद् अपि
02105 न एक-प्राणे अप्य् अनेक-अर्थ-ग्रहणान् नियमस् ततः
02106 एकया अनेक-विज्ञाने बुद्ध्या अस्तु सकृद् एव तत्
02106 अविरोधात् क्रमेण अपि मा भूत् तद्-अविशेषतः
02107 बहवः क्षणिकाः प्राणा अस्वजातीयकाः किल
02107 तादृशाम् एव चित्तानां कल्प्यन्ते यदि कारणम्
02108 क्रमवन्तः कथं ते स्युः क्रम-वद् हेतुना विना
02108 पूर्व-स्व-जाति-हेतुत्वे न स्याद् आद्यस्य सम्भवः
02109 तद् हेतुस् तादृशो न अस्ति सति वा अनेकता ध्रुवम्
02109 प्राणानां भिन्न-देशत्वात् सकृज् जन्म धियामतः
02110 यद्य् एक-कालिको अनेको अप्य् एक-चैतन्य-कारणम्
02110 एकस्य अपि न वैकल्ये स्यान् मन्द-श्वसित-आदिषु
02111 अथ हेतुर् यथाभावं ज्ञाने अपि स्याद् विशिष्टता
02111 न हि तत् तस्य कार्यं यद्य् अस्य भेदान् न भिद्यते
02112 विज्ञानं शक्ति-नियमाद् एकम् एकस्य कारणम्
02112 अन्य-अर्थ-असक्ति-विगुणे ज्ञाने अनर्थ-अन्तर-ग्रहात्
02113 शरीरात् सकृद् उत्पन्ना धीः स्व-जात्या नियम्यते
02113 परतश् चेत् समर्थस्य देहस्य विरतिः कुतः
02114 अनाश्रयान् निवृत्ते स्याच् शरीरे चेतसः स्थितिः
02114 केवलस्य इति चेच् चित्त-सन्तानं स्थिति-कारणम्
02115 तद्-हेतु-वृत्ति-लाभाय न अङ्गतां यदि गच्छति
02115 हेतुर् देह-अन्तर-उत्पत्तौ पञ्च-आयतनम् ऐहिकम्
02116 तद्-अङ्ग-भाव-हेतुत्व-निषेधे अनुपलम्भनम्
02116 अनिश्चयकरं प्रोक्तम् इन्द्रिय-आद्य् अपि शेषवत्
02117 दृष्टा च शक्तिः पूर्वेषाम् इन्द्रियाणां स्व-जातिषु
02117 विकार-दर्शनात् सिद्धम् अपरापर-जन्म च
02118 शरीराद् यदि तज्-जन्म प्रसङ्गः पूर्ववद् भवेत्
02118 चित्ताच् चेत् तत एव अस्तु जन्म देह-अन्तरस्य च
02119 तस्मान् न हेतु-वैकल्यात् सर्वेषाम् अन्त्य-चेतसाम्
02119 असन्धिर् ईदृशं तेन शेषवत् साधनं मतम्
02120 अभ्यासेन विशेषे अपि लङ्घन-उदक-ताप-वत्
02120 स्वभाव-अतिक्रमो मा भूद् इति चेद् आहितः स चेत्
02121 पुनर् यत्नम् अपेक्षेत यदि स्यात् अस्थिर-आश्रयः
02121 विशेषो न एव बर्धेत स्वभावश् च न तादृशः
02122 तत्र उपयुक्त-शक्तीनां विशेष-अनुत्तरान् प्रति
02122 साधनानाम् असामर्थ्यान् नित्यं च अनाश्रय-स्थितेः
02123 विशेषस्य अस्वभावत्वाद् वृद्धाव् अप्य् आहितो यदा
02123 न अपेक्षेत पुनर् यत्नं यत्नो अन्यः स्याद् विशेष-कृत्
02124 काष्ठ-पारद-हेम-आदेर् अग्न्य्-आदेर् इव चेतसि
02124 अभ्यासजाः प्रवर्तन्ते स्व-रसेन कृपा-आदयः
02125 तस्मात् स तेषाम् उत्पन्नः स्वभावो जायते गुणः
02125 तद्-उत्तरोत्तरो यत्नो विशेषस्य विधायकः
02126 यस्माच् च तुल्य-जातीय-पूर्व-बीज-प्रवृद्धयः
02126 कृपा-आदि-बुद्धयस् तासां सत्य् अभ्यासे कुतः स्थितिः
02127 न च एवं लङ्घनाद् एव लङ्घनं बल-यत्नयोः
02127 तद्-हेत्वोः स्थित-शक्तित्वाल् लङ्घनस्य स्थित-आत्मता
02128 तस्य आदौ देह-वैगुण्यात् पश्चाद्-वद् अविलङ्घनं
02128 शनैर् यत्नेन वैगुण्ये निरस्ते स्व-बले स्थितिः
02129 कृपा स्व-बीज-प्रभवा स्व-बीज-प्रभवैर् न चेत्
02129 विपक्षैर् बाध्यते चेत् ते प्रयात्य् अत्यन्त-सात्मताम्
02130 तथा हि मूलम् अभ्यासः पूर्वः पूर्वः परस्य तु
02130 कृपा-वैराग्य-बोध-आदेश् चित्त-धर्मस्य पाटवे
02131 कृपा-आत्मकत्वम् अभ्यासाद् घृणा-वैराग्य-राग-वत्
02131 निष्पन्न-करुणा-उत्कर्ष-पर-दुःख-क्षमेर् इतः
02132 दयावान् दुःख-हान-अर्थम् उपायेष्व् अभियुज्यते
02132 परोक्ष-उपेय-तद्-हेतोस् तद्-आख्यानं हि दुष्करम्
02133 युक्त्य्-आगमाभ्यां विमृशन् दुःख-हेतुं परीक्षते
02133 तस्य अनित्य-आदि-रूपां च दुःखस्य एव विशेषणैः
02134 यतस् तथा स्थिते हेतौ निवृत्तिर् न इति पश्यति
02134 फलस्य हेतोर् हान-अर्थं तद्-विपक्षं परीक्षते
02135 साध्यते तद्-विपक्षो अपि हेतो रूप-अवबोधतः
02135 आत्म-आत्मीय-ग्रह-कृतः स्नेहः संस्कार-गोचरः
02136 हेतुर् विरोधी नैरात्म्य-दर्शनं तस्य बाधकम्
02136 बहुशो बहुधा उपायं कालेन बहुना अस्य च
02137 गच्छन्त्य् अभ्यस्यतस् तत्र गुण-दोषाः प्रकाशताम्
02137 बुद्धेश् च पाटवाद् हेतोर् वासनातः प्रहीयते
02138 पदार्थ-वृत्तेः खङ्ग-आदेर् विशेषो अयं महा-मुनेः
02138 उपाय-अभ्यास एव अयं तादर्थ्याच् शासनं मतम्
02139 निष्पत्तेः प्रथमं भावाद् हेतुर् उक्तम् इदं द्वयम्
02139 हेतोः प्रहाणं त्रि-गुणं सुगतत्वम् अनिश्रयात्
02140 दुःखस्य शस्तं नैरात्म्य-दृष्टेस् तद् युक्तितो अपि वा
02140 पुनर् आवृत्तिर् इत्य् उक्तौ जन्म-दोष-समुद्भवौ
02141 आत्म-दर्शन-बीजस्य हानाद् अपुनरागमः
02141 तद्-भूत-भिन्न-आत्मतया अशेषम् अक्लेश-निर्जरम्
02142 काय-वाग्-बुद्धि-वैगुण्यं मार्ग-उक्त्य्-अपटुता अपि वा
02142 अशेष-हानम् अभ्यासाद् उक्त्य्-आदेर् दोष-संक्षयः
02143 न इत्य् एके व्यतिरेको अस्य सन्दिग्ध-अव्यभिचार्य् अतः
02143 अक्षयित्वं च दोषाणां नित्यत्वाद् अनुपायतः
02144 उपायस्य अपरिज्ञानाद् इति वा परिकल्पयेत्
02144 हेतुमत्त्वाद् विरुद्धस्य हेतोर् अभ्यासतः क्षयात्
02145 हेतु-स्वभाव-ज्ञानेन तज्-ज्ञानम् अपि साध्यते
02145 तायः स्व-दृष्ट-मार्ग-उक्तिर् वैफल्याद् वक्ति न अनृतम्
02146 दयालुत्वात् परार्थं च सर्व-आरम्भ-अभियोगतः
02146 ततः प्रमाणं तायो वा चतुःसत्य-प्रकाशनम्
02147 दुःखं संसारिणः स्कन्धा राग-आदेः पाटव-ईक्षणात्
02147 अभ्यासान् न यदृच्छातो अहेतोर् जन्म-विरोधतः
02148 व्यभिचारान् न वात-आदि-धर्मः प्रकृति-संकरात्
02148 अदोषश् चेत् तद्-अन्यो अपि धर्मः किं तस्य न ईक्ष्यते
02149 न सर्व-धर्मः सर्वेषां सम-राग-प्रसङ्गतः
02149 रूप-आदि-वद् अदोषश् चेत् तुल्यं तत्र अपि चोदनम्
02150 आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम्
02150 विशेषे अपि च दोषानाम् अविशेषाद् असिद्धता
02151 न विकाराद् विकारेण सर्वेषां न च सर्वजाः
02151 कारणे वर्धमाने च कार्य-हानिर्न् न युज्यते
02152 ताप-आदिष्व् इव राग-आदेर् विकारो अपि सुख-आदि-जः
02152 वैषम्यजेन दुःखेन रागस्य अनुद्भवो यदि
02153 वाच्यं केन उद्भवः साम्यान् मद-वृद्धिः स्मरस् ततः
02153 रागी विषम् अदोषो अपि दृष्टः साम्ये अपि न अपरः
02154 क्षयाद् असृक्-स्रुतो अप्य् अन्ये न एक-स्त्री-नियतो मदः
02154 ते न एकस्यां न तीव्रः स्यात् अङ्ग-रूप-आद्य् अपि इति चेत्
02155 न सर्वेषाम् अनेकान्तान् न च अप्य् अनियतो भवेत्
02155 अगुण-ग्राहिणो अपि स्याद् अङ्गं सो अपि गुण-ग्रहः
02156 यदि सर्वा गुण-ग्राही स्याद् हेतोर् अविशेषतः
02156 यद् अवस्थो मतो रागी न द्वेषी स्याच् च तादृशः
02157 तयोर् असमरूपत्वान् नियमश् च अत्र न ईक्ष्यते
02157 सजाति-वासना-भेद-प्रतिबद्ध-प्रवृत्तयः
02158 यस्य राग-आदयस् तस्य न एते दोषाः प्रसङ्गिनः
02158 एतेन भूत-धर्मत्वं निषिद्धं निश्रयस्य च
02159 निषेधान् न पृथिव्य्-आदि-निश्रिता धवला-आदयः
02159 तद्-उपादाय शब्दश् च हेत्व्-अर्थः स्वाश्रयेण च
02160 अविनिर्भाग-वर्तित्वाद् आश्रया अयुक्तम् अन्यथा
02160 मद-आदि-शक्तेर् इव चेद् विनिर्भागो न वस्तुनः
02161 शक्तिर् अर्थ-अन्तरं वस्तु नश्येन् न आश्रितम् आश्रये
02161 तिष्ठत्य् अविकले याति तत्-तुल्यं चेन् न भेदतः
02162 भूत-चेतनयोर् भिन्न-प्रतिभास-अवबोधतः
02162 आविकारं च कायस्य तुल्य-रूपं भवेन् मनः
02163 रूप-आदि-वद् विकल्पस्य का एव अर्थ-परतन्त्रता
02163 अनपेक्ष्य यदा कायं वासना-बोध-कारणम्
02164 ज्ञानं स्यात् कस्यचित् किंचित् कदाचित् तेन किंचन
02164 अविज्ञानस्य विज्ञान-अनुपादानाच् च सिध्यति
02165 विज्ञान-शक्ति-सम्बन्धाद् इष्टश् चेत् सर्व-वस्तुनः
02165 एतत् सांख्य-पशोः को अन्यः सलज्जो वक्तुम् ईहते
02166 अदृष्ट-पूर्वम् अस्ति इति तृण-अग्रे करिणां शतम्
02166 यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते
02167 शतधा विप्रकीर्णे अपि हेतौ तद् विद्यते कथम्
02167 राग-आद्य्-अनियमो अपूर्व-प्रादुर्भावे प्रसज्यते
02168 भूत-आत्मता-अनतिक्रान्तेः सर्वो राग-आदिमान् यदि
02168 सर्वः समान-रागः स्याद् भूत-अतिशयतो न चेत्
02169 भूतानां प्राणिता-भेदे अप्य् अयं भेदो यद् आश्रयः
02169 तन् निर्ह्रास-अतिशय-वत् तद्-भावात् तानि हापयेत्
02170 न चेद् भेदे अपि राग-आदि-हेतु-तुल्य-आत्मता-अक्षयः
02170 सर्वत्र रागः सदृशः स्याद् हेतोः सदृशा-आत्मनः
02171 न हि गो-प्रत्ययस्य अस्ति समान-अर्थ-भुवः क्वचित्
02171 तारतम्यं पृथिव्य्-आदौ प्राणिता-आदेर् इह अपि वा
02172 औष्ण्यस्य तारतम्ये अपि न अनुष्णो अग्निः कदाचन
02172 तथा इह अपि इति चेन् न अग्नेर् औष्ण्याद् भेद-निषेधतः
02173 तारतम्य-अनुभविनो यस्य अन्यस्य सतो गुणाः
02173 ते क्वचित् प्रतिहन्यन्ते तद्-भेदे धवला-आदि-वत्
02174 रूप-आदि-वन् न नियमस् तेषां भूत-अविभागतः
02174 तत्-तुल्यं चेन् न राग-आदेः सह-उत्पत्ति-प्रसङ्गतः
02175 विकल्प्य-विषयत्वाच् च विषया न नियामकाः
02175 सभाग-हेतु-विरहाद् राग-आदेर् नियमो न वा
02176 सर्वदा सर्व-बुद्धीनां जन्म वा हेतु-संनिधेः
02176 कदाचिद् उपलम्भात् तद् अध्रुवं दोष-निश्रयात्
02177 दुःखं हेतु-वशत्वाच् च न च आत्मा न अप्य् अधिष्ठितम्
02177 न अकारणम् अधिष्ठाता नित्यं वा जनकं कथम्
02178 तस्माद् अनेकम् एकस्माद् भिन्न-कालं न जायते
02178 कार्य-अनुत्पादतो अन्येषु संगतेष्व् अपि हेतुषु
02179 हेत्व्-अन्तर-अनुमानं स्यान् न एतन् नित्येषु विद्यते
02179 कादाचित्कतया सिद्धा दुःखस्य अस्य सहेतुता
02180 नित्यं सत्त्वम् असत्त्वं वा अहेतोर् अन्य-अनपेक्षणात्
02180 तैक्ष्ण्य-आदीनां यथा न अस्ति कारणं कण्डक-आदिषु
02181 तथा अकारणम् एतत् स्याद् इति केचित् प्रचक्षते
02181 सत्य् एव यस्मिन् यज् जन्म विकारे वा अपि विक्रिया
02182 तत् तस्य कारणं प्राहुस् तत् तेषाम् अपि विद्यते
02182 स्पर्शस्य रूप-हेतुत्वाद् दर्शने अस्ति निमित्तता
02183 नित्यानां प्रतिषेधेन न ईश्वर-आदेश् च सम्भवः
02183 असामर्थ्याद् अतो हेतुर् भव-वाञ्छा-परिग्रहः
02184 यस्माद् देश-विशेषस्य तत् प्राप्त्य्-आशाकृतो नृणाम्
02184 सा भव-इच्छा आप्त्य्-अनाप्ति-इच्छोः प्रवृत्तिः सुख-दुःखयोः
02185 यतो अपि प्राणिनः काम-विभव-इच्छे च ते मते
02185 सर्वत्र च आत्म-स्नेहस्य हेतुत्वात् सम्प्रवर्तते
02186 असुखे सुख-संज्ञस्य तस्मात् तृष्णा भव-आश्रयः
02186 विरक्त-जन्म-अदृष्टेर् इत्य् आचार्याः सम्प्रचक्षते
02187 अदेह-राग-अदृष्टेश् च देहाद् राग-समुद्भवः
02187 निमित्त-उपगमाद् इष्टम् उपादानं तु वार्यते
02188 इमान् तु युक्तिमन् विच्छन् बाधते स्व-मतं स्वयम्
02188 जन्मना सहभावश् चेत् जातानां राग-दर्शनात्
02189 सभाग-जातेः प्राक् सिद्धिः कारणत्वे अपि न उदितम्
02189 अज्ञानम् उक्ता तृष्णा एव सन्तान-प्रेरणाद् भवे
02190 आनन्तर्यान् न कर्म अपि सति तस्मिन्न् असम्भवात्
02190 तद् अनात्यन्तिकं हेतोः प्रतिबन्ध-आदि-सम्भवात्
02191 संसारित्वाद् अनिर्मोक्षो न इष्टत्वाद् अप्रसिद्धितः
02191 यावद् आत्मनि न प्रेम्णो हानिः स परितस्यति
02192 तावद् दुःखितम् आरोप्य न च स्वस्थो अवतिष्ठते
02192 मिथ्या-अध्यारोप-हान-अर्थं यत्नो असत्य् अपि मोक्तरि
02193 अवस्था-वीत-रागाणां दयया कर्मणा अपि वा
02193 आक्षिप्ते अविनिवृत्ति-इष्टेः सहकारि-क्षयाद् अलम्
02194 न आक्षेप्तुम् अपरं कर्म भव-तृष्णा-विलङ्घिनाम्
02194 दुःख-ज्ञाने अविरुद्धस्य पूर्व-संस्कार-वाहिनी
02195 वस्तु-धर्म-उदय-उत्पत्तिर् न सा सत्त्व-अनुरोधिनी
02195 आत्म-अन्तर-समारोपाद् रागो धर्मे अतद्-आत्मके
02196 दुःख-सन्तान-संस्पर्श-मात्रेण एव दया-उदयः
02196 मोहश् च मूलं दोषाणां स च सत्त्व-ग्रहो विना
02197 तेन आद्य-हेतौ न द्वेषो न दोषो अतः कृपा मता
02197 न अमुक्तिः पूर्व-संस्कार-क्षये अन्य-अप्रतिसन्धितः
02198 अक्षीण-शक्तिः संस्कारो येषां तिष्ठन्ति ते अनघाः
02198 मन्दत्वात् करुणायाश् च न यत्नः स्थापने महान्
02199 तिष्ठन्त्य् एव पर-अधीनाः येषां तु महती कृपा
02199 सत्कायदृष्टेर् विगमाद् आद्य एव अभवो भवेत्
02200 मार्गे चेत् सहज-अहानेर् न हानौ वा भवः कुतः
02200 सुखी भवे अयं दुःखी वा मा भूवम् इति तृष्यतः
02201 या एव अहम् इति धीः सा एव सहजं सत्त्व-दर्शनम्
02201 न ह्य् अपश्यन्न् अहम् इति स्निह्यत्य् आत्मनि कश्चन
02202 न च आत्मनि विना प्रेम्णा सुख-कामो अभिधावति
02202 दुःख-उत्पादस्य हेतुत्वं बन्धो नित्यस्य तत् कुतः
02203 अदुःख-उत्पाद-हेतुत्वं मोक्षो नित्यस्य तत् कुतः
02203 अनित्यत्वेन यो अवाच्यः स हेतुर्न् न हि कस्यचित्
02204 बन्ध-मोक्षाव् अवाच्ये अपि न विद्येते कथं च न
02204 नित्यं तम् आहुर् विद्वांसो यः स्वभावो न नश्यति
02205 त्यक्त्वा इमां ह्रेपणीं दृष्टिम् अतो नित्यः स उच्यताम्
02205 उक्तो मार्गस्य तद् अभ्यासाद् आश्रयः परिवर्तते
02206 सात्म्ये अपि दोष-भावश् चेन् मार्गवन् न अविभुत्वतः
02206 विषय-ग्रहणं धर्मो विज्ञानस्य यथा अस्ति सः
02207 गृह्यते सो अस्य जनको विद्यमान-आत्मना इति च
02207 एषा प्रकृतिर् अस्यास् तन् निमित्त-अन्तरतः स्खलत्
02208 व्यावृत्तौ प्रत्यय-अपेक्षम् अदृढं सर्प-बुद्धि-वत्
02208 प्रभास्वरम् इदं चित्तं प्रकृत्या आगन्तवो मलाः
02209 तत्-प्राग् अप्य् असमर्थानां पश्चाच् शक्तिः क्व तन्मये
02209 न अलं प्ररोढुम् अत्यन्तं स्यन्दिन्याम् अग्नि-वद् भुवि
02210 बाधक-उत्पत्ति-सामर्थ्य-गर्भे शक्तो अपि वस्तुनि
02210 निरुपद्रव-भूत-अर्थ-स्वभावस्य विपर्ययैः
02211 न बाधा यत्नवत्त्वे अपि बुद्धेस् तत् पक्ष-पाततः
02211 आत्म-ग्रह-एक-योनित्वात् कार्यकारणभावतः
02212 राग-प्रतिघयोर् बाधा भेदे अपि न परस्परम्
02212 मोह-अविरोधान् मैत्र्य्-आदेर् न अत्यन्तं दोष-निग्रहः
02213 तन्-मूलाश् च मलाः सर्वे स च सत्कायदर्शनम्
02213 विद्यायाः प्रतिपक्षत्वाच् चैत्तत्वेन उपलब्धितः
02214 मिथ्या-उपलब्धिर् अज्ञान-युक्तेस् च अन्यद् अयुक्तिमत्
02214 व्याख्येयो अत्र विरोधो यस् तद्-विरोधाच् च तन्मयैः
02215 विरोधः शून्यता-दृष्टेः सर्व-दोषैः प्रसिध्यति
02215 न अक्षयः प्राणि-धर्मत्वाद् रूप-आदि-वद् असिद्धितः
02216 सम्बन्धे प्रतिपक्षस्य त्याग-संसर्जनाद् अपि
02216 न काठिन्य-वद् उत्पत्तिः पुनर् दोष-विरोधिनः
02217 स आत्मत्वेन अनपायत्वाद् अनेकान्ताच् च भस्म-वत्
02217 यः पश्यत्य् आत्मानं तत्र अहम् इति शाश्वतः स्नेहः
02218 स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस् तिरस्कुरुते
02218 गुण-दर्शी परितृष्यन् मम इति तत् साधनान्य् उपादत्ते
02219 तेन आत्म-अभिनिवेशो यावत् तावत् स संसारे
02219 आत्मनि सति पर-संज्ञा स्व-पर-विभागात् परिग्रह-द्वेषौ
02220 अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते
02220 नियमेन आत्मनि स्निह्यंस् तदीये न विरज्यते
02221 न च अस्त्य् आत्मनि निर्दोषे स्नेह-अपगम-कारणम्
02221 स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम्
02222 अदूषिते अस्य विषये न शक्यं तस्य वर्जनम्
02222 प्रहाणिर् इच्छा-द्वेष-आदेर् गुण-दोष-अनुबन्धिनः
02223 तयोर् अदृष्टिर् विषये न तु बाह्येषु यः क्रमः
02223 न हि स्नेह-गुणात् स्नेहः किं त्व् अर्थ-गुण-दर्शनात्
02224 कारणे अविकले तस्मिन् कार्यं केन निवार्यते
02224 का वा सदोषता दृष्टा स्नेहे दुःख-समाश्रयः
02225 तथा अपि न विरागो अत्र स्वत्व-दृष्टेर् यथा आत्मनि
02225 न तैर् विना दुःख-हेतुर् आत्मा चेत् ते अपि तादृशाः
02226 निर्दोषं द्वयम् अप्य् एवं वैराग्यं न द्वयोस् ततः
02226 दुःख-भावनया अस्याच् चेद् अहि-दष्ट-अङ्ग-हानि-वत्
02227 आत्मीय-बुद्धि-हान्या अत्र त्यागो न तु विपर्यये
02227 उपभोग-आश्रयत्वेन गृहीतेष्व् इन्द्रिय-आदिषु
02228 स्वत्व-धीः केन वार्येत वैराग्यं तत्र तत् कुतः
02228 प्रत्यक्षम् एव सर्वस्य केश-आदिषु कलेवरात्
02229 च्युतेषु सा घृणा बुद्धिर् जायते अन्यत्र सस्पृहा
02229 समवाय-आदि-सम्बन्ध-जनिता तत्र हि स्व-धीः
02230 सम्बन्धः स तथा एव इति दृष्टाव् अपि न हीयते
02230 समवाय-आद्य्-अभावे अपि सर्वत्र अस्त्य् उपकारिता
02231 दुःख-उपकारान् न भवेद् अङ्गुल्याम् इव चेत् स्व-धीः
02231 न ह्य् एकान्तेन तद् दुःखं भूयसा सविष-अन्न-वत्
02232 विशिष्ट-सुख-संगात् स्यात् तद्-विरुद्धे विरागिता
02232 किंचित् परित्यजेत् सौख्यं विशिष्ट-सुख-तृष्णया
02233 नैरात्म्ये तु यथालाभम् आत्म-स्नेहात् प्रवर्तते
02233 अलाभे मत्तकाशिन्या दृष्टा तिर्यक्षु कामिता
02234 यस्य आत्मा वल्लभः तस्य स नाशं कथम् इच्छति
02234 निवृत्त-सर्व-अनुभव-व्यवहार-गुण-आश्रयम्
02235 इच्छेत् प्रेम कथं प्रेम्णः प्रकृतिर् न हि तादृशी
02235 सर्वथा आत्म-ग्रहः स्नेहम् आत्मनि द्रढयत्य् अलम्
02236 आत्मीय-स्नेह-बीजं तत् तद्-अवस्थं व्यवस्थितम्
02236 यत्ने अप्य् आत्मीय-वैराग्यं गुण-लेश-समाश्रयात्
02237 वृत्तिमान् प्रतिबध्नाति तद् दोषान् संवृनोति च
02237 आत्मन्य् अपि विरागश् चेत् न इदानीं यो विरज्यते
02238 त्यजत्य् असौ यथा आत्मानं व्यर्था अतो दुःख-भावना
02238 दुःख-भावनया अप्य् एष दुःखम् एव विभावयेत्
02239 प्रत्यक्षं पूर्वम् अपि तत् तथा अपि न विरागवान्
02239 यद्य् अप्य् एकत्र दोषेण तत् क्षणं चलिता मतिः
02240 विरक्तौ न एव तत्र अपि कामि इव वनित-अन्तरे
02240 त्याज्य-उपादेय-भेदे हि सक्तिर् या एव एक-भाविनी
02241 सा बीजं सर्व-सक्तीनां पर्यायेण समुद्भवे
02241 निर्दोष-विषयः स्नेहो निर्दोषः साधनानि च
02242 एतावद् एव च जगत् क्व इदानीं स विरज्यते
02242 सदोषता अपि चेत् तत्र तस्य तत्र आत्मन्य् अपि सा समा
02243 तत्र अविरक्तस् तद्-दोषे क्व इदानीं स विरज्यते
02243 गुण-दर्शन-सम्भूतं स्नेहं बाधित-दोष-दृक्
02244 स च इन्द्रिय-आदौ न त्व् एवं बाल-आदेर् अपि दर्शनात्
02244 दोषवत्य् अपि सद्भावात् स्वभावाद् गुणवत्य् अपि
02245 अन्यत्र आत्मीयतायां वा व्यतीत-आदौ विहानितः
02245 तत एव च न आत्मीय-बुद्धेर् अपि गुण-ईक्षणम्
02246 कारणं हीयते स अपि तस्मान् न अगुण-दर्शनात्
02246 अपि च असद् गुण-आरोपः स्नेहात् तत्र हि दृश्यते
02247 तस्मात् त कारणा बाधी विधिस् तं बाधते कथम्
02247 परापर-प्रार्थना अतो विनाश-उत्पत्ति-बुद्धितः
02248 इन्द्रिय-आदेः पृथग् भूतम् आत्मानं वेत्त्य् अयं जनः
02248 तस्मान् न एकत्व-दृष्ट्या अपि स्नेहः स्निह्यन् स आत्मनि
02249 उपलम्भ-अन्तरङ्गेषु प्रकृत्या एव अनुरज्यते
02249 प्रत्युत्पन्ना तु यो दुःखान् निर्वेदो द्वेष ईदृशः
02250 न वैराग्यं तदा अप्य् अस्य स्नेहो अवस्था-अन्तर् एषणात्
02250 द्वेषस्य दुःख-योनित्वात् स तावन् मात्र-संस्थितिः
02251 तस्मिन्न् निवृत्ते प्रकृतिं स्वाम् एव भजते पुनः
02251 औदासीन्यं तु सर्वत्र हान-उपादान-हानितः
02252 वासी-चन्दन-कल्पानां वैराग्यं नाम कथ्यते
02252 संस्कार-दुःखतां मत्वा कथिता दुःख-भावना
02253 सा च नः प्रत्यय-उत्पत्तिः सा नैरात्म्य-दृग्-आश्रयः
02253 युक्तिस् तु शून्यता-दृष्टेस् तद्-अर्थाः शेष-भावनाः
02254 अनित्यात् प्राह तेन एव दुःखं दुःखान् निरात्मताम्
02254 अविरक्तश् च तृष्णावान् सर्व-आरम्भ-समाश्रितः
02255 सो अमुक्तः क्लेश-कर्मभ्यां संसारी नाम तादृशः
02255 आत्मीयम् एव यो न इच्छेद् भोक्ता अप्य् अस्य न विद्यते
02256 आत्मा अपि न तदा तस्य क्रिया-भोगौ हि लक्षणम्
02256 तस्माद् अनादि-सन्तान-तुल्य-जातीय-बीजिकाम्
02257 उत्खात-मूलां कुरुत सत्त्व-दृष्टिं मुमुक्षवः
02257 आगमस्य तथा भाव-निबन्धनम् अपश्यताम्
02258 मुक्तिम् आगम-मात्रेण वदन् न परितोषकृत्
02258 न अलं बीज-आदि-संसिद्धो विधिः पुंसाम् अजन्मने
02259 तैल-अभ्यङ्ग-अग्नि-दाह-आदेर् अपि मुक्ति-प्रसङ्गतः
02259 प्राग् गुरोर् लाघवात् पश्चान् न पाप-हरणं कृतम्
02260 मा भूत् गौरवम् एव अस्य न पापं गुर्व्-अमूर्तितः
02260 मिथ्या-ज्ञान-तद्-उद्भूत-तर्ष-संचेतना-वशात्
02261 हीन-स्थान-गतिर् जन्म तेन तच्छिन् न जायते
02261 तयोर् एव हि सामर्थ्यं जातौ तन्-मात्र-भवतः
02262 ते चेतने स्वयं कर्म इत्य् अखण्डं जन्म-कारणम्
02262 गति-प्रतीत्योः कारण-अन्य-आश्रयस् तान्य् अदृष्टतः
02263 अदृष्ट-नाशाद् अगतिस् तत् संस्कारो न चेतना
02263 सामर्थ्यं करण-उत्पत्तेर् भाव-अभाव-अनुवृत्तितः
02264 दृष्टं बुद्धेर्न् न च अन्यस्य तानि सन्ति न सन्ति किम्
02264 धारण-प्रेरण-क्षोभ-निरोधाश् चेतना-वशाः
02265 न स्युस् तेषाम् असामर्थ्ये तस्य दीक्षा-आद्य्-अनन्तरम्
02265 अथ बुद्धेस् तदा अभावान् न स्युः सन्धीयते मलैः
02266 बुद्धेस् तेषाम् असामर्थ्ये जीवतो अपि स्युर् अक्षमाः
02266 निर्ह्रास-अतिशयात् पुष्टौ प्रतिपक्ष-स्व-पक्षयोः
02267 दोषाः स्व-बीज-सन्ताना दीक्षिते अप्य् अनिवारिताः
02267 नित्यस्य निरपेक्षत्वात् क्रम-उत्पत्तिर् विरुध्यते
02268 क्रियायाम् अक्रियायां च क्रिया च सदृश-आत्मनः
02268 ऐक्यं च हेतु-फलयोर् व्यतिरेके ततस् तयोः
02269 कर्तृ-भोक्तृत्व-हानिः स्यात् सामर्थ्यं च न सिध्यति
02269 अन्य-स्मरण-भोग-आदि-प्रसङ्गाश् च न सिध्यति
02270 अस्मृतेः कस्यचित् तेन ह्य् अनुभूतेः स्मृत-उद्भवः
02270 स्थिरं सुखं मम अहं च इत्य् आदि सत्य-चतुष्टये
02271 अभूतान् षोडश-आकारान् आरोप्य परितृष्यति
02271 तत्र एव तद्-विरुद्ध-आत्म-तत्त्व-आकार-अनुरोधिनी
02272 हन्ति सा अनुचरां तृष्णां सम्यग्-दृष्टिः सुभाविता
02272 त्रि-हेतोर्न् न उद्भवः कर्म-देहयोः स्थितयोर् अपि
02273 एक-अभावाद् विना बीजं न अङ्कुरस्य इव जन्मनः
02273 असम्भवाद् विपक्षस्य न हानिः कर्म-देहयोः
02274 अशक्यत्वाच् च तृष्णायां स्थितायां पुनर् उद्भवात्
02274 द्वय-क्षय-अर्थं यत्ने च व्यर्थः कर्म-क्षये श्रमः
02275 फल-वैचित्र्य-दृष्टेश् च शक्ति-भेदो अनुमीयते
02275 कर्मणां ताप-संक्लेशात् न एक-रूपात् ततः क्षयः
02276 फलं कथंचित् तज्-जन्यम् अल्पं स्यान् न विजातिमत्
02276 अथ अपि तपसः शक्त्या शक्ति-संकर-संक्षयैः
02277 क्लेशात् कुतश्चिद् धीयेत अशेषम् अक्लेश-लेशतः
02277 यदि इष्टम् अपरं क्लेशात् तत् तपः क्लेश एव चेत्
02278 तत् कर्म-फलम् इत्य् अस्मान् न शक्तेः संकर-आदिकम्
02278 उत्पित्सु-दोष-निर्घात-आद्ये अपि दोष-विरोधिनः
02279 तज्जे कर्मणि शक्ताः स्युः कृत-हानिः कथं भवेत्
02279 दोषा न कर्मणो दुष्टः करोति न विपर्ययात्
02280 मिथ्या-विकल्पेन विना न अभिलाषः सुखाद् अपि
02280 तायात् तत्त्व-स्थिर-अशेष-विशेष-ज्ञान-साधनम्
02281 बोध-अर्थत्वाद् गमेर् बाह्य-शैक्ष-अशैक्ष-अधिकस् ततः
02281 परार्थ-ज्ञान-घटनं तस्मात् तच् शासनं दया
02282 ततः परार्थ-तन्त्रत्वं सिद्ध-अर्थस्य अविरामतः
02282 दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम्
02283 तच् च अभियोगवान् वक्तुं यतस् तस्मात् प्रमाणता
02283 उपदेश-तथाभाव-स्तुतिस् तद् उपदेशतः
02284 प्रमाण-तत्त्व-सिद्ध्य्-अर्थम् अनुमाने अप्य् अवारणात्
02284 प्रयोग-दर्शनाद् वा अस्य यत् किंचिद् उदय-आत्मकम्
02285 निरोध-धर्मकं सर्वं तद् इत्य् आदाव् अनेकधा
02285 अनुमान-आश्रयो लिङ्गम् अविनाभाव-लक्षणम्
02285 व्याप्ति-प्रदर्शनाद् हेतोः साध्येन उक्तं च तत् स्फुटम्
03001 मानं द्विविधं मेय-द्वैविध्यात् शक्त्य्-अशक्तितः
03001 अर्थक्रियायां केश-आदिर्न् न अर्थो अनर्थ-अधिमोक्षतः
03002 सदृश-असदृशत्वाच् च विषय-अविषयत्वतः
03002 शब्दस्य अन्य-निमित्तानां भावे धीः सद्-असत्त्वतः
03003 अर्थक्रियासमर्थं यत् तद् अत्र परमार्थसत्
03003 अन्यत् संवृतिसत् प्रोक्तं ते स्व-सामान्य-लक्षणे
03004 अशक्तं सर्वम् इति चेद् बीज-आदेर् अङ्कुर-आदिषु
03004 दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा
03005 सा अस्ति सर्वत्र चेद् बुद्धेर् न अन्वय-व्यतिरेकयोः
03005 सामान्यलक्षणे अदृष्टेश् चक्षू-रूप-आदि-बुद्धि-वत्
03006 एतेन समय-आभोग-आद्य्-अन्तरङ्ग-अनुरोधतः
03006 घट-उत्क्षेपण-सामान्यं संख्या-आदिषु धियो गताः
03007 केश-आदयो न सामान्यम् अर्थ-अनभिनिवेशतः
03007 ज्ञेयत्वेन ग्रहाद् दोषो न अभावेषु प्रसज्यते
03008 तेषाम् अपि तथाभावे अप्रतिषेधात् स्फुट-आभता
03008 ज्ञान-रूपतया अर्थत्वात् केश-आदि इति मतिः पुनः
03009 सामान्य-विषया केश-प्रतिभासम् अनर्थकम्
03009 ज्ञान-रूपतया अर्थत्वे सामान्ये चेत् प्रसज्यते
03010 तथा-इष्टत्वाद् अदोषो अर्थ-रूपत्वेन समानता
03010 सर्वत्र सम-रूपत्वात् तद्-व्यावृत्ति-समाश्रयात्
03011 तद् अवस्त्व्-अभिधेयत्वात् साफल्याद् अक्ष-संहतेः
03011 नाम-आदि-वचने वक्तृ-श्रोतृ-वाच्य-अनुबन्धिनि
03012 असम्बन्धिनि नाम-आदाव् अर्थे स्याद् अप्रवर्तनम्
03012 सारूप्याद् भ्रान्तितो वृत्तिर् अर्थे चेत् स्यान् न सर्वदा
03013 देश-भ्रान्तिश् च न ज्ञाने तुल्यम् उत्पत्तितो धियः
03013 तथाविधायाः अन्यत्र तत्र अनुपगमाद् धियः
03014 बाह्य-अर्थ-प्रतिभासाया उपाये वा अप्रमाणता
03014 विज्ञान-व्यतिरिक्तस्य व्यतिरेक-अप्रसिद्धितः
03015 सर्व-ज्ञान-अर्थवत्त्वाच् चेत् स्वप्न-आदाव् अन्यथा ईक्षणात्
03015 अयुक्तं न च संस्कारान् नील-आदि-प्रतिभासतः
03016 नील-आद्य्-अप्रतिघातान् न ज्ञानं तद्-योग्य-देशकैः
03016 अज्ञातस्य स्वयं ज्ञानान् नाम-आद्य् एतेन वर्णितः
03017 सा एव इष्ट-अर्थवती केन चक्षुर्-आदि-मतिर् मता
03017 अर्थ-सामर्थ्य-दृष्टेश् चेद् अन्यत् प्राप्तम् अनर्थकम्
03018 अप्रवृत्तिर् असम्बन्धे अप्य् अर्थ-सम्बन्ध-वद् यदि
03018 अतीत-अनागतं वाच्यं न स्याद् अर्थेन तत् क्षयात्
03019 सामान्य-ग्रहणाच् शब्दाद् अप्रसङ्गो मतो यदि
03019 तन् न केवल-सामान्य-अग्रहणाद् ग्रहणे अपि वा
03020 अतत्-समानता अव्यक्ती तेन नित्य-उपलम्भनम्
03020 नित्यत्वाच् च यदि व्यक्तिर् व्यक्तेः प्रत्यक्षतां प्रति
03021 आत्मनि ज्ञान-जनने यच् शक्तं शक्तम् एव तत्
03021 अथ अशक्तं कदाचिच् चेद् अशक्तं सर्वदा एव तत्
03022 तस्य शक्तिर् अशक्तिर् वा या स्वभावेन संस्थिता
03022 नित्यत्वाद् अचिकित्स्यस्य कस् तां क्षपयितुं क्षमः
03023 तच् च सामान्य-विज्ञानम् अनुबन्धन् विभाव्यते
03023 नील-आद्य्-आकार-लेशो यः स तस्मिन् केन निर्मितः
03024 प्रत्यक्ष-प्रत्यय-अर्थत्वान् न अक्षाणां व्यर्थता इति चेत्
03024 सा एव एक-रूपाच् शब्द-आदेर् भिन्न-आभासा मतिः कुतः
03025 न जातिर् जातिमद् व्यक्ति-रूपं येन अपर-आश्रयम्
03025 सिद्धं पृथक् चेत् कार्यत्वं ह्य् अपेक्षा इत्य् अभिधीयते
03026 निष्पत्तेर् अपर-अधीनम् अपि कार्यं स्व-हेतुतः
03026 सम्बध्यते कल्पनया किम् अकार्यं कथंचन
03027 अन्यत्वे तद् असम्बद्धं सिद्धा अतो निःस्वभावता
03027 जाति-प्रसङ्गो अभावस्य न अपेक्षा अभावतस् तयोः
03028 तस्माद् अरूपा रूपाणाम् आश्रयेण उपकल्पिता
03028 तद्-विशेष-अवगाह-अर्थैर् जातिः शब्दैः प्रकाश्यते
03029 तस्यां रूप-अवभासो यस् तत्त्वेन अर्थस्य वा ग्रहः
03029 भ्रान्तिः सा अनादि-कालीन-दर्शन-अभ्यास-निर्मिता
03030 अर्थानां यच् च सामान्यम् अन्य-व्यावृत्ति-लक्षणम्
03030 यन् निष्ठास् त इमे शब्दा न रूपं तस्य किंचन
03031 सामान्य-बुद्धौ सामान्येन अरूपायाम् अपि ईक्षणात्
03031 अर्थ-भ्रान्तिर् अपि इष्येत सामान्यं सा अप्य् अभिप्लवात्
03032 अर्थ-रूपतया तत्त्वेन अभावाच् च न रूपिणी
03032 निःस्वभावतया अवाच्यं कुतश्चिद् वचनान् मतम्
03033 यदि वस्तु न वस्तूनाम् अवाच्यत्वं कथंचन
03033 न एव वाच्यम् उपादान-भेदाद् भेद-उपचारतः
03034 अतीत-अनागते अप्य् अर्थे सामान्य-विनिबन्धनाः
03034 श्रुतयो निविशन्ते सद्-असद्-धर्मः कथं भवेत्
03035 उपचारात् तद् इष्टं चेद् वर्तमान-घटस्य का
03035 प्रत्यासत्तिर् अभावेन या पट-आदौ न विद्यते
03036 बुद्धेर् अस्खलिता वृत्तिर् मुख्य-आरोपितयोः सदा
03036 सिंहे माणवके तद्वद् घोषणा अप्य् अस्ति लौकिकी
03037 यत्र रूढ्या असद्-अर्थो अपि जनैः शब्दो निवेशितः
03037 स मुख्यस् तत्र तत्-साम्याद् गौणो अन्यत्र स्खलद् गतिः
03038 यथाभावे अप्य् अभाव-आख्यां यथा-कल्पनम् एव वा
03038 कुर्याद् अशक्ते शक्ते वा प्रधान-आदि-श्रुतिं जनः
03039 शब्देभ्यो यादृशी बुद्धिर् नष्टे अनष्टे अपि दृश्यते
03039 तादृश्य् एव सद्-अर्थानां न एतच् श्रोतृ-आदि-चेतसाम्
03040 सामान्य-मात्र-ग्रहणात् सामान्यं चेतसोर् द्वयोः
03040 तस्य अपि केवलस्य प्राग् ग्रहणं विनिवारितम्
03041 परस्पर-विशिष्टानाम् अविशिष्टं कथं भवेत्
03041 रूपं द्विरूपतायां वा तद्-वस्त्व् एकं कथं भवेत्
03042 ताभ्यां तद्-अन्यद् एव स्याद् यदि रूपं समं तयोः
03042 तयोर् इति न सम्बन्धो व्यावृत्तिस् तु न दुष्यते
03043 तस्मात् समानता एव अस्मिन् सामान्ये अवस्तु-लक्षणम्
03043 कार्यं च तद् अनेकं स्यान् नश्वरं च तन्-मतम्
03044 वस्तु-सत्ता-अनुबन्धित्वाद् विनाशस्य न नित्यता
03044 असम्बन्धश् च जातीनाम् अकार्यत्वाद् अरूपता
03045 यच् च वस्तु-बलाज् ज्ञानं जायते तद् अपेक्ष्यते
03045 न संकेतं न सामान्य-बुद्धिष्व् एतद् विभाव्यते
03046 या अप्य् अभेद-अनुगा बुद्धिः काचिद् वस्तु-द्वये क्षणे
03046 संकेतेन विना सा अर्थ-प्रत्यासत्ति-निबन्धना
03047 प्रत्यासत्तिर् विना जात्या यथेष्टा चक्षुर्-आदिषु
03047 ज्ञान-कार्येषु जातिर् वा यया अन्वेति विभागतः
03048 कथंचिद् अपि विज्ञाने तद्-रूप-अनवभासतः
03048 यदि नाम इन्द्रियाणां स्याद् द्रष्टा भासेत तद्-वपुः
03049 रूपवत्त्वात् न जातीनां केवलानाम् अदर्शनात्
03049 व्यक्ति-ग्रहे च तच् शब्द-रूपाद् अन्यन् न दृश्यते
03050 ज्ञान-मात्र-अर्थ-करणे अप्य् अयोग्य-मता एव तत्
03050 तद् अयोग्यतया अरूपं तद् ह्य् अवस्तुषु लक्षणम्
03051 यथोक्त-विपरीतं यत् तत् स्वलक्षणम् इष्यते
03051 सामान्यं त्रिविधं तच् च भाव-अभाव-उभय-आश्रयात्
03052 यदि भाव-आश्रयं ज्ञानं भावे भाव-अनुबन्धतः
03052 न उक्त-उत्तरत्वाद् दृष्टत्वाद् अतीत-आदिषु च अन्यथा
03053 भाव-धर्मत्व-हानिश् चेद् भाव-ग्रहण-पूर्वकम्
03053 तज्-ज्ञानम् इत्य् अदोषो अयं मेयं त्व् एकं स्वलक्षणम्
03054 तस्माद् अर्थक्रिया-सिद्धेः सद्-असत्ता-विचारणात्
03054 तस्य स्व-पररूपाभ्यां गतेर् मेय-द्वयं मतम्
03055 अयथाभिनिवेशेन द्वितीया भ्रान्तिर् इष्यते
03055 गतिश् चेत् पररूपेण न च भ्रान्तेः प्रमाणता
03056 अभिप्राय-अविसंवादाद् अपि भ्रान्तेः प्रमाणता
03056 गतिर् अप्य् अन्यथा दृष्टा पक्षश् च अयं कृत-उत्तरः
03057 मणि-प्रदीप-प्रभयोर् मणि-बुद्ध्या अभिधावतः
03057 मिथ्या-ज्ञान-अविशेषे अपि विशेषो अर्थक्रियां प्रति
03058 यथा तथा अयथार्थत्वे अप्य् अनुमान-तद्-आभयोः
03058 अर्थक्रिया-अनुरोधेन प्रमाणत्वं व्यवस्थितम्
03059 बुद्धिर् यत्र अर्थ-सामर्थ्याद् अन्वय-व्यतिरेकिणी
03059 तस्य स्वतन्त्रं ग्रहणम् अतो अन्यद् वस्त्व् अतीन्द्रियम्
03060 तस्य अदृष्ट-आत्म-रूपस्य गतेर् अन्यो अर्थ-आश्रयः
03060 तद्-आश्रयेण सम्बन्धी यदि स्याद् गमकस् तदा
03061 गमक-अनुग-सामान्य-रूपेण एव तदा गतिः
03061 तस्मात् सर्वः परोक्षो अर्थो विशेषेण न गम्यते
03062 या च सम्बन्धिनो धर्माद् गतिर् धर्मिणि जायते
03062 सा अनुमानं परोक्षाणाम् एकं तेन एव साधनम्
03063 न प्रत्यक्ष-परोक्षाभ्यां मेयस्य अन्यस्य सम्भवः
03063 तस्मात् प्रमेय-द्वित्वेन प्रमाण-द्वित्वम् इष्यते
03064 त्र्य्-एक-संख्या-निरासो वा प्रमेय-द्वय-दर्शनात्
03064 एकम् एव अप्रमेयत्वाद् असतश् चेन् मतं च नः
03065 अनेकान्तो अप्रमेयत्वे असद्-भावस्य अपि निश्चयात्
03065 तन् निश्चय-प्रमाणं वा द्वितीयं न अक्षजा मतिः
03066 अभावे अर्थ-बलाज् जाते अर्थ-शक्त्य्-अनपेक्षणे
03066 व्यवधान-आदि-भावे अपि जायेत इन्द्रियजा मतिः
03067 अभावे विनिवृत्तिश् चेत् प्रत्यक्षस्य एव निश्चयः
03067 विरुद्धं सा एव वा लिङ्गम् अन्वय-व्यतिरेकिणी
03068 सिद्धं च पर-चैतन्य-प्रतिपत्तेः प्रमा-द्वयम्
03068 व्यवहार-आदौ प्रवृत्तेश् च सिद्धस् तद्भाव-निश्चयः
03069 प्रमाणम् अविसंवादात् त क्वचिद् व्यभिचारतः
03069 न आश्वास इति चेल् लिङ्गं दुर्दृष्टेर् अतद् ईदृशम्
03070 यतः कदाचित् सिद्धा अस्य प्रतीतिर् वस्तुनः क्वचित्
03070 तद् अवश्यं ततो जातं तत् स्वभावो अपि वा भवेत्
03071 स्व-निमित्तं स्वभावं वा विना न अर्थस्य सम्भवः
03071 यच् च रूपं तयोर् दृष्टं तद् एव अन्यत्र लक्षणम्
03072 स्वभावे स्व-निमित्ते वा दृश्ये दर्शन-हेतुषु
03072 अन्येषु सत्स्व् अदृश्ये च सत्ता वा तद्वतः कथम्
03073 अप्रामाण्ये च सामान्य-बुद्धेस् तल्-लोप आगतः
03073 प्रेत्य-भाव-वद् अक्षैश् चेत् पर्यायेण प्रतीयते
03074 तच् च न इन्द्रिय-शक्त्य्-आदाव् अक्ष-बुद्धेर् असम्भवात्
03074 अभाव-प्रतिपत्तौ स्याद् बुद्धि-जन्म-अनिमित्तकम्
03075 स्वलक्षणे च प्रत्यक्षम् अविकल्पतया विना
03075 विकल्पेन न सामान्य-ग्रहस् तस्मिंस् ततो अनुमा
03076 प्रमेय-नियमे वर्ण-अनित्यता न प्रतीयते
03076 प्रमाणम् अन्यत् तद् बुद्धिर् विना लिङ्गेन सम्भवात्
03077 विशेष-दृष्टे लिङ्गस्य सम्बन्धस्य अप्रसिद्धितः
03077 तत् प्रमाण-अन्तरं मेय-बहुत्वाद् बहुता अपि वा
03078 प्रमाणानाम् अनेकस्य वृत्तेर् एकत्र वा यथा
03078 विशेष-दृष्टेर् एक-त्रि-संख्या-अपोहो न वा भवेत्
03079 विषय-अनियमाद् अन्य-प्रमेयस्य च सम्भवात्
03079 योजनाद् वर्ण-सामान्ये न अयं दोषः प्रसज्येत
03080 न अवस्तु रूपं तस्य एव तथा सिद्धे प्रसाधनात्
03080 अन्यत्र न अन्य-सिद्धिश् चेन् न तस्य एव प्रसिद्धितः
03081 यो हि भावो यथाभूतो स तादृग् लिङ्ग-चेतसः
03081 हेतुस् तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गि-धीः
03082 लिङ्ग-लिङ्गि-धियोर् एवं पारंपर्येण वस्तुनि
03082 प्रतिबन्धात् तद्-आभास-शून्ययोर् अप्य् अवञ्चनम्
03083 तद्-रूप-अध्यवसायाच् च तयोस् तद्-रूप-शून्ययोः
03083 तद्-रूप-अवञ्चकत्वे अपि कृता भ्रान्ति-व्यवस्थितिः
03084 तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्य-चेतसः
03084 निमित्तं तत् स्वभावो वा कारणं तच् च तद् धियः
03085 प्रतिषेधस् तु सर्वत्र साध्यते अनुपलम्भतः
03085 सिद्धिं प्रमाणैर् वदताम् अर्थाद् एव विपर्ययात्
03086 दृष्टा विरुद्ध-धर्म-उक्तिस् तस्य तत्-कारणस्य वा
03086 निषेधे या अपि तस्य एव सा अप्रमाणत्व-सूचना
03087 अन्यथा एकस्य भावस्य सद्भाव-उक्त्या परस्य तत्
03087 न अस्तित्वं केन गम्येत विरोधाच् चेद् असाव् अपि
03088 सिद्धः केन असहस्थानाद् इति चेत् तत् कुतो मतम्
03088 दृश्यस्य दर्शन-अभावाद् इति चेत् सा अप्रमाणता
03089 तस्मात् स्व-शब्देन उक्ता अपि सा अभावस्य प्रसाधिका
03089 यस्या प्रमाणं सा अवाच्यो निषेधस् तेन सर्वथा
03090 एतेन तद्-विरुद्ध-अर्थ-कार्य-उक्तिर् उपवर्णिता
03090 प्रयोगः केवलं भिन्नः सर्वत्र अर्थो न भिद्यते
03091 विरुद्धं तच् च सा उपायम् अविधाया अपि धाय च
03091 प्रमाण-उक्तिर् निषेधे या न सा न्यायानुसारिणी
03092 उक्त्य्-आदेः सर्ववित् प्रेत्य-भाव-आदि-प्रतिषेध-वत्
03092 अतीन्द्रियाणाम् अर्थानां विरोधस्य अप्रसिद्धितः
03093 बाध्यबाधकभावः कः स्यातां यद् युक्ति-संविदौ
03093 तादृशो अनुपलब्धेश् चेद् उच्यतां सा एव साधनम्
03094 अनिश्चयकरं प्रोक्तम् ईदृक् क्व अनुपलम्भनम्
03094 तत्र अत्यन्तपरोक्षेषु सदसत्ता-विनिश्चयौ
03095 भिन्नो अभिन्नो अपि वा धर्मः स विरुद्धः प्रयुज्यते
03095 यथा अग्निर् अहिमे साध्ये सत्ता वा जन्म-बाधनी
मूल पाठ: Pramāṇavārttikakārikā (without the svārthānumāna-chapter) · Edition: d Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2, 1971/72, 1-206. [The chapters II, III of our ordering correspond to the chapters I, II of Miyasaka's edition] · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0