प्रमाणवार्त्तिककारिका · भाग 4157
03497 इति वर्णेषु रूप-आदाव् अविच्छिन्न-अवभासिनी
03497 विच्छिन्ना अप्य् अन्यया बुद्धिः सर्वा स्याद् वितथ-अर्थिका
03498 घटनं यच् च भावानाम् अन्यत्र इन्द्रिय-विभ्रमात्
03498 भेद-अलक्षण-विभ्रान्तं स्मरणं तद्-विकल्पकम्
03499 तस्य स्पष्ट-अवभासित्वं जल्प-संसर्गिणः कुतः
03499 न अक्ष-ग्राह्ये अस्ति शब्दानां योजना इति विवेचितम्
03500 विच्छिन्नं पश्यतो अप्य् अक्षैर् घटयेद् यदि कल्पना
03500 अर्थस्य तत् संवित्तेश् च सततं भासमानयोः
03501 बाधके असति सन् न्याये विच्छिन्न इति तत् कुतः
03501 बुद्धीनां शक्ति-नियमाद् इति चेत् स कुतो मतः
03502 युगपद् बुद्ध्य्-अदृष्टेश् चेत् तद् एव इदं विचार्यते
03502 तासां समान-जातीये सामर्थ्य-नियमो भवेत्
03503 तथा हि सम्यक् लक्ष्यन्ते विकल्पाः क्रम-भाविनः
03503 एतेन यः समक्षे अर्थे प्रत्यभिज्ञान-कल्पनाम्
03504 स्पष्ट-अवभासाअं प्रत्यक्षां कल्पयेत् सो अपि वारितः
03504 केश-गोलक-दीप-आदाव् अपि स्पष्ट-अवभासनात्
03505 प्रतीत-भेदे अप्य् अध्यक्षा धीः कथं तादृशी भवेत्
03505 तस्मान् न प्रत्यभिज्ञानाद् वर्ण-आद्य्-एकत्व-निश्चयः
03506 पूर्व-अनुभूत-स्मरणात् तद्-धर्म-आरोपणाद् विना
03506 स एव अयम् इति ज्ञानं न अस्ति तच् च अक्षजे कुतः
03507 न च अर्थ-ज्ञान-संवित्त्योर् युगपत् सम्भवो यतः
03507 लक्ष्यते प्रतिभासौ द्वौ न अर्थ-अर्थ-ज्ञानयोः पृथक्
03508 न ह्य् अर्थ-आभासि च ज्ञानम् अर्थो बाह्यश् च केवलः
03508 एक-आकारम् अतिग्राह्ये भेद-अभाव-प्रसङ्गतः
03509 सूपलक्ष्येण भेदेन यौ संवित्तौ न लक्षितौ
03509 अर्थ-अर्थ-प्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम्
03510 क्रमेण अनुभव-उत्पादे अप्य् अर्थ-अर्थ-मनसोर् अयम्
03510 प्रतिभासस्य नानात्व-चोद्य-दोषो दुरुद्धरः
03511 अर्थ-संवेदनं तावत् ततो अर्थ-आभास-वेदनम्
03511 न हि संवेदनं शुद्धं भवेद् अर्थस्य वेदनम्
03512 तथा हि नील-आद्य्-आकार एक एकं च वेदनम्
03512 लक्ष्यते न तु नील-आभे वेदने वेदनं परम्
03513 ज्ञान-अन्तरेण अनुभवो भवेत् तत्र अपि च स्मृतिः
03513 दृष्टा तद्-वेदनं केन तस्य अप्य् अन्येन चेद् इमाम्
03514 मालां ज्ञान-विदां को अयं जनयत्य् अनुबन्धिनीम्
03514 पूर्वा धीः सा एव चेन् न स्यात् संचारो विषय-अन्तरे
03515 तां ग्राह्य-लक्षण-प्राप्ताम् आसन्नां जनिकां धियम्
03515 अगृहीत्वा उत्तरं ज्ञानं गृह्णीयाद् अपरं कथम्
03516 आत्मनि ज्ञान-जनने स्वभावे नियतां च ताम्
03516 को नाम अन्यो विबध्नीयाद् बहिर्-अङ्गे अन्तरङ्गिकाम्
03517 बाह्यः संनिहितो अप्य् अर्थः तां विबन्धुं हि न प्रभुः
03517 धियं न अनुभवेत् कश्चिद् अन्यथा अर्थस्य संनिधौ
03518 न च संनिहित-अर्था अस्ति दशा काचिद् अतो धियः
03518 उत्सन्न-मूला स्मृतिर् अप्य् उत्सन्ना इत्य् उज्ज्वलं मतम्
03519 अतीत-आदि-विकल्पानां येषां न अर्थस्य संनिधिः
03519 संचार-कारण-अभावाद् उत्सीदेद् अर्थ-चिन्तनम्
03520 आत्मनि ज्ञान-जनने शक्ति-संक्षयतः शनैः
03520 विषय-अन्तर-संचारो यदि सा एव अर्थ-धीः कुतः
03521 शक्ति-क्षये पूर्व-धियः न हि धीः प्राग् धिया विना
03521 अन्य-अर्थ-असक्ति-विगुणे ज्ञाने ज्ञान-उदय-अगतेः
03522 सकृद् विजातीय-जाताव् अप्य् एकेन पटीयसा
03522 चित्तेन आहित-वैगुण्याद् आलयान् न अन्य-सम्भवः
03523 न अपेक्षेत अन्यथा साम्यं मनो-वृत्तेर् मनो अन्तरम्
03523 मनो-ज्ञान-क्रम-उत्पत्तिर् अप्य् अपेक्षा प्रसाधनी
03524 एकत्वान् मनसो अन्यस्मिन् सक्तस्य अन्य-अगतेर् यदि
03524 ज्ञान-अन्तरस्य अनुदयो न कदाचित् सहोदयात्
03525 समवृत्तौ च तुल्यत्वात् सर्वदा अन्य-अगतिर् भवेत्
03525 जन्म च आत्म-मनो योग-मात्रजानां सकृद् भवेत्
03526 एका एव चेत् क्रिया एकः स्यात् किं दीपो अनेक-दर्शनः
03526 क्रमेण अपि न शक्तं स्यात् पश्चाद् अप्य् अविशेषतः
03527 अनेन देह पुरुषाव् उक्तौ संस्कारतो यदि
03527 नियमः स कुतः पश्चाद् बुद्धेश् चेद् अस्तु सम्मतम्
03528 न ग्राह्यता अन्या जननाज् जननं ग्राह्य-लक्षणम्
03528 अग्राह्यं न हि तेजो अस्ति न च सौक्ष्म्य-आद्य्-अनंशके
03529 ग्राह्यता-शक्ति-हानिः स्यान् न अन्यस्य जनन-आत्मनः
03529 ग्राह्यताया न खल्व् अन्यज् जननं ग्राह्य-लक्षणे
03530 साक्षान् न ह्य् अन्यथा बुद्धे रूप-आदिर् उपकारकः
03530 ग्राह्यता-लक्षणाद् अन्यस् तद्भाव-नियमो अस्य कः
03531 बुद्धेर् अपि तद् अस्ति इति सा अपि तत्त्वे व्यवस्थिता
03531 ग्राह्य-उपादान-संवित्ती चेतसो ग्राह्य-लक्षणम्
03532 रूप-आदेश् चेतसश् च एवम् अविशुद्ध-धियं प्रति
03532 ग्राह्य-लक्षण-चिन्ता इयम् अचिन्त्या योगिनां गतिः
03533 तत्र सूक्ष्म-आदि-भावेन ग्राह्यम् अग्राह्यतां व्रजेत्
03533 रूप-आदि-बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते
03534 सति स्व-धी-ग्रहे तस्मात् सा एव अनन्तर-हेतुता
03534 चेतसो ग्राह्यता सा एव ततो न अर्थ-अन्तरा गतिः
03535 नाना-एक-शक्त्य्-अभावे अपि भावो नाना-एक-कार्यकृत्
03535 प्रकृत्या एव इति गदितं नाना-एकस्मान् न चेद् भवेत्
03536 न किंचिद् एकम् एकस्मात् सामग्र्याः सर्व-सम्भवः
03536 एकं स्याद् अपि सामग्रयोर् इत्य् उक्तं तद् अनेककृत्
03537 अर्थं पूर्वं च विज्ञानं गृह्णीयाद् यदि धीः परा
03537 पूर्व-अपर-अर्थ-भासित्वाच् चिन्ता-आदाव् एक-चेतसि
03538 अभिलाप-द्वयं नित्यं स्याद् दृष्ट-क्रमम् अक्रमम्
03538 द्विर् द्विर् एकं च भासेत भासनाद् आत्म-तद्-विदोः
03539 विषय-अन्तर-संचारे यद्य् अन्त्यं न अनुभूयते
03539 पर-अनुभूतिवत् सर्वान् अनुभूतिः प्रसज्यते
03540 आत्म-अनुभूतं प्रत्यक्षं न अनुभूतं परैर् यदि
03540 आत्म-अनुभूतिः सा सिद्धा कृतो येन एवम् उच्यते
03541 व्यक्ति-हेत्व्-अप्रसिद्धिः स्यान् न व्यक्तेर् व्यक्तम् इच्छतः
03541 व्यक्त्य्-असिद्धाव् अपि व्यक्तं यदि व्यक्तम् इदं जगत्
04001 परस्य प्रतिपाद्यत्वाद् अदृष्टो अपि स्वयं परैः
04001 दृष्टः साधनम् इत्य् एके तत्-क्षेपाय आत्म-दृग्-वचः
04002 अनुमा-विषये न इष्टं परीक्षित-परिग्रहात्
04002 वाचः प्रामाण्यम् अस्मिन् हि न अनुमानं प्रवर्तते
04003 बाधनाय आगमस्य उक्तेः साधनस्य परं प्रति
04003 सो अप्रमाणं तदा असिद्धं तत्-सिद्धम् अखिलं ततः
04004 तद्-आगमवतः सिद्धं यदि कस्य क आगमः
04004 बाध्यमानः प्रमाणेन स सिद्धः कथम् आगमः
04005 तद्-विरुद्ध-अभ्युपगमस् तेन एव च कथं भवेत्
04005 तद्-अन्य-उपगमे तस्य त्याग-अङ्गस्य अप्रमाणता
04006 तत् कस्मात् साधनं न उक्तं स्व-प्रतीतिर् यद् उद्भवा
04006 युक्त्या यया आगमो ग्राह्यो ग्राहिका अस्य अपि सा न किम्
04007 प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्य्-अक्ष-सम्भवौ
04007 साधनैः साधनान्य् अर्थ-शक्ति-ज्ञाने अस्य तान्य् अलम्
04008 विच्छिन्न-अनुगमा ये च सामान्येन अप्य् अगोचराः
04008 साध्य-साधन-चिन्ता अस्ति न तेष्व् अर्थेषु काचन
04009 पुंसाम् अभिप्राय-वशात् तत्त्व-अतत्त्व-व्यवस्थितौ
04009 लुप्तौ हेतु-तद्-आभासौ तस्य वस्त्व्-असमाश्रयात्
04010 सन्न् अर्थो ज्ञान-सापेक्षो न असन् ज्ञानेन साधकः
04010 सतो अपि वस्त्व्-असंश्लिष्टा असंगत्या सदृशी गतिः
04011 लिङ्गं स्वभावः कार्यं वा दृश्य-अदर्शनम् एव वा
04011 सम्बद्धं वस्तुतः सिद्धं तद् असिद्धं किम् आत्मनः
04012 परेण अप्य् अन्यतो गन्तुम् अयुक्तं पर-कल्पितैः
04012 प्रसङ्गो द्वय-सम्बन्धाद् एक-अभावे अन्य-हानये
04013 तद्-अर्थ-ग्रहणं शब्द-कल्पना-आरोपित-आत्मनाम्
04013 अलिङ्गत्व-प्रसिद्ध्य्-अर्थम् अर्थाद् अर्थ-प्रसिद्धितः
04014 कल्पना-आगमयोः कर्तुर् इच्छा-मात्र-अनुरोधतः
04014 वस्तुनश् च अन्यथा अभावात् कल्पिता व्यभिचारिणः
04015 अर्थाद् अर्थ-गतेः शक्तिः पक्ष-हेत्व्-अभिधानयोः
04015 न अर्थे तेन तयोर्न् न अस्ति स्वतः साधन-संस्थितिः
04016 तत् पक्ष-वचनं वक्तुर् अभिप्राय-निवेदने
04016 प्रमाणं संशय-उत्पत्तेः ततः साक्षान् न साधनम्
04017 साध्यस्य एव अभिधानेन पारंपर्येण न अप्य् अलम्
04017 शक्तस्य सूचकं हेतु-वचो अशक्तम् अपि स्वयम्
04018 हेत्व्-अर्थ-विषयत्वेन तद्-अशक्त-उक्तिर् ईरिता
04018 शक्तिस् तस्य अपि चेद् हेतु-वचनस्य प्रवर्तनात्
04019 तत्-संशयेन जिज्ञासोर् भवेत् प्रकरण-आश्रयः
04019 विपक्ष-उपगमे अप्य् एतत् तुल्यम् इत्य् अनवस्थितिः
04020 अन्तरङ्गं तु सामर्थ्यं त्रिषु रूपेषु संस्थितम्
04020 तत्र स्मृति-समाधानं तद्-वचस्य इव संस्थितम्
04021 अख्यापिते हि विषये हेतु-वृत्तेर् असम्भवात्
04021 विषय-ख्यापनाद् एव सिद्धौ चेत् तस्य शक्तता
04022 व्याप्ति-पूर्वे विना अप्य् अस्मात् कृतकः शब्द ईदृशः
04022 सर्वे अनित्या इति प्रोक्ते अप्य् अर्थात् तन् नाश-धीर् भवेत्
04023 अनुक्ताव् अपि पक्षस्य सिद्धेर् अप्रतिबन्धतः
04023 त्रिष्व् अन्यतम् अरूपस्य एव अनुक्तिर् न्यूनता उदिता
04024 साध्य-उक्तिं वा प्रतिज्ञां स वदन् दोषैर् न युज्यते
04024 साधन-अधिकृतेर् एव हेत्वाभास-प्रसङ्गतः
04025 अविशेष-उक्तिर् अप्य् एक-जातीये संशय-अवहा
04025 अन्यथा सर्व-साध्य-उक्तेः प्रतिज्ञात्वं प्रसज्यते
04026 सिद्ध-उक्तेः साधनत्वाच् चेत् परस्य अपि न दुष्यते
04026 इदानीं साध्य-निर्देशः साधन-अवयवः कथम्
04027 साभास-उक्त्य्-आद्य्-उपक्षेप-परिहार-विडम्बना
04027 असम्बद्धा तथा ह्य् एष न न्याय इति सूचितम्
04028 गम्य-अर्थत्वे अपि साध्य-उक्तेर् असम्मोहाय लक्षणम्
04028 तच् चतुर्-लक्षणं रूप-निपात-इष्ट-स्वयम्-पदैः
04029 असिद्ध-असाधन-अर्थ-उक्त-वाद्य्-अभ्युपगम-ग्रहः
04029 अनुक्तो अपि इच्छया व्याप्तः साध्य आत्म-अर्थ-वन् मतः
04030 सर्व-अन्य-इष्ट-निवृत्ताव् अप्य् आशङ्का-स्थान-वारणम्
04030 वृत्तौ स्वयं श्रुतेः प्राह कृता च एषा तद्-अर्थिका
04031 विशेषस् तद्-व्यपेक्षातः कथितो धर्म-धर्मिणोः
04031 अनुक्ताव् अपि वाञ्छाया भवेत् प्रकरणाद् गतिः
04032 अनन्वयो अपि दृष्टान्ते दोषस् तस्य यथोदितः
04032 आत्मा परश् चेत् सो असिद्ध इति तत्र इष्ट-घातकृत्
04033 साधनं यद् विवादे न न्यस्तं तच् चेन् न साध्यते
04033 किं साध्यम् अन्यथा अनिष्टं भवेद् वैफल्यम् एव वा
04034 सद्वितीय-प्रयोगेषु निरन्वय-विरुद्धते
04034 एतेन कथिते साध्यं सामान्येन अथ सम्मतम्
04035 तद् एव अर्थ-अन्तर-अभावाद् देह-अनाप्तौ न सिध्यते
04035 वाच्यं शून्यं प्रलपतां तद् एतज् जाड्य-चिन्तितम्
04036 तुल्यं नाशे अपि चेच् शब्द-घट-भेदेन कल्पने
04036 न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः
04037 तथा अर्थ-अन्तर-भावे स्यात् तद्वान् कुम्भो अप्य् अनित्यता
04037 विशिष्टा ध्वनिना अन्वेति नो चेन् न अयोग-वारणात्
04038 द्विविधो हि व्यवच्छेदो वियोग-अपर-योगयोः
04038 व्यवच्छेदाद् अयोगे तु न अन्येन अनन्वय-आगमः
04039 सामान्यम् एव तत् साध्यं न च सिद्ध-प्रसाधनम्
04039 विशिष्टं धर्मिणा तच् च न निरन्वय-दोषवत्
04040 एतेन धर्मि-धर्माभ्यां विशिष्टौ धर्म-धर्मिणौ
04040 प्रत्याख्यातौ निराकुर्वन् धर्मिण्य् एवम् असाधनात्
04041 समुदाय-अपवादो हि न धर्मिणि विरुध्यते
04041 साध्यं यतस् तथा न इष्टं साध्यो धर्मो अत्र केवलः
04042 एकस्य धर्मिणः शास्त्रे नाना-धर्म-स्थिताव् अपि
04042 साध्यः स्याद् आत्मना एव इष्ट इत्य् उपात्ता स्वयं-श्रुतिः
04043 शास्त्र-अभ्युपगमाद् एव सर्व-आदानात् प्रबाधने
04043 तत्र एकस्य अपि दोषः स्याद् यदि हेतु-प्रतिज्ञयोः
04044 शब्द-नाशे प्रसाध्ये स्याद् गन्धे भू-गुणता-क्षतेः
04044 हेतुर् विरुद्धो अप्रकृतेर् नो चेद् अन्यत्र सा समा
04045 अथ अत्र धर्मी प्रकृतस् तत्र शास्त्र-अर्थ-बाधनम्
04045 अथ वादि-इष्टतां ब्रूयाद् धर्मि-धर्म-आदि-साधनैः
04046 कैश्चित् प्रकरणैर् इच्छा भवेत् सा गम्यते च तैः
04046 बलात् तव इच्छा इयम् इति व्यक्तम् ईश्वर-चेष्टितम्
04047 वदन् न कार्य-लिङ्गां तां व्यभिचारेण बाध्यते
04047 अनान्तरीयके च अर्थे बाधिते अन्यस्य का क्षतिः
04048 उक्तं च न आगम-अपेक्षम् अनुमानं स्व-गोचरे
04048 सिद्धं तेन सुसिद्धं तन् न तदा शास्त्रम् ईक्ष्यते
04049 वाद-त्यागस् तदा स्याच् चेन् न तदा अनभ्युपायतः
04049 उपायो ह्य् अभ्युपाये अयम् अनङ्गं स तदा अपि सन्
04050 तथा विशुद्धे विषय-द्वये शास्त्र-परिग्रहम्
04050 चिकीर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम्
04051 तद्-विरोधेन चिन्तायास् तत् सिद्ध-अर्थेष्व् अयोगतः
04051 तृतीय-स्थान-संक्रान्तौ न्यायः शास्त्र-परिग्रहः
04052 तत्र अपि साध्य-धर्मस्य सम्बद्धस्य एव बाधनम्
04052 परिहार्यं न च अन्येषाम् अनवस्था-प्रसङ्गतः
04053 केन इयं सर्व-चिन्तासु शास्त्रं ग्राह्यम् इति स्थितिः
04053 कृता इदानीम् असिद्धान्तैर् ग्राह्यो धूमेन न अनलः
04054 रिक्तस्य जन्तोज् जातस्य गुण-दोषम् अपश्यतः
04054 विलब्धा बत केन अमी सिद्धान्त-विषम् अग्रहाः
04055 यदि साधन एकत्र सर्वं शास्त्रं निदर्शने
04055 दर्शयेत् साधनं स्याद् इत्य् एषा लोकोत्तरा स्थितिः
04056 असम्बद्धस्य धर्मस्य किम् असिद्धौ न सिध्यति
04056 हेतुस् तत्-साधनाय उक्तः किं दुष्टस् तत्र सिध्यति
04057 धर्मान् अनुपनीय एव दृष्टान्ते धर्मिणो अखिलान्
04057 वाग्-धूम-आदेर् जनो अन्वेति चैतन्य-दहन-आदिकम्
04058 स्वभावं कारणं वा अर्थो अव्यभिचारेण साधयन्
04058 कस्यचिद् वाद-बाधायां स्वभावान् न निवर्तते
04059 प्रपद्यमानश् च अन्यस् तं नान्तरीयकम् ईप्सितैः
04059 साध्य-अर्थैर् हेतुना तेन कथम् अप्रतिपादितः
04060 उक्तो अनुक्तो अपि चेद् हेतुर् विरोधो वादिनो अत्र किम्
04060 न हि तस्य उक्ति-दोषेण स जातः शास्त्र-बाधनम्
04061 बाधकस्य अभिधानाच् चेद् दोषो यदि वदेन् न सः
04061 किं न बाधेत सो अकुर्वन् न युक्तं केन दुष्यति
04062 अन्येषु हेत्वाभासेषु स्व-इष्टस्य एव अप्रसाधनात्
04062 दुष्येद् व्यर्थ-अभिधानेन न अत्र तस्य प्रसाधनात्
04063 यदि किंचित् क्वचिच् शास्त्रे न युक्तं प्रतिषिध्यते
04063 ब्रुवाणो युक्तम् अप्य् अन्यद् इति राजकुल-स्थितिः
04064 सर्वान् अर्थान् समीकृत्य वक्तुं शक्यं न साधनम्
04064 सर्वत्र तेन उत्सन्ने अयं साध्य-साधन-संस्थितिः
04065 विरुद्धयोर् एक-धर्मिण्य् अयोगाद् अस्तु बाधनम्
04065 विरुद्ध-एकान्तिकेन अत्र तद्वद् अस्ति विरोधिता
04066 अबाध्यबाधकत्वे अपि तयोः शास्त्र-अर्थ-विप्लवात्
04066 असम्बन्धे अपि बाधा चेत् स्यात् सर्वं सर्व-बाधकम्
04067 सम्बन्धस् तेन तत्र एव बाधनाद् अस्ति चेद् असत्
04067 हेतोः सर्वस्य चिन्त्यत्वात् स्व-साध्ये गुण-दोषयोः
04068 नान्तरीयकता-साध्ये सम्बन्धः सा इह न ईक्ष्यते
04068 केवलं शास्त्र-पीडा इह दोषः सा अन्यकृते समा
04069 शास्त्र-अभ्युपगमात् साध्यः शास्त्र-दृष्टो खिलो यदि
04069 प्रतिज्ञा असिद्ध-दृष्टान्त-हेतु-वादः प्रसज्यते
04070 उक्तयोः साधनत्वेन नो चेद् ईप्सित-वादतः
04070 न्याय-प्राप्तं न साध्यत्वं वचनाद् विनिवर्तते
04071 अनीप्सितम् असाध्यं चेद् वादिना अन्यो अप्य् अनीप्सितः
04071 धर्मो असाध्यस् तदा असाध्यं बाधमानं विरोधि किम्
04072 पक्ष-लक्षण-बाह्य-अर्थः स्वयं शब्दो अप्य् अनर्थकः
04072 शास्त्रेष्व् इच्छा-प्रवृत्त्य्-अर्थो यदि शङ्का कुतो अन्वियम्
04073 सो अनिषिद्धः प्रमाणेन गृह्णन् केन निवार्यते
04073 निषिद्धश् चेत् प्रमाणेन वाचा केन प्रवर्त्यते
04074 पूर्वम् अप्य् एष सिद्धान्तं स्व-इच्छया एव गृहीतवान्
04074 कथंचिद् अन्यं स पुनर् ग्रहीतुं लभते न किम्
04075 दृष्टेर् विप्रतिपत्तीनाम् अत्र अकर्षीत् स्वयं श्रुतिम्
04075 इष्ट-अक्षतिम् असाध्यत्वम् अनवस्थां च दर्शयन्
04076 समय-आहित-भेदस्य परिहारेण धर्मिणः
04076 प्रसिद्धस्य गृहीत्य्-अर्थं जगाद अन्यः स्वयं-श्रुतिम्
04077 विचार-प्रस्तुतेर् एव प्रसिद्धः सिद्ध आश्रयः
04077 स्व-इच्छा-कल्पित-भेदेषु पदार्थेष्व् अविवादतः
04078 असाध्यताम् अथ प्राह सिद्ध-आदेशेन धर्मिणः
04078 स्वरूपेण एव निर्देश्य इति अनेन एव तद् गतम्
04079 सिद्ध-साधन-रूपेण निर्देशस्य हि सम्भवे
04079 साध्यत्वेन एव निर्देश्य इति इदं फल-वद् भवेत्
04080 अनुमानस्य सामान्य-विषयवं च वर्णितम्
04080 इह एवं न ह्य् अनुक्ते अपि किंचित् पक्षे विरुध्यते
04081 कुर्याच् चेद् धर्मिणं साध्यं ततः किं तन् न शक्यते
04081 कस्माद् हेत्व्-अन्वय-अभावान् न च दोषस् तयोर् अयम्
04082 उत्तर-अवयव-अपेक्षो न दोषः पक्ष इष्यते
04082 तथा हेत्व्-आदि-दोषो अपि पक्ष-दोषः प्रसज्यते
04083 सर्वैः पक्षस्य बाधातस् तस्मात् तन्-मात्र-लिङ्गिनः
04083 पक्ष-दोषा मता न अन्ये प्रत्यक्ष-आदि-विरोध-वत्
04084 हेत्व्-आदि-लक्षणैर् बाध्यं मुक्त्वा पक्षस्य लक्षणम्
04084 उच्यते परिहार-अर्थम् अव्याप्ति-व्यतिरेकयोः
04085 स्वयं निपात-रूप-आख्या व्यतिरेकस्य बाधिकाः
04085 सह अनिराकृतेन इष्ट-श्रुतिर् अव्याप्ति-बाधनी
04086 साध्य-अभ्युपगमः पक्ष-लक्षणं तेष्व् अपक्षता
04086 निराकृते बाधनतः शेषे अलक्षण-वृत्तितः
04087 स्वयम् इष्ट-अभिधानेन गत-अर्थे अप्य् अवधारणे
04087 कृत्य-अन्तेन अभिसम्बन्धाद् उक्तं काल-अन्तर-च्छिदे
04088 इह अनङ्गम् इषेर्न् निष्ठा तेन ईप्सित-पदे पुनः
04088 अङ्गम् एव तथा असिद्ध-हेत्व्-आदि प्रतिषिध्यते
04089 अवाचकत्वाच् च अयुक्तं तेन इष्टं स्वयम् आत्मना
04089 अनपेक्ष्य अखिलं शास्त्रं तद् अभीष्टस्य साध्यता
04090 तेन अनभीष्ट-संसृष्टस्य इष्टस्य अपि हि बाधने
04090 यथा साध्यम् अबाधातः पक्ष-हेतू न दुष्यतः
04091 अनिषिद्धः प्रमाणाभ्यां स च उपगम इष्यते
04091 सन्दिग्धे हेतु-वचनाद् व्यस्तो हेतोर् अनाश्रयः
04092 अनुमानस्य भेदेन सा बाधा उक्ता चतुर्विधा
04092 तत्र अभ्युपायः कार्य-अङ्गं स्वभाव-अङ्गं जगत् स्थितिः
04093 आत्म-अपरोध-अभिमतो भूत-निश्चय-युक्त-वाक्
04093 आप्तः स्व-वचनं शास्त्रं च एवम् उक्तं समत्वतः
04094 यथा आत्मनो अप्रमाणत्वे वचनं न प्रवर्तते
04094 शास्त्र-दृष्टे तथा न अर्थे विचारस् तद् अनाश्रये
04095 तत् प्रस्ताव-आश्रयत्वे हि शास्त्रं बाधकम् इत्य् अमुम्
04095 वक्तुम् अर्थं स्व-वाचा अस्य सहोक्तिः साम्य-दृष्टये
04096 उदाहरणम् अप्य् अत्र सदृशं तेन वर्णितम्
04096 प्रमाणानाम् अभावे हि शास्त्र-वाचोर् अयोगतः
04097 स्व-वाग्-विरोधे विस्पष्टम् उदाहरणम् आगमे
04097 दिङ्मात्र-दर्शनं तत्र प्रेत्य-धर्मो सुख-प्रदः
04098 शास्त्रिणो अप्य् अतदालम्बे विरुद्ध-उक्तौ तु वस्तुनि
04098 न बाधा प्रतिबन्धः स्यात् तुल्य-कक्ष्यतया द्वयोः
04099 यथा स्व-वाचि तच् च अस्या तदा स्व-वचन-आत्मकम्
04099 तयोः प्रमाणं यस्य अस्ति तत् स्याद् अन्यस्य बाधकम्
04100 प्रतिज्ञाम् अनुमानं वा प्रतिज्ञा-अपेत-युक्तिका
04100 तुल्य-कक्ष्या यथार्थं वा बाधेत कथम् अन्यथा
04101 प्रामाण्यम् आगमानां च प्राग् एव विनिवारितम्
04101 अभ्युपाय-विचारेषु तस्माद् दोषो अयम् इष्यते
04102 तस्माद् विषय-भेदस्य दर्शनाय पृथक् कृतः
04102 अनुमान-अबहिर्भूतो अप्य् अभ्युपायः प्रबाधनात्
04103 अन्यथा अतिप्रसङ्गः स्याद् व्यर्थता वा पृथक् कृतेः
04103 भेदो वाङ्-मात्र-वचने प्रतिबन्धः स्व-वाच्य् अपि
04104 तेन अभ्युपगमाच् शास्त्रं प्रमाणम् सर्व-वस्तुषु
04104 बाधकं यदि न इच्छेत् स बाधकं किं पुनर् भवेत्
04105 स्व-वाग्-विरोधो अभेदः स्यात् स्व-वाक्-शास्त्र-विरोधयोः
04105 पुरुष-इच्छा कृता च अस्य परिपूर्णा प्रमाणता
04106 तस्मात् प्रसिद्धेष्व् अर्थेषु शास्त्र-त्यागे अपि न क्षतिः
04106 परोक्षेष्व् आगम-अनिष्टौ न चिन्ता एव प्रवर्तते
04107 विरोध-उद्भावन-प्राया परीक्षा अप्य् अत्र तद्-यथा
04107 अधर्म-मूलं राग-आदि स्नानं च अधर्म-शोधनम्
04108 शास्त्रं यत् सिद्धया युक्त्या स्व-वाचा च न बाध्यते
04108 दृष्टे अदृष्टे अपि तद् ग्राह्यम् इति चिन्ता प्रवर्तते
04109 अर्थेष्व् अप्रतिषिद्धत्वात् पुरुष-इच्छा-अनुरोधिनः
04109 इष्ट-शब्द-अभिधेयत्वस्य आप्तो अत्र अक्षत-वाग् जनः
04110 उक्तः प्रसिद्ध-शब्देन धर्मस् तद् व्यवहारजः
04110 प्रत्यक्ष-आदिम् इति मान-श्रुत्य्-आरोपेण सूचितः
04111 तद्-आश्रय-भुवाम् इच्छा-वर्तित्वाद् अनिषेधिनाम्
04111 कृतानाम् अकृतानां वा योग्यं विश्वं स्वभावतः
04112 अर्थ-मात्र-अनुरोधिन्या भाविन्या भूतया अपि वा
04112 बाध्यते प्रतिरुन्धानः शब्द-योग्यतया तया
04113 तद्-योग्यता-बलाद् एव वस्तुतो घटितो ध्वनिः
04113 सर्वो अस्याम् अप्रतीते अपि तस्मिंस् तत्-सिद्धता ततः
04114 असाधारणता न स्यात् बाधा-हेतोर् इह अन्यथा
04114 तन् निषेधो अनुमानात् स्याच् शब्द-अर्थे अनक्ष-वृत्तितः
04115 असाधारणता तत्र हेतूनां यत्र न अन्वयि
04115 सत्त्वम् इत्य् अभ्युदाहारो हेतोर् एवं फलो मतः
04116 संकेत-संश्रयाः शब्दाः स च इच्छा-मात्र-संश्रयः
04116 न असिद्धिः शब्द-सिद्धानाम् इति शब्द-प्रसिद्ध-वाक्
04117 अनुमान-प्रसाध्येषु विरुद्धाव्यभिचारिणः
04117 अभावं दर्शयत्य् एवं प्रतीतेर् अनुमा त्व् अतः
04118 अथवा ब्रुवतो लोकस्य अनुमा अभाव उच्यते
04118 किं तेन भिन्न-विषया प्रतीतिर् अनुमानतः
04119 तेन अनुमानाद् वस्तूनां सद्-असत्ता-अनुरोधिनः
04119 भिन्नस्य अतद्-वशाद् वृत्तिस् तद् इच्छाजा इति सूचितम्
04120 चन्द्रतां शशिनो अनिच्छन् कां प्रतीतिं स वाञ्छति
04120 इति तं प्रत्य् अदृष्टान्तं तद्-असाधारणं मतम्
04121 न उदाहरणम् एव इदम् अधिकृत्य इदम् उच्यते
04121 लक्षणत्वात् तथा अवृक्षो धात्री इत्य् उक्तौ च बाधनात्
04122 अत्र अपि लोके दृष्टत्वात् कर्पूर-रजत-आदिषु
04122 समयाद् वर्तमानस्य का असाधारणता अभिधा
04123 यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तु-बलेन तत्
04123 प्रतीति-सिद्ध-उपगमे अशशिन्य् अप्य् अनिवारणम्
04124 तस्य वस्तुनि सिद्धस्य शशिन्य् अप्य् अनिवारणम्
04124 तद्-वस्त्व्-अभावे शशिनि वारणे अपि न दुष्यति
04125 तस्माद् अवस्तु-नियत-संकेत-ध्वनि-भाविनाम्
04125 योग्याः पदार्था धर्माणाम् इच्छाया अनिरोधनात्
04126 तां योग्यतां निरुन्धानं संकेत-अप्रतिषेधजा
04126 प्रतिहन्ति प्रतीत-आख्या योग्यता विषया अनुमा
04127 शब्दानाम् अर्थ-नियमः संकेत-अनुविधायिनाम्
04127 न इत्य् अनेन उक्तम् अत्र एषां प्रतिषेधो विरुध्यते
04128 नैमित्तिक्याः श्रुतेर् अर्थम् अर्थं वा पारमार्थिकम्
04128 शब्दानां प्रतिरुन्धानो न बाध्यस् तेन वर्णितः
04129 तस्माद् विषय-भेदस्य दर्शनाय पृथक्कृता
04129 अनुमान-अबहिर्भूता प्रतीतिर् अपि पूर्ववत्
04130 सिद्धयोः पृथग्-आख्याने दर्शयंश् च प्रयोजनम्
04130 एते सहेतुके प्राह न अनुमा-अध्यक्ष-बाधने
04131 तत्र अप्य् अध्यक्ष-बाधायां नाना-रूपतया ध्वनौ
04131 प्रसिद्धस्य श्रुतौ रूपं यद् एव प्रतिभासते
04132 अद्वयं शबल-आभासस्य अदृष्टेर् बुद्धि-जन्मनः
04132 तद्-अर्थ-अर्थ-उक्तिर् अस्य एव क्षेपे अध्यक्षेण बाधनम्
04133 तद् एव रूपं तत्र अर्थः शेषं व्यावृत्ति-लक्षणम्
04133 अवस्तु-रूपं सामान्यम् अतस् तन् न अक्ष-गोचरः
04134 तेन सामान्य-धर्माणां अप्रत्यक्षत्व-सिद्धितः
04134 प्रतिक्षेपे अप्य् अबाधा इति श्रावण-उक्त्या प्रकाशितम्
04135 सर्वथा अवाच्य-रूपत्वात् सिद्ध्या तस्य समाश्रयात्
04135 बाधनात् तद्-बलेन उक्तः श्रवणेन अक्ष-गोचरः
04136 सर्वत्र वादिनो धर्मो यः स्व-साध्यतया ईप्सितः
04136 तद् धर्मवति बाधा स्यान् न अन्य-धर्मेण धर्मिणि
04137 अन्यथा अस्य उपरोधः को बाधिते अन्यत्र धर्मिणि
04137 गत-अर्थे लक्षणे न अस्मिन् स्व-धर्मि-वचनं पुनः
04138 बाधायां धर्मिणो अपि स्यात् बाधा इत्य् अस्य प्रसिद्धये
04138 आश्रयस्य विरोधेन तद्-आश्रित-विरोधनात्
04139 अन्यथा एवंविधो धर्मः साध्य इत्य् अभिधानतः
04139 तद् बाधाम् एव मन्येत स्व-धर्मि-वचनं ततः
04140 नन्व् एतद् अप्य् अर्थ-सिद्धं सत्यं केचित् तु धर्मिणः
04140 केवलस्य उपरोधे अपि दोषवत् ताम् उपागताः
04141 यथा परैर् अनुत्पाद्या पूर्व-रूपन् न ख-आदिकम्
04141 सकृच् शब्द-आद्य्-अहेतुत्वाद् इत्य् उक्ते प्राह दूषकः
04142 तद्वद् वस्तु-स्वभावो असन् धर्मी व्योम-आदिर् इत्य् अपि
04142 न एवम् इष्टस्य साध्यस्य बाधा क्वचन विद्यते
04143 द्वयस्य अपि हि साध्यत्वे साध्य-धर्म-उपरोधि यत्
04143 बाधनं धर्मिणस् तत्र बाधा इत्य् एतेन वर्णितम्
04144 तथा एव धर्मिणो अप्य् अत्र साध्यत्वात् केवलस्य न
04144 यद्य् एवम् अत्र बाधा स्यात् न अन्य-अनुत्पाद्य-शक्तिकः
04145 सकृच् शब्द-आद्य्-अहेतुत्वात् सुख-आदिर् इति पूर्ववत्
04145 विरोधिता भवेत् अत्र हेतुर् ऐकान्तिको यदि
04146 क्रम-क्रिया अनित्यतयोर् अविरोधाद् विपक्षतः
04146 व्यावृत्तेः संशयाद् एष शेषवद् भेद इष्यते
04147 स्वयम् इष्टो यतो धर्मः साध्यस् तस्मात् तद्-आश्रयः
04147 बाध्यो न केवलो न अन्य-संश्रयो वा इति सूचितम्
04148 स्वयं श्रुत्या अन्य-धर्माणां बाधा अबाधा इति कथ्यते
04148 तथा स्व-धर्मिणा अन्यस्य धर्मिणो अपि इति कथ्यते
04149 सर्व-साधन-दोषेण पक्ष एव उपरुध्यते
04149 तथा अपि पक्ष-दोषत्वं प्रतिज्ञा-मात्र-संज्ञिनः
04150 उत्तर-अवयव-अपेक्षो यो दोषः सो अनुबध्यते
04150 तेन इत्य् उक्तम् अतो अपक्ष-दोषो असिद्ध-आश्रय-आदिकम्
04151 धर्मि-धर्म-विशेषाणां स्वरूपस्य च धर्मिणः
04151 बाधा-साध्य-अङ्ग-भूतानाम् अनेन एव उपदर्शिता
04152 तत्र उदाहृति-दिङ्मात्रम् उच्यते अर्थस्य दृष्टये
04152 द्रव्य-लक्षण-युक्तो अन्यः संयोगे अर्थो अस्ति दृष्टि-भाक्
04153 अदृश्यस्य अविशिष्टस्य प्रतिज्ञा निष्प्रयोजना
04153 इष्टो ह्य् अवयवी कार्यं दृष्ट्या अदृश्येष्व् असम्भवी
04154 अविशिष्टस्य च अन्यस्य साधने सिद्ध-साधनम्
04154 गुरुत्व-अधोगती स्यातां यद्य् असौ स्यात् तुला-नतिः
04155 तन् निर्गुण-क्रियस् तस्मात् समवायि न कारणम्
04155 तत एव न दृश्यो असाव् अदृष्टेः कार्य-रूपयोः
04156 तद्-बाधा-अन्य-विशेषस्य नान्तरीयक-भाविनः
04156 आ सूक्ष्माद् द्रव्यम् आलायास् तुल्यत्वाद् अंशु-पात-वत्
04157 द्रव्य-अन्तर-गुरुत्वस्य गतिर्न् न इत्य् अपरो अब्रवीत्
04157 तस्य क्रमेण संयुक्ते पांशु-राशौ सकृद् युते
04158 भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते
04158 क्रमेण माषक-आदीनां संख्या-साम्यं न युज्यते
04159 सर्षपाद् आ महा-राशेर् उत्तरोत्तर-वृद्धिमत्
04159 गुरुत्वं कार्यम् आलाय यदि न एव उपलक्ष्यते
04160 आ सर्षपाद् गुरुत्वं तद् दुर्लक्षितम् अनल्पकम्
04160 तौल्यं तत्-कारणं कार्य-गौरव-अनुपलक्षणात्
04161 नन्व् अदृष्टो अंशु-वत् सो अर्थो न च तत्-कार्यम् ईक्ष्यते
04161 गुरुत्व-अगति-वत् सर्व-तद्-गुण-अनुपलक्षणात्
04162 माषक-आदेर् अनाधिक्यम् अनतिः सा उपलक्षणम्
04162 यथास्वम् अक्षेण अदृष्टे रूप-आदाव् अधिक-अधिके
04163 अभ्युपायः स्व-वाग्-आदि-बाधायाः सम्भवेन तु
04163 उदाहरणम् अप्य् अन्यद् दिशा गम्यम् यथोक्तया
04164 त्रि-काल-विषयत्वात् तु कृत्यानाम् अतथात्मकम्
04164 तथा परम् प्रतिन्यस्तम् साध्यं न इष्टं तदा अपि तत्
04165 प्रत्यायन-अधिकारे तु सर्व-असिद्ध-अवरोधिनी
04165 तस्मात् साध्य-श्रुतिर्न् न इष्टं विशेषम् अवलम्बते
04166 तेन अप्रसिद्ध-दृष्टान्त-हेतु-उदाहरणं कृतम्
04166 अन्यथा शश-शृङ्ग-आदौ सर्व-असिद्धे अपि साध्यता
04167 सर्वस्य च अप्रसिद्धत्वात् कथंचित् तेन न क्षमः
04167 कर्म-आदि-भेद-उपक्षेप-परिहार-अविवेचने
04168 प्राग्-असिद्ध-स्वभावत्वात् साध्य-अवयव इत्य् असत्
04168 तुल्य-सिद्धान्तता ते हि येन उपगम-लक्षणाः
04169 समुदायस्य साध्यत्वे अप्य् अन्योन्यस्य विशेषणम्
04169 साध्यं द्वयं तदा असिद्धं हेतु-दृष्टान्त-लक्षणम्
04170 असम्भवात् साध्य-शब्दो धर्मि-वृत्तिर् यदि इष्यते
04170 शास्त्रेण अलं यथायोगं लोक एव प्रवर्तताम्
04171 साधन-आख्यान-सामर्थ्यात् तद्-अर्थे साध्यता गता
04171 हेत्व्-आदि-लक्षणैर् व्याप्तेर् अनाशङ्क्यं च साधनम्
04172 पूर्व-अवधारणे तेन प्रतिज्ञा-लक्षण-अभिधा
04172 व्यर्था व्याप्ति-फला सा उक्तिः सामर्थ्याद् गम्यते ततः
04173 विरुद्धता इष्ट-असम्बन्धो अनुपकार-सहास्थिती
04173 एवं सर्व-अङ्ग-दोषाणां प्रतिज्ञा-दोषता भवेत्
04174 पक्ष-दोषः पर-अपेक्षो न इति च प्रतिपादितम्
04174 इष्ट-असम्भव्य्-असिद्धश् च स एव स्यात् निराकृतः
04175 अनित्यत्व-सहेतुत्वे शब्द एवं प्रकीर्तयेत्
04175 दृष्टान्त-आख्यान् अतो अन्यत् किम् अस्त्य् अत्र अर्थ-अनुदर्शनम्
04176 विशेषे भिन्नम् आख्याय सामान्यस्य अनुवर्तने
04176 न तद्-व्याप्तेः फलं वा किं सामान्येन अनुवर्तने
04177 स्यान् निराकरणं शब्दे स्थितेन एव इत्य् अतो अब्रवीत्
04177 विरुद्ध-विषये अन्यस्मिन् वदन्न् आह अन्यतां श्रुतेः
04178 सा च भेद-अप्रतिक्षेपात् सामान्यानां न विद्यते
04178 वृक्षो न शिंशपा एव इति यथा प्रकरणे क्वचित्
04179 सर्व-श्रुतेर् एक-वृत्तिर्न् निषेधः स्यान् न तावता
04180 ज्ञाप्य-ज्ञापकयोर् भेदाद् धर्मिणो हेतु-भाविनः
04180 असिद्धेर् ज्ञापकत्वस्य धर्म्य्-असिद्धः स्व-साधने
04181 धर्म-धर्मि-विवेकस्य सर्व-भावेष्व् असिद्धितः
04181 सर्वत्र दोषस् तुल्यश् चेन् न संवृत्या विशेषतः
04182 परमार्थ-विचारेषु तथाभूत-प्रसिद्धितः
04182 तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते
04183 अनुमान-अनुमेय-अर्थ-व्यवहार-स्थितिस् त्व् इयम्
04183 भेदं प्रत्यय-संसिद्धम् अवलम्ब्य च कल्प्यते
04184 यथास्वं भेद-निष्ठेषु प्रत्ययेषु विवेकिनः
04184 धर्मी धर्माश् च भासन्ते व्यवहारस् तद्-आश्रयः
04185 व्यवहार-उपनीतो अत्र स एव अश्लिष्ट-भेद-धीः
04185 साध्यः साधनतां नीतस् तेन असिद्धः प्रकाशितः
04186 भेद-सामान्ययोर् धर्म-भेदाद् अङ्ग-अङ्गिता ततः
04186 यथा अनित्यः प्रयत्न-उत्थः प्रयत्न-उत्थतया ध्वनिः
04187 पक्ष-अङ्गत्वे अप्य् अबाधत्वान् न असिद्धिर् भिन्न-धर्मिणि
04187 यथा अश्वो न विषाणित्वाद् एष पिण्डो विषाणवान्
04188 साध्य-काल-अङ्गता वा न निवृत्तेर् उपलक्ष्य तत्
04188 विशेषो अपि प्रतिज्ञा-अर्थो धर्म-भेदान् न युज्यते
04189 पक्ष-धर्म-प्रभेदेन सुख-ग्रहण-सिद्धये
04189 हेतु-प्रकरण-अर्थस्य सूत्र-संक्षेप उच्यते
04190 अयोगं योगम् अपरैर् अत्यन्तायोगम् एव च
04190 व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः
04191 विशेषण-विशेष्याभ्यां क्रियया च सहोदितः
04191 विवक्षातो प्रयोगे अपि तस्य अर्थो अयं प्रतीयते
04192 व्यवच्छेद-फलं वाक्यं यतश् चैत्रो धनुर्धरः
04192 पार्थो धनुर्धरो नीलं सरोजम् इति वा यथा
04193 प्रतियोगि-व्यवच्छेदस् तत्र अप्य् अर्थेषु गम्यते
04193 तथा प्रसिद्धेः सामर्थ्याद् विवक्षा-अनुगमाद् ध्वनेः
04194 तद् अयोगव्यवच्छेदाद् धर्मि-धर्म-विशेषणम्
04194 तद्-विशिष्टतया धर्मो न निरन्वय-दोष-भाक्
04195 स्वभाव-कार्य-सिद्ध्य्-अर्थं द्वौ द्वौ हेतु-विपर्ययौ
04195 विवादाद् भेद-सामान्ये शेषो व्यावृत्ति-साधनः
04196 न हि स्वभावाद् अन्येन व्याप्तिर् गम्यस्य कारणे
04196 सम्भवाद् व्यभिचारस्य द्विधा वृत्ति-फलं ततः
04197 प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न
04197 तस्य आवृत्त्य्-अक्ष-शब्देषु सर्वथा अनुपयोगतः
04198 कदाचिन् निरपेक्षस्य कार्य-आकृति-विरोधतः
04198 कादाचित्क-फलं सिद्धं तल्-लिङ्गं ज्ञानम् ईदृशम्
04199 एतेन एव प्रसिद्धो अपि स्वभावस्य पृथक् कृतिः
04199 कार्येण सह निर्देशे मा ज्ञासीत् सर्वम् ईदृशम्
04200 व्युत्पत्त्य्-अर्थी च हेतु-उक्तिर् उक्त-अर्थ-अनुमितौ कृता
04200 प्रभेद-मात्रम् आख्यातं लक्षणं तु न भिद्यते
04201 तेन अत्र कार्य-लिङ्गेन स्वभावो अप्य् एकदेश-भाक्
04201 सदृश-उदाहृतिश् च अतः प्रयत्नाद् व्यक्ति-जन्मनः
04202 यन् नान्तरीयका सत्ता यो वा आत्मा स्वो अविभागवान्
04202 स तेन अव्यभिचारी स्याद् इत्य् अर्थं तत् प्रभेदनम्
04203 संयोग्य्-आदिषु येष्व् अस्ति प्रतिबन्धो न तादृशम्
04203 न ते हेतव इत्य् उक्तं व्यभिचारस्य सम्भवात्
04204 सति वा प्रतिबन्धेस् तु स एव गति-साधनः
04204 नियमो ह्य् अविनाभावो अनित्यश् च न साधनम्
04205 ऐकान्तिकत्वं व्यावृत्तेर् अविनाभाव उच्यते
04205 तच् च न अप्रतिबद्धेषु तत एव अन्वय-स्थितिः
04206 स्वात्मत्वे हेतु-भावे वा सिद्धे हि व्यतिरेकिता
04206 सिध्यत्य् अतो विशेषे न व्यतिरेको न च अन्वयः
04207 अदृष्टि-मात्रम् आदाय केवलं व्यतिरेकिता
04207 उक्ता अनैकान्तिकस् तस्माद् अन्यथा गमको भवेत्
04208 प्राण-आद्य्-अभावो नैरात्म्य-व्याप्ती इति विनिवर्तने
04208 आत्मनो विनिवर्तेत प्राण-आदिर् यदि तच् च न
04209 अन्यस्य विनिवृत्त्या अन्य-विनिवृत्तेर् अयोगतः
04209 तदात्मा तत्-प्रसूतश् चेन् न एतद् आत्म-उपलम्भने
04210 तस्य उपलब्धाव् अगताव् अगतौ च प्रसिध्यति
04210 ते च अत्यन्तपरोक्षस्य दृष्ट्य्-अदृष्टी न सिध्यतः
04211 अन्यत्र अदृष्ट-रूपस्य घट-आदौ न इति वा कुतः
04211 अज्ञात-व्यतिरेकस्य व्यावृत्तेर् व्यापिता कुतः
04212 प्राण-आदेश् च क्वचिद् दृष्ट्या सत्त्व-असत्त्वं प्रतीयते
04212 तथा आत्मा यदि दृश्येत सत्त्व-असत्त्वं प्रतीयते
04213 यस्य हेतोर् अभावेन घटे प्राणो न दृश्यते
04213 देहे अपि यद्य् असौ न स्याद् युक्तो देहेन सम्भवः
04214 भिन्ने अपि किंचित् साधर्म्याद् यदि तत्त्वं प्रतीयते
04214 प्रमेयत्वाद् घट-आदीनां सात्मत्वं किं न मीयते
04215 अनिष्टं चेत् प्रमाणं हि सर्व-इष्टीनां निबन्धनम्
04215 भाव-अभाव-व्यवस्थां कः कर्तुं तेन विना प्रभुः
04216 स्मृति-इच्छा-यत्नजः प्राण-निमेष-आदिस् तद्-उद्भवः
04216 विषय-इन्द्रिय-चित्तिभ्यस् ताः स्व-जाति-समुद्भवाः
04217 अन्योन्य-प्रत्यय-अपेक्षा अन्वय-व्यतिरेक-भाक्
04217 एताव् अत्यात्मभावो अयम् अनवस्था-अन्य-कल्पने
04218 श्रावणत्वेन तत्-तुल्यं प्राण-आदि-व्यभिचारतः
04218 न तस्य व्यभिचारित्वाद् व्यतिरेके अपि चेत् कथम्
04219 न असाध्याद् एव विश्लेषस् तस्य नन्व् एवम् उच्यते
04219 साध्ये अनुवृत्त्य्-अभावो अर्थात् तस्य अन्यत्र अप्य् असौ समः
04220 असाध्याद् एव विच्छेद इति साध्ये अस्तिता उच्यते
04220 अर्थापत्त्या अत एव उक्तम् एकेन द्वय-दर्शनम्
04221 ईदृग्-अव्यभिचारो अतो अनन्वयेषु न सिध्यति
04221 प्रतिषेध-निषेधश् च विधानात् कीदृशो अपरः
04222 निवृत्तिर्न् न असतः साध्याद् असाध्येष्व् एव नो ततः
04222 न इति सा एव निवृत्तिः किं निवृत्तेर् असतो मता
04223 निवृत्त्य्-अभावस् तु विधिर् वस्तु-भावो असतो अपि सन्
04223 वस्त्व्-अभावस् तु न अस्ति इति पश्य बान्ध्य-विजृम्भितम्
04224 निवृत्तिर् यदि तस्मिन् न हेतोर् वृत्तिः किं निषिध्यते
04224 सा अपि न प्रतिषेधो अयं निवृत्तिः किं निषिध्यते
04225 विधानं प्रतिषेधं च मुक्त्वा शाब्दो अस्ति न अपरः
04225 व्यवहारः स च असत्सु न इति प्राप्ता अत्र मूकता
04226 सतां च न निषेधो अस्ति सो असत्सु च न विद्यते
04226 जगत्य् अनेन न्यायेन नञ्-अर्थः प्रलयं गतः
04227 देश-काल-निषेधश् चेद् यथा अस्ति स निषिध्यते
04227 न तथा न यथा सो अस्ति तथा अपि न निषिध्यते
04228 तस्माद् आश्रित्य शब्द-अर्थं भाव-अभाव-समाश्रयम्
04228 अबाह्य-आश्रयम् अत्र इष्टं सर्वं विधि-निषेधनम्
04229 ताभ्यां स धर्मी सम्बद्धः ख्यात्य्-अभावे अपि तादृशः
04229 शब्द-प्रवृत्तेर् अस्ति इति सो अपि इष्टो व्यवहार-भाक्
04230 अन्यथा स्यात् पदार्थानां विधान-प्रतिषेधने
04230 एक-धर्मस्य सर्वात्म-विधान-प्रतिषेधनम्
04231 अनाना-आत्म-आत्मतया भेदे नाना-विधि-निषेध-वत्
04231 एक-धर्मिण्य् असंहारो विधान-प्रतिषेधयोः
04232 एकं धर्मिणम् उद्दिश्य नाना-धर्म-समाश्रयम्
04232 विधाव् एकस्य तद्-भाजाम् इव अन्येषाम् उपेक्षकम्
04233 निषेधे तद्-विविक्तं च तद् अन्येषाम् अपेक्षकम्
04233 व्यवहारम् असत्य-अर्थं प्रकल्पयति धीर् यथा
04234 तं तथा एव अविकल्प्य-अर्थ-भेद-आश्रयम् उपागताः
04234 अनादि-वासना-उद्भूतं बाधन्ते अर्थं न लौकिकम्
04235 तत्-फलो अतत्-फलश् च अर्थो भिन्न एकस् ततस् ततः
04235 तैस् तैर् उपप्लवैर्न् नीत-संचय-अपचयैर् इव
04236 अतद्वान् अपि सम्बन्धात् कुतश्चिद् उपनीयते
04236 दृष्टिं भेद-आश्रयैस् ते अपि तस्माद् अज्ञात-विप्लवाः
04237 सत्ता-साधन-वृत्तेश् च सन्दिग्धः स्याद् असन् न सः
04237 असत्त्वं च अभ्युपगमाद् अप्रमाणान् न युज्यते
04238 असतो अव्यतिरेके अपि सपक्षाद् विनिवर्तनम्
04238 सन्दिग्धं तस्य सन्देहाद् विपक्षाद् विनिवर्तनम्
04239 एकत्र नियमे सिद्धे सिध्यत्य् अन्य-निवर्तनम्
04239 द्वैराश्ये सत्य् अदृष्टे अपि स्याद् अदृष्टेषु संशयः
04240 अव्यक्ति-व्यापिनो अप्य् अर्थाः सन्ति तज्-जाति-भाविनः
04240 क्वचिन् न नियमो दृष्ट्या पार्थिव-अलोह-लेख्य-वत्
04241 भावे विरोधस्य अदृष्टौ कः सन्देहं निवर्तयेत्
04241 क्वचिद् विनियमात् को अन्यस् तत्-कार्य-आत्मतया स च
04242 नैरात्म्याद् अपि तेन अस्य सन्दिग्धं विनिवर्तनम्
04242 अस्तु नाम तथा अप्य् आत्मा न अनैरात्म्यात् प्रसिध्यति
04243 येन असौ व्यतिरेकस्य न अभावं भावम् इच्छति
04243 यथा न अव्यतिरेके अपि प्राण-आदिर्न् न सपक्षतः
04244 सपक्ष-अव्यतिरेकी चेद् हेतुर् हेतुर् अतो अन्वयी
04244 न अन्वय्य् अव्यतिरेकी चेद् अनैरात्म्यं न सात्मकम्
04245 यन् नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु
04245 निवर्तकः स एव अतः प्रवृत्तौ च प्रवर्तकः
04246 नान्तरीयकता सा च साधनं समपेक्षते
04246 कार्ये दृष्टिर् अदृष्टिश् च कार्यकारणता हि ते
04247 अर्थ-अन्तरस्य तद्-भावे अभावो नियमतो अगतिः
04247 अभाव-असम्भवात् तेषाम् अभावे नित्य-भाविनः
04248 कार्य-स्वभाव-भेदानां कारणेभ्यः समुद्भवात्
04248 तैर् विना भवतो अन्यस्मात् तज्जं रूपं कथं भवेत्
04249 सामग्री-शक्ति-भेदाद् हि वस्तूनां विश्वरूपता
04249 सा चेन् न भेदिका प्राप्तम् एक-रूपम् इदं जगत्
04250 भेदक-अभेदकत्वे स्याद् व्याहता भिन्न-रूपता
04250 एकस्य नाना-रूपत्वे द्वे रूपे पावक-इतरौ
04251 तत् तस्य अजननं रूपम् अन्यस्य यदि सा एव सा
04251 न तस्य अजननं रूपं तत् तस्याः सम्भवेत् कथम्
04252 ततः स्वभावौ नियताव् अन्योन्यं हेतु-कार्ययोः
04252 तस्मात् स्व-दृष्टाव् इव तद् दृष्टे कार्ये अपि गम्यते
04253 एकं कथम् अनेकस्मात् क्लेद-वद् दुग्ध-वारिणः
04253 द्रव-शक्तेर् यतः क्लेदः सा त्व् एका एव द्वयोर् अपि
04254 भिन्न-अभिन्नः किम् अस्य आत्मा भिन्नो अथ द्रवता कथम्
04254 अभिन्ना इत्य् उच्यते बुद्धेस् तद्-रूपाया अभेदतः
04255 तद्वद् भेदे अपि दहनो दहन-प्रत्यय-आश्रयः
04255 येन अंशेन अदधद् धूमं तेन अंशेन तथा गतिः
04256 दहन-प्रत्यय-अङ्गाद् एव अन्य-अपेक्षात् समुद्भवात्
04256 धूमो अतद्-व्यभिचारि इति सिद्धं कार्यं तथा परम्
04257 धूम-इन्धन-विकार-अङ्गता-पदे दहन-स्थितेः
04257 अनग्निश् चेद् अधूमो असौ सधूमश् चेत् सपावकः
04258 नान्तरीयकता ज्ञेया यथास्वं हेत्व्-अपेक्षया
04258 स्वभावस्य यथोक्तं प्राक् विनाश-कृतकत्वयोः
04259 अहेतुत्व-गति-न्यायः सर्वो अयं व्यतिरेकिणः
04259 अभ्यूह्यः श्रावणत्व-उक्तेः कृतायाः साम्य-दृष्टये
04260 हेतु-स्वभाव-व्यावृत्त्या एव अर्थ-व्यावृत्ति-वर्णनात्
04260 सिद्ध-उदाहरणा इत्य् उक्त-अनुपलब्धिः पृथग् न तु
04261 तत्र अप्य् अदृश्यात् पुरुषात् प्राण-आदेर् अनिवर्तनात्
04261 सन्देह-हेतुता-आख्यात्या दृश्य-अर्थे सा इति सूचितम्
04262 अनङ्गीकृत-वस्त्व्-अंशो निषेधः साध्यते नया
04262 वस्तुन्य् अपि तु पूर्वाभ्यां पर्युदासो विधानतः
04263 तत्र उपलभ्येष्व् अस्तित्वम् उपलब्धेर् न च अपरम्
04263 इत्य् अज्ञ-ज्ञापनाय एक-अनुपाख्य-उदाहृतिर् मता
04264 विषय-असत्त्वतस् तत्र विषयि प्रतिषिध्यते
04264 ज्ञान-अभिधान-सन्देहं यथा अदाहाद् अपावकः
04265 तथा अन्या न उपलभ्येषु न अस्तिता अनुपलम्भनात्
04265 तज्-ज्ञान-शब्दाः साध्यन्ते तद्भावात् तन्-निबन्धनाः
04266 सिद्धो हि व्यवहारो अयं दृश्य-अदृष्टाव् असन्न् इति
04266 तस्याः सिद्धाव् असन्दिग्धौ तत्-कार्यत्वे अपि धी-ध्वनी
04267 विद्यमाने हि विषये मोहाद् अत्र अननुब्रुवन्
04267 केवलं सिद्ध-साधर्म्यात् स्मार्यते समयं परः
04268 कार्यकारणता यद्वत् साध्यते दृष्ट्य्-अदृष्टितः
04268 कार्य-आदि-शब्दा हि तयोर् व्यवहाराय कल्पिताः
04269 कारणात् कार्य-संसिद्धिः स्वभाव-अन्तर्गमाद् इयम्
04269 हेतु-प्रभेद-आख्यायेन दर्शित-उदाहृतिः पृथक्
04270 एक-उपलम्भ-अनुभवाद् इदं न उपलभे इति
04270 बुद्धेर् उपलभे वा इति कल्पिकायाः समुद्भवः
04271 विशेषो गम्यते अर्थानां विशिष्टाद् एव वेदनात्
04271 तथाभूत-आत्म-संवित्तिर् भेद-धी-हेतुर् अस्य च
04272 तस्मात् स्वतो धियोर् भेद-सिद्धिस् ताभ्यां तद्-अर्थयोः
04272 अन्यथा ह्य् अनवस्थानाद् भेदः सिध्येन् न कस्यचित्
04273 विशिष्ट-रूप-अनुभवान् न अतो अन्य-अन्य-निराक्रिया
04273 तद्-विशिष्ट-उपलम्भो अतः तस्य अप्य् अनुपलम्भनम्
04274 तस्माद् अनुपलम्भो अयं स्वयं प्रत्यक्षतो गतः
04274 स्व-मात्र-वृत्तेर् गमकस् तद्-अभाव-व्यवस्थितेः
04275 अन्यथा अर्थस्य नास्तित्वं गम्यते अनुपलम्भतः
04275 उपलम्भस्य नास्तित्वम् अन्येन इत्य् अनवस्थितिः
04276 अदृश्ये निश्चय-अयोगात् स्थितिर् अन्यत्र वार्यते
04276 यथा अलिङ्गो अन्य-सत्त्वेषु विकल्प-आदिर् न सिध्यति
04277 अनिश्चय-फला ह्य् एषा न अलं व्यावृत्ति-साधने
04277 आद्या अधिक्रियते हेतोर् निश्चयेन एव साधने
04278 तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते
04278 अर्थ-बाधन-रूपं वा भावे भावाद् अभावतः
04279 अन्योन्य-भेद-सिद्धेर् वा ध्रुव-भाव-विनाश-वत्
04279 प्रमाण-अन्तर-बाधाद् वा सापेक्ष-ध्रुव-भाव-वत्
04280 हेत्व्-अन्तर-समूहस्य संनिधौ नियमः कुतः
04280 भाव-हेतु-भवत्वे किं पारंपर्य-परिश्रमैः
04281 नाशनं जनयित्वा अन्यं स हेतुस् तस्य नाशनः
04281 तम् एव नश्वरं भावं जनयेद् यदि किं भवेत्
04282 आत्म-उपकारकः कः स्यात् तस्य सिद्ध-आत्मनः सतः
04282 न आत्म-उपकारकः कः स्यात् तेन यः समपेक्ष्यते
04283 अनपेक्षश् च किं भावो अतथाभूतः कदाचन
04283 यथा न क्षेप-भाग् इष्टः स एव उद्भूत-नाशकः
04284 क्षणम् अप्य् अनपेक्षत्वे भावो भावस्य न इति चेत्
04284 भावो हि स तथाभूतो अभावे भावस् तथा कथम्
04285 ये अपर-अपेक्ष-तद्भावास् तद्भाव-नियता हि ते
04285 असम्भवाद् विबन्धे च सामग्री कार्य-कर्मणि
04286 अनध्यवसित-अवगाहनम् अनल्प-धी-शक्तिना अप्य्
04286 अदृष्ट-परमार्थ-सारम् अधिक-अभियोगैर् अपि
04286 मतं मम जगत्य् अलब्ध-सदृश-प्रतिग्राहकम्
04286 प्रयास्यति पयोनिधेः पय इव स्व-देहे जराम्
मूल पाठ: Pramāṇavārttikakārikā (without the svārthānumāna-chapter) · Edition: d Y. MIYASAKA, Pramanavarttika-Karika (Sanskrit and Tibetan). Acta Indologica 2, 1971/72, 1-206. [The chapters II, III of our ordering correspond to the chapters I, II of Miyasaka's edition] · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0