भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिक · अध्याय 3

3.1

तृतीयः स्वार्थानुमानपरिच्छेदः
स्वोपज्ञवृत्तिसहितः
पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
अविनाभावनियमाद्धेत्वाभासास्ततो ऽपरे

3.2

कार्य स्वभावैर्यावद्भिरविनाभावि कारणे ।
हेतुः स्वभावे भावो ऽपि भावमात्रानुरोधिनि

3.3

अप्रवृत्तिः प्रमाणानाम् अप्रवृत्तिफलासति ।
असज्ज्ञानफला काचिद् हेतुभेदव्यपेक्षया

3.4

विरुद्धकार्योः सिद्धिरसिद्धिर्हेतुभावयोः ।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा

3.5

तद्विरुद्धिनिमित्तस्य योपलब्धिः प्रयुज्यते ।
निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी

3.6

इष्टं विरुद्धकार्ये ऽपि देशकालाअद्यपेक्षणम् ।
अन्यथा व्यभिचारि स्यात् भस्मेवाशीतसाधने

3.7

हेतुना यः समग्रेण कायात्पादो ऽनुमीयते ।
अर्थान्तरानपेक्षत्वात् स स्वभावो ऽनुवर्नितः

3.8

सामग्रीफलशक्तीनां परिणामानुबन्धिनि ।
अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्

3.9

एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत्

3.10

शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् ।
इत्यतीतैककालानां गतिस्तस्तत्कार्यलिङ्गजा

3.11

हेतुना यो ऽसमग्रेण कार्योत्पादो ऽनुमीयते ।
तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत्

3.12

विपक्षे ऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत्

3.13

न चादर्शनमात्रेण विपक्षे ऽव्यभिचारिता ।
सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत्

3.14

यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते ।
तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम्

3.15

हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः ।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः

3.16

व्यभिचारिविपक्षेण वधर्म्यवचनं च यत् ।
यद्यदृष्टिफलं तच्च तदनुक्ते ऽपि गम्यते

3.17

न च नास्तीति वचनात् तन्नास्त्येव यथा यदि ।
नास्ति स ख्याप्यते न्यायस्तदा नास्तीति गम्यते

3.18

यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् ।
व्यतिरेक्यपि हेतुः स्यान्न वाच्याअसिद्धियोजना

3.19

विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् ।
प्रमाणान्तरबाधा चेन्नेदानीं नास्तितादृशः

3.20

तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् ।
दृष्टायुक्तिरदृष्टेश्च स्यात् स्पर्शस्यविरोधिनी

3.21

देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः ।
तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः

3.22

आत्ममृच्चेतनादीनां यो ऽभावस्याप्रसाधकः ।
स एवानुपलम्भः किं हेत्वभावस्य साधकः

3.23

तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव वा ।
निर्वतयेत् कारणं वा कायमव्यभिचारतः

3.24

अन्यथकनिवृत्तयान्यविनिवृत्तिः कथं भवेत् ।
नाश्चवानिति मर्त्येन न भाव्यं गोमतापि किम्

3.25

सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः ।
गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम्

3.26

तस्माद् वैधर्म्यदृष्टान्ते नेष्टो ऽवश्यमिहाश्रयः ।
तदभावे च तन्नेति वचनादपि तद्गतिः

3.27

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः

3.28

तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः ।
अर्थापत्त्या द्वितीये ऽपि स्मृतिः समुपजायते

3.29

हेतुस्वभावाभावो ऽतः प्रतिषेधे च कस्यचित् ।
हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम्

3.30

इतीयं त्रिविधोक्त ऽप्यनुपलब्धिरनेकधा ।
तत्तद्विरिद्धाद्यगतिभेदप्रयोगतः

3.31

कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमो ऽदर्शनान्न न दर्शनात्

3.32

अवश्यंभावनियमः कः परस्यान्यथा परैः ।
अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत्

3.33

अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः ।
पश्याद् भावान्न हेतुत्वं फले ऽप्येकान्तता कुतः

3.34

कार्य धूमो हुतभुजः कायधर्मानुवृत्तितः ।
तस्याभावे तु स भवन् हेतुमतां विलङ्घयेत्

3.35

नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः

3.36

अग्निस्वभावः शक्रम्य मूर्धा यद्यग्निरेव सः ।
अथानग्निस्वभावो ऽसौ धूमस्तत्र कथं भवेत्

3.37

धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् ।
अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः

3.38

अन्वयव्यतिरेकाद् यो यस्य दृष्टो ऽनुवर्तकः ।
स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः

3.39

स्वभावे ऽप्यविनाभावो भावमात्रानुरोधिनि ।
तद्भावे स्वयम्भावस्याभावः स्यादभेदतः

3.40

सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः ।
स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः

3.41

तस्माद् यतो यतो ऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः

3.42

तस्माद् विशेषो यो येन धर्मेण सम्प्रतीयते ।
न द शक्यस्ततो ऽन्येन तेन भिन्ना व्यवस्थितिः

3.43

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
को ऽन्यो भागो न दृष्टः स्याद् यः प्रमाणैः परीक्ष्यते

3.44

नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्

3.45

तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते नेति साधनं सम्प्रवर्तते

3.46

वस्तुग्रहे ऽमनुमानाच्च धर्मस्यैकस्य निश्चये ।
सर्वग्रहो ह्यपोहे तु नायं दोषः प्रसज्यते

3.47

तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम् ।
अन्यथा धर्मिणः सिद्धवसिद्धं किमतः परम्

3.48

क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् ।
कथमन्योपोहविषयं तन्मात्रापोहगोचरम्

3.49

निश्चयारोपमनसिर्बाध्यबाधकभावतः ।
समारोपविवेके ऽस्य प्रवृत्तिरिति गम्यते

3.50

यावन्तों ऽशसमारोपास्तन्निरासे विनिश्चयाः ।
तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः

3.51

अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि ।
बुद्ध् या वा नान्यविसय इति पर्यायता भवेत्

3.52

यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे

3.53

सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ।
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः

3.54

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तदा स्यादनवस्थितिः

3.55

एकोपकारके ग्राह्ये नोपकारास्ततो ऽपरे ।
दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रहः

3.56

यदि भ्रान्तिनिवृत्त्यर्थ गृहीते ऽप्यन्यदिष्यते ।
तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततो ऽपरम्

3.57

असमारोपविषये वृत्ते रपि च निश्चयैः ।
यन्न निश्चीयते रूपं तत् तेषां विषयः कथम्

3.58

प्रत्यक्षेण गृहीते ऽपि विशेर्षे ऽशविबर्जिते ।
यद्विशेषावसाये ऽस्ति प्रत्ययः स प्रतीयते

3.59

तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि ।
शब्दाश्च निश्चयाश्चैव निमित्तमनुरिन्धते

3.60

द्वयोरेकाभिधाने ऽपि बिभक्तिर्व्यतिरेकिणी ।
भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः

3.61

भेदान्तरप्रतिक्षे पाप्रतिक्षेपौ तयोर्द्वयोः ।
पदं संकेतभेदस्य ज्ञातृवाञ्छानुरिधिनः

3.62

भेदो ऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।
शब्दयोओर्न तयोर्वाच्ये विशेषस्तेन कश्चन

3.63

जिज्ञापयिषुरर्थ तं तद्धितेन तं तद्धितेन कृतापि वा ।
अन्तेन वा यदि ब्रू यात् भेदो नास्ति ततः परः

3.64

तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम् ।
प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः

3.65

येषां वस्तुवशा वाचो न वोइवक्षापराश्रयाः ।
षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत्

3.66

यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते ।
अनपेक्षितवाह्यार्थ तत् तथा वाचकं वचः

3.67

दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः ।
खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम्

3.68

पररूपं स्वरूपेण यया संव्रियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः

3.69

तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
अभेदिन इवाभान्ति भावा रूपेण केनचित्

3.70

तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
तदसत् परमार्थेन यथा सङ्कल्पितं तया

3.71

व्यक्तयो नानुयन्त्यन्यसनुयायि न भासते ।
ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत्

3.72

तस्मान्मिथ्याविकल्पो ऽयमर्थेष्वेकात्मताग्रहः ।
इतरेतरभेदो ऽस्य बीजं संज्ञा यदर्थिका

3.73

एकप्रत्यवमर्शार्थज्ञानाद्ये काथसाधने ।
भेदे ऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत्

3.74

ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा ।
दृष्टा यथा वौषधयो नानात्वे ऽपि न चापराः

3.75

अविशेषान्न सामान्यमविशेषप्रसङ्गतः ।
तासां क्षेत्रादिभेदे ऽपि ध्रौव्याच्चानुपकारतः

3.76

तत्स्वभावग्रहाद् या धीस्तदर्थे वाप्यनर्थिका ।
विकल्पिकातत्कार्यार्थभेदनिष्ठा प्रजायते

3.77

तस्यां यद्रू पमाभाति बाह्यमेकमिवान्यतः ।
व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः

3.78

अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः ।
अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः

3.79

त एव तेषां सामान्यसमानाधारगोचरैः ।
ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते

3.80

स च सर्वः पदार्थानामन्योन्याभावसंश्रयः ।
तेनान्यापोहविषयो वस्तुमाभस्य चाश्रयः

3.81

यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा ।
नान्यत्र भ्रान्तिसाम्ये ऽपि दीपतेजो मणौ यथा

3.82

तत्रैककार्यो ऽनेको ऽपि तदकार्यान्यताश्रयः ।
एकत्वेनाभिधाज्ञानैर्व्यवहारः प्रतार्यते

3.83

ततो ऽनेककृदेको ऽपि तद्भावपरिदीपने ।
अतत्कार्यार्थभेदेन नानाधर्मा प्रतीयते

3.84

यथाप्रतीति कथितः शब्दार्थो ऽसावसन्नपि ।
समानाधिकरण्यं च वस्तुन्यस्य न सम्भवः

3.85

धर्मधर्मिव्यस्थानं भेदो ऽभेदश्च यादृशः ।
असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते

3.86

तं तथैव समाश्रित्य साध्यसाधनंसंस्थितिः ।
परमार्थावताराय विद्वद्भिरवकल्प्यते

3.87

संसृज्यन्ते न भिद्यन्ते स्वतो ऽर्थाः पारमार्थिकाः ।
रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः

3.88

भेदस्ततो ऽयं बौद्धे ऽर्थे सामान्यं भेद इत्यपि ।
तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते

3.89

साध्यसाधनसंकल्पे वस्तुदर्शनहानितः ।
भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम्

3.90

समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथंचन ।
भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः

3.91

तद्रू पं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
न श्रुतिः कल्पना वास्ति समान्येनैव वृत्तितः

3.92

शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न

3.93

अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान् ।
तत्साधनायेत्यर्थेषु संयोज्यन्ते ऽभिधाक्रियाः

3.94

तत्रानर्थक्रियायोग्या जातिस्तद्वानलं स च ।
साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम्

3.95

तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः ।
तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा

3.96

तदन्यपरिहारेण प्रवर्तेतेति च ध्वनिः ।
उच्यते तेन तेभ्यो ऽस्याव्यवच्छेदे कथं च सः

3.97

व्यवच्छेदो ऽस्ति चेदस्य नन्वेतावत् प्रयोजनम् ।
शब्दानामिति किं तत्र सामान्येनापरेण वः

3.98

ज्ञानाद्यर्थक्रियां तां तां दृष्ट्वा भेदे ऽपि कुवतः ।
अर्थां स्तदन्यविश्लेषविषयैर्ध्वनिभिः सह

3.99

संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने ।
परस्यापि न सा बुद्धिः सामान्यादेव केवलात्

3.100

नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः ।
तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः

3.101

तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् ।
एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम्

3.102

तदेकं वस्तु किं तासां नानात्वं समपोहति ।
नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते

3.103

अनेकमपि यद्ये कमपेक्ष्याभिन्नबुद्धिकृत् ।
ताभिर्विनापि प्रत्यकं क्रियमाणां धियं प्रति

3.104

तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया ।
नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात्

3.105

शक्तिसिद्धिः समूहे ऽपि नैवं व्यक्तेः कथञ्चन ।
तासामन्यतामापेक्ष्यं तच्चेच्छक्तं न केवलम्

3.106

तदेकमुपकुर्युस्ताः कथमेकां धियं च न ।
कार्य च तासां प्राप्तो ऽसौ जननं यदुपक्रिया

3.107

अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् ।
प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात्

3.108

कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता ।
सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते

3.109

एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता

3.110

सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः ।
अदृष्टेः प्रतिषेधाच्च संकेतस्तद्विदर्थिकः

3.111

अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः ।
अकार्यकृति तत्कारितुल्यरूपावभासिनीम्

3.112

धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् ।
जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः

3.113

वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता ।
ततो ऽन्यापोहविषया तत्कर्त्राश्रितभावतः

3.114

अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् ।
अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः

3.115

सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते ।
तेषामवृक्षाः संङ्केते व्यवच्छिन्ना न वा यदि

3.116

व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते ।
अनिराकरणे तेषां संकेते व्यवहारिणाम्

3.117

न स्यात् तत्परिहारेण प्रवृत्तिर्वृ क्षभेदवत् ।
अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम्

3.118

वृक्षो ऽयमिति संकेतः क्रियते तत् प्रपद्यते ।
व्यवहारे ऽपि तेनायमदोष इति चेत् तरुः

3.119

अयमप्ययमेवेति प्रसङ्गो न निवर्तते ।
एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः

3.120

प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् ।
तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः

3.121

अहेतुरूपविकलानेकरूपानिव स्वयम् ।
भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते

3.122

तं तस्या प्रतियती धीः भ्रान्त्यैकं वस्त्विवेक्षते ।
क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन

3.123

बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् ।
व्यर्थो ऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादिपदेष्वपि

3.124

व्यवहारोपनीतेषु व्यवच्छेद्यो ऽस्ति कश्चन ।
निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम्

3.125

तद्भेदे भिद्यमानानां समानाकारभासिनि ।
स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः

3.126

कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चिन ।
तद्गतावेव शब्देभ्यो गम्यते ऽन्यनिवर्तनम्

3.127

न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः ।
न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ

3.128

अरूपो रूपत्त्वेन दर्शनं बुद्धिविप्लवः ।
तेनैवापरमार्थो ऽसावन्यथा न हि वस्तुनः

3.129

व्यावृत्तिर्वस्तु भवति भेदो ऽस्यास्मादितिरणात् ।
एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः

3.130

लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन ।
यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः

3.131

भवेन्नानाफलः शब्द एकाधारो भवत्यतः ।
विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्तते

3.132

यदान्यत् तेन स व्याप्त एकत्वेन च भासते ।
सामानधिकरण्यं स्यात् तदा बुद्धयनुरोधतः

3.133

वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं स हि तत्रेति नैकवस्त्वभिधायिनि

3.134

बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् ।
तेनान्यापोहविषयाः प्रोक्ताः सामान्यागोचराः

3.135

शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् ।
एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः

3.136

अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ ।
अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः

3.137

सर्वत्र भावद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः ।
एकाकार्येषु भावेषु तत्कार्यपरिचोदने

3.138

गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः ।
कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना

3.139

न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः ।
यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत्

3.140

अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते ।
अर्थाभेदेन च विना शब्दाभेदो न युज्यते

3.141

तस्मात् तत्कार्यतापीष्टा तत्कार्यादेव भिन्नता ।
चक्षु रादौ यथा रूपविज्ञानैकफले क्वचित्

3.142

अविशेषेरेण तत्कार्यचोदनसम्भवे सति ।
सकृत् सर्वप्रतीत्यर्थ कश्चित् सांकेतिकीं श्रुतिम्

3.143

कुर्यादृते ऽपि तद्रू पसामान्याद् व्यतिरेकिणः ।
एकवृत्तेरनेको ऽपि यद्येकश्रुतिमान् भवेत्

3.144

वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ।
नित्यस्यानुपकार्यस्वान्नाधारः प्रविसर्पतः

3.145

शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु ।
न सम्भवति साप्यत्र तदभावे ऽप्यवस्थितेः

3.146

न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने ।
विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत्

3.147

तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् ।
प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते

3.148

सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च

3.149

प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः ।
व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते

3.150

प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः ।
व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते

3.151

तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ।
एकत्र तत्सतो ऽन्यत्र दर्शनासम्भवात् सतः

3.152

अनन्यत्वे ऽन्वयाभावादन्यत्वे ऽप्यनपाश्रयात् ।
न याति न च तत्रासीदस्ति पश्चान्न चांशवत्

3.153

जहाति पूर्व नाधारमहो व्यसनसन्ततिः ।
अन्यत्र वर्त्तमानस्य ततो ऽन्यस्थानजन्मनि

3.154

स्वस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तिमत् ।
यत्रासौ वर्त्तते भावस्तेन सम्बध्यते ऽपि न

3.155

तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ।
व्यक्त्यैवैकत्र सा व्यक्ताअभेदात् सर्वत्रगा यदि

3.156

सर्वत्र दृश्येताभेदात् सापि न व्यक्तपेक्षिणी ।
ब्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक् प्रतीयते

3.157

विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ।
पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः

3.158

भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् ।
श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्चकर्मणः

3.159

असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् ।
अतिप्रसंगात् कर्मापि नासत् ज्ञानाभिधानयोः

3.160

अनैमित्तिकतापत्तेः न च शक्तिरनन्वयात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत्

3.161

व्यक्तं सत्तदिवन्नो चेन्न पश्चादविशेषतः ।
क्रियोपकारापेक्षस्य व्यञ्जकत्वे ऽविकारिणः

3.162

नापेक्षातिशये ऽप्यस्य क्षणिकत्वात् क्रिया कुतः ।
तुल्ये भेदे यया जाति प्रत्यासत्त्या प्रसर्पति

3.163

क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।
न निवृत्तिं विहायास्ति यदि भावान्वयो ऽपरः

3.164

एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः ।
यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः

3.165

आत्मैकत्रापि वा सो ऽस्तीति व्यर्थाः स्युः सहकारिणः ।
नपैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः

3.166

एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः ।
स पारमार्थिको भावो य एवार्थक्रियाक्षमः

3.167

स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः ।
तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः

3.168

स्वभावो ऽयमभेदे तु स्यातां नोशोद्भवौ सकृत् ।
भेदो ऽपि तेन नैवं चेत् य एकस्मिन् विनश्यति

3.169

तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः ।
निवृत्तेर्निःस्वभावत्वात् नास्थानस्थानकल्पना

3.170

उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा ।
यत् तस्य जनकं रूपं ततो ऽन्यो जनकः कथम्

3.171

भिन्ना विशेषा जनकाः अस्त्यभेदो ऽपि तेषु चेत् ।
तेन ते ऽजनकाः प्रोक्ताः प्रतिभासो ऽपि भेदकः

3.172

अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयो ऽपरे ।
तत् कार्यकारणं चोक्तं तत् स्वलक्षणमिष्यते

3.173

तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः ।
यथा भेदाविशेषे ऽपि न सर्व सर्वसाधनम्

3.174

तथा भेदाविशेषे ऽपि न सर्व सर्वसाधनम् ।
भेदे हि कारकं किञ्चिद् वस्तुधर्मतया भवेत्

3.175

अभेदे तु विरुध्यते तस्यैकस्य क्रियाक्रिये ।
भेदो ऽप्यस्त्यक्रियातश्चेद् न कुर्युः सहकारिणः

3.176

पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः ।
अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि

3.177

अन्योन्यं वा तयोर्भेद्ः सदृशासदृशात्मनोः ।
तयोरपि भवेद् भेदो यदि येनात्मना तयोः

3.178

भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना ।
भेद एव तथा च स्यान्निःसामान्यविशेषता

3.179

भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।
यमात्मानं पुरस्कृत्य पुरुषो ऽयं प्रवर्तते

3.180

तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ ।
चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता

3.181

अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
एतेनैव यदह्रीकाः किमप्यश्लीलमाकुलम्

3.182

प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।
सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः

3.183

चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।
अथास्त्यतिशयः कश्चिद् येन भेदेन वर्त्तते

3.184

स एव दधि सो ऽन्यत्र नास्तीत्यनुभयं परम् ।
सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी

3.185

भेदसंहारवादस्य तदभेदादसम्भवः ।
रूपाभावादभावस्य शब्दा रूपाभिधायिनः

3.186

नाशंक्या एव सिद्धास्ते ऽतो व्यवच्छेदवाचकाः ।
उपाधिभेदापेक्षो वा स्वभावः केवलो ऽथ वा

3.187

उच्यते साध्यसिद्ध् यर्थ नाशे कार्यत्वसत्त्ववत् ।
सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम्

3.188

अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोःः ।
भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि

3.189

न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ।
उपात्तभेदे साध्ये ऽस्मिन् भवेद्धेतुरनन्वयः

3.190

सत्तायां तेन साध्यायां विशेषः साधितो भवेत् ।
अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने

3.191

तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते ।
नासिद्धे भावधर्मो ऽस्ति व्यभिचार्युभयाश्रयः

3.192

धर्मो विरुद्धो ऽभावस्य सा सत्ता साध्यते कथम् ।
सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः

3.193

गम्यः स्वभावस्तस्यायं निवृत्तौ वा निवर्तकः ।
अनित्यत्वे यथा कार्यमकार्य वाविनाशिनि

3.194

अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता ।
सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते

3.195

बाहुल्ये ऽपि हि तद्धेतोर्भवेत् क्वचिदसम्भवः ।
एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः

3.196

सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः

3.197

यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः ।
या काचिद् भावविषयानुमितिर्द्विविधैव सा

3.198

स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः ।
प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने

3.199

प्रवर्त्तितव्यं नेत्युक्तानुपलब्धेः प्रमाणता ।
शास्त्राधिकारे ऽसम्बद्धा बहवो ऽर्था अतीन्द्रियाः

3.200

अलिङ्गाश्च कथं तेषामभावो ऽनुपलब्धितः ।
सदसन्निश्चयफला नेति स्याद् वाप्रमाणता

3.201

प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी ।
स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः

3.202

कार्ये तु कारकाज्ञानम्भावस्यैव साधकम् ।
स्वभावानुपलम्भश्च स्वभावे ऽर्थस्य लिङ्गिनि

3.203

तदभावः प्रतीयेत हेतुना यदि केनचित् ।
दृश्यस्य दर्शनाभावकारणासम्भवे सति

3.204

भावस्यानुपलब्धस्य भावाभावः प्रतीयते ।
विरुद्धस्य च भावस्य भावे तद्भावबाधनात्

3.205

तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः

3.206

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ।
तस्मिन् भावानुपादाने साध्ये ऽस्यानुपलम्भनम्

3.207

तथा हेतुर्न तस्यवाभावः शब्दप्रयोगतः ।
परमार्थैकतानत्वे शब्दानामनिबन्धना

3.208

न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ।
अतीताजातयोर्वापि न च स्यादनृतार्थता

3.209

वाचः कस्याश्चिदित्येषा बैद्धार्थविषया मता ।
शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः

3.210

न साध्यः समुदायः स्यात् सिद्धौ धर्मश्च केवलः ।
सदसत्पक्षभेदेन शब्दार्थानपवादिभिः

3.211

वस्त्वेव चित्यते ह् यत्र प्रतिबद्धः फलोदयः ।
अर्थक्रियासमर्थस्य विचारैः किं परीक्षया

3.212

षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया ।
शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः

3.213

धर्मो वस्त्वाश्रयासिद्धिरस्योक्तो न्यायवादिना ।
नान्तरीयकताभावाच्छब्दानां वस्तुभिस्सह

3.214

नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः ।
आप्तवादाविसंवादसामान्यादनुमानता

3.215

सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् ।
परीक्षाधिकृतं वाक्यमतो ऽनधिकृतं परम्

3.216

प्रतक्षेणानुमानेन द्विविधेनाप्यबाधनम् ।
दृष्टादृष्टाथैरोरस्याविसंवादस्तदर्थयोः

3.217

आप्तवादाविसंवादसामान्यादनुमानता ।
बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे

3.218

हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः ।
प्रधानार्थाविसंवादादनुमानं परत्र वा

3.219

पुरुषातिशयापेक्षं यथार्थमपरे बिदुः ।
इष्टो ऽयमर्थः प्रत्येतुं शक्यः सो ऽतिशयो यदि

3.220

अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः

3.221

सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् ।
सात्मीभावात् तदभ्यासाद् दीयेरन्नास्रवाः क्वचित्

3.222

निरुपद्रवभूताथस्वभावस्य विपर्ययैः ।
न बाधा यत्नवप्वे ऽपि बुद्धेस्तस्पक्षपाततः

3.223

सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् ।
साविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः

3.224

मोहो निदानं दोषाणामत एवाभिधीयते ।
सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः

3.225

गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते

3.226

गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं मिथ्यार्थ किं नेत्यन्ये प्रचक्षते

3.227

अर्थज्ञानपनहेतुर्हि संकेतः पुरुषाश्रयः ।
गिरामपौरुषेयत्वे ऽप्यतो मिथ्यात्वसम्भवः

3.228

सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः ।
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना

3.229

गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ।
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः

3.230

अपौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना ।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः

3.231

असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता ।
संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत्

3.232

सम्बन्धिनामनित्यत्वान्न सम्बन्धे ऽस्ति नित्यता ।
नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः

3.233

अर्थेरतः स शब्दानां संस्कार्यः पुरुषैर्धिया ।
अर्थैरेव सहोत्पादे न स्वभावविपर्ययः

3.234

शब्देषु युक्तः सम्बन्धे नायं दोषो विकल्पिते ।
नित्यत्वादाश्रयापाये ऽप्यनाशो यदि जातिवत्

3.235

नित्येष्वाश्रयसामथ्र्य किं येनेष्टः स चाश्रयः ।
ज्ञानोत्पादनहेतूनां सम्बन्धात् सहकारिणाम्

3.236

तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते ।
घटादिष्वपि युक्तिज्ञैः अविशेषे ऽविकारिणाम्

3.237

व्यञ्जकैः स्वैः कृतः को ऽर्थो व्यक्तास्तैस्ते यतो मताः ।
सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता

3.238

ताभ्यामभेदे तावेव नातो ऽन्या वस्तुनो गतिः ।
भिन्नात्वाद् वस्तुरूपस्य सबन्धः कल्पनाकृतः

3.239

सद् द्रव्यं स्यात् पराधीनं सम्बन्धो ऽन्यस्य वा कथम् ।
वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम्

3.240

अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल

3.241

सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः ।
यथायमन्यतो ऽश्रुत्वा नेमं वर्णपदक्रमम्

3.242

वस्तुं समर्थः पुरुषस्तथान्यो ऽपीति कश्चन ।
अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः

3.243

दृष्टः को ऽभिहितो येन सो ऽप्येवं नानुमीयते ।
यज्जातीयो यतः सिद्धः सो ऽविशिष्टो ऽग्निकाष्ठवत्

3.244

अदृष्टहेतुरप्यन्यस्तद्भवः सम्प्रतीयते ।
तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात्

3.245

हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः ।
सर्वथानादिता सिध्येदेवं नापुरुषाश्रयः

3.246

तस्मादपौरुषेयत्वे स्यादन्यो ऽप्यनराश्रयः ।
म्लेच्छदिव्यवहाराणां नास्तिक्यवचसामपि

3.247

अनादित्वाद् तथाभावः पूर्वसंस्कारसन्ततेः ।
तादृशे ऽपौरुषेयत्वे कः सिद्धे ऽपि गुणो भवेत्

3.248

अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः ।
अन्याविशेषाद् वर्णानां साधने कि फलं भवेत्

3.249

वाक्यं भिन्नं न वर्णेभ्यो विद्यते ऽनुपलम्भतः ।
अनेकावयवात्मत्वे पृथक् तेषां निरर्थता

3.250

अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ।
प्रत्येकं सार्थकत्वे ऽपि मिथ्यानेकत्वकल्पना

3.251

एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् ।
सकृच्छ्रुतौ च सर्वेषा कालभेदो न युज्यते

3.252

एकत्वे ऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् ।
अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत्

3.253

नित्योपलब्धिर्नित्यत्वे ऽप्यनावरणसम्भवात् ।
अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः

3.254

काममन्यप्रतीक्षास्तु नियमस्तु विरुध्यते ।
सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि

3.255

सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि ।
संस्कृतस्योपलम्भे च कः संस्कर्त्ताविकारिणः

3.256

इन्द्रियस्य स्यात् संस्कारः श्रृणुयान्निखिलं च तत् ।
संस्कारभेदभिन्नत्वादेकार्थनियमो यदि

3.257

अनेकशब्दसंधाते श्रुतिः कलकले कथम् ।
ध्वनथः केवलं तत्र श्रू यन्ते चेन्न वाचकाः

3.258

ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमतिबह्विदम् ।
स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम्

3.259

कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् ।
ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः

3.260

ध्वनिभिर्व्यज्यमाने ऽस्मिन् वाचके ऽपि कथं न ते ।
वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः

3.261

तेषां च न व्यवस्थानं क्रमान्तरविरोधतः ।
देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात्

3.262

अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः ।
व्यक्तिक्रमो ऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः

3.263

व्यापारदेव तत्सिद्धे कारणानां च कार्यता ।
स्वज्ञानेनान्यधीहेतुः सिद्धे ऽर्थे व्यञ्जको मतः

3.264

यथा दीपो ऽन्यथा वापि को विशेषो ऽस्य कारकात् ।
करणानां समग्राणां व्यापारादुपलब्धितः

3.265

नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् ।
तद्रू पावरणानां च व्यक्तिस्ते विगमो यदि

3.266

अभावे करणग्रामसामर्थ्य किं नु तद्भवेत् ।
शब्दविशेषादन्येषामपि व्यक्तिः प्रसज्यते

3.267

तथाम्युपगमे सर्वकारणानां निरर्थता ।
साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम्

3.268

अनुदाहरणं सर्वभावानां क्षणभङ्गतः ।
दूष्यः कुहेतुरन्यो ऽपि बुद्धेरपुरुषाश्रये

3.269

बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् ।
आनुपूर्व्याश्च वर्णेभ्यो भेदः स्fओटेन चिन्तितः

3.270

कल्पनारोपिता सा स्यात् कथं वापुरुषाश्रया ।
सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः

3.271

अग्नेरर्थान्तरोत्पत्तौ भवेत् काष्ठस्य दर्शनम् ।
अविनाशात् स एवास्य विनाश इति चेत् कथम्

3.272

अन्यो ऽन्यस्य विनाशो ऽस्तु काष्ठं कस्मान्न दृश्यते ।
तत्परिग्रहतश्चेन्न तेनानावरणं यतः

3.273

विनाशस्य विनाशित्वम् स्यादुत्पत्तेस्ततः पुनः ।
काष्ठस्य दर्शनम् हन्तृघाते चैत्रापुनर्भवः

3.274

यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः ।
अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु

3.275

तस्य तत्त्वादहेतुत्वं नातो ऽन्या विद्यते गतिः ।
अहेतुत्वे ऽपि नाशस्य नित्यत्वाद् भावनाशयोः

3.276

सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ।
असत्त्वे ऽभावनाशित्वप्रसङ्गो ऽपि न युज्यते

3.277

नाशेन यस्माद् भावस्य न विनाशनमिष्यते ।
नश्यन् भावो ऽपरापेक्ष इति तज्ज्ञापनाय सा

3.278

अवस्था हेतुरुक्तास्या भेदमारोप्य चेतसा ।
स्वतो ऽपि भावे ऽभावस्य विकल्पश्चेदयं समः

3.279

न तस्य किञ्चिद् भवति न भवत्येव केवलम् ।
भावे ह्येष विकल्पः स्याद् विद्येर्वस्त्वनुरिधतः

3.280

न भावो भवतीत्युक्तमभावो भवतीति न ।
अपेक्ष्येत परः कार्य यदि विद्येत किञ्चन

3.281

यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ।
एतेनाहेतुकत्वे ऽपि ह्यभूत्वा नाशभावतः

3.282

सत्तानाअशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ।
यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां यथा

3.283

नाशः स्वभावो भावानां नानुत्पत्तिमतां यदि ।
स्वभावनियमाद्धेतोः स्वभावनियमः फले

3.284

नानित्ये रूपभेदो ऽस्ति भेदकानामभावतः ।
प्रत्याख्येयात एवैषां सम्बन्धस्यापि नित्यता

3.285

सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ।
नापौरुषेयमित्येव यथार्थज्ञानसाधनम्

3.286

दृष्टो ऽन्यथापि वह्न्यादिरदुष्टः पुरुषागसा ।
न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते

3.287

नित्येभ्यो वस्तुसामर्थ्यात् न हि जन्मास्ति कस्यचित् ।
विकल्पवासनोद्भूताः समारोपितगोचराः

3.288

जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः ।
मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः

3.289

सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि ।
हेतावसम्भवे ऽनुक्ते भावस्तस्यापि शङ्क्यते

3.290

विरुद्धानां पदार्थानामपि व्यापकदर्शनात् ।
नासत्तासिद्धिरित्युक्तं सर्वतो ऽनुपलम्भनात्

3.291

असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ।
अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि

3.292

तन्निश्चयफलैर्जानैः सिद्ध्यन्ति यदि साधनम् ।
यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता

3.293

स एवास्य सपक्षः स्यात् सर्वो हेतुरतोन्वयी ।
समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम्

3.294

अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः ।
क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम्

3.295

नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्षणे ।
सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी

3.296

प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ।
संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः

3.297

प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ।
अनाधेयविशेषाणां कि कुर्वाणः प्रयोजकः

3.298

प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ।
व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्जते

3.299

स्याच्छ्रोतुः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् ।
अनभिव्यक्तशब्दानां करणानां प्रयोजनम्

3.300

मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ।
पारम्पर्येण तज्जत्वात् तद्व् यक्तिः सापि चेन्मतिः

3.301

ते ऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ।
स्वसामान्यस्वभावानामेकभावविवक्षया

3.302

उक्तेः समयकाराणामविरोधो न वस्तुनि ।
आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतो

3.303

न कार्यभेद इति चेद् अस्ति सा पुरुषाश्रया ।
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः

3.304

जायते तदुपाधिः स श्रु त्या समवसीयते ।
तज्ज्ञानजनितज्ञानः स श्रु तावपटुश्रुतिः

3.305

अपेक्ष्य तस्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ।
इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम्

3.306

कार्यकारणता वर्णेष्वानुपूर्वीति कथ्यते ।
अन्यदेव ततो रूपं तद्वर्णानां पदे पदे

3.307

कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् ।
सा चानुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः

3.308

इच्छाविरुद्धसिद्धीनां स्थितक्रमविरोधतः ।
कार्यकारणतासिद्धेः पुम्भ्यो वर्णक्रमस्य च

3.309

सर्वो वर्णक्रमः पुभ्यो दहनेन्धनयुक्तिवत् ।
असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम्

3.310

पुंसां ज्ञानप्रभावाभ्यामन्येषां तदभावतः ।
ये ऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुवंते

3.311

प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः ।
कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना

3.312

अशक्तिसाधनं पुंसामनेनैव निराकृतम् ।
बुद्धीन्द्रियोक्तिपुं स्त्वादिसाधनं यत्तु वर्ण्यते

3.313

प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः ।
अर्थो ऽयं नायमर्थो न इति शब्दा वदन्ति न

3.314

कल्प्यो ऽयमर्थः पुरुषैस्ते च रागादिसंयुताः ।
तत्रैकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः

3.315

तद्व्त् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथ न वः ।
यस्य प्रमाणमविसंवादि वचनं सो ऽर्थविद् यदि

3.316

न ह्यत्यन्तपरोक्षेषु प्रामाणस्यास्ति सम्भवः ।
यस्य प्रामाणसंवादि वचनं तत्कृतं वचः

3.317

स आगम् इति प्राप्तं निरर्थापौरुषेयता ।
यद्यत्यन्तपरोक्षे ऽर्थे ऽनागमज्ञानसम्भवः

3.318

अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ।
स्वयं रागादिमान्नार्थ वेत्ति वेदस्य नान्यतः

3.319

न वेदयति वदो ऽपि वेदार्थस्य कुतो गतिः ।
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ

3.320

खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा ।
प्रसिद्धो लोकवादश्चेत् तत्र को ऽतीन्द्रियार्थदृक्

3.321

अनेकार्थेषु शब्देषु येनार्थो ऽयं विवेचितः ।
स्वर्गोर्वश्यादिशब्दश्च दृष्टो ऽरूढार्थवाचकः

3.322

शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ।
प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते

3.323

ततश्च भूयो ऽर्थगतिः किमेतद् द्विष्ठकामितम् ।
अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम्

3.324

प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् ।
उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये

3.325

यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ।
अन्यथासम्भवाभवात् नानाशक्तेः स्वयं ध्वनेः

3.326

अवश्यं शंकया भाव्यं नियामकमपश्यताम् ।
एष स्थाणुरयं मार्ग इति वक्तीति कश्चन

3.327

अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ।
सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः

3.328

ज्ञाता वातीन्द्रियाः केन विवक्षावचनाद् ऋते ।
विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः

3.329

अपौरुषेयै सा नास्ति तस्य सैकार्थता कुतः ।
स्वभावनियमे ऽन्यत्र न योज्येत तया पुनः

3.330

संकेतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः ।
यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः

3.331

द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् ।
यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः

3.332

वाक्यं वेदैकदेशत्वादन्यदप्यपरो ब्रवीत् ।
रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत्

3.333

शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ।
नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान्

3.334

एब्न्रियान् विषमं हेतुं भावानां विषमां स्थितिम् ।
निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम्

3.335

विरुद्धमागमापेक्षेणानुमानेन वा वदत् ।
विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः

3.336

सत्यार्थ प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम् ।
सिध्येत् प्रमाणं यद्येवम् अप्रमाणमथेह किम्

3.337

न ह्योकं नास्ति सत्यार्थ पुरुषे बहुभाषीणि ।
नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः

3.338

न च तद्व्यतिरिक्तस्य विद्यते ऽव्यभिचारिता ।
प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत्

3.339

परस्परविरुद्धार्था कथमेकत्र सा भवेत् ।
वस्तुभिर्नागमास्तेन कर्थाञ्चान्नान्तरीयकाः

3.340

प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्यो ऽर्थनिश्चयः ।
तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति

मूल पाठ: Pramāṇavārttika · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc