प्रमाणवार्त्तिक · अध्याय 2
द्वितीयः परिच्छेदः
प्रत्यक्षम्
मानं द्विविधं विषयद्वै विध्यात् शक्त्यशक्तितः ।
अथंक्रियायाम् केशादिर्नार्थो ऽनर्थाधिमोक्षतः
सदृशासदृशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः
अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् ।
अन्यत् संवृतैसत् प्रोक्तम् ते स्वसामान्यलक्षणे
अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा
सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयोः ।
सामान्यलक्षणे ऽदृष्टेः चक्षूरूपादिबुद्धिवत्
एतेन समयाभोगाद्यन्तरङ्गानुरोधतः ।
घटोत्क्षेपणसमान्यसंख्यादिषु धियो गताः
केशादयो न सामान्यमनर्थाभिनिवेशतः ।
ज्ञेयत्वेन ग्रहाद् दोषो नभावेषु प्रसज्यते
तेषामपि तथाभावे ऽप्रतिषेधात् स्fउटाभता ।
ज्ञानरूपतयार्थत्वात् केशादीति मतिः पुनः
सामान्यविषया केशप्रतिभासमनर्थकम् ।
ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते
तथेष्टत्वाददोषः अर्थरूपत्वेन समानता ।
सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात्
न तद् वस्त्वभिद्येयत्वात् साफल्यादक्षसंहतेः ।
नामादिवचने वस्तृश्रोतृवाच्यानुबन्धिनि
असम्बन्धिनि नामादावर्थे स्यासप्रवर्त्तनम् ।
सारूप्याद् भ्रान्तितो वृत्तिरर्थेचेत् स्यान्न सर्वदा
देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधाया अन्यत्र तत्रानुपसमाद् धियः
बाह्यार्थप्रतिभासाया उपाये वाप्रमाणता ।
विज्ञानव्यतिरिक्तस्य व्यतिरेकाप्रसिद्धितः
सर्वज्ञानार्थवत्वाच्चेत् स्वप्नादावन्यथेक्षणात् ।
अयुक्तम् न च संस्कारान्नीलादिप्रतिभासतः
नीलाद्यप्रतिघातान्न ज्ञानं तद् योग्यदेशकैः ।
अज्ञातस्य स्वयं ज्ञानात् नामाद्येतेन वर्णितम्
सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता ।
अर्थसामर्थ्यदृष्तेश्चेदन्यत् प्राप्तमनर्थकम्
प्रवृत्तिः स्यादसम्बन्धे ऽप्यर्थसम्बन्धवद् यदि ।
अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात्
सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि ।
तन्न केवलसामान्याग्रहणाद् ग्रहणे ऽपि वा
अतत्समानताव्यक्ती तेन नित्योपलम्भनम् ।
नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति
आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् ।
अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत्
तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।
नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः
तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते ।
नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः
प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् ।
सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः
न जातिर्जातिमद्व्यक्तिरूपं येनापराश्रयम् ।
सिद्धम् पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते
निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः ।
सम्बध्यते कल्पनया किमकार्य कथञ्चन
अन्यत्वे तदसम्बद्धं सिद्धातो निःस्वभावता ।
जातिप्रसङ्गो ऽभावस्य न अपेक्षाभावतस्तयोः
तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता ।
तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते
तस्यां रूपावभासो यस्तत्त्वेनार्थस्य वा ग्रहः ।
भ्रान्तिः सानादिकालीनदर्शनाभ्यासनिर्मिता
अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन
सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् ।
अर्थभ्रान्तिरपीष्येत सामान्यं सापि अभिप्लवात्
अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी ।
निःस्वभावतयावाच्यं कुतश्चिद् वचनान्मतम्
यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन ।
नैव वाच्यमुपादानभेदाद् भेदोपचारतः
अतीतानागते ऽप्यर्थे सामान्यविनिवन्धनाः ।
श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत्
उपचारात् तदिष्टं चेद् वर्त्तमानघटस्य का ।
प्रत्यासत्तिरभावेन या पटादौ न विद्यते
बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा ।
सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी
यत्र रूढ्यासदर्थो ऽपि जनैः शब्दो निवेशितः ।
स मुख्यस्तत्र तत्साम्यादू गौणो ऽन्यत्र स्खलद्गतिः
यथा भावे ऽप्यभावाख्यां यथाकल्पनमेव वा ।
कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः
शब्दोभ्यो यादृशी बुद्धिर्नष्टे ऽनष्टे ऽपि दृश्यते ।
तादृश्येव सदर्थानां नैतच्छ्रोत्रादिचेतसाम्
सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्धयोः ।
तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम्
परस्परविशिष्टानामविशिष्टं कथं भवेत् ।
तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत्
ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः ।
तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति
तस्मात् समानतैवास्मिन् सामान्ते ऽवस्तुलक्षणम् ।
कार्य चेत् तदनेकं स्यान्नश्चरं च न तन्मतम्
वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता ।
असम्बन्धश्च जातीनामकार्यत्वादरूपता
यच्च वस्तुबलाज्ज्ञानं जायते तसपेक्षते ।
न संकेत स सामान्यबुद्धुष्वेतद् विभाव्यते
याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्वयेक्षणे ।
संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना
प्रत्यससत्तिर्विना जात्या यथेष्ता चक्षुरादिषु ।
ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः
कर्थाञ्चदपि विज्ञाने तद्रुपानवभासतः ।
यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपुः
रूपवत्वात् न जातीनां केवलानामदर्शनात् ।
व्यक्तिग्रहे च तच्छब्दरुपादन्यन्न दृश्यते
ज्ञानमात्रार्थकरणे ऽप्ययोग्यमत एव तत् ।
तदयोग्यतयारूपं तद्ध्यवस्तुषु लक्षणम्
प्रमाण्
यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते ।
सामान्यं त्रिविधम् तच्च भावाभावोभयाश्रयात्
यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ।
नोक्तोत्तरत्वाद् दृष्टत्वाद् अतीतादिषु चान्यथा
भावधर्मत्वहानिश्चेत् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषो ऽयम् मेयं त्वेकं स्वलक्षरणम्
तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ।
तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम्
अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते ।
गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता
अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ।
गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषे ऽपि विशेषो ऽर्थक्रियां प्रति
यथा तथायथार्थत्वे ऽप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्ययस्थितम्
बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी ।
तस्य स्वतब्त्रं ग्रहणमतो ऽन्यद् वस्त्वतीन्द्रियम्
तस्यादृष्टात्मरूपस्य गतेरन्यो ऽर्थ आश्रयः ।
तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा
गमकानुगसामान्यरूपेणैव तदा गतिः ।
तस्मात् सर्वः परोक्षो ऽर्थो विशेषेण न गम्यते
या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते ।
सानुमानं परोक्षाणामेकान्तेनैव साधनम्
न प्रत्यक्षरपरिक्षाभ्यां मेयस्यान्यस्य सम्भवः ।
तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते
त्र्येकसंख्यानिरासो वा प्रमेयद्वयसर्शनात् ।
एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः
अनेकान्तो ऽप्रमेयत्वे ऽसद्भावस्य निश्चयः ।
तन्निश्च्यप्रमारणं वा द्वितीयम् नाक्षजा मतिः
अभावे ऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे ।
व्यवधानादिभावे ऽपि जायेतेन्द्रियजा मतिः
अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः ।
विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी
शिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् ।
व्यवहारादौ प्रवृत्तश्च सिद्धस्तद्भावनिश्चः
प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः ।
नाश्वास इति चेल्लिङ्गदुर्दृष्टिरेतदीदृशम्
यतः कदाचित् सिद्धास्य प्रतीतिर्वस्तुनः क्वचित् ।
तद्वश्य ततो जातं तत्स्वभावो ऽपि वा भवेत्
स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः ।
यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम्
स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु ।
अन्येषु सत्स्वदृश्ये च सत्त वा तद्वतः कथम्
अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः ।
प्रेत्यभाववद् अक्षैस्तत् पर्यायेण प्रतीयते
तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् ।
अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानित्तिकम्
स्वलक्षणे च प्रत्यक्षमविकल्पतया विना ।
विकल्पेन न सामान्यग्रहस्तस्मिस्ततो ऽनुमा
प्रमेयनियमे वर्णानित्यता न प्रतीयते ।
प्रमाणमन्यत् तद्बुद्धुर्विना लिङ्गेन सम्भवात्
विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः ।
तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा
प्रमाणानामनेकस्य वृत्तेरेकत्र वा तथा ।
विशेषददृष्टेरेकत्रिसंख्यापोहो न वा भवेत्
विषयानियमादन्यप्रमेयस्य च सम्भवात् ।
योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते
नावस्तुरूपं तस्यैव तथा सिद्धेः प्रसाधनात् ।
अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः
यो हि भावो यथाभूतो स तदृग्लिङ् गचेतसः ।
हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङिगधीः
लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिवब्धात् तदाभासशून्ययोरप्यवञ्चनम्
तद्री पाध्यवसायाच्च तयोस्तद्रूपशून्ययोः ।
तद्रूपावञ्चकत्वे ऽपि कृता भ्रान्तिव्यवस्थितिः
तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः ।
निमित्तं तत्स्वभावो वा कारणम् तच्च तद्धियः
प्रतिषेधस्तु सर्वत्र साध्यते ऽनुपलम्भतः ।
सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात्
दृष्टा विरिद्धधर्मोक्तिस्तस्य तत्कारणस्य वा ।
निषेधे यापि तस्यैव साप्रमाणत्वसूचना
अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत् ।
नास्तित्वं केन गम्येत विरोधाच्चेद् असावपि
सिद्धः केनासहस्थानादिति चेत् तत् कुतो मतम् ।
दृश्यस्य दर्शनाभावाहिति चेत् साप्रमाणता
तस्मात् स्वशब्देनोक्तापि साभावस्य प्रसाधिका ।
यस्याप्रमाणं सावाच्यो निषेधस्तेन सर्वथा
एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णता ।
प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते
विरुद्धं तच्च सोपायमविधायापिधाय च ।
प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी
उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् ।
अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः
बाध्यवाधकभावः कः स्यातां यद्युक्तिसंविदौ ।
तादृशो ऽनुपलब्धेश्चेद् उच्यतां सैव साधनम्
अनिश्चकरं प्रोक्तमीदृक् चानुपलम्भनम् ।
तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ
भिन्नो ऽभिन्नो ऽपि वा धर्मः स विरुद्धः प्रयुज्जते ।
यथाग्निरहिमे साध्ये सत्ता वा जन्मबाधनी
यथा वस्त्वेव वस्तूनां साधने साधनं मतम् ।
तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम्
एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात् ।
धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः
तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः ।
व्यापकस्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन
यदप्रमाणताभावे लिङ्गं तस्यैव कथ्यते ।
तदत्यन्तविमूढार्थम् आगोपालमसंवृतेः
एतावन्निश्चयफलमभावे ऽनुपलम्भनम् ।
तच्च हेतौ स्वभावे वा दृश्ये दृश्यता मते
अनुमानादनित्यादेर्ग्रहणे ऽयं क्रमो मतः ।
प्रामाण्यमेव नान्यत्र गृहीतघणान्मतम्
नान्यास्यानित्यता भावात् पूर्व सिद्धः स चेनिद्रियात् ।
नानेकरूपो वाच्यो ऽसौ वाच्यो धर्मो विकल्पजः
सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् ।
तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते
क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् ।
भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत्
तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् ।
पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः
भावस्वभावभूतायामपि शक्तौ फले दृशः ।
अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात्
तस्यव विनिवृत्त्यर्थमनुमानोपवर्णनम् ।
व्यस्यन्तीक्षणादेव सर्वाकारान् महाधियः
व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्बन्धनाः ।
बुद्धयो ऽर्थे प्रवर्त्तन्ते भिन्ने भिन्नाश्रया इव
यथाचोदनमाख्याश्च सो ऽसति भ्रान्तिकारणे ।
प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः
सिद्धो ऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् ।
प्राग्भूत्वा ह्यभवन् भावो ऽनित्य इत्यभिधीयते
यस्योभयान्तव्यवधिसत्तासम्बन्धवा चिनी ।
अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ
प्राक्पश्चादप्यभावश्चेत् स एवानित्यता न किम् ।
षष्ठयाद्ययोगादिति चेदू अन्तयोः स कथं भवेत्
सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् ।
अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे
असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति ।
तदुपाधिसमाख्याने ते ऽप्यस्य च न सिध्यतः
सत्ता स्वकारणाश्लेषकरणात् कारणं किल ।
सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम्
यस्याभावः क्रियेतासौ न भावः प्रागभाववान् ।
सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः
तस्मादनर्थास्कन्दिन्यो ऽभिन्नार्थाभिमतेष्वपि ।
शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः
विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः ।
न वा विशेषविषयं दॄष्टसाम्येन तद्ग्रहात्
निदर्शनं तदेवेति सामान्याग्रहणं यदि ।
निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः
विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् ।
दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् अन्यवस्तुनि
तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता ।
प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि
सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः ।
तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः
प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः
संहृत्य सर्वताश्चिन्तां स्तिमितेनान्तरात्मना ।
स्थितो ऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः
पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी ।
वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ
एकत्र दृष्टौ भेदो हि क्वचिन्नान्यत्र दृश्यते ।
न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदतः
तस्माद् विशेषविषया सर्वै वेन्द्रियजा मतिः ।
न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः
अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तितः ।
विषयो यश्च शब्दानां संयोज्येत स एव तैः
अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ ।
तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः
विशदप्रतिभासस्य तदार्थस्याविभावनात् ।
विज्ञानाभासभेदो हि पदार्थानां विशेषकः
चक्षुषार्थावभासे ऽपि यं परो ऽस्येति शंसति ।
स एव योज्यते शब्दैर्न खल्विन्द्रियगोचरः
अव्यापृतेन्द्रियस्यान्यवाङ् मात्रेणाविभावनात् ।
न चानुदितसम्बन्धः स्वयं ज्ञानप्रसङ्गतः
मनसो युगपद्वृत्तेः सविकल्पाविकल्पयोः ।
विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति
विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत् ।
इति चेद् भिन्नजातीयविकल्पे ऽन्यस्य वा कथम्
अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मतः ।
अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छुतिः
सकृत् सङ्गतसर्वार्थेष्विन्द्रियेष्विह सत्स्वपि ।
पञ्चभिर्व्यवधाने ऽपि भात्यव्यवहितेव या
सा मतिर्मामपर्यन्तक्षणिकज्ञानमिश्रणात् ।
विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः
प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् ।
शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत्
यो ऽग्रहः सङ्गते ऽप्यर्थे क्वचिदासक्तचेतसः ।
सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि
शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी ।
चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा
केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् ।
आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम्
तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् ।
संकेतोपायविगमात् पश्चादपि भवेन्न सः
मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः ।
एवमिन्द्रियजे ऽपि स्याद् शेषवच्चेदमीदृशम्
यदेव साधनं बाले तदेवात्रापि कथ्यताम् ।
साम्यादक्षधियामुक्तमनेनानुभवादिकम्
विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलययैतत् तथा प्रत्येति नान्यथा
यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् ।
तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः
यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् ।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते
समानत्वे ऽपि तस्यैव नेअणं नेत्रगोचरे ।
प्रतिभासद्वयाभावात् बुद्धेर्भेदश्च दुर्लभः
समवायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् ।
पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः
शृङ्गं गवीति लोके स्यात् शृंगे गौरित्यलौकिकम् ।
गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात्
तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते ।
तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन
कारणारोपतः कश्चिद् एकापोद्धारारो ऽपि वा ।
तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः
उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा ।
मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः
अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि ।
सर्वत्र व्यपदेशो हि दण्डादेर्नापि सांवृतात्
वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः ।
गेहो यद्यपि संयोगस्तन्माला किन्नु तद् भवेत्
जातिश्चेद् गेह एकापि मालेत्युच्येत वृक्षवत् ।
मालाबहुत्वे तच्छब्दः कथं जातेरजातितः
मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः ।
मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ प्रमाणव्_2.157
अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि ।
पदार्थशब्दः कं हेतुमन्यं षट्सु समीक्षते
यो यथा रूढितः सिद्धस्तत्साम्याद् यस्तथोच्यते ।
मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः
संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च सः ।
क्रियते व्यवहारार्थ छन्दःशब्दांशनामवत्
वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् ।
भेदे ऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते
ज्ञानान्यपि तथा भेदे भेदप्रत्यवमर्शने ।
इत्यतत्कार्यविश्लेषस्यान्ब्वयो नैकवस्तुनः
वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः ।
बह्यशक्तिव्यवच्छेदनिष्ठाभावे ऽपि तच्छ्रुतिः
विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते ।
ततो ऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत् श्रुतिः
व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् ।
शब्दात् तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा
तस्याभिधाने श्रुतिभिरर्थे कों ऽशो ऽवगम्यते ।
तस्यागतो च संकेतक्रिया व्यर्था तदर्थिका
शब्दो ऽर्थांशं कमाहेति तत्रान्यापोह उच्यते ।
आकारः स च नार्थे ऽस्ति तं वदन्नर्थभाक् कथम्
शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च ।
अनन्वयी धियो ऽभेदाद् दर्शनाभ्यासनिर्मितः
तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः ।
शब्दार्थो ऽर्थः स एवेति वचने न विरुध्यते
मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः ।
अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः
तस्मात् संकेतकाले ऽपि निर्दिष्टार्थेन संयुतः ।
स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ
अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् ।
श्रुतौ सम्बध्यते ऽपोहो नैतद् वस्तुनि युज्यते
तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः ।
संयुज्यते ऽन्यव्यावृत्तौ शब्दानामेव योजनात्
संकेतस्मरणोपायं दृष्टसंकलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम्
अन्यत्रगतचित्तो ऽपि चक्षुषा रूपमीक्षते ।
तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना
जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः ।
तेनेच्छातः प्रवर्त्तेरन् नेक्षेरन् बाह्यामक्षजाः
रूपं रूपमितीक्षेत तद्धियं किमितीक्षते ।
अस्ति चानुभवस्तस्याः सो ऽविकल्पः कथं भवेत्
तयैवानुभवे दृष्टं न विउकल्पद्वयं सकृत् ।
एतेन तुल्यकालान्यविज्ञानानुभवो गतः
स्मृतिर्भवेदतीते च सागृहीते कथं भवेत् ।
स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः
अतीतमपदृष्टाब्तमलिङ्गञ्चार्थवेदनम् ।
सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम्
तत्स्वरूपावभासिन्या बुद्धयानन्तरया यदि ।
रूपादिरिव गृह्येत न स्यात् तत्पूर्वधीग्रहः
सो ऽविकल्पः स्वविषयो विज्ञानानुभवो यथा ।
अशक्यसमयं तद्वदन्यदप्यविकल्पकम्
सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
अभावे निर्विकल्पस्य विशेषाधिगमः कथम्
अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् ।
सर्व तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम्
अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।
तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः
संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि ।
अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत्
तस्यास्तत्संगमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न वा ।
ततः कालान्तरे ऽपि स्यात् क्वचिद् व्याक्षेपसम्भवात्
क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः ।
अन्यो ऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका
यथासमितासिद्ध्यर्थमिष्यते समयस्मृतिः ।
भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका
सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते ।
तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः
साक्षाच्च ज्ञानजनने समर्थो विषयो ऽक्षवत् ।
अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते
समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते ।
तच्चाक्षव्यपदेशे ऽस्ति तद्धर्मश्च नियोज्यताम्
ततो लिंगस्वभावो ऽत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः
सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः ।
सामान्यबुद्धुश्चावश्यं विकल्पेनानुबद्द्यते
अर्थान्तराभिसम्बन्धाज्जायन्ते ये ऽणवो ऽपरे ।
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः
अणू नां स विशेषश्च नान्तरेणापरनणीन् ।
तदेकानियमज्ज्ञानमुक्तं सामान्यगोचरम्
अथैकायतनत्वे ऽपि नानेकं दृश्यते सकृत् ।
सकृद्ग्रहावभासः कि वियुक्तेषु तिलादिषु
प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु ।
किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्य बुद्धयः
काश्चित् तास्वक्रमाभासाः क्रमवत्यो ऽपराश्च किम् ।
सर्वार्थग्रहणे तस्मासक्रमो ऽयं प्रसज्यते
नै कं चित्रपतंगादि रूपं वा दृश्यते कथम् ।
चित्रं तदेकामिति चेदिदं चित्रतरं ततः
नैकस्वभावं चित्रं हि मणिरूपं यथैव तत् ।
नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु
तत्रावयवरूपं चेत् केवलं दृश्यते तथा ।
नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे
तुल्यार्थाकारकालत्वेनोपलक्षितयर्द्वयोः ।
नानार्था क्रमवत्येका किमेकार्थाक्रमापरा
वैश्वरूप्याद् धियामेव भावानां विश्वरूपता ।
तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः
विजातीनामनारम्भादालेख्यादौ न चित्रधीः ।
अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः
प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च ।
न चित्रधीसङ्कलनमनेकस्यैकयाग्रहात्
नानार्थैका भवेत् तस्मात् सिद्धातो ऽप्यविकल्पिका ।
विकल्पयन्नेकमर्थ यतो ऽन्यदपि पश्यति
चित्रावभासेष्वथषु यद्येकत्वं न युज्यते ।
सैव तावत् कथं बुद्धिरेका चित्रावभासिनी
इदं वस्तुबलायातं यद् वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा
किं स्यात् सा चित्रतैकस्याम् न स्यात् तस्यां मतावपि ।
यदीदं स्वयमर्थानां रोचते तत्र के वयम्
तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धित्वाद् बहुष्वपि न सम्भवः
परिच्छेदो ऽन्तरन्यो ऽयं भागो बहिरिव स्थितः ।
ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह् युपप्लवः
तत्रैकस्याप्यभावेन द्वयमप्यवहीयते ।
तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता
तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः ।
तदुपल्पवभावे च तेषां भेदो ऽप्युपप्लवः
न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् ।
अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः
व्यापारोपधिकं सर्व स्कन्धादीनां विशेषतः ।
लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः
यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् ।
विज्ञप्तिर्वितथाकारा जायते तिमिरदिवत्
असंविदिततत्वा च सा सर्वापरदर्शनैः ।
असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः
तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् ।
केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते
नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनः तं हि पतत्यर्थे विवेचयन्
यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसि
पटादिरूपस्यैकत्वे तथा स्यादविवेकिता ।
विवेकीनि निरस्यान्यदा विवेकि च नेक्षते
को वा विरोधो बहवः सञ्जातातिशयाः पृथक् ।
भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत्
हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन ।
तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते
कथं वावयवी ग्राह्या सकृत् स्वावयवैः सह ।
न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने
गुणप्रधानाधिगमः सहाप्यभिमतो यदि ।
सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान्
विवक्षापरतन्त्रत्वाद् विशेषणविशेषययोः ।
यद्ङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते
स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च ।
अग्रहादेकबुद्धिः स्यात् पश्यतो ऽपि परापरम्
गुणादिभेदग्रणान्नानात्वप्रतिपद् यदि ।
अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः
शब्दादीनामनेकत्वात् सिद्धो ऽनेकग्रहः सकृत् ।
सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम्
सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः ।
तद्भेदोन्नीतभेदा सा धर्मिणो ऽनेकरूपता
ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतसः ।
न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः
यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः ।
न सो ऽभिधीयते शब्दैर्जानयो रूपभेदतः
एकार्थत्वे ऽपि बुद्धीनां नानाश्रयतया स चेत् ।
श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुतः
जातो नामाश्रयोन्यो ऽन्यः चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत्
वृत्तेर्दृ श्यपरामर्शेनाभिधानविकल्पयोः ।
दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम्
अन्वयाच्चानुमानं यदभिधानविकल्पयोः ।
दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम्
दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् ।
प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम्
पूर्वानुभूतग्रहणे मानसस्याप्रमाणता ।
अदृष्टग्रहणे ऽन्धादेरपि स्यादर्थदर्शनम्
क्षणकत्वादतीतस्य दर्शनस्य न सम्भवः ।
वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम्
निष्पादितक्रिये कञ्चिद् विशेषमसमादधत् ।
कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते
सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम् ।
अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः
तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम् ।
मनो ऽन्यमेव गृह्णाति विषयं नान्धदृक् ततः
स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः ।
ततो ऽन्यग्रहणेस्य नियतग्राह्यता मता
तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः ।
सहकारी भवेदर्थ इति चेदक्षचेतसः
असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः ।
प्राग्भावः सर्वहेतूनां नाति ऽर्थ स्वधिया सह
भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यातां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्
कार्य ह्यनेकहेतुत्वे ऽप्यनुकुर्वदुदेति यत् ।
तत् तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते
अशक्यसमयो ह्यात्मा रागादीनामन्नन्यभाक् ।
तेषामतः स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी
अवेदकाः परस्यापि ते स्वरूपं कथं विदुः ।
एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन
तदतद्रू पिणो भावास्तदतद्रू पहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्
सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि ।
दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि
असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् ।
दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यश्च ते
सुखदुःखादिभेदश्च तेसामेव विशेषतः ।
तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः
यस्यार्थस्य निपातेन ते जाता धीसुखादयः ।
मुल्त्वा तं प्रतिपद्येत सुखादीनेव सा कथन्
अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे ।
तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम्
न चैकया द्वयज्ञानं नियमादक्षचेतसः ।
सुखाद्यभावे ऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः
पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम् ।
गृह्येत केवलं तस्य तद्धेत्वर्थमगृह्णतः
न हि संवेदनं युक्तम् अर्थेनैव सह ग्रहे ।
किं सामर्थ्य सुखादीनां नेष्टा धीर्यत् तदुद्भवा
विनार्थेन सुखादीनां वेदने चक्षुरादिभिः ।
रूपादिः स्त्र्यादिभेदो ऽक्ष्रणा न गृह्येत कदाचन
न हि सत्यन्तरङ्गे ऽर्थे शक्ते धीर्बाह्यदर्शनी ।
अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम्
धियोर्यु गपदुत्पत्तौ तत्तद्विषयसम्भवात् ।
सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे
सत्यान्तरे ऽप्युपादाने ज्ञाने दुःखादिसम्भवः ।
नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम्
तदज्ञानस्य विज्ञानं केनोपादानकारणम् ।
आधिपत्यं तु कुर्वीत तद्विरुद्वे ऽपि दृश्यते
अक्ष्रणोर्यथैक आलोको नक्तञ्चरतदन्ययोः ।
रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत्
तस्मात् सुखादयो ऽर्थानां स्वसंक्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम्
अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते ।
तेनार्थानुभवख्यातिरालम्बस्तु तदाभता
कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् ।
ग्राह्यानाह न तस्यापि सकृद् युक्तो द्वयग्रहः
सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रहः ।
भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम्
तस्याविशेषे बाह्यस्य भावनातारतम्यतः ।
तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः
सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता ।
स इदानीं कथं बाह्याः सुखाद्यात्मेति गम्यते
अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययोः पुमान् ।
अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता
कार्यकारणतानेन प्रत्युक्ताकार्यकारणे ।
ग्राह्यग्राहकताभावाद् भावे ऽन्यत्रापि सा भवेत्
तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः ।
संवेदनं न यद् रूपं न हि तत् तस्य वेदनम्
अतत्स्वभावो ऽनुभवो बैद्धांस्तान् सन्नवैति चेत् ।
मुक्त्वाध्यक्षस्मृताकारां संवितिं बुद्धिरत्र का
तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् ।
एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा
संसर्गादविभागश्चेदयोगोलकवह् निवत् ।
भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु
अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् ।
सिध्येदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम्
भिन्नाभः सितदुःखादिरभिन्नो भुद्धिवेदने ।
अभिन्नाभे विभिन्ने चेद् भेदाभेदौ किमाश्रयौ
तिरस्कृतानां पटुनाप्येकदाभेददर्शनात् ।
प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः
प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् ।
विधूतकल्पनाजालं स्पष्टमेवावभासते
कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतो ऽवस्थितानिव
न विकल्पानुबद्धस्यास्ति स्युटार्थावभासिता ।
स्वप्ने ऽपि स्मर्यते स्मार्त न च तत् तादृगर्थवत्
अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते ।
स्पष्टाभं निर्विकल्पञ्च भावानाबलनिर्मितम्
तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते ।
भावनापरिनिष्पत्तौ तत् स्fउटाकल्पधीफलम्
तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत् ।
तद् भावानाजं प्रत्यक्षमिष्टम् शेषा उपप्लवाः
शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना ।
स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतो ऽखिलम्
त्रिविधं कल्पमाज्ञानमाश्रयोपप्लवोद्भवम् ।
अविकल्पलमेकं च प्रत्यक्षाभं चतुर्विधम्
अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् ।
सिद्धानुमादिवचनं साधनायैव पूर्वयोः
संकेतसंश्रयान्यार्थसमारोपविकल्पे ।
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम्
यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका ।
समयापेक्षीणी नार्थ प्रत्यक्षमध्यवस्यपि
तथानुभूतस्मरणमन्तरेण घटादिषु ।
न प्रत्ययो ऽनुयंस्तच्च प्रत्यक्षात् परिहीयते
अपवादश्चतुर्थो ऽत्र तेनोक्तमुपघातजम् ।
केवलं तत्र तिमिरमुपघातोपलक्षणम्
मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते ।
नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् 294 ॥
पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे ।
विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः
कि वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् ।
तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते
सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि ।
निवृत्तिर्न निवर्तेत निवृत्ते ऽप्यक्षविप्लवे
कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः ।
दृष्टस्मृतिमपेक्षेत न भासेत परिस्fउटम्
सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी ।
सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका
तस्मात् तस्याविकल्पे ऽपि प्रामाण्यं प्रतिषिध्यते ।
विसंवादात् तदर्थ च प्रत्यक्षाभं द्विधोदितम्
क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः ।
साधनं न हि तस्य साधनं या क्रिया यतः
तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यं तेनात्नमा येन प्रतिकर्म विभज्यते
अनात्मभूतो भेदो ऽस्य विद्यमानो ऽपि हेतुषु ।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः
तस्माद् यतो ऽस्यात्मभेदादस्याधिगतिरित्ययम् ।
क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना
अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् ।
अन्यः स्वभेदाज्ज्ञानस्य भेदको ऽपि कथञ्चन
तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ।
साधने ऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्धयति
सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् ।
दधानं तच्च तामात्मन्यर्थाधिगमनात्मना
सव्यापारमिवाभाति व्यापारेण स्वकर्मणि ।
तद्वशात् तदव्यवस्थानादकारकमपि स्वयम्
यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् ।
हेतुरूपग्रहो लोके ऽक्रियावत्त्वे ऽपि कथ्यते
आलोचनाक्षसम्बन्धविशेषणधियामतः ।
नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति
सर्वेषामुपयोगे ऽपि कारकाणां क्रियां प्रति ।
यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम्
सर्वसामान्यहेतुत्वासक्षाणामस्ति नेदृशम् ।
तद्भेदे ऽपि ह्यतद्रूपस्यास्येदमिति तत् कुतः
एतेन शेषं व्याख्यातं विशेषणधियां पुनः ।
अताद्रू प्ये न भेदो ऽपि तद्वदन्यधियो ऽपि वा
नेष्टो विषयभेदो ऽपि क्रियासाधनयोर्द्वयोः ।
एकार्थत्वे द्वयं व्यर्थ न च स्यात् क्रमभाविता
साध्यसाधनताभावः सकृद्भावे धियों ऽशयोः ।
तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः
सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मेः स नियमो न स्यात् सम्बन्धस्याविशेषतः
तदभेदे ऽपि भेदो ऽयं यस्मात् तस्य प्रमाणता ।
संस्काराच्चेदताद्रू प्ये न तस्याप्यव्यवस्थितेः
क्रियाकरणयोरैक्यविरोध इति चेद् असत् ।
धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते
एवम्प्रकारा सर्वैव क्रियाकारकसंस्थितिः ।
भावस्य भिन्नानभिमतेष्वप्यारोपेण वृत्तितः
कार्थसंविद् यदेवेदं प्रत्येक्षं प्रतिवेदनम् ।
तदर्थवेदनं केन ताद्रू प्याद् व्यभिचारि तत्
अथ सो ऽनुभवः क्वास्य तदेवेदं विचार्यते ।
सरूपयन्ति तत् केन स्थूलाभासं च ते ऽणवः
तन्नार्थरूपता तस्य सत्यां सा व्यभिचारिणी ।
तत्संवेदनभावस्य न समर्था प्रसाधने
तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् ।
संवेद्य स्यात् समानार्थ विज्ञानं समनन्तरम्
इदं दृष्टं श्रुतं वेदम् इति यत्रावसायधीः ।
न तस्यानुभवः सैव प्रत्यासत्तिर्विचार्यते
दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम् ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः
आत्मा स तस्यानुभवः स् च नान्यस्य कस्यचित् ।
प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता
नान्यो ऽनुभाव्यस्तेनास्ति तस्य नानुभवो ऽपरः ।
तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते
नीलादिरूपस्तस्यासौ स्वभावो ऽनुभवश्च सः ।
नीलाद्यनुभवात् ख्यातः स्वरूपानुभवो ऽपि सन्
प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः ।
यथा प्रकाशो ऽभिमतस्तथा धीरात्मवेदिनी
तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ ।
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ।
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत्
यदा तदा न सञ्चोद्यग्राह्यग्राहकलक्षणा ।
तदान्यसंविदो ऽभावात् स्वसंवित् फलमिष्यते
यदि बह्यो ऽनुभूयेत को दोषो नैव कश्चन ।
इदमेव किमुक्तं स्यात् स बाह्यो ऽर्थो ऽनुभूयते
यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी ।
सा बाह्यादन्यतो वेति विचारमिदमर्हति
दर्शनोपाधिरहितस्याग्रहात तद्ग्रहे ग्रहात् ।
दर्शनं नीलनिर्भासं नार्थो बाह्यो ऽस्ति केवलम्
कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया
तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते चोभयाकारस्यास्य संवेदनं फलम्
यदा नुष्पन्नत्द्भाव इष्टो ऽनिष्टो ऽपि वा परः ।
विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा
यदा सविषयं ज्ञानं ज्ञानांशे ऽर्थव्यवस्थितेः ।
तदा य आत्मानुभवः स एवार्थविनिश्चयः
यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते ।
इष्टो ऽनिष्टो ऽपि वा तेन भवत्यर्थः प्रवेदितः
विद्यमाने ऽपि बाह्ये ऽर्थे यथानुभवमेव सः ।
निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः
यदि बाह्यं न विद्येत क्स्य संवेदनं भवेत् ।
यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्
अभ्युपाये ऽपि भेदेन न स्यादनुभवो द्वयोः ।
अदृष्टावरणात् स्यात् चेन्न नामार्थावशो गतिः
तमनेकात्मकं भावमेकात्मत्वेन दर्शयत् ।
तददृष्टं कथं नाम भवेदर्थस्य दर्शकम्
इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि ।
अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम्
तस्मात् प्रमेये बाह्ये ऽपि युक्तं स्वानुभवः फलम् ।
यतः स्वभावो ऽस्य यथा तथैवार्थविनिश्चयः
तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि ।
ग्राहकात्मापरार्थत्वाद् बाह्येष्वर्थेषपेक्षते
यस्माद् यथा निविष्टो ऽसावर्थात्मा प्रत्यये तथा ।
निश्चीयते निविष्टो ऽसावेवमित्यात्मसंविदः
इत्यर्थसंवित् सैवेष्टा यतो ऽर्थात्मा न दृश्यते ।
तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया
यथा निविशते सो ऽर्थो यतः सा प्रथते तथा ।
अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता
तस्माद् विषयभेदो ऽपि न स्वसंवेदनं फलम् ।
उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः
तथावभासमानस्य तादृशो ऽन्यादृशो ऽपि वा ।
ज्ञानस्य हेतुरर्थो ऽपीत्यर्थस्येष्टा प्रमेयता
यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः ।
अर्थग्रहः कथम् सत्यं न जाने ऽहमपीदृशम्
अविभागो ऽपि बुद्ध् यात्मविपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते
मन्त्राद्यु पप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि
तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा ।
दूरे यथा वा मरुषु महानल्पो ऽपि दृश्यते
यथानुदर्ह्सनं चेयं मेयमानफलस्थितिः ।
क्रियते ऽविद्यमानापि ग्राह्यग्राहकसंविदाम्
अन्यथैकस्य भावस्य नानारूपावभासिनः ।
सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः
अन्यस्यान्यत्वहानेश्च नाभेदो रूपदर्शनात् ।
रूपाभेदं च पश्यन्तो धीरभेदं व्यवस्यति
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्मादेकमनेकं च रूपं तेषां न विद्यते
साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते ।
अतदात्मनि तादात्म्यव्यवसायेन नेह तत्
अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः ।
अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा
दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी ।
अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत्
तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः ।
तादात्म्यादात्मवित् तस्य स तस्य साधनं ततः
तत्रात्मविषये माने यथारागादि वेदनम् ।
इयं सर्वत्र संयोज्या मानमेयफलस्थितिः
तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि ।
इति सा योग्यता मानमात्मा मेयः फलं स्ववित्
ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि ।
सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम्
सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् ।
तदन्यास्यापि हेतुत्वे कथञ्चिद् विषयाकृति
यथैवाहारकालादेर्हेतुत्वे ऽपत्यजन्मनि ।
पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित्
तद्धेतुत्वेन तुल्ये ऽपि तदन्यैर्विषये मतम् ।
विषयत्वं तदंशेन तदभावे न तद् भवेत्
अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि ।
अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने
नीलाद्याभासभेदित्वान्नर्थो जातिराद्वती ।
सा चानित्या न जातिः स्यान्नित्या चा जनिका कथम्
नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः ।
इच्छमात्रानुरोधित्वादर्थशक्तिर्न सिध्यति
स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः ।
स चार्थाकाररहितः सेदानीं तद्वती कथम्
नार्थाद् भावस्तदाभावात् स्यात्तथानुभवे ऽपि सः ।
आकारः स च नार्थस्य स्पष्टकारविवेकतः
व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा ।
नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न
एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते ।
एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः
तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः ।
भिन्नात्मार्थ कथं ग्राह्यस्तदा स्याद्धीरनर्थिका
तच्चानुभवविज्ञानेनोभयांशावलम्बिना ।
एकाकारविशेषेण तज्ज्ञानेनानुबध्यते
अन्यथा ह्यतथारूपं कथं ज्ञाने ऽधिरोहति ।
एकाकारोत्तरं ज्ञानं तथा ह् युक्तरमुक्तरम्
तस्यार्थरूपेणाकारावात्माकारश्च कश्चन ।
द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते
अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि ।
भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारे च सा भवेत्
सर्वेषामपि कार्याणां कारणैः स्यात् तथा ग्रहः ।
कुलालादिविवेकेन न स्मर्येत घटस्ततः
यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम् ।
सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु
आद्यानुभयरूपत्वे ह्ये करूपे व्यवस्थितम् ।
द्वितीयं व्यतिरिच्येत् न परामर्शचेतसा
अर्थसंकलनाश्लेषा ंधीर्द्वितीयावलम्बते ।
नीलादिरूपेण धियं भासमानां पुरस्ततः
अन्यथा याद्यमेवैकं संयोज्येतार्थसम्भवात् ।
ज्ञानं नदृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम्
सकृत् संवेद्यमानस्य नियमेन धिया सह ।
विषयस्य ततो ऽन्यत्वं केनाकारेण सिध्यति
भेदश्च भ्रान्तविज्ञानैर्दृ श्येतेन्दाविवाद्वये ।
संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः
नार्थासंवेदनः कश्चिदनर्थ वापि वेदनम् ।
दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता
तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः ।
ज्ञानदव्यतिरेकित्वम् हेतुभेदानुमा भवेत्
अभावाद्क्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु ।
नियमं यदि न ब्रु यात् प्रत्ययात् समनन्तरात्
बीजादङ्कुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी ।
बह्यार्थाश्रयिणी यपि कारकज्ञापकस्थितिः
सापि तद्रु पनिर्भासा तथा नियतसङ्गमाः ।
बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते
अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः ।
न स्यात् कारणतायां वा कुत एकान्ततो गतिः
तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् ।
गमयेदग्निनिर्भासां धियमेव न पावकम्
तद्योग्यवासनागर्भ एव धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानि धियं धूमो ऽनितस्ततः
अस्त्येष विदुषां वादो बाह्यां त्वाश्रित्य वर्ण्यते ।
द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति
ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् ।
प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते
अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः ।
सर्वै तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता
अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः ।
तस्य केनचिदंशेन परतो ऽपि भिदा भवेत्
तथा ह्याश्रित्य पितरं तद्रूपो ऽपि सुतः पितुः ।
भेदं केनचिदंशेन कुतश्चिदवलम्बते
मयूरचन्द्रकाकारं नीललोहितभास्वरम् ।
सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः
तस्य तद्बाह्यारूपत्वे का प्रसन्नेक्षणे ऽक्षमा ।
भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः
शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् ।
पश्यतो ऽन्याक्षदृश्ये ऽर्थे तदव्यक्तं कथं पुनः
आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते ।
शक्तिर्हेतुस्ततो नान्यो ऽहेतुश्च विषयः कथम्
स एव यदि धीहेतुः कि प्रदीपमपेक्षते ।
दीपमात्रेण धीभावादुभयं नापि कारणम्
दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते ।
तत् स्यादालोकभेदाच्चेत् तप्तिधानापिधानयोः
तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मों ऽशस्तस्य कश्चन् ।
आलोकन न मन्देन दृश्यते ऽतो भिदा यदि
एकत्वे ऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः ।
अनेकत्वे ऽणुशो भिन्ने दृश्यादृश्याभिदा कुतः
मान्द्यपाटवभेदेन भासो बुद्धभिदा यदि ।
भिन्ने ऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम्
मन्दं तदपि तेजः किमावृतेरिह सा न किम् ।
तनुत्वं तेजसो ऽप्येतदस्त्यन्यत्राप्यतानवम्
अत्यासन्ने च सुव्यक्तं तेजस्तत् स्याद्तिस्fउटम् ।
तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि
अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः ।
तत्रैकमेव दृश्येत् तस्यानावरणे सकृत्
पश्येत् स्fउटास्fउटं रूपमेको ऽदृष्टेन वारणे ।
अर्थानर्थौ न येन स्तस्तददृष्टं करोति किम्
तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् ।
प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः
ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा ।
जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः
व्यक्तिः कुतो ऽसता ज्ञानादन्यस्यानुपकारिणः ।
व्यक्तौ व्यज्येत सर्वो ऽर्थस्तद्धेतोर्नियमो यदि
नषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः ।
तं व्यनक्तीति कथ्येत तदभावे ऽपि तत्कृतम्
नाकारयति चान्यो ऽर्थो ऽनुपकारात् सहोदितः ।
व्यक्तो ऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत्
वज्रोपलादिरप्यर्थः स्थिरः सो ऽन्यानपेक्षणात् ।
सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम्
क्रमाद् भवन्ति तान्यस्य सहकार्यु पकार्यतः ।
आहुः प्रतिक्षणं भेदं स दोषो ऽत्रापि पूर्ववत्
संवेदनस्य तादात्म्ये न विवादो ऽस्ति कस्यचित् ।
तस्यार्थरूपतासिद्धा सापि सिध्यति संस्मृतेः
भेदेनाननुभूते ऽस्मिन्नविभक्ते स्वगोचरैः ।
एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी
न चानुभवमात्रेण कश्चिद् भेदो विवेचकः ।
विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत्
द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् ।
स्वरूपभूताभासस्य तदा संवेदनेक्षणात्
धियातद्रू पया ज्ञाने निरुद्धे ऽनुभवः कथम् ।
स्वं च रूपं न सा वेत्तीत्युत्सन्नो ऽनुभवो ऽखिलः
बहिर्मु खं च तज्ज्ञानं भात्यर्थप्रतिभासवत् ।
बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि
यो यस्य विषयाभासस्तं वेत्ति न तदिप्यपि ।
प्राप्तं संवेदनं सर्वसदृशानां परस्परम् ।
बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका
स्वयं सो ऽनुभवस्तस्या न स सारूप्यकारणः ।
क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम्
स्वभावभूततद्रु पसंविदारोपविप्लवात् ।
नीलदेरनुभूताख्या नानुभूतेः परात्मनः
धियो नीलादिरूपत्वे बाद्यो ऽर्थः किम्प्रमाणकः ।
धियो ऽनीलादिरूपत्वे स तस्यानुभवः कथम्
यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् ।
सिद्धं तत् स्वत् एवास्य किमर्थेनोपनीयते
न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्व सर्वस्य वेदनम्
यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः ।
तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत्
नानुभूतो ऽनुभव इत्यर्थवद्धि विनिश्चयः ।
तस्माददोष इति चेत् नार्थे ऽप्यस्त्येष सर्वदा
कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने ।
अपि चेदं यदाभाति दृश्यमाने सितादिके
पुं सः सिताद्यभिव्यक्तिरूपं संवेदनं स्fउटम् ।
तत् कि सिताद्यभिवयक्तेः पररूपमथात्मनः
पररूपे ऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् ।
ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत्
व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः ।
दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम्
यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् ।
द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः
सरूपं दर्शनं यस्य दृश्यते ऽन्येन चेतसा ।
दृष्टाख्या तत्र चेत् सिद्धं सारूप्येस्य स्ववेदनम्
अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ।
सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता
दृष्टयोरेव सारूप्यग्रहो ऽर्थ च न दृष्टवान् ।
प्राक् कथं दर्शनेनास्य सारूप्यं सो ऽध्यवस्यति
सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् ।
तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा
अथ स्वरूपम् सा तर्हि स्वयमेव प्रकाशते ।
यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः
एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये ।
अप्रत्यक्षां धियं प्राहुस्ते ऽपि निर्वर्णितोत्तराः
आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः ।
सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः
प्रत्यक्षाः तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते ।
यत्तज्ज्ञानं परो ऽप्येतान् भुञ्जीतान्येन विद् यदि
तज्जा तत्प्रतिभासा व यदि धीर्वेत्ति नापरा ।
आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयं
अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी ।
सा धीर्निर्विषया प्राप्ता सामान्यं च तदग्रहे
न गृह्यत् इति प्रोक्तम् न च तद्वस्तु किञ्चन ।
तस्मादर्थावभासो ऽसौ नान्यस्तस्या धियस्ततः
सिद्धे प्रत्यक्षभावात्मविदौ गृह्णाति तान् पुनः ।
नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः
अदृष्टैकार्थयोगादेः संविदो नियमो यदि ।
सर्वथान्यो न गृह्णीयात् संविद्भेदो ऽप्यपोदितः
येषां च योगिनो ऽन्यस्य प्रत्यक्षेण सुखादिकम् ।
विदन्ति तुल्यानुभवास्तद्वत् ते ऽपि स्युरातुराः
विषयेम्द्रियसम्पाताभावात् तेषां तदुद्भवम् ।
नोदेति दुःखमिति चेत् न वै दुःखसमुद्भवः
दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः ।
न हि दुःखाद्यसंवेद्यं पीडानुग्रहकारणम्
भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा ।
न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते
भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने ।
अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्fउटा
अपि चाध्यक्षताभावे धियः स्याल्लिङ्गतो गतिः ।
तच्चाक्षमर्थो धीः पूर्वो मनस्कारो ऽपि वा भवेत्
कार्यकारणसामग्र् यामस्यां सम्बन्धि नापरम् ।
सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारतः
तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः ।
नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चिन्मता
लिङ्गं सैव ननु ज्ञानं व्यक्तो ऽर्थो ऽनेन वर्णितः ।
व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात्
अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते ।
नानुत्पादव्ययवतो विशेषो ऽर्थस्य कश्चन
तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते ।
स च ज्ञातो ऽथ वाज्ञातो भवेज्ज्ञातस्य लिङ्गता
यदि ज्ञाने ऽपरिच्छिन्ने ज्ञातो ऽसाविति तत् कुतः ।
ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम्
अदृष्टदृष्टयो ऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् ।
विशेषः सो ऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगतिः
तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः ।
केवलान्नार्थधर्मात् कः स्वधर्मः स्वधियो ऽपरः
प्रत्यक्षाधिगतो हेतुः तुल्यारणजन्मनः ।
तस्य भेदः कुतो बुद्धे र्व्यभिचार्यन्यजश्च सः
रूपादीन् पञ्च विषयानिन्द्रियाण्युपलम्भनम् ।
मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते
तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेको ऽपि नेक्ष्यते ।
रूपदर्शनतो जातो यो ऽन्यथा व्यस्तसम्भवः
यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् ।
विद्यमाने ऽपि लिङ्गे तां तेन सार्धमपश्यतः
कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् ।
तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने
दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः ।
इत्यर्थस्य धियः सिद्धिः नार्थात् तस्याः कथञ्चन
तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः ।
प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम्
परचित्तानुमानं च न स्यादात्मन्यदर्शनात् ।
सम्बन्धस्य् मनोबुद्धवर्थलिङ्गाप्रसिद्धितः
प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध् यन्तरेण वः ।
अप्रकाशात्मनोः साम्याद् व्यङ्ग्यव्यञ्जकता कुतः
विषयस्य कथं व्यक्तिः प्रकाशे रूपसंक्रमात् ।
स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते
तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका ।
सिद्धान्यथा तुल्यधर्मा विषयो ऽपि धिया सह
इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते ।
अन्यो ऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते
सादृश्ये ऽपि हि धीरन्या प्रकाश्या न तया मता ।
स्वयं प्रकाशमानार्थस्तद्रू पेण प्रकाशते
यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः ।
व्यङ् ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते
विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः ।
तस्माद् यतो ऽयं तस्यापि वाच्यमन्यस्य दशनम्
स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्यान्येन वेदने ।
दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः
अवस्थितावक्रमायां सकृदाभासनान्मतौ ।
वर्णः स्याद्क्रमो ऽदीर्घः क्रमवानक्रमां कथम्
उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् ।
आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत्
अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् ।
धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः
स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषतः ।
दोषो ऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि
सकृद्यत्नोद्भवाद् व्यर्थः स्याद् यत्नश्चोत्तरोत्तरः ।
व्यक्तावप्येष वर्णानां दोषः समनुषज्यते
अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते ।
न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृतिः
पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः ।
अविच्छिन्नाभता न स्याद् घटनं च निराकृतम्
विच्छिन्नं शृण्वतो ऽप्यस्य यद्यविच्छिन्नविभ्रमः ।
ह्रस्वद्वयोच्चारणे ऽपि स्यादविच्छिन्नविभ्रमः
विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम् ।
नाक्षात् सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः
सर्वान्त्यो ऽपि हि वर्णात्मा निमेषतुलितस्थितिः ।
स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति
एकाण्वत्ययकालश्च कालो ऽल्पीयान् क्षणो मतः ।
बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते
इति वर्णे ऽपि रुपादावविच्छिन्नावभासिनी ।
विच्छिन्नाप्यन्यथा बुद्धिः सर्वा स्याद् वितथार्थिका
घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् ।
भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम्
तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः ।
नाक्षग्राह्ये ऽस्ति शब्दानां योजनेति विवेचितम्
विच्छिन्नं पश्यतो ऽप्यक्षैर्घटयेद् यदि कल्पना ।
अर्थस्य तत्संवित्तेश्च सततं भासमानयोः
बाधके सति सन्न्याये विच्छिन्न इति तत् कुतः ।
बुद्धीनां शक्तिनियमादिति चेत् स कुतो भतः
युगपद् बुद्ध्यदृष्टेश्चेत् तदेवेदं विचार्यते ।
तासां समानजातीये सामर्थ्यनियमो भवेत्
तथा हि सम्यग्लक्ष्यन्ते विकल्पाः क्रमभाविनः ।
एतेन यः समक्षे ऽर्थे प्रत्यभिġयानकल्पनाम्
स्पष्टावभासां प्रत्यक्षां कल्पयेत् सो ऽपि वारितः ।
केशगोलकदीपादावपि स्पष्टावभासनात्
प्रतीतभेदे ऽप्यध्यक्षा धीः कथं तादृशी भवेत् ।
तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः
पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना ।
स एवायमिति ज्ञानं नास्ति तच्छक्षजे कुतः
न चार्थज्ञानसंवित्त्योर्युगपत् सम्भवो यतः ।
लक्ष्येते प्रतिभासो दौ नार्थार्थज्ञानयोः पृथक्
न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः ।
एकाकारमतिग्राह्ये भेदभावप्रसङ्गतः
सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ ।
अर्थार्थप्रत्ययो पश्चात् स्मर्येते तौ पृथक् कथम्
क्रमेणानुभवोत्पादे ऽप्यर्थार्थमनसोरयम् ।
प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः
अर्थसंवेदनं तावत् ततो ऽर्थाभासवेदनम् ।
न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम्
तथा हि नीलाद्याकार एक एकं च वेदनम् ।
लक्ष्यते न तु नीलाभे वेदने वेदनं परम्
ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि स्मृतिः ।
दृष्टा तद्वेदनं केन तस्याप्यन्येन चेद् इमाम्
मालां ज्ञानविदां को ऽयं जनयत्यनुबन्धिनीम् ।
पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे
तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम्
आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् ।
को नामान्यो विबध्नीयाद् बहिरंगे ऽन्तरङ्गिकाम्
बाह्याः सन्निहितो ऽप्यर्थस्तां विबध्नन् हि न प्रभुः ।
धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ
न चासन्निहितार्थास्ति दशा काचिदतो धियः ।
उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम्
अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः ।
सञ्चारकरणाभावाद् उत्सीदेदथचिन्तनम्
आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः ।
विषयान्तरसञ्चारो यदि सैवार्थधीः कुतः
शक्तिक्षये पूर्वाधियो न हि धीः प्राग्धिया विना ।
अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः
सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहितवैगुण्यादालायान्नान्यसम्भवः
नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनो ऽन्तरम् ।
मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी
एकत्वान्मनसो ऽन्यम्मिन् सक्तस्यान्यागतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात्
समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् ।
जन्म वात्ममनोयोगमात्रजानां सकृद् भवेत्
एकैव चेत् क्रियैकः स्यात् किं दीपो ऽनेकदर्शनः ।
क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषतः
अनेन देहपुरुषाबुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतम्
न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् ।
अग्राह्यं न हि तेजो ऽस्ति न च सौक्षम्याद्यनंशके
ग्राह्यताशक्तिहानिई स्यात् नान्यस्य जननात्मनः ।
ग्राह्याताया न खल्वन्यज्जननं ग्राह्यलक्षणे
साक्षान्न ह्यन्यथा बुद्धे रूपादिरूपकारकः ।
ग्राह्यातालक्षनादन्यस्तभावनियमो ऽस्य कः
बुद्धेरपि तदस्तीति सापि सत्त्वे व्यव्स्थिता ।
ग्राह्युपादानसंवित्ती चेतसो ग्राह्यलक्षणम्
रूपादेश्चेतसश्चैवम्विशुद्धधियं प्रति ।
ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः
तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत् ।
रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते
सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता ।
चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः
नानेकशक्त्यभावे ऽपि भावो नानेककार्यकृत् ।
प्रकृत्यैवेति गदितम् नानेकस्मान्न चेद् भवेत्
न किञ्चिदेकस्मात् सामग्रयाः सर्वसम्भवः ।
एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत्
अर्थ पूर्वञ्च विज्ञानं गृह्णीयद् यदि धीः परा ।
अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम्
पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि ।
द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः
विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते ।
परानुभूतवत् सर्वाननुभूतिः प्रसज्यते
आत्मानुभूत प्रत्यक्षं नानुभूतं परैर्यदि ।
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते
व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः ।
व्यक्त्यसिद्धवपि व्यक्तं यदि व्यक्तमिदं जगत्
मूल पाठ: Pramāṇavārttika · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0