भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिक · अध्याय 4

4.1

तेनासन्निश्चयफलानुपलब्धिर्नसिध्यति ।
परार्थानुमाननामा
चतुर्थः परिच्छेदः
परस्य प्रतिपाद्यत्वात् अदृष्टो ऽपि स्वयं परैः ।
दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः

4.2

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते

4.3

बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सो ऽप्रमाणं तदासिद्धं तत्सिद्धमखिलं ततः

4.4

तदागमवतः सिद्धं यदि कस्य क आगमः ।
बाध्यमानः प्रमाणेन स सिद्धः कथामागमः

4.5

तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ।
तदन्योपगमे तस्य त्यागांस्याप्रमाणाता

4.6

तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा ।
युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम्

4.7

प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसम्भवो ।
साधनैः साधनान्यर्थसक्तिज्ञाने ऽस्य तान्यलम्

4.8

विच्छिन्नानुगमा ये ऽपि सामान्येनाप्यगोचराः ।
साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन

4.9

पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात्

4.10

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतो ऽपि वस्त्वसंश्लिष्टासंगत्या सदृशी गतिः

4.11

लिङ्गं स्वभावः कार्य वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः

4.12

परेणाप्यन्यतो गन्तुमयुक्तम् परकल्पितैः ।
प्रसङ्गो द्वयसम्बन्धादेकापाये ऽन्यहानये

4.13

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः

4.14

कल्पनागमयोः कर्तु रिच्छमात्रानुवृत्तितः ।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः

4.15

अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः

4.16

तत् पक्षवचनं वक्तुरभिप्रायनिवेदने ।
प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम्

4.17

साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचो ऽशक्तमपि स्वयम्

4.18

हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ।
शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात्

4.19

तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः ।
विपक्षोपगमे ऽयेतत् तुल्यमित्यनवस्थिनिः

4.20

अन्तरङ्गं तु सामर्थ्य त्रिषु रूपेषु संस्थितम् ।
तत्र स्मृतिसमाधानं तदेअचस्येव संस्थितम्

4.21

अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् ।
विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता

4.22

उक्तमत्र विनाप्यस्मात् कृतकः शब्द ईदृशाः ।
सर्वे ऽनित्या इत् प्रोक्ते ऽप्यर्थात् तन्नाशधीर्भवेत्

4.23

अनुक्तावपि पक्षस्य सिद्धेप्रतिबन्धतः ।
त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यू नतोदिता

4.24

साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते ।
साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः

4.25

अविशेषोक्तिरप्येकजातीये संशयावहा ।
अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते

4.26

सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति ।
इदानीं साध्यनिर्देशः साधनावयवः कथम्

4.27

साभासोक्त्याद्युपक्षेपपरिहारविडम्बना ।
असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम्

4.28

गम्यार्थत्वे ऽपि साध्योक्तेरसम्मोहाय लक्षणम् ।
तच्चुतुर्लक्षणं रूपनिपातेषु स्वयंपदैः

4.29

असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः ।
अनुक्तो ऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः

4.30

सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् ।
वृत्तो स्वयंश्रुतेनाह कृता चैषा तदर्थिका

4.31

विशेषस्तद्व्यपेक्षत्वात् कथितो धर्मधर्मिणोः ।
अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गतिः

4.32

अनन्वयो ऽपि दृष्टान्ते दोषस्तस्य यथोदितम् ।
आत्मा परश्चेत् सो ऽसिद्धः इति तत्रेष्टघातकृत्

4.33

साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते ।
किं साध्यमन्यथानिष्टं भवेद् वैफल्यमेव वा

4.34

सद्वितीयप्रयोगेषु निरन्वयविरुद्धते ।
एतेन कथिते साध्यं सामान्येनाथ सम्मतम्

4.35

तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति ।
वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम्

4.36

तुल्यं नाशे ऽपि चेच्छब्दघटभेदेन कल्पने ।
न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः

4.37

तथार्थान्तरभावे स्यात् तद्वान् कुम्भो ऽप्यनित्यता ।
विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात्

4.38

द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः ।
व्यव्छेदादयोगे तु वार्ये नानन्वयागमः

4.39

सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् ।
विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत्

4.40

एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ ।
प्रत्याख्यातो निराकुर्वन् धर्मिण्येवमसाधनात्

4.41

समुदायापवाहो हि न धर्मिणि विरुध्यते ।
साध्यं यतस्तथा नेष्टं साध्यो धर्मो ऽत्र केवलः

4.42

एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि ।
साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयंश्रुतिः

4.43

शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने ।
तत्रैकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञ्योः

4.44

शब्दानाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः ।
हेतुर्विरिद्धो ऽप्रकृतेर्नो चेदन्यत्र सा समा

4.45

अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रुयाद् धर्मिधर्मादिसाधनैः

4.46

कैश्चित् प्रकरणैरिच्छ भवेत् सा गम्यते च तैः ।
वलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम्

4.47

वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
अनान्तरीयके चार्थे बाधिते ऽन्यस्य का क्षति

4.48

उक्तं च नागमापेक्षमनुमानं स्वगोचरे ।
सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते

4.49

वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः ।
उपायो ह्यभ्युपाये ऽयमनङ्गं स तदापि सन्

4.50

तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
चिकिर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम्

4.51

तद्विरोधेन चिन्तायास्तत्सिद्धर्थेष्वयोगतः ।
तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः

4.52

तत्रापि साध्यधर्मस्य नान्तरीकबाधनम् ।
परिहार्य न चान्येषामनवस्थाप्रसङ्गतः

4.53

केनेयं सर्वचिन्ताषु शास्त्रं ग्राह्यमिति स्थितिः ।
कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः

4.54

रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः ।
विलब्धा वत केनेमो सिद्धान्तविषमग्र्हाः

4.55

यदि साधन एकत्र सर्वशास्त्रं निदर्शने ।
दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः

4.56

असम्बद्धस्य धर्मस्य किमसिद्धो न सिध्यति ।
हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति

4.57

धर्मननुपनीयैव दृष्टान्ते धर्मिणो ऽखिलान् ।
वाग्धूमादेजंनो ऽन्वेति चैतन्यदहनादिकम्

4.58

स्वभावं कारणं चार्थो व्यभिचारेण साधयन् ।
कस्यचिद् वादबाधायां स्वभावान्न निवर्तते

4.59

प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः ।
साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः
उक्तो ऽनुक्तो ऽपि तेन कथमप्रतिपादितः

4.60

उक्तो ऽनुक्तो ऽपि वा हेतुर्विरोद्धा वादिनो ऽत्र किम् ।
न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः

4.61

बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न सः ।
किन्न बाधेत सो ऽकुर्वन्नयुक्तं केन दुष्यति

4.62

अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् ।
दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात्

4.63

यदि किञ्चित् क्वचिच्छस्त्रेन युक्तं प्रतिषिध्यते ।
ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः

4.64

सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् ।
सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः

4.65

विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् ।
विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता

4.66

अबाध्यबाधकत्वे ऽपि तयोः शास्त्रार्थविप्लवात् ।
असभ्बद्दे ऽपि बाधा चेत् स्यात् सर्व सर्वबाधनम्

4.67

सम्बन्धस्तेन तत्रैव बाधनादस्ति चेदसत् ।
हेतोः सर्वस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः

4.68

नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते ।
केवलं शास्त्रपीडेति दोषः सान्यकृते समा

4.69

शास्त्राभ्युपगमात् साध्यः सास्त्रदृष्टो ऽखिलो यदि ।
प्रतिज्ञा सिद्धदृष्टान्तहेतुवाद्ः प्रसज्यते

4.70

उक्तयोः साधनत्वेन नो चेदीप्सितवादतः ।
न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते

4.71

अनीप्सितमसाध्यं चेद् वादिनान्यो ऽप्यनीप्सितः ।
धर्मो ऽसाध्यस्तदासाध्यं बाधमानं विरोधि किम्

4.72

पक्षलक्षणबाह्यार्थः स्वयंशब्दो ऽप्यनर्थकः ।
शास्त्रे ष्विच्छप्रवृत्त्यर्थो यदि शङ्काकुतोन्वियम्

4.73

सो ऽनिषिद्धः प्रमाणेन गृह्णान् केन निवार्यते ।
निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्यते

4.74

पूर्वमप्येष सिद्धन्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं सतु पुनर्ग्रहीतुं लभते न किम्

4.75

दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयंश्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन्

4.76

समयाहितभेदस्य परिहारेण धर्मिणः ।
प्रसिद्धस्य गृहीत्यर्था जगादन्यः स्वयंश्रुतिम्

4.77

विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः ।
स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः

4.78

असाध्यतामथ प्राह सिद्धदेशेन धर्मिणः ।
स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम्

4.79

सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे ।
साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत्

4.80

अनुमानस्य सामान्यविषयत्वं च वर्णीतम् ।
इहैवं न ह्यनुक्ते ऽपि किञ्चित् पक्षे विरुध्यते

4.81

कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्त्यते ।
कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि

4.82

उक्तरावयवापेक्षो न दोषः पक्ष इष्यते ।
तथा हेत्वादिदोषो ऽपि पक्षदोषः प्रसज्यते

4.83

सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः ।
पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत्

4.84

हेत्वादिलक्षणैर्वाध्यं मुक्त्वा पक्षस्य लक्षणम् ।
उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः

4.85

स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः ।
सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी

4.86

साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता ।
निराकृते बाधनतः शेषे ऽलक्षणवृत्तितः

4.87

स्वयमिष्टाभिधानेन गतार्थे ऽप्यवधारणे ।
कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे

4.88

इहानङ्गमिषेर्निष्ठा तेनेप्सितपदे पुनः ।
अङ्गमेव तयासिद्धहेत्वादि प्रतिषिध्यते

4.89

अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना ।
अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता

4.90

तेनानभीष्टसंसृष्टस्येस्यापि हि बाधने ।
यथासाध्यमबाधातः पक्षहेतू न दुष्यतः

4.91

अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः

4.92

अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा ।
तत्राभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः

4.93

आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् ।
आप्तः स्ववचनं शस्त्रं चैकमुक्तं समत्वतः

4.94

यथात्मनो ऽप्रमाणत्वे वचनं न प्रवर्त्तते ।
शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये

4.95

तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् ।
वक्तुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये

4.96

उदाहरणमप्यत्र सदृशं तेन वर्णितम् ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगतः

4.97

स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङ्मात्रदर्शनम् तत्र प्रेत्यधर्मो ऽसुखप्रदः

4.98

शास्त्रिणो ऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः

4.99

यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम्

4.100

प्रतिज्ञामनुमानं वा प्रतिज्ञापेतयुक्तिका ।
यथार्थ वा बाधेत कथमन्यथा

4.101

प्रामाण्यमागमानां च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषो ऽयमिष्यते

4.102

तस्माद् विषयभेदस्य दर्शनार्थ पृथक् कृतः ।
अनुमानाबहिर्भूतो ऽप्यभ्युपायः प्रबाधनात्

4.103

अन्यथातिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः ।
भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि

4.104

तेनाभ्युपगमाच्छास्त्र प्रमाणं सर्ववस्तुषु ।
बाधकम् यदि नेच्छेत् स बाधकं किं पुनर्भवेत्

4.105

स्ववाग्विरोधेअभेदः स्यात् स्ववाक्शास्त्रविरोधयोः ।
पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता

4.106

तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागे ऽपि न क्षतिः ।
परोइक्षेष्वागमानिष्टो न चिन्तैव प्रवर्त्तते

4.107

विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा ।
अधर्ममूलं रागादि स्नानं चाधर्मनाशनाम्

4.108

शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते ।
दृष्टे ऽदृष्टे ऽपि तद्ग्राह्यमिति चिन्ता प्रवर्त्यते

4.109

अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः ।
इष्टशब्दाभिधेयस्याप्तो ऽत्राक्षतवाग् जनः

4.110

उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः ।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सुचिताः

4.111

तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् ।
कृतानामकृतानां च योग्यं विश्वं स्वभावतः

4.112

अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा ।
बाध्यते प्रतिरुन्धानः शब्दयोग्यतयातया

4.113

तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः ।
सर्वो ऽस्यामप्रतीते ऽपि तस्मिंस्तत्सिद्धता ततः

4.114

असाधरणता न स्यात् बाधाहेतोरिहान्यथा ।
तन्निषेधो ऽनुमानात् स्याच्छब्दार्थे ऽनक्षवृत्तितः

4.115

असाधारणता तत्र हेतूनां यत्र नान्वयि ।
सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः

4.116

संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः ।
नासिद्धिः शब्दसिद्धनामिति शाब्दप्रसिद्धिवाक्

4.117

अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः ।
अभावं दर्शयत्येवं प्रतीरेरनुमात्वतः

4.118

अथ वा ब्रु वतो लोकस्यानुमाभाव उच्यते ।
किं तेन भिन्नविषया प्रतीतिरनुमानतः

4.119

तेनानुमानाद् वस्तूनां सदसतानुरोधिनः ।
भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम्

4.120

चन्द्रतां शशिनो ऽनिच्छन् कां प्रतीतिं स वाञ्छति ।
इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम्

4.121

नोदाहरणमेवेकमधिकृत्येदमुच्यते ।
लक्षणत्वात् तथा वृक्षो धात्रीत्युक्तौ च बाधनात्

4.122

अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु ।
समयाद् वर्तमानस्य कासाधारणतापि वा

4.123

यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् ।
प्रतीतिसिद्धोपगमे ऽशशिन्यप्यनिवारणम्

4.124

तस्य बस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् ।
तद्वस्त्वभावे शशिनि वारणे ऽपि न दुष्यति

4.125

तस्मादवस्तुनियतसंकेतबलभाविनाम् ।
योग्याः पदार्था धर्माणामिच्छाया अनिरिधनात्

4.126

तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषये ऽनुमा

4.127

शब्दानामर्थमियमः संकेतानुविधायिनाम् ।
नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते

4.128

नैमित्तिक्याः श्रुतेरर्थमर्थ वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानो ऽबाधनार्हो हि वर्णितः

4.129

तस्माद् विषयभेदस्य दर्शानाय पृथक्कृता ।
अनुमानाबहिर्भू ता प्रतीतिरपि पूर्ववत्

4.130

सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने

4.131

अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते

4.132

अद्वयं शबलाभासस्यादृष्तेर्बुद्धिजन्मनः ।
तदर्थार्थोक्तिरस्येव क्षेपे ऽध्यक्षेण बाधनम्

4.133

तदेव रूपं तत्रार्थः शेष व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः

4.134

तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपे ऽप्यबाधेति श्रावणोक्त्या प्रकाशितम्

4.135

सर्वथावाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः

4.136

सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः ।
तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि

4.137

अन्यथास्योपरोधः को बाधिते ऽन्यत्र धर्मिणि ।
गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः

4.138

बाधायां धर्मिणो ऽपि स्याद् बाधेत्यस्य प्रसिद्धये ।
आश्रयस्य विरोधन तदाश्रिताविरोधनात्

4.139

अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः ।
तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः

4.140

नन्वेतदप्यर्थशिद्धं सत्यं केचित्तु धर्मिणः ।
केवलस्योपरोधे ऽपि दोषवत्तमुपागताः

4.141

यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् ।
सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः

4.142

तद्वद् वस्तुस्वभावो ऽसन् धर्मी व्योमादिरित्यपि ।
नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते

4.143

द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् ।
बाधनं धर्मिणास्तत्र बाधेत्येतेन वर्णितम्

4.144

तथैव धर्मिणो ऽप्यत्र साध्यत्वात् केवलस्य न ।
यद्येवमत्र बाधा स्यात् नान्यानुत्पाद्यशक्तिकः

4.145

सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् ।
विरोधिता भवेदत्र हेतुरैकान्तिको यदि

4.146

क्रमक्रीयनित्यतयोरविरोधाद् विपक्षतः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते

4.147

स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम्

4.148

स्वयं श्रुत्यान्यधर्माणां बाधा बाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्तधर्मिणो ऽपीति कथ्यते

4.149

सर्वसाधनदोषेण पक्ष एवोपरोध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः

4.150

उत्तरावयापेक्षो यो दोषः सो ऽनुबध्यते ।
तेनेत्युक्तमतो पक्षदोषो ऽसिद्धाश्रयादिकः

4.151

धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः ।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता

4.152

तत्रोदाहृतिदिङ्मात्रमुच्यते ऽर्थस्य दृष्टये ।
द्रव्यलक्षणयुक्तो ऽन्यः संयोगे ऽर्थो ऽस्ति दृष्टिभाक्

4.153

अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना ।
इष्टो ह्यवयवी कार्य दृष्ट्वादृश्येष्वसम्भवि

4.154

अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ॥
गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः

4.155

तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् ।
तत एव न दृश्यो ऽसावदृष्टेः कार्यरूपयोः

4.156

तद्बाधान्यविशेषस्य नान्तरीयकभाविनः ।
आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत्

4.157

द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरो ऽब्रवीत् ।
तस्य क्रमेणं संयुक्ते पांशुराशौ सकृद् युते

4.158

भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते ।
सुवर्नमाषकादीनां संख्यासाम्यं न युज्यते

4.159

सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत् ।
गौरवं कार्यमालाया यदि नैवोपलभ्यते

4.160

आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम् ।
तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात्

4.161

नन्वदृष्टों ऽशुवत् सो ऽर्थो न च तत्कार्यमीक्ष्यते ।
गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात्

4.162

माषकादेरनाधिक्यम् अनतिः सोपलक्षणम् ।
यथास्वमक्षेणादृष्टे रूपादावधिकाधिके

4.163

अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु ।
उदाहरणमप्यन्यदिशा गम्यं यथोक्त्या

4.164

त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम् ।
तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत्

4.165

प्रत्ययनाधिकारे तु सर्वासिद्धवरोधिनी ।
यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते

4.166

तेनाप्रसिद्धदृष्टान्तहेतुदाहरणं कृतम् ।
अन्यथा शशश्रृङ्गादौ सर्वासिद्धे ऽपि साध्यता

4.167

सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः ।
कर्मादिभेदोपक्षेपपरिहारविवेचने

4.168

प्रागसिद्धस्वभावत्वात् साध्यो ऽवयव इत्यसत् ।
तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः

4.169

समुदायस्य साध्यत्वे ऽप्यन्योन्यस्य विशेषणम् ।
साध्यं द्वयं तदासिद्धं हेतुदृष्टान्तलक्षणम्

4.170

असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम्

4.171

साधनाख्यानसामर्थ्यात् तदर्थे साध्यता मता ।
हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम्

4.172

पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा ।
ब्यर्था व्यप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः

4.173

विरुद्धतेष्टासम्बन्धो ऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत्

4.174

पक्षदोषः परापेक्षो नेति च प्रतिपादितम् ।
इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः

4.175

अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ।
दष्टान्ताख्यानतो ऽन्यत् किमस्त्यत्रार्थानुदर्शनम्

4.176

विशेषभिन्नामाख्याय सामान्यस्यानुवर्तने ।
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्तने

4.177

स्यान्निराकरणं शब्दे स्थितेनैवेत्यतो ऽब्रवीत् ।
विरुद्धविषये ऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः

4.178

स च भेदाप्रतिक्षेपात् सामान्यानां न विद्यते ।
वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित्

4.179

सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता ।
सो ऽसवः सर्वभेदानामतत्त्वे तदसम्भवात्

4.180

ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः ।
असिद्धेर्जापकत्वस्य धर्म्यसिद्धः स्वसाधने

4.181

धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः ।
सर्वत्र दोषस्तुल्यश्चेन्न संवृत्त्या विशेषतः

4.182

परमार्थविचारेषु तथाभूताप्रसिद्धितः ।
तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते

4.183

अनुमानानुमेयार्थव्यहारस्थितिस्त्वियम् ।
भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते

4.184

यथास्वं भेदनिष्ठेषू प्रत्ययेषू विवेकिनः ।
धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः

4.185

व्यवहारोपनीतो ऽत्र स एवाश्लिष्टभेदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः

4.186

भेदसामान्ययोर्धर्मभेदादंगांगिता ततः ।
यथानित्यः प्रयत्नोत्थः प्रत्यत्नोत्थतया ध्वनिः

4.187

पक्षाङ्गत्वे ऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान्

4.188

साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषो ऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते

4.189

पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये ।
हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते

4.190

अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः

4.191

विशेषणविशेष्याभ्यां क्रियया च सहोदितः ।
विवक्षातो ऽप्रयोगे ऽपि सर्वो ऽर्थो ऽयं प्रतीयते

4.192

व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा

4.193

प्रतियोगिव्यच्छेदस्तत्राप्यर्थेषु गम्यते ।
तथा प्रसिद्धेः समार्थ्यास् विवक्षानुगमाद् ध्वनेः

4.194

तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम् ।
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक्

4.195

स्वभावकार्यसिद्ध्यर्थ द्वौ द्वौ हेतुविपर्ययौ ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः

4.196

न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे ।
सम्भवाद् व्यभिचारस्य द्विधावृतिफलं ततः

4.197

प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न ।
तस्यावृत्यक्षशब्देषु सर्वथानुपयोगतः

4.198

कदाचिन्तिरपेक्षस्य कार्याकृतिविरोधतः ।
कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम्

4.199

एतावतैव सिद्धे ऽपि स्वभावस्य पृथक् कृतिः ।
कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम्

4.200

व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता ।
अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते

4.201

तेनात्र कार्यलिङ्गेन स्वभावो ऽप्येकदेशभाक् ।
सदृशोदाहृतिश्चातः प्रत्यत्नाद् व्यक्तिजन्मनः

4.202

यन्नान्तरीका सत्ता यो वात्मन्यविभागवान् ।
स तेनाव्यभिचारी स्यादित्यर्थ तत्प्रभेदनम्

4.203

संयोग्यादिषु येष्वस्ति प्रतोइबन्धो न तादृशः ।
न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात्

4.204

सति वा प्रतिबन्धे ऽस्तु स एव गतिसाधनः ।
नियमो ह्यविनाभावो नियतश्च न साधनम्

4.205

एकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते ।
तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः

4.206

स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता ।
सिध्येदतो ऽविशेषे न व्यतिरेका न वान्वयः

4.207

अदृष्टिमात्रमादाय केवलं व्यतिरेकिता ।
उक्तो ऽनैकान्तिकस्तस्मादन्यथा गमको भवेत

4.208

प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने ।
आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न

4.209

अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः ।
तदात्मा तत्प्रसूतिश्चेत् नतद् आत्मोपलम्भने

4.210

तस्योपलब्धावगतावगतौ च प्रसिध्यति ।
ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः

4.211

अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः ।
अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः

4.212

प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते ।
तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते

4.213

यस्य हेतोरभावेन घटे प्राणो दृश्यते ।
देहे ऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः

4.214

भिन्ने ऽपि किञ्चित् साधर्म्याद् यदि तत्त्वं प्रतीयते ।
प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते

4.215

अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम् ।
भावाभावव्यवस्थां कः कर्तु तेन विना प्रभुः

4.216

स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः ।
विषयेन्द्रियचित्तेभ्यः ताः स्वजातिसमुद्भवाः

4.217

अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् ।
एतावत्याभावो ऽयमनवस्थान्यकल्पने

4.218

श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः ।
न तस्य व्यभिचारित्वाद् व्यतिरेके ऽपि चेत् कथम्

4.219

नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते ।
साध्ये ऽनुवृत्त्यभावो ऽर्थात् तस्यान्यत्राप्यसौ समः

4.220

असाध्यादेव विच्छेद इति साध्ये ऽस्तितोच्यते ।
अर्थापत्त्यात एवोक्तमेकेनोभयदर्शनम्

4.221

ईदृगव्यभिचारो ऽतो ऽनन्वयिषु न सिध्यति ।
प्रतिषेधनिषेधश्च विधानात् कीदृशो ऽपरः

4.222

निवृत्तिर्नासतः साध्यादसाध्येष्वेव नो ततः ।
नेति सैव निवृत्तिः किं निवृत्तेरसतो मता

4.223

निवृत्त्यभावस्तु बिधिर्वस्तुभावो ऽसतो ऽपि सन् ।
वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम्

4.224

निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते ।
सापि न प्रतिषेधो ऽयं निवृत्तिः किं निषिध्यते

4.225

विधानं प्रतिषेधं च मुक्त्वा शाब्दो ऽस्ति नापरः ।
व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता

4.226

सतां च न निषेधो ऽस्ति सो ऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः

4.227

देशकालनिषेधश्चेद् यथास्ति स निषिध्यते ।
न था न यथा सो ऽस्ति तथापि न निषिध्यते

4.228

तस्मादाश्रित्य शब्दार्थ भावाभावसमाश्रम् ।
अबाह्याश्रयमत्रेष्टं सर्व विधिनिषेधनम्

4.229

ताभ्यां स धर्मि सम्बद्धः ख्यात्यभवो ऽपि तादृशः ।
शब्दप्रवृत्तेरस्तीति सो ऽपीष्टो व्यवहारभाक्

4.230

अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने ।
एकधर्मस्य सर्वात्मविधानप्ररिषेधनम्

4.231

अनानात्मतया भेदे नानाविधिनिषेधवत् ।
एकधर्मिण्यसंहारो विधानप्रतिषेधयोः

4.232

एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् ।
विधावेकस्य तद्भाजामिवान्येषामुपेक्षकम्

4.233

निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् ।
व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा

4.234

तं तथैवाविकल्पार्थभेदाश्रयमुपागताः ।
अनादिवासनोद्भूतं बाधन्ते ऽर्थ न लौकिकम्

4.235

तत्फलो ऽतत्फलश्चार्थे भिन्न एकस्ततस्ततः ।
तैस्तैरुपप्लवैर्नीतः सञ्चयापचयैरिव

4.236

अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते ।
दृष्टिं भेदाश्रयैस्ते ऽपि तस्मादज्ञातविप्लवाः

4.237

सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः ।
असत्वं चाभ्युपगमादप्रमानं न युज्यते

4.238

असतो व्यतिरेके ऽपि सपक्षाद् विनिवर्त्तनम् ।
सन्दिग्घं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम्

4.239

एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् ।
द्वैराश्ये सति दृष्टेषु स्याद्दृष्टे ऽपि संशयः

4.240

अव्यक्तिव्यापिनो ऽप्यर्थाः सन्ति तज्जातिभाविनः ।
क्वचिन्न नियमो ऽदृष्ट्या पार्थिवालोहलेख्यवत्

4.241

भावे विरोधस्यादृष्टे कः सन्देहं निवारयेत् ।
क्वचिद् विनियमात् को ऽन्यस्तत्कार्यात्मतया स च

4.242

नरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् ।
अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति

4.243

येनासौ व्यतिरेकस्य नाभावं भावमिच्छति ।
यथा नाव्यतिरेके ऽपि प्राणादिर्न सपक्षतः

4.244

सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी ।
नान्व्य्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम्

4.245

यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु ।
निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्तकः

4.246

नान्तरीयकता सा च साधनं सधपेक्षते ।
कार्येदृष्टिरदृष्टिश्च कार्यकारणता हि सा

4.247

अर्थान्तरस्य तद्भावे भावानियमतो ऽगतिः ।
अभावासम्भवात् तेषामभावे नित्यभाविनः

4.248

कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् ।
तैर्विना भवतो ऽन्यस्मात् तज्जं रूपं कथं भवेत्

4.249

सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता ।
सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत्

4.250

भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता ।
एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ

4.251

तत् तस्या जननं रूपमन्यस्य यदि सैव सा ।
न तस्या जननं रूपं तदस्याः सम्भवेत् कथम्

4.252

ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः ।
तस्मात् स्वदृष्टाविव तद् दृष्टे कार्ये ऽपि गम्यते

4.253

एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः ।
द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि

4.254

भिन्नाभिन्नः किमस्यात्मा भिन्नो ऽथ द्रवता कथम् ।
अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः

4.255

तद्वद् भेदे ऽपि दहनो दहनप्रत्ययाश्रयः ।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः

4.256

दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् ।
धूमो ऽतद्व्यभिचारीति तद्वत् कार्य तथापरम्

4.257

धूमेन्धनविकाराङ्गतापदे दहनस्थितेः ।
अनग्निचेदधूमो ऽसौ स धूमश्चेत् स पावकः

4.258

नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयोः

4.259

अहेतुत्वगतिन्यायः सर्वो ऽयं व्यतिरेकिणः ।
अभ्यूह्यः श्रावणात्वोक्तेः कृतायाः साम्यदृष्टये

4.261

हेतुस्वभावनुवृत्यैवार्थनिवृत्तिवर्णनात् ।
सन्देहहेतुताख्यात्या दृश्ये ऽर्थे सेति सूचितम्

4.262

अनङ्गीकृतवस्त्वंशो निषेधः साध्यते ऽनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः

4.263

तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् ।
इत्यज्ञ्ज्ञापनायैकानुपाख्योदाहृतिर्मता

4.264

विषयासत्त्वतस्त्र विषयि प्रतिषिध्यते ।
ज्ञानाभिधानसन्देहं यथा दाहादपावकः

4.265

तथान्या नोपलभ्येषु नास्तितानुपलम्भभनात् ।
तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः

4.266

सिद्धो हि व्यवहारो ऽयं दृश्यादृष्टावसन्निति ।
तस्याः सिद्धावसन्दिग्धौ तत्कायत्वे ऽपि धीध्वनी

4.267

विद्यमाने ऽपि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः

4.268

कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः ।
कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः

4.269

कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् ।
हेतुप्रेभेदाख्याने न दर्शितोदाहृतिः पृथक्

4.270

एकोपलम्भानुभवादिदं नोपलभे इति ।
बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः

4.271

विशेषो गम्यते ऽर्थानां विशिष्टादेव वेदनात् ।
स्तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च

4.272

तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः ।
अन्यथा ह्यनवस्थातो भेदः सिघ्येन्न कस्यचित्

4.273

विशिष्टरूपानुभवादन्यथान्यनिराक्रिया ।
तद्विशिष्टोपलम्भो ऽतः तस्याप्यनुपलम्भनम्

4.274

तस्मादनुपलम्भो ऽयं स्वयं प्रत्यक्षतो गतः ।
स्वमात्रवृत्तेर्गमकस्तभावव्यवस्थितेः

4.275

अन्यथार्थस्य नास्तित्वं गम्यते ऽनुपलम्भतः ।
उपलम्भस्य नास्तित्वमन्येनेत्यनबस्थितिः

4.276

अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते ।
यथालिङ्गो ऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति

4.277

अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
आद्याधिक्रियते हेतोर्निश्चितेनैव साधने

4.278

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपं वा भावे भावादभावतः

4.279

अन्योन्यभेदसिद्धेर्वा ध्रू वभावबिमाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षध्रु वभाववत्

4.280

हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।
भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः

4.281

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः ।
तमेव नश्वरं भावं जनयेद् यदि किं भवेत्

4.282

आत्मोपकारकः कः स्यात् तस्य सिद्धत्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते

4.283

अनपेक्षश्च किं भावो ऽतथाभूतः कदाचन ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः

4.284

क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।
भावो हि स तथा भूतो ऽभाव भावस्तथा कथम्

4.285

ये ऽपरापेक्षतद्भावास्तद्भावनियता हि ते ।
असम्भवद्विबन्धा च समग्री कार्यकर्मणि

मूल पाठ: Pramāṇavārttika · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc