प्रमाणवार्त्तिक · अध्याय 1
प्रमाणवार्तिकम्
प्रथमः परिच्छेदः
प्रमाणसिद्धिः
विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे
प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम् ।
नानर्थ्येव सुभाषितैः परिगतो विद्वेष्ट्यपीर्ष्यामलैः ।
तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम् सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम्
प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ।
अविसंवादनं शाब्दे ऽप्यभिप्रायनिवेदनात्
वक्तृव्याअपारविषयो यो ऽर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नाथतत्त्वनिबन्धनम्
गृहीतग्रहणान्नेष्टं सांवृतम् धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि
विषयाकारभेदाच्च धियो ऽधिगमभेदतः ।
भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः
प्रामाण्यं व्यवहारेण शास्त्रं मोहनिर्वतनम् ।
अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम्
प्राप्तं सामान्यविज्ञानमविज्ञाते स्वलक्षणे ।
यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः
तद्वत् प्रमाणं भगवानभूतविनिवृत्तये ।
भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता
नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्गतेः ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनाम्
नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः ।
कथञ्चिन्नोपर्कायत्वात् अनित्ये ऽप्यप्रमाणता
स्थित्वाप्रवृत्तिः संस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयो ऽथवा
सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद्युक्तं तस्माद् यदनुमीयते
वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने
अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः
साध्येनानुगमात् कार्ये सामान्येनापि साधने ।
सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः
जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाद् वागादीनां विषाणवत्
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
तद्भावादर्थसिद्धौ तु सर्व सर्वस्य सिध्यति
एतेन कापिलादीनाम् अचैतन्यादि चिन्तितम् ।
अनित्यादेश्च चैतन्यं मरणात् त्वगपोहतः
वस्तुस्वरूपे सिद्धे ऽयं न्यायः सिद्धे विशेषणम् ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः
असिद्धावपि शब्दस्य शिद्धे वस्तुनि सिध्यति ।
औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम्
तस्यैव व्यभिचारादौ शब्दे ऽप्यव्यभिचारिण ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः
यथा तत्कारणं वस्तु तथैव तदकारणम् ।
यदा तत्कारणं केन मतं नेष्टमकारणम्
शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते
स्वभावभेदेन विना व्यापारो ऽपि न युज्यते ।
नित्यस्याव्यतिरेकित्वात् सामर्थ्य च दुरन्वयम्
येषु सत्सु भवत्येव यत्तेभ्यो ऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः
स्वभावपरिणामेन हेतुरङ्कुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात्
यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः
पृथक् पृथगशक्तानां स्वभावातिशये ऽसति ।
संहतावप्यसामर्थ्य स्यात् सिद्धो ऽतिशयस्ततः
तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः
प्रामाण्यञ्च परोक्षार्थज्ञानं यत्साधनस्य च ।
अभावान् नास्त्यनुष्ठानमिति केचित् प्रचक्षते
ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः
तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते
हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सवस्य वेदकः
दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे
साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात् ।
असिद्धि ऽभ्यास इति चेन्नाश्रयप्रतिषेधतः
प्राणापानेन्द्रियधियां देहादेव न केवलात् ।
सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे
अतिप्रसङ्गात्य द्दृष्टं प्रतिसन्धानशक्तिमत् ।
किमासीत् तस्य यन्नास्ति पश्याद् येन न सन्धिमत्
न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदजाद्या जायन्ते सर्व बीजात्मकं ततः
तत् सजात्यनपेक्षाणामक्षादीनां समुद्भवे ।
परिणमो यथैकस्य स्यात् सर्वस्याविशेषतः
प्रत्येकमुपघाते ऽपि नेन्द्रियाणां मनोमतेः ।
उपघातो ऽस्ति भङ्गे ऽस्यास्तेषां भङ्गश्च दृश्यते
तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः ।
कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः
यादृश्याक्षेपिका सासीत् पश्चादप्यस्तु तादृशी ।
तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः
यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना ।
तथाप्यन्यो ऽन्यहेतुत्वं ततो ऽप्यन्यो ऽन्यहेतुके
नाक्रमात् क्रमिणो भावो नाप्यपेक्ष्याविशेषिणः ।
क्रमाद् भवन्ती धीः कायात् क्रमं तस्यापि शंसति
प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् ।
तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा
चित्तान्तरस्य सन्धाने को विरोधो ऽन्त्यचेतसः ।
तद्वदप्यर्हतश्चित्तसन्धानं कुतो मतम्
असिद्धार्थः प्रमाअणेन किं सिद्धान्तो ऽनुगम्यते ।
हेतोर्वैकल्यतस्तच्चेत् किं तदेवात्र नोदितम्
तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् ।
ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि
अचेतनत्वान्नान्यस्माद् हेत्वभेदात् सहस्थितिः ।
अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया
सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः ।
स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते
अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः ।
वह्नयादिवद् घटादिनां विनिवृत्तिर्न तावता
अनिवृत्तिप्रसङ्श्च देहे तिष्ठति चेतसः ।
तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत्
प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः ।
निर्ह्रासाअतिशयापत्तिर्निर्ह्रासातिशयात् तयोः
तुल्यः प्रसङ्गो ऽपि तयोः न तुल्यं चित्तकारणे ।
स्थित्यावेधकमन्यच्च यतः कारणमिष्यते
न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि ।
मृते शमीकृते दोषे पुनरुज्जीवनं भवेत्
निवृत्ते ऽप्यनले काष्ठविकाराविनिवृत्तिवत् ।
तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः
अपुनर्भावतः किञ्चद् विकारजननं क्वचित् ।
चिञ्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयोः
आद्यस्याल्पो ऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः ।
विकारः स्यात् पुनर्भावः तस्य हेम्निखरत्ववत्
दुर्लभत्वात् समाधातुरसाध्यं किञ्चिदीरितम् ।
आयुःक्षयाद् वा दोषे तु केवले नास्त्यसाध्यता
मृते विषादिसंहारात् तंद्दशच्छेदतो ऽपि वा ।
विकारहेतोर्विगमे स नोच्छवसिति स नोच्छ्वसिति किं पुनः
उपादानाविकारेण नोपादेयस्य विक्रिया ।
कर्तु शक्याविकारेण मृदः कुण्डादिके यथा
अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते ।
उपादानं न तत् तस्य युक्तं गोगवयादिवत्
चेतःशरीरयोरेवम् तद्धेतोः कार्यजन्मनः ।
सहकारात् सहस्थानमग्निताम्रद्रवत्ववत्
अनाश्रयात् सदसतोर्नाश्रयः स्थितिकारणम् ।
सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः
व्यतिरेके ऽपि तद्धेतुस्तेन भावस्य किं कृतम् ।
अबिनाशप्रसङ्गः स नाशहेतोर्मतो यदि
तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना ।
आ नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता
नाशस्य सत्यबाधो ऽसाविति कि स्थितिहेतुना ।
यथा जलादेराधार इति चेत् तुल्यमत्र च
प्रतिक्षणविनाशे हि भवानां भावसन्ततेः ।
तथोत्पत्तेः सहेतुत्वादाश्रयो ऽयुक्तमन्यथा
स्यादाधारो जलादीनां गमनप्रतिबन्धतः ।
अगतीनां किमाधारैर्गुणसामान्यकर्मणाम्
एतेन समवायश्च समवायि च कारणम् ।
व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात्
परतो भावानाशश्चेत् तस्य किं स्थितिहेतुना ।
स विनश्येद् विनाप्यन्यैरशक्ताः स्थितिहेतवः
स्थितिमान् नाश्रयः सर्वः सर्वोत्पत्तै च साश्रयः ।
तस्मात् सर्वस्य भावस्य न विनाशः कदाचन
स्वयं विनश्वरात्मा चेत् तस्य कः स्थापकः परः ।
स्वयं न नश्वरात्मा चेत् तस्य कः स्थापकः परः
बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि ।
प्रज्ञादेर्भवतो देहनिर्ह्रासतिशयौ विना
इदं दीपप्रभादीनामाश्रितानां न विद्यते ।
स्यात् ततो ऽपि विशेषो ऽस्य न चित्ते ऽनुपकारिण
रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा ।
तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः
एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः ।
विकारयति धीरेव ह्यन्तरर्थविशेषजा
शार्दू लशोणितादीनां सन्तानातिशये क्वचित् ।
मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा
तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते ।
तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्
यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि ।
कालेन व्यज्यते ऽभेदात् स्याद् देहे ऽपि ततो गुणः
अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः ।
आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया
दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् ॥
जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति
गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् ।
अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा
तनुत्वान्मूर्तमपि तु किञ्चित् क्वचिदशक्तिमत् ।
जलवत् सूतवद्धेम्नि नादृष्टेनासदेव वा
पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः ।
एकस्मिन् कर्मणो ऽयोगात् स्यात् पृथक् सिद्धिरन्यथा
एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ ।
दृश्येत रक्ते चैकस्मिन् रागो ऽरक्तस्य वागतिः
नास्त्येकसमुदायो ऽस्मादनेकत्वे ऽपि पूर्ववत् ।
अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति
अविशेषो विशिष्टानामैन्द्रियत्वमतो ऽनणुः ।
एतेनावरणादीनामभावश्च निराकृतः
कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा ।
दृश्यं पृथगशक्तानामक्षादीनां गतिः कथम्
संयोगाच्चेत् समानो ऽत्र प्रसङ्गो हेमसूतयोः ।
दृश्यः संयोग इति चेत् कुतो ऽदृश्याश्रये गतिः
रसरूपादियोगश्च संयोग उपचारतः ।
इष्टश्चेद् बुद्धिभेदो ऽस्तु पंक्तिर्दिर्घेति वा कथम्
संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपतः ।
अभिलापाच्च भेदेन रूपं बुद्धौ न भासते
शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा
मतो यद्युपचारो ऽत्र स इष्टो यन्निबन्धनः ।
स एव सर्वभावेषु हेतुः कि नेष्यते तयोः
उपचारो न सर्वत्र यदि भिन्नविशेषणम् ।
मुख्यमित्येव च कुतो ऽभिन्ने भिन्नार्थतेति चेत्
अनर्थान्तरहेतुत्वे ऽप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि
गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः ।
स्यादनर्थान्तरार्थत्वे ऽप्यकर्माद्रव्यशब्दवत्
व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः ।
संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम्
श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा ।
भिन्नं धर्ममिवाचष्टे योगो ऽङ्गुल्या इति क्वचित्
युक्ताङ् गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी ।
ख्यातैकार्थाभिधाने ऽपि तथा बिहितसंस्थितिः
रूपादिशक्तिभेदानामनाक्षेपेण वर्तते ।
तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः
अतो न रूपं घट इत्येकाधिकररण श्रुतिः ।
भेदो ऽयमीदृशो जातिसमुदायाभिधायिनोः
रूपादयो घटस्येति तत्सामान्योपसर्जनाः ।
तच्छक्तिभेदाः ख्याप्यन्ते वाच्यो ऽन्यो ऽपि दिशानया
हेतुत्वे च समस्तानामेकाङ्गविकले ऽपि न ।
प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भवः
नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।
एकत्वे ऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः
नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि ।
नैकप्राणे ऽप्यनेकार्थग्रहणन्नियमस्ततः
एकयानेकविज्ञाने बुद्ध्यास्तु सकृदेव तत् ।
अविरोधात् क्रमेणापि माभूत् तदविशेषतः
बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः ।
तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम्
क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना ।
पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः
तद्धेतुस्तादृशो नास्ति सति वानेकता ध्रुवम् ।
प्राणानां भिन्नदेशत्वात् सकृज्जन्म धियामतः
यद्येककालिको ऽनेको ऽप्येकचैतन्यकारणम् ।
एकस्यापि व वैकल्ये स्यान्मन्दश्वसितादिषु
अथ हेतुर्यथाभावं ज्ञाने ऽपि स्याद् विशिष्टता ।
न हि तत् तस्य कार्य यद् यस्य भेदान्न्न भिद्यते
विज्ञानं शक्तिनियमादेकमेकस्य कारणम् ।
अन्यार्थासक्तिविगुणे ज्ञाने चार्थान्तराग्रहात्
शरीरात् सकृदुत्पन्ना धीः स्वजात्या नियम्यते ।
परतश्चेत् समर्थस्य देहस्य विरतिः कुतः
अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः ।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणम्
तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति ।
हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम्
तदङ्गभावहेतुत्वनिषेधे ऽनुपलम्भनम् ।
अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत्
दृष्टा च सक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु ।
विकारदर्शनात् सिद्धमपरापरजन्म च
शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् ।
चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च
तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् ।
असन्धिरीदृशं तेन शेषवत् साधनं मतम्
अभ्यासेन विशेषे ऽपि लङ्घनोदकतापवत् ।
स्वभावातिक्रमो मा भूदिति चेद् आहितः स चेत्
पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिताश्रयः ।
विशेषो नैव वर्धेत स्वभावश्च न तादृशः
तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति ।
साधनानामसामार्थ्यान्नित्यं चानाश्रयस्थितेः
विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो यदा ।
नापेक्षेत पुनर्यत्नं यत्नो ऽन्यः स्याद् विशेषकृत्
काष्ठपारदहेमादेरग्न्यादेरिव चेत्तसः ।
अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः
तस्मात् स तेषामुत्पन्नः स्वभावो जायते गुणः ।
तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः
यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः ।
कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः
न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः ।
तद्धेत्वोः स्थितशक्तित्वाल्लङ् घनस्य स्थितात्मता
तस्यादौ देहवैगुण्यात् पश्चाद्वदविलङ्घनम् ।
शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः
कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् ।
विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम्
तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु ।
कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे
कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवृत् ।
निष्पन्नः करुणोत्कर्षः परदुःखाक्षमेरितः
दयावान् दुःखहानार्थमुपायेष्वभियुज्यते ।
परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम्
युक्त्यागमाभ्यां विमृशन् दुःखहेतु परीक्षते ।
तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः
यतस्तथा स्थिते हेतौ निवृत्तिर्ने ति पश्यति ।
फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते
साध्यते तद्विपक्षो ऽपो हेतो रूपावबोधतः ।
आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः
हेतुर्विरोधि नैरात्म्दर्शनं तस्य बाधकम् ।
बहुशो बहुधोपायं कालेन बहुनास्य च
गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् ।
बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते
परार्थवृत्तैः खड्गादेर्विशेषो ऽयं महामुनेः ।
उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम्
निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् ।
हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात्
दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितो ऽपि वा ।
पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ
आत्मदर्शनबीजस्य हानादपुनरागमः ।
तद् भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम्
कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा ।
अशेषहानमभ्यासाद् उक्त्यादेर्दोषसंक्षयः
नेत्येके व्यतिरेको ऽस्य सन्दिग्धो व्यभिचार्यतः ।
अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः
उपायस्यापरिज्ञानादपि वा परिकल्पयेत् ।
हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात्
हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ।
तायः स्वदृष्टमार्गोक्तिः वैफल्याद् वक्ति नानृतम्
दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः ।
तस्मात् प्रमाणम् तायो वा चतुःसत्यप्रकाशनम्
दुःखं संसारिणः स्कन्धाः रागादेः पाटवेक्षणात् ।
अभ्यासान्न यदृच्छातो ऽहेतोर्जन्मविरोधतः
व्यभिचारान्न वातादिधिर्मः प्रकृतिसङ्करात् ।
अदोषश्चेत्तदन्यो ऽपि धर्मः किं तस्य नेक्ष्यते
न सर्वधर्मः सर्वेषां समरागप्रसङ्गता ।
रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम्
आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।
विशेषे ऽपि च दोषाणामविशेषाद् असिद्धता
न विकाराद् विकारेण सर्वेषाम् न च सर्वजाः ।
कारणे वर्धमाने च कार्यहानिर्न युज्यते
तापादिष्विव रागादेर्विकारो ऽपोइ सुखादिजः ।
वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि
वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः ।
रागी विषमदोषो ऽपि दृष्टः साम्ये ऽपि नापरः
क्षयादसृक्स्रु तो ऽप्यन्ये नैकस्त्रीनियतो मदः ।
तेनैकस्यां न तीव्रः स्याद् अङ्ग रूपाद्यपीति चेत्
न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।
अगुणग्राहिणो ऽपि स्यात् अङ्गं सो ऽपि गुणग्रहः
यदि सर्वो गुणग्राही स्याद् हेतोरविशेषतः ।
यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः
तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते ।
सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः
यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः ।
एतेन भूतधर्मत्वं निषिद्धम् निःश्रयस्य च
निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः ।
तदुपादायशब्दश्च हेत्वर्थः स्वाश्रयेण च
अविनिर्भागवर्तित्वाद् रूपादेराश्रयो ऽपि वा ।
मदादिशक्तेरिव चेद् विनिर्भागः न वस्तुनः
शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितामाश्रये ।
तिष्ठत्यविकले याति तत्तुल्यं चेन्न भेदतः
भूतचेतनयोः भिन्नप्रतिभासावबोधतः ।
आविकारञ्च कायस्य तुल्यरूपं भवेन्मनः
रूपादिवत् विकल्पस्य कैवार्थपरतन्त्रता ।
अनपेक्ष्य यदा कायं वासनाबोधकारणम्
ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चिन ।
अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति
विज्ञानशक्तिसम्बन्धादिष्टं चेत् सर्ववस्तुनः ।
एतत् सांख्यपशोः को ऽन्यः सलज्जो वक्तुमीहते 167 ॥
अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् ।
यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते
शतधा विप्रकीर्णे ऽपि हेतौ तद् विद्यते कथम् ।
रागाद्यनियमो ऽपूर्वप्रादुर्भावे प्रसज्यते
भूतात्मतानतिक्रान्तः सर्वो रागादिमान् यदि ।
सर्वः समानरागः स्याद् भूतातिशयतो न चेत्
भूतानां प्राणताभेदे ऽप्ययं भेदो यदाश्रयः ।
तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत्
न चेद् भेदे ऽपि रागादिहेतुतुल्यात्मताक्षयः ।
सर्वत्र रागः सदृशः स्याद्धेतोस्सदृशात्मनः
न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित् ।
तारतभ्यं पृथिव्यादौ प्राणितादेरिहापि वा
औष्ण्यस्य तारतम्ये ऽपि नानुष्णो ऽग्निः कदाचन ।
तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधतः
तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः ।
ते क्वचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत्
रूपादिवन्न नियमस्तेषां भूताविभागतः ।
तत् तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्गतः
विकल्प्यविषयत्वाच्च विषया न नियामकाः ।
सभागहेतुविरहाद् रागादेर्नियमो न वा
सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः ।
कदाचिदुपलम्भात् तदध्रु वं दोषनिःश्रयात्
दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् ।
नाकारणमधिष्ठाता नित्यं वा कारणं कथम्
तस्मादनेकमेकस्मादू भिन्नकालं न जायते ।
कार्यानुत्पादतो ऽन्येषु सङ्गतेष्वपि हेतुषु
हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्यते ।
कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता
नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात् ।
तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु
तथा कारणमेतत् स्याद् इति केचित् प्रचक्षते ।
सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया
तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ।
स्पर्शस्य रूपहेतुत्वाद् दर्शने ऽस्ति निमित्तता
नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः ।
असामर्थ्यादतो हेतुर्भववाञ्छापरिग्रहः
यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् ।
सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः
यतो ऽपि प्राणिनः कामविभवेच्छे च त मते ।
सर्वत्र चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते
असुखे सुखसंज्ञस्य तस्मात् तृष्णा भवाश्रयः ।
विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते
अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः ।
निमित्तोपगमादिष्टमुपादानं तु वार्यते
इमां तु युक्तिमन्विच्छन् वाधते स्वमतं स्वयम् ।
जन्मना सहभावश्चेत् जातानां रागदर्शनात्
सभागजातेः प्राक् सिद्धिः कारणत्वे ऽपि नोदितम् ।
अज्ञानम् उक्ता तृष्णैव सन्तानप्रेरणाद् भवे
आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् ।
तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात्
संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः ।
यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति
तावद् दुःखितमारोप्य न च स्वस्थो ऽवतिष्ठते ।
मिथ्याध्यारोपहानार्थ यत्नो ऽसत्यपि मोक्तरि
अवस्था वीतारागाणां दयया कर्मणापि वा ।
आक्षिप्ते ऽविनिवृत्तीष्टेः सहकारिक्षयादलम्
नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् ।
दुःखज्ञाने ऽविरुद्धस्य पूर्वसंस्कारवाहिनी
वस्तुधर्मो दयोत्पत्तिर्न सा सत्वानुरोधिनी ।
आत्मान्तरसमारोपद् रागो धर्मे ऽतदात्मके
दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः ।
मोहश्च मूलं दोषाणां स च सत्त्वग्रहो विना
तनाद्यहेतौ न द्वेषो न दोषो ऽतः कृपा मता ।
नामुक्तिः पूर्वसंस्कारक्षये ऽन्याप्रतिसन्धितः
अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति ते ऽनघाः ।
मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान्
तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।
सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत्
मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः ।
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः
यैवाहमिति धीः सैव सहजं सत्त्वदर्शनम् ।
न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति
न चात्मनि विना प्रेम्णा सुखकामो ऽभिधावति ।
दुःखस्योत्पादहेतुत्वं बन्धो नित्यस्य तत् कुतः
अदुःखोत्पादहेतुत्वं मोक्षो नित्यस्य तत् कुतः ।
अनित्यत्वेन यो ऽवाच्यः स हेतुर्न हि कस्यचित्
बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन ।
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति
त्यक्त्वेमां ह्रेपणीं दृष्टमतो ऽनित्यः स उच्यताम् ।
उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तते
सात्म्ये ऽपि दोषभावश्चेन्मार्गवत् नाविभुत्वतः ।
विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः
गृह्यते सो ऽस्य जनको विद्यमानात्मनेति च ।
एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत्
व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् ।
प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः
तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये ।
नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि
बाधकोत्पत्तिसामर्थ्यगर्भे शक्तो ऽपि वस्तुनि ।
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः
न बाधा यत्नवत्त्वे ऽपि बुद्धेस्तत्पक्षपाततः ।
आत्मग्रहैकयोनित्वात् कार्यकारणभावतः
रागप्रतिघयिर्बाधा भेदे ऽपि न परस्परम् ।
मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः
तन्मूलाश्च मलाः सर्वे स च सत्कायदर्शनम् ।
विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः
मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत् ।
व्याख्येयो ऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः
विरोधः शून्यतादृष्टेः सत्वदोषैः प्रसिध्यति ।
नाक्षयः प्राणिधर्मत्वाद् रूपादिवदसिद्धितः
सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि ।
न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः ।
सात्मत्वेनानपायत्वात् अनेकान्ताच्च भस्मवत्
यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः ।
स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते
गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते ।
तेनात्माभिनिवेशो यावत् तावत् स संसारे
आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ।
अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते
नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते
न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् ।
स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम्
अदूषिते ऽस्य विषये न शक्यं तस्य वजनम् ।
प्रहाणितिच्छद्वेषादेर्गुणदोषानुबन्धिनः
तयोरदृष्टिर्विषये न तु बाह्येषु यः क्रमः ।
न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात्
कारणे ऽविकले तस्मिन् कार्य केन निर्वार्यते ।
का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः
तथापि न विरागो ऽत्र स्वत्वदृष्टेर्यथात्मनि ।
न तैर्विना दुःखहेतुरात्मा चेत् ते ऽपि तादृशाः
निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः ।
दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत्
आत्मीयबुद्धीहान्यात्र त्यागो न तु विपर्यये ।
उपभोगाश्रयत्वेन गृहीतेष्वन्द्रियादिषु
स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः ।
प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात्
च्युतेषु सघृणा बुद्धिर्जायते ऽन्येषु सस्पृहा ।
समवायादिसम्बन्धजनिता तत्र हि स्वधीः
स तथैवेति सा दोषदृष्टावपि न हीयते ।
समवायाद्यभावे ऽपि सर्वत्रास्त्युपकारिता
दुःखोपकारान्न भवेदंगुल्यामिव चेत् स्वधीः ।
न ह् येकान्तेन तद् दुःखं भूयसा सविषान्नवत्
विशिष्टसुखसङ्गात् स्यात् तद्विरुद्वे विरागिता ।
किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया
नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते ।
अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता
यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छिति ।
निवृत्तसर्वानुभवव्यवहारगुणाश्रयम्
इच्छेत् प्रेम कथम् प्रेम्णः प्रकृतिर्न हि तादृशी ।
सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम्
आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् ।
यत्ने ऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात्
वृत्तिमान् प्रतिबध्नाति तद्दोषान् संवृणोति च ।
आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते
त्यजत्यसौ यथात्मानं व्यर्थातो दुःखभावना ।
दुःखभावनयाप्येष दुःखमेव विभावयेत्
प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् ।
यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः
विरक्तो नैव तत्रापि कामीव वनितान्तरे ।
त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी
सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे ।
निर्दोषविषयः स्नेहो निर्दोषः साधनानि च
एतावदेव च जगत् क्वेदानीं स विरज्यते ।
सदोषतापि चेत् तस्य तत्रात्मन्यपि सा समा
तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते ।
गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक्
स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् ।
दोषवत्यपि सद्भावात् अभावाद् गुणवत्यपि
अन्यत्रात्मीयतायां वाप्यतीतादौ विहानितः ।
तत एव च नात्मीयबुद्धेरपि गुणेक्षणम्
कारणम् हीयते सापि तस्मान्नागुणदर्शनात् ।
अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते
तस्मात् तत्कारणाबाधी बिधिस्तं बाधते कथम् ।
परापरप्रार्थनातो विनाशोत्पादबुद्धितः
इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः ।
तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि
उपलम्भान्तरङ् गेषु प्रकृत्यैवानुरज्यते ।
प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः
न वैराग्यम् तदाप्यस्य स्नेहो ऽवस्थान्तरेषणात् ।
द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः
तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुनः ।
औदासीन्यं तु सर्वत्र त्यागोपादानहानितः
वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ।
संस्कारदुःखतां मत्वा कथिता दुःखभावना
सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः ।
मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः
अनित्यात् प्राह तेनैव दुःखं दुःखान्निरात्मताम् ।
अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः
सो ऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः ।
आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते
आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ।
तस्मादनादिसन्तानतुल्यजातीयबीजिकाम्
उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः ।
आगमस्य तथाभावनिबन्धनमपश्यताम्
मुक्तिमागममात्रेण वदन्न परितोषकृत् ।
नालं वीजादिसंसिद्धो विधिः पुंसामजन्मने
तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः ।
प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम्
मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः ।
मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात्
हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते ।
तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः
ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणं ।
गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः
अदृष्टनाशादगतिः तत्संस्कारो न चेतना ।
सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः
दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् ।
धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः
न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् ।
अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः
बुद्धस्तेषामसामर्थ्ये जीवतो ऽपि स्युरक्षमाः ।
निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः
दोषाः स्वबीजसन्ताना दीक्षिते ऽप्यनिवारिताः ।
नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते
क्रियायामक्रियायाञ्च क्रिययोः सदृशात्मनः ।
ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः
कृर्तृ भोक्तृत्वहानिः स्यात् सामर्थ्य च न सिध्यति ।
अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः
अस्मृतेः कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः ।
स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये
अभूतान् षोडशाकारान् आरोप्य परितृष्यति ।
तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी
हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता ।
त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि
एकाभावाद् विना बीजं नांकुरस्येव सम्भवः ।
असम्भवाद् विपक्षस्य न हानिः कर्मदेहयो
अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् ।
द्वयक्षयार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः
फलवैचित्र्यदृष्टेश्च शक्तिभेदो ऽनुमीयते ।
कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः
फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत् ।
अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः
क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः ।
यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत्
तत् कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् ।
उत्पत्सुदोषनिर्घाताद् ये ऽपि दोषविरोधिनः
तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत् ।
दोषा न कर्मणो दुष्टः करोति न विपर्ययात्
मिथ्याविकल्पेन विना नाभिलाषः सुखादपि ।
तायत् तत्वस्थिराशेषविशेषज्ञाबसाधनम्
बोधार्थत्वाद् गमेः बाह्यशैक्षाशैक्षाधिकस्ततः ।
परार्थज्ञानघटनं तस्मात् तच्छासनं ततः
दयापरार्थतन्त्रत्वम् सिद्धार्थस्याविरामतः ।
दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम्
तच्चभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता ।
उपदेशतथाभावस्तुतिस्तदुपदेशतः
प्रमाणतत्त्वसिद्ध् यर्थम् अनुमाने ऽप्यवारणात् ।
प्रयोगदर्शनाद् वास्य यत् किञ्चिदुदयात्मकम्
निरोधधर्मकं सर्व तद् इत्यादावनेकधा ।
अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ।
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम्
मूल पाठ: Pramāṇavārttika · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0