प्रकरणपञ्चिका (टीका सहित) · अध्याय 9
इति ॥
वेदार्थविदामग्रगण्यस्य भगवतस्सकलनयनिधेर्जैमिनेरपौरुषेयश्शब्दस्यार्ऽथेन सम्बन्धो ऽभिमतः ।
स हि मेने---यद्यपि 709देवदत्तादिशब्दानां पुरुषसङ्केतनिबन्धनं वाचकत्वम्, तथापि गवादिपदेष्वनुमानं न शक्यते कर्तुम् ।
अर्थप्रतिपत्तिलक्षणस्य कार्यस्यान्यथाप्युपपत्तेरनैकान्तिकत्वादिति ।
वृद्धव्यवहारनिबन्धनाद्धि स्वार्थे वाचकत्वशक्तिज्ञानादपि बालानां शब्दार्थप्रतिपत्तिर्दृश्यते ।
तेनैकान्ततस्सङ्केत एव कल्पयितुं न शक्यते ।
अपि च शक्तिज्ञानमात्रनिबन्धना 710गवादिशब्दानामर्थप्रतिपत्तिरिति प्रत्यक्षमेवैतत् ।
न च प्रत्यक्षे सति कारणे कारणान्तरमनुमातुं शक्यते ।
देवदत्तादिपदेषु तु यस्य सङ्केतनिबन्धनार्ऽथप्रतिपत्तिर्भवति, तस्य सङ्केत एव कारणम् ।
तेष्वपि ये व्यवहारदर्शनादेव वाचकतामवगम्यार्ऽथं प्रतिपद्यन्ते, तेषामपि व्यवहारदर्शनप्रसूतं शक्तिज्ञानमेवार्ऽथप्रतिपत्तिकारणम्, न सङ्केतः ।
किन्तु तत्र सङ्केतपूर्वक एव व्यवहारः, अर्थप्रतिपत्तिश्च, तथा तत्पूर्वकमपि वाचकत्वज्ञानम् ।
गवादिपदेषु तु सर्वेषां शक्तिज्ञानादेव व्यवहारसम्भवादर्थावगतिरिति वैषम्यम् ।
ननु देवदत्तादिपदेषु 71म1सङ्केतदर्शनात्, किमिति गवादिपदेष्वपि पूर्वभावी सङ्केत एव न कल्प्यते ।
न ।
प्रत्यनुमानग्रस्तत्वात् ।
शक्यते हि तत्रैवमनुमानं सम्भावयितुम्---पूर्वे हि पुमांसो गवादिशब्दानां सास्नादिमत्यर्थे वृद्धव्यवहारसिद्धशक्तिज्ञानादर्थप्रतिपत्तिमन्तो गवादिशब्देभ्यस्सास्नादिमदर्थप्रतिपत्तियोगित्वादधुनातनपुरुषवदित् इ ।
तदेवं प्रत्यनुमानेन712 निरस्ते ऽनुमाने, 713प्रमाणविरहादपौरुषेयत्वमेव सिध्यति शब्दार्थसम्बन्धस्य714 ।
अत इदमपहस्तितम् ।
यदाहुर्बाह्याः---"यज्जातीयो यतस्सिद्धस्स तस्मादग्निकाष्ठवत् ।
715अदृष्टहेतुरप्यन्यस्तद्भवस्सम्प्रतीये" ॥
प्र. वा. परि. 3. श्लो. 243 इति ।
वृद्धव्यवहारस्यानादित्वसमर्थनम् ।
ननु सिद्ध्येदयं मनोरथो यदि वृद्धव्यवहारपरम्पराया अनादिता स्यात्, सा तु प्राचीननयनिवारिता इति ।
अत्र वदामः ।
भवतु सावयवं सर्वमवयवसंयोगारब्धसत्ताकम्, अवयवसंयोगापाये विनश्वरमिति च ।
तथाप्येकदैव 716सकलस्य सम्भवः, विनाशश्चेत्यत्र नास्ति717प्रमाणम् ।
प्रत्युत यथादर्शनमिदमेव तावदवसातुमुचितम्---क्रमेण चोदयः, क्रमेण विलयश्चेति ।
किञ्च यथाद्यतना जना मातृपितृसंयोगनिबन्धनात्मलाभाः, तथा पूर्वे ऽपि जना जनत्वादिति शक्यमेवानुमातुम् ।
न चायमयोनिजानां केवलेन धर्माधिपत्येन, अधर्माधिपत्येन च संस्वेदजानामिव सम्भवो घटते ।
जरायुजा---ण्डजानां तथा तद्दर्शनाभावात्718 ।
दृष्टानुसारि हि सर्वत्रानुमानम् ।
तेन संस्वेदजेषु नियमेन दृष्टं न जरायुजा---ण्डजयोरप्ययोनिजत्वं शक्यते ऽनुमातुम् ।
न हि पाण्डरमात्रेण बाष्पादपि वह्नेरनुमानम् ।
किन्तु यादृशमेव पाण्डरद्रव्यं नियमेन वह्निनियतं प्रतिपन्नम्, तादृशमेव तस्यानुमापकमुचितम् ।
ईश्वरनिराकरणम् ।
यच्चेदमुदितं719 धर्माधर्मौ चेतनातिशयाधिष्ठिताविति, तदप्यसिद्धमेव ।
यस्यैव तौ क्षैत्रज्ञस्य, स एवाधिष्ठातास्तु ।
अथाज्ञत्वात्तस्याधिष्ठातृत्वं720 नोपपद्यत इति चेत्, तर्ह्यन्यस्यापि कथमुपपद्यते ।
न हि तस्यापि परपुरुषवर्ति धर्माधर्मज्ञानमुपपद्यते, कारणाभावात् ।
न हि तस्येन्द्रियाणि कारणम्, इन्द्रियाणां तत्र 721सामर्थ्यादर्शनात् ।
न च केवलं मनः, केवलस्य मनसो 722बाह्येष्वप्रवृत्तेः ।
न हि 723धर्माधर्मरहितस्येश्वरस्येन्द्रियमनस्सम्बन्धो भवति, धर्माधर्मनिबन्धनत्वात् तत्सम्बन्धस्य ।
अथ कारणमन्यदेवेश्वरबुद्धेः ।
तदयुक्तम् ।
प्रसिद्धकारणत्वाद्बुद्धेः ।
प्रसिद्धानि हि कारणानि बुद्धेः ।
यत्कारणं हि यत्करयं दृष्टम्, तत्कारणकमेव तदिति युक्तम् ।
अन्यथा चेतनाधिष्ठिता वासी दृष्टेति, कथं धर्माधर्मयोरपि तदधिष्ठितत्वं भविष्यति ।
अथाकारणा नित्यैवेश्वरबुद्धिरिति चेत् ।
तदप्यसुन्दरम् ।
बुद्धितत्त्वस्य नित्यत्वाभावात् ।
नित्या सती बुद्धिरेव न स्यात् ।
बुद्धिमता चाधिष्ठानं दृष्टम्, न पुनरन्येन ।
अथादृष्टमपि बुद्धेर्नित्यत्वमङ्गीक्रियते, तदा चेतनानधिष्ठितत्वमेव किमिति नाङ्गीक्रियते ।
अथ सिद्धे ऽधिष्ठातृत्वे, ज्ञानमपि कल्प्यत इति ।
724तदयुक्तम् ।
725ज्ञानाद्यननुबद्धस्याधिष्ठातृत्वस्य कारणाभावात् प्रतिक्षिप्ते ज्ञाने सत्यनुमातुमशक्तेः ।
तेन शक्यज्ञानमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया, तथादर्शनात् ।
तक्षादयो हि शक्यज्ञानान्येव वास्यादीन्यधितिष्ठन्तो दृश्यन्ते, नान्यानि ।
अपि चाधिष्ठानार्थो ऽपि चिन्तनीयः ।
न तावत्संयोगः, गुणत्वेन धर्माधर्मयोस्संयोगाभावात् ।
समवायो ऽपि परपुरुषसमवायिनोर्धर्माधर्मयोरीश्वरं प्रत्यनुपपन्नः ।
वास्यादिषु तु तक्षादीनां करसंयोगादिरेवाधिष्ठानम् ।
तथा प्रवृत्तिरपि कीदृशी ।
न तावत् क्रिया, गुणभूतयोर्धर्माधर्मयोः क्रियाभावात् ।
उत्पत्तिश्चेत्, तर्हि सा क्षेत्रज्ञादेव समवायिकारणात्, आत्ममनस्संयोगाच्चासमवायिकारणादभिसन्ध्यादिनिमित्तकारणोपगृहीतादिति ।
फलदानमिति चेत् ।
न देशकालावस्थादिसहकारिसहिताभ्यां 726धर्माधर्माभ्यामेव फलम्, न चेतनव्यापारापेक्षम् ।
वैशेषिकाभिमतेश्वरनिरासः ॥
यदपि केचिदाहुः---परमाणव एवेश्वरेच्छावशेन प्रवर्तन्त इति ।
तदपि न युक्तम् ।
क्वचित्तथाविधस्याधिष्ठानस्यादर्शनात् ।
शरीरे तथादर्शनमिति चेत् ।
न ।
तस्य क्षेत्रज्ञधर्माधर्मपरिगृहीतत्वात्727 ।
न परमाणव एवेश्वरधर्माधर्मपरिगृहीताः, न च तस्येच्छामात्रेण प्रवृत्तिः, किन्तु प्रयत्नवशात् ।
न चेच्छायामपि हेतुरस्ति ।
न च नित्यैवेच्छा, 728नित्यं प्रवृत्तिप्रसङ्गात् ।
अपि च यथाचेतनत्वाच्चेतनाधिष्ठितत्वमनुमीयते, तथा प्रयोजनाभावादप्यनधिष्ठानमिति ज्ञायते ।
कतरदत्रानुमानं बलीय इति 729चिन्तयामः ।
तेन यत्रैव प्रयोजनं, 730तदेवाचेतनं731 चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया732, तथादर्शनात् ।
अपि च व्याप्तिग्रहणपूर्वकमनुमानम्, अन्वयव्यतिरेकाभ्याञ्च व्याप्तिरवगम्यते ।
यथा च चेतनो ऽधिष्ठातेति प्रतीयते, तथा विग्रहादिमानपि ।
तेनानुमानं प्रवर्तमानं तथाविधमेवानुमापयेत् ।
न च तस्य धर्माधर्मौ, परमाणून् वा प्रत्यधिष्ठातृतोपपद्यत इत्यनधिष्ठानमेव ।
तेन विग्रहादिमदधिष्ठानयोग्यमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया ।
नन्वेवं सति प्रसिद्धस्यापि 733धूमाद्यनुमानस्योच्छेदः प्राप्नोति ।
तथाभूतेन हि महानसादिवर्तिना व्याप्तिरवगता, न तथाविधस्यानुमानम् ।
यथाविधस्यानुमानम्, न तथाविधस्य व्याप्तिधीसमये ऽनवधारणमिति ।
तदयुक्तम्--देशकालाद्युपाधिपरित्यागेन हि सामान्येन सम्बन्धग्रहणम् ।
तेनेहापि भवत्येव यद्वास्यादिषु दृष्टम्, तत् धर्माधर्मयोरपीति ।
यादृशन्तु रूपं व्यापकमुपलभ्यते, तदेवानुमातुं शक्यते, नान्यत् ।
इह च विग्रहवत्त्वाद्यपि व्याप्त्यनुप्रवेशीति, तदनुमातव्यम् ।
न च तदनुमातुं शक्यत इति चेत् ।
वरं चेतनानुमानत्यागः734तदननुबद्धस्य 735तस्यानुमानात् ।
तेनेश्वरस्य 736सर्वज्ञतानुमाने हेत्वभावेन ज्ञानाभावनिश्चयात् ।
तेनानादिरेव वृद्धव्यवहारपरम्परा शब्दार्थावगमे हेतुः ।
न च सृष्ट्यादावीश्वरकृतस्सङ्केतः, सङ्केतस्यैव कर्तुमशक्तेः ।
न खल्वद्यतना जनाः 737सङ्केतवाक्यस्यार्ऽथमनवबुध्यमानास्सङ्केतं प्रतिपद्यन्ते ।
तस्मादनादिरेव738 वृद्धव्यवहारपरम्पराभ्युपगमनीया ।
एवं पुरुषस्य धर्मप्रतीतिं प्रति शब्दमन्तरेणोपायाभावान्न पौरुषयत्वे वेदस्या739पूर्वकार्यात्मके वेदार्थे प्रामाण्योपपत्तिरिति, 740वेदस्यापौरुषेयत्वाश्रयणम् ।
वेदानामपौरुषेयत्वनिरूपणम् ।
कथमपौरुषेयत्वं वेदानाम् ।
उच्यते--- 741कर्तुरस्मरणात् ।
न चानुमानमपि कर्तुरुपपद्यते ।
प्रमाणान्तरेणाप्रतीतेर्ऽथे742 पुरणाणां वाक्यस्य रचनायामशक्तेः ।
काठकादिसमाख्यापि कर्तृसद्भावं ज 743साधयितुमलम् ।
744प्रवचनेनापि तदुपपत्तेः ।
मन्त्रार्थवादास्तु न स्वातन्त्र्येणार्ऽथमवगमयितुमीशते, किन्तु विध्युद्देशानुसारेण तदनुगुणमर्थमिति, न सिद्धार्थप्रतिपादने तेषां प्रामाण्यमिति, सिद्धमपौरुषेयत्वं शब्दार्थसम्बन्धस्येति ।
दुस्तर्कतिमिरं भेत्तुं शिष्याणां दृष्टिरोधकम् ।
इदं शालिकनाथेन विहितं 745मिलाञ्जनम् ॥
इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विमलाञ्जनं नाम सप्तमं प्रकरणं समाप्तम् ।
तत्त्वालोको नामाष्टमं प्रकरणम् ।
प्रकरणार्थप्रतिज्ञा ।
746आत्मतत्त्वे 747बहुविधा विवादस्सन्ति वादिनाम् ।
वयं प्राभाकरास्तत्त्वनिर्णयाय748 यतामहे
इति ।
749केचिद्बुद्धिमेवाऽत्मानमिच्छन्ति, 750अन्ये तु 751पुनरिन्द्रियाण्येव, 752देहमेवापरे ।
753तथैके बुद्धीन्द्रियशरीरव्यतिरेकिणमनुमेयमाहुः, 754केचित्तु मानसप्रत्यक्षगम्यम्, 755स्वयम्प्रकाशञ्च ।
केचित्, 756सकलप्रतीतिसिद्धं त्वन्ये मन्यन्ते ।
757क्षणिकञ्च केचिदाहुः, कूटस्थनित्यमित्यपरे ।
758अणुपरिमाणः, 759शरीरपरिमाणः, सर्वगत इत्यादिवादिनो विवदन्ते ।
तथा 761सर्वक्षेत्रेष्वेकमेके762, 763प्रतिक्षेत्रञ्च नानाभूतमित्यपरे ।
तत्र तत्त्वनिर्णयार्थमिदमारभ्यते ।
सिद्धान्तः ।
764बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0