प्रकरणपञ्चिका (टीका सहित) · अध्याय 10
इति ।
विज्ञानवादिमतेन शङ्का ।
765ननु न बुद्धेर्बोध्दुश्च भेदमुपलभामहे ।
कथम् ।
यतो"घटमहं बुध्ये" इति बुद्धेर्बोद्धारो766 भिन्नमात्मानं प्रतिपद्यन्ते ।
सत्यम, 767द्विचन्द्रादिबोधवत्, बिम्बप्रतिबिम्बज्ञानवच्चायं भ्रम इति प्रामाणिकाः ।
सहोपलम्भनियमेन च बुद्धेर्बोध्दुश्च भेदो निराक्रियते, भेदस्यानियमव्याप्तत्वात् ।
768व्यापकविरुद्धोपलम्भेन बाध्यमानत्वात् ।
तदाहुः---" ।
अविभागो हि बुद्ध्यात्मविपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
प्र. वा. परि. 2. श्लो. 354 इति ।
769तथा ये ऽपि बुद्धेरन्यं बोद्धारमिच्छन्ति, ते ऽपि सत्यामेव बुद्धौ तस्य 770विषये बोद्धृतामाहुः ।
एवञ्च सैव परं बोद्ध्री भवतु, कृतमन्येन बोद्ध्रा ।
बोद्धा चाऽत्मा भवतीति, बुद्धिरेवाऽत्मा ।
सा च स्वयम्प्रकाशा कार्यकारणभावेनानादिसन्तानवाहिनी स्वाप-मद-मूर्च्छादिष्वभिभूततया पुनः पुनरनुसन्धानपथं 771नाऽयाति ।
वहति त्वसौ तास्वपि दशासु, अन्यथा जाग्रदिदादिषु बुद्ध्युदयासम्भवापत्तेः ।
स चायमनादिबुद्धिसन्तानो ऽनादिवासना772निबन्धनस्संस्कार्यदर्शनाध्यवसितभेदस्समुदयवशवर्ती संसरति ।
773मार्गरूपसाक्षात्कारोन्मूलितसकलसत्त्वदृष्टिवासनानुबद्धस्तूच्छिन्नस्समुदयः प्रतिमुच्यते, तथा तायिनां 774चाङ्गीकृतसन्तानोच्छेदः ।
तदाहुः---"प्रदीपस्येव निर्वाणं विमोक्ष्स्तस्य 775तायिनः" ॥
इति ।
देशिकानाञ्चानेकजन्माभ्यासस्वात्मीभूतब्रह्मादिस्तम्बपर्यन्तजगद्व्याप् इमहाकरुणानां 776विशुद्धचित्तसन्तानो ऽनन्त इति ।
तन्निरासः ।
तदिदमसारम् ।
प्रतीतिसिद्धस्य बुद्धेर्बोद्धुश्च भेदस्य 777निराकरणानर्हत्वात् ।
सहोपलम्भनियमस्तु यथा भेदे ऽप्युपपद्यते, तथात्रैव वक्ष्यामः ।
778निराकृतश्चायं बाह्यार्थसिद्धावृजुविमलायाम् ।
बुद्धिरेव परमस्तु, अलं बोद्ध्रेति यदुक्तम् ।
तदपि काल्पनिके बोद्धरि युक्तं वक्तुम् ।
साक्षात्प्रतीतिसिद्धे तु नावकाशो ऽस्यासत्प्रलापस्य ।
स्वापादिष्वपि बुद्धिरनुवर्तत इति यदुक्तम्, तदपि प्रमाणाभावादसारम् ।
जागरादिषु बुद्धेरत्रैव कारणं वक्ष्यामः ।
इन्द्रियात्मवादोपन्यास-तन्निरासौ ।
एवं तर्हि भवन्त्विन्द्रियाण्येव779 चेतनानि, एवं बुद्धेर्बोद्धुश्च भेदावभासो घटिष्यते ।
भवेदेतदेवं यदि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानं780 न स्यात् ।
"यदहमद्राक्षं तदहं स्पृशामी"त्यत्र प्रतिसन्धातैकः प्रतीयते ।
स्मरणञ्चेन्द्रियार्थानां तत्तदिन्द्रियापाये ऽपि यदुपलभ्यते, तदिन्द्रियचैतन्ये 781नोपपद्यते ।
देहात्मवादशङ्का-निराकरणे ।
782अस्तु तर्हि देह एवाऽत्मा, न तत्रेमौ दोषौ प्रसज्येते ।
मैवम् ।
ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति ।
783तथाहि---देहो नाम पार्थिवो द्रव्यविशेषः ।
ननु पार्थिवत्वे तस्य भूतान्तरगुणानुपलम्भ784 आपद्येत ।
नेति ब्रूमः ।
भूतान्तरसहितस्य भूतान्तरस्य न785कार्यान्तराम्भकतेति वदामः, न पुनर्मिथो ऽपि भूतानि न संयुज्यन्त इतयाचक्ष्महे ।
786अतस्संयुक्तभूतान्तरगुणोपलम्भो नानुपपन्नः ।
कथं पुनरारम्भकत्वासम्भवः ।
उच्यते---न तावत्पञ्चानाम्, चतुर्णां वा सम्भूयाऽरम्भकत्वं सम्भवति ।
चाक्षुषाचाक्षुषद्रव्यारब्धस्य तत्समवायिनो ऽचाक्षुषत्वापत्तेः ।
यत् खलु चाक्षुषाचाक्षुषद्रव्यारब्धं यत्समवेतम्, तन्न चाक्षुषम्, वायुवनस्पतिसंयोगवत् ।
चाक्षुषश्च देहः ।
अतो न 787पञ्चभिः, चतुर्भिर्वा समारब्धः, आकाशानिलयोरचाक्षुषत्वात् ।
आकाशस्याचाक्षुषत्वनिरूपणम् ।
कथं पुनरचाक्षुषं नभः ? अचाक्षुषस्य सत्तापि किं प्रामाणिकमित्येतदपि चिन्त्यम् ।
उच्यते---अचाक्षुषं व्योम द्रव्यत्वे सत्यरूपित्वात्, आत्मवत् ।
ननु नारूपं गगनम्788 ।
तद्धि धवलम्, उत्पलपलाशश्यामलं 789वोपलभ्यते ।
790उच्यते---धवलिमा हि प्रायेण तैजस एव नीहारे, तौहिनो वा,ओन्तदपगमे तदनुपलम्भात् ।
यदयं पुनर्निशि नीलिमेवावलोक्यते, नासौ नभसः ।
कस्य तर्हि ? न कस्यचित् ।
कथं पुनर्गुणः, न कस्यचित् ? सत्यम् ॥
गुण एवायमसिद्धः ।
ननु प्रतीतिबलेन सिद्ध एव ।
सत्यम्, सिध्येद्यदि प्रतीतिरेव सिध्येत्, सा तु कारणाभावान्न सिद्धा ।
ननु चक्षुरेव कारणम् ।
न ।
आलोकोपकारानपेक्षस्य चक्षुषो ऽप्रकाशकत्वात् ।
तेनाप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम् ।
791अतो दिवा तदनुपलम्भः ।
अन्यथा सौरीभिर्भामिरनुगृहीतं चक्षुस्स्फुटतरं व्योम्नि नीलिमानं प्रकाशयेत् ।
प्रकाशयेत् ।
रूपञ्च स्पर्शसहचरितमिति, स्पर्शवत्त्वं नभसस्स्यात् ।
ततश्च सर्वमूर्तद्रव्यप्रतिघातप्रसङ्गः ।
केचित्तु तमसो नीलिमा गगनस्येवोपलभ्यत इत्याहुः ।
तदसदित्येके ।
तमसो निष्पत्त्यनवकॢप्तेः ।
रूपवत्त्वेन हि नमो द्रव्यं स्यात्, तच्चानेकद्रव्यारब्धं सच्चाक्षुषं भवेत्, न च तानि द्रव्याणि सन्ति ।
सन्ति चेत्, दिवऽप्यराभेरन् ।
अतो ऽन्धानामिवासौ नीलिमाभिमाने नभस एवेति युक्तम् ।
तमसो निराकरणाम् ॥
यच्चेदमुच्यते---छायैव तमः, सा च 795चलत्वा-चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादिगुणयोगिनी वस्तुभूतेति ।
792तदप्यसारम् ।
793निष्पत्त्यनवकॢप्तेरेव ।
यच्च चलत्वा---चलत्वादिकमुपन्यस्तम् ।
तदपि स्थूलदर्शितया ।
तथाहि---आलोके ऽपवारिते छायेष्यते,794 ततो ऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपान्तरवच्छाया दृश्यते ।
तेन मन्यामहे---अपवारितालोकभूभागादिकमेव छायेति ।
एतेन चलत्वा-795चलत्व-महत्त्वा-महत्त्व-दूरत्वा-सन्नत्वादीनि समर्थितानि ।
यततु तेजसः प्रतिरोधि द्रव्यम्, यत् यथा यथा सञ्चरति, तथा तथा आलोकः प्रतिमुच्यते, प्रतिरुध्यते चेति, चलतीव छाया प्रतिभाति ।
अन्यथा शरीरे चलति, किमिति छायापि चलेत् ।
796चलनहेत्वभावात् ।
एतेनाचलति शरीरे ऽचलत्वं व्याख्यातम् ।
संख्यापरिमाणयोगि797 महत्त्वम्, तदभावे कथमिव 798छायेयमुत्पत्स्यत इत्यलमनया स्थूलदर्शिनः कथयाननुबद्धया ।
ननु भूभागादेरेव छायात्वे कथं द्रव्यान्तरेण 799व्यपदेशः"अस्य छायेयमि"ति ।
उच्यते---अपवारितालोकभूभागादिरेवछायेत्युक्तम् ।
तत्र येनापवारणम्, 800तदपेक्षया युज्यते तद्व्यपदेशः ।
एवञ्च स्मृतिकाराणामपि--- "801नाऽक्रामेत्कामतश्छायाम्" इत्येवमादिको व्यवहार उपपन्नः ॥
यो ऽपि च शास्त्रकाराणां व्यवहारः 802"छत्रगृहादीनां तुल्यं च्छायालक्षणं कार्यमि"ति स आलोकापवारणाभिप्रायेण वर्णनीयः ।
803ननु चाऽलोकापवारणे 804भूभागादेरदर्शनप्रसङ्गः ।
मैवम् ।
प्रचुरतरालोकावयवसंयोगस्तत्र वार्यते, 805अल्पास्तु तेजोवयवास्समन्ततस्सञ्चरन्तस्संयुज्यन्त एव ।
यत्र तु सर्वर्था तेषामसंयोगः, स महानन्धकार इति निरवद्यम् ।
यच्च विस्फारिताक्षः कूपादिषु जलमध्यस्थ सुषिरमध्यक्षमीक्षत इत्युच्यते, तत्रापि तेजोवयवाः कूपनेमिलब्धावच्छेदास्तथा प्रतीयन्त 806इत्युत्तरम् ।
आकाशस्याकसिद्धिशङ्का ।
न चैवं सत्याकाशस्यासिद्धिरेव ।
शब्दलक्षणगुणानुमानसिद्धत्वात् ।
ननु गुणतैव शब्दस्यासिद्धा, द्रव्यत्वेन वादिभिरभ्युपेतत्वात् ।
यदाहुः---"वर्णात्मकाश्च ये शब्दा नित्यास्सर्वगतास्तथा ।
पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः" ॥
स. द. कौ. 92 पृ. इति ।
तन्निरासः ।
808तदिदसमारम् ।
एकेन्द्रियप्रत्यक्षतया 809रूपादिवद्गुणत्वसिद्धेः ।
न च वायुनानैकान्तिकत्वम् ।
तस्य वायोरतीन्द्रियतयाभ्युपेतत्वात् ।
ये ऽपि चैन्द्रियकं वायुमिच्छन्ति, तेषामपि "स्पर्शविरहे सती"तिविशेषणोपादानाददोषः ।
एवं सिद्धगुणभावश्शब्दो गुणिनमनुमास्यति810 ।
तस्य भूजलादिभावावगमे कारणाभावाद् 811द्रव्यान्तरमेव तदवतिष्ठते ।
अप्रतीतसामानाधिकरण्यगुणभेदेन भेदावगमात् ।
ननु मुखादिगतश्शब्द उपलभ्यते ।
नेत्युच्यते ।
श्रोत्रम् प्राप्यकारि बहिरिन्द्रयत्वात् 812त्वगिन्द्रियवत् ।
813तत्र न तावच्छोत्रं मुखादिदेशं गच्छति, प्रत्यक्षा हि कर्णशष्कुली स्वदेशस्था दृश्यते ।
नापि मुखं श्रोत्रदेशमुपसर्पति, तस्यापि स्वदेश एवोपलम्भात् ।
अतः श्रात्रगत एव शब्दो गृह्यते ।
भ्रान्तिस्त्वेषा मुखे शब्द इति ।
न च गुणभूतस्य शब्दस्य संयोगलक्षणा प्राप्तिरुपपद्यत इति ।
समवायलक्षणैव तस्य प्राप्तिः ।
एवञ्च शब्दगुणत्वाच्छोत्रस्य, यच्छब्दगुणकं द्रव्यमाकाशपदावेदनीयम्, तदेव श्रोत्रमिति सिद्धम् ।
ननु पार्थिवो कर्णशष्कुली श्रोत्रमस्तु, संयुक्तसमवायेन चाऽकाशगतं शब्दमुपलभताम् ।
नैतदेवम् ।
न हि साक्षात् 814प्राप्तिसम्भवे प्रणालीसमाश्रयणमुपपन्नम् ।
नापि 815त्र्यात्मकं शरीरं 816गुणान्तरप्रादुर्भावप्रसङ्गात्817 ।
भू-जल-तेजांसि हि यथाक्रममनुष्णाशीत-शीतो-ष्णस्पर्शानि ।
तैरारब्धं द्रव्यं एतत्रयविलक्षणस्पर्शमापद्येत, चित्रपटवत् ।
यथा सितासितादितन्तुसमारब्धः पटस्तन्तुरूपविलक्षणरूपः, तथा शरीरमप्यारम्भकद्रव्यस्पर्शविलक्षणस्पर्शं भवेत् ।
अनुष्णाशीतस्पर्शञ्चैतदुपलभ्यते ।
818एतेन द्व्यात्मकतापि निषिद्धा ॥
किञ्च गन्धस्य पार्थिवद्रव्यसमवेतस्यैकाकिनो गन्धान्तरारम्भकत्वानुपपत्तेरगन्धं शरीरं स्यात् ।
भू---तेजसोः, अप्तेजसोर्वाऽरम्भकत्वे ऽगन्धवत्वम्, अरसत्वमेवं वेदितव्यम् ।
अतो 819रूप-रस-गन्ध-स्पर्शयोगि शरीरं पार्थिवमेव ।
ज्ञानञ्च विशेषणुणः ।
कार्यद्रव्ये च विशेषगुणः कारणगुणपूर्वक एव, रूपादिवत् ।
न च कारणभूतेषु पार्थिवपरमाणुषु820 ज्ञानमस्ति ।
तदारब्धे द्रव्यान्तरे घटादावदर्शनात् ।
चार्वाकमतेन शङ्का-निरासौ ।
स्यादेतत्---मदशक्तिवच्चैतन्यमपीति ।
यथा--- 821मदशक्तिः पार्थिवेषु परमाणुष्वसत्यपि तदारब्धे कार्यद्रव्ये सुराख्ये निष्पद्यते, तथा चैतन्यमपि निष्पत्स्यत इति ।
तन्न ।
शक्तेरविशेषगुणत्वात् ।
शक्त्याख्यो हि हि गुणः सर्वद्रव्येषु तत्तत्कार्यविषयः कार्यसमधिगम्यो ऽभ्युपगम्यते ।
चैतन्यन्तु न822 देह्वादन्यत्र विद्यत इति, विशेषगुणो ऽसौ ।
अपि च द्रव्यान्तरसंयोगादकार्यभूतेषु पार्थिवपरमाणुष्वकारणगुणपूर्वको ऽपि मदशक्त्याख्यो गुणो नानुपपन्नः ।
तदादब्धे कार्यद्रव्ये सुराख्ये कारणगुणपूर्वक एव ।
चैतन्यन्तु न प्रत्येकं परमाणुष्वभ्युपगम्यते ।
तस्माच्छरीरादन्यस्य गुणो ज्ञानमिति, देहव्यतिरिक्तपुरुषानुमानं द्रष्टव्यम् ।
विज्ञानवादिमतेन शङ्का-निरासौ ।
823स्यान्मतम्---गुणत्वमेव 824ज्ञानस्या सिद्धमिति ।
825तन्न ।
द्रव्याश्रितत्वात्, निर्गुणतया च संयोगविभागौ प्रति निरपेक्षकारणत्वाभावेन गुणत्वसिद्धेः ।
न च वाच्यं द्रव्याश्रित826त्वमेवाप्रसिद्धमिति ।
कार्यत्वात् ।
न हि कार्यं 827किञ्चिदद्रव्यारितमात्मानं लभते ।
एवं सुखादिभ्यो ऽपि देहातिरिक्तपुरुषानुमानं वेदितव्यम् ।
अहङ्कारावलम्बनेन पुनर्देहात्मवादप्रत्यवस्थानम् ।
नैतदेवम् ।
"घटमहं जानामी"ति 828ज्ञातुरहङ्कारास्पदीभूतत्वात्"अहं गच्छाम्यहं स्थूलः" इत्यादावह्वङ्कारस्य शरीर एव प्रवृत्त्यविवादाच्छरीरमेव प्रत्यक्षं ज्ञातृ प्रतीयते, प्रत्यक्षविरोधे चानुमानमात्मानं न लभत इति ।
वैशेषिकगुणो ऽपि ज्ञानं829नकारणगुणपूर्वकमिति, पार्थिवपरमाणुष्वविद्यमानमपि ज्ञानं शरीरे सम्भविष्यतीति, न शरीरादन्यस्यानुमानम् ।
ननु शरीरस्य चैतन्ये मृतशरीरे ऽपि तत् स्यात् ।
न ।
तस्य विगुणत्वात् ।
मरणेन शरीरं विगुणमित्यविवादम् ।
ननु ममेदं शरीरमिति देहातिरिक्ते ऽह्वङ्कारो निविशते ।
न ।
अभेदे ऽपि 830भेदोपचारो ऽयं"शिलापुत्रकस्य शरीरमि"तिवत् ।
अन्यथा ममाऽत्मेत्यपि 831व्यवदेशादात्मान्तरमप्याश्रीयेत ।
ये ऽपि च सुखादयः, ते"चाहं सुखी"त्यहङ्कारविषयसम्बन्धि832तयावगम्यमानाश्शरीरसमवायिन एव, अतो न तद्व्यतिरेकिणमात्मानमनुमापयितुमीशते ।
शरीरविकारहेतुत्वाच्च तेषां सुतरां शरीरगुणत्वम्1 833न ह्यतद्गुणस्तं गुणिनं विकर्तुमुत्सहते ॥
विक्रियते हि शरीरं 834नयनविकासमुखप्रसादरोमहर्षादिभिः ।
सुखादिषूत्पन्नेषु तत्र शरीरे विकार्ये विकारं प्रति समवायिकारणभूते, तत्प्रत्यासन्नेनैवासमवायिकारणेनापि भवितु युक्तम् ।
न च शक्यं वक्तुं सुखादिमदात्मसंयोग एव शरीरसमवेतेषु विकारेष्वसमवायिकारणमस्त्विति, प्रमाणाभावात् ।
सिद्धे ह्यात्मनि स्यादेषा कल्पना, साध्ये त्वव्यवहितानामेव कारणतोचितेति, न देहातिरिक्तात्मानुमाने सुखादीनां 835सामर्थ्यम् ।
तन्निरासः ।
अत्रोच्यते---स्यादेतदेवं यदि देहातिरिक्तो नोपलभ्यते ज्ञाता ।
"घटमहमुपलभ" इति घटस्यानुभविता शरीरातिरिक्तः प्रतिभासते ।
शरीरं हि करचरणाद्यवयवयोगि836 ।
न च घटाद्यनुभवसमये तस्यावभासो ऽन्वयी ।
अवश्यञ्च ज्ञातुरवभासो मेयानुभवेष्वनुवर्तत इत्यास्थेयम् ।
अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्837 ।
"अहं गच्छामी"ति प्रतिपत्तिसमये ऽपि प्रतिपत्ता शरीरातिरिक्तः 838प्रतिपत्तृस्वभावो गन्तारं देहं प्रतिपद्यमानः प्रतीयत एव ।
तत्र लाक्षणिको ऽहंशब्दानुविद्धस्तु शरीरे प्रत्ययः ।
ममाऽत्मेत्यत्रापि लाक्षणिकश्शरीर एव ममकारः ।
यसतु चेतनः, तत्रास्मच्छद्वो मुख्यः ।
न च शरीरं चेतनम्, 839चितिसमवायाभावात् ।
शरीरातिरिक्तवस्त्वन्तरसमवायिनी हि चेतना चकास्ति ।
नन्वात्मधर्मभूता चेच्चितिः, तर्हि विषयासंस्पर्शिनी कथं प्रतिविषयं विभज्यते ।
उच्यते---प्रतिभाससिद्धा तावच्चेतनसमवायिनी चितिः ।
अनागता---तीतसंवेदने च व्यक्तमेव विषयानाश्रितत्वम् ।
प्रतिकर्मप्रविभागस्तु 840व्यवहारानुगुणस्वभावत्वाच्चितेः ।
यद्व्यवहारानुगुणाया चितिः, तदीयासौ व्यपदिश्यत इति, न किञ्चिद्धीनम् ।
प्रत्यभिज्ञोपन्यासः ।
नन्वेवं प्रथमदर्शने ऽपि देहाद्व्यतिरेके सिद्धे"ऽन्येद्युर्दृष्टे ऽपरेद्युरहमिदमद्राक्षमि"ति प्रत्यभिज्ञोपन्यासो ऽनर्थकः ।
उच्यते---व्यतिरेकसिद्धावपि स्थिरतया क्रियावत्त्वसिद्धये ।
प्रत्यभिज्ञोपन्यस्ता ।
अस्थिरत्वे हि तत एव कादाचित्ककार्यसिद्धेः,तत्सिद्धये न क्रियानुमानं क्रमते ।
अक्रियस्य कर्तृतवम्, भेक्तृत्वञ्च 841काल्पनिकं स्यात् ।
कर्ता भोक्ता च यज्ञायुधिवाक्येनाऽक्षिप्तस्समर्थयितव्य इति, उपयुक्तः प्रत्यभिज्ञोपन्यासः ।
यदा चायमात्मा प्रत्यभिज्ञायते, तदा 842यो ऽसौ चिदात्मा तस्य धर्मः, नासौ तन्मात्रप्रभवः कदाचिदुदियात् ।
सदा सन्निहितकारणकं हि कार्यं न कादाचित्कं भवेत् ।
कारणासन्निधाननिबन्धनो हि 843कार्योदयव्याक्षेपः ।
तस्मादयमात्मा समवायिकारणभूतः किञ्चिदसमवायिकारणभतमपेक्षते ।
तत्र केचित्--- 844ज्ञानलक्षणं व्यापारान्तरं तत्समवेतमेवासमवायिकारणमाहुः ।
845तत्त्वनुपपन्नमिति मन्यामहे ।
यतस्तस्यापि किञ्चिदसमवायिकारणमनुसरणीयम् ।
तच्च वरं चितेरेवास्तु, तच्चाऽत्ममनस्सन्निकर्षाख्यम् ।
तस्य चासमवायिकारणं 846मनस एव परिस्पन्दः ।
तस्याप्यात्ममनस्सन्निकर्षान्तरमात्मसमवेतं प्रयत्नम्, अदृष्टं वापेक्षमाणमसमवायिकारणम् ।
प्रयत्ना-दृष्टयोश्चाऽत्म-मनस्सन्निकर्षान्तरमेवेति, अनादिरेषा कार्यकारणपरम्परा बीजाङ्कुरवदिति वेदितव्यम् ।
मनसस्स्वीकारे प्रमाणोपन्यासः ।
मनसो ऽभ्युपगमे च सकलात्मगुणोदय एव प्रमाणम् ।
बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्ना-दृष्ट-संस्काराणां नवानामपि 847वैशेषिकात्मगुणा7ना848 मात्ममनस्संयोगेनैवोत्पत्तेः ।
तत्र बुद्धिस्स्वसंवेदनसिद्धा प्रमिति-स्मृतिरूपा ।
सुख-दुःखेच्छा-द्वेष-प्रयत्नास्तु मानसप्रत्यक्षवेद्याः ।
न च दुःखाभावमात्रं सुखम् ।
दुःखाभावस्य 849सुखानुपलम्भरूपत्वात् ।
850तद्वियुक्तात्मोपलब्धेरेव दुःखानुपलम्भरूपत्वात्, अत्मोपलम्भातिरिक्तसुखोपलम्भाच्च ।
संस्कारस्य तु स्मृतिलक्षणमेव कार्यं 851गमकम् ।
अनुभूतविषय एव स्मृतिर्भवतीत्यनुभवाधीनं852 कञ्चिदात्मनो ऽतिशयमुपकल्पयति ।
अदृष्टन्तु धर्माधर्मलक्षणमागमैकगम्यम् ।
न च केवलादात्म-मनस्सन्निकर्षादेव रूपाद्यवगमः, अन्धादीनामभावादिति, चक्षुरादीनि बहिरिन्द्रियाण्यङ्गीक्रियन्ते ।
पञ्चधा च बाह्यरूपाद्युपलम्भलक्षणकार्यव्यवस्थापनात्पञ्च चक्षुरादीनि कल्प्यन्ते ।
मनःप्रभृतीनि षडिन्द्रियाणि यस्मिन्नायतन्ते, तदिन्द्रियायतनं शरीरम् ।
शरीरत्रैविध्यनिरूपणम्, उद्भिज्जशरीरस्य निराकरणञ्च ।
तच्च---जरायुजा-ण्डज-संस्वेदजभेदभिन्नं त्रिविधम् ।
उद्भिज्जन्तु शरीरं न भवत्येव ।
853भोगानुपलम्भात्, तदायतनं हि तत्प्रयोजकम्, वृक्षादिकस्येन्द्रियायतनत्वे प्रमाणाभावात् ।
854यदपि---" ।
श्मशाने जायते वृक्षः कङ्कगृध्रनिषेवितः" ॥
इति 855निषिद्धाचरणफलत्वस्मरणादुद्भिज्जं शरीरमवभाति856 ।
तदप्यनुपपन्नम् ।
857तस्मिन्नंशे प्रमाणाभावात् ।
स्मृतेर्निर्मूलतया मुख्यार्थत्वानुपपत्तेः ।
न च वेद एव मूलमवकल्पते, अकार्यार्थत्वात् ।
858नञ्विधेः निषिध्यमानानुष्ठाने प्रत्यवाय इत्यत्रार्ऽऽथे ऽगमकत्वाभावात् ।
यद्यपि शंय्वधिकरण मी. द. 3.4.10. सिद्धान्तपर्यालोचनया निषिद्धादपि कुतश्चित्प्रत्यवायोदयः, तथापि वृक्षादिरूपशरीरफलतावसातुं न शक्यते, फलतयान्वयायोग्यत्वात् ।
यस्य ह्यन्वययोग्यत्वमवधारितम्, तस्य वाक्यार्थानुप्रवेशित्वम्, यस्य 859त्वन्वययोग्यत्वासम्भवः, तस्य 860वाक्यार्थानुप्रवेशितापि नास्ति,"वह्निना सिञ्चेदि"तिवत् ।
यस्तु वेदे तथाभूतार्थप्रयोगः, स गौणः, लाक्षणिको वा वर्णनीय इति, अत्रापि गौण्या, लक्षणया वा वृत्त्या वर्णनीयम् ।
अतस्त्रिविधमेव शरीरम् ।
861यत्पुनरपार्थिवमयोनिजं शरीरं केवलधर्माधिपत्यनिबन्धनं कैश्चिदभ्युपगम्यते, तत् सर्वशरीराणां पार्थिवत्वाव्यभिचारान्नानुमातुं शक्यते ।
मनोनिरूपणम् ।
सर्वशरीरेषु मनः, त्वक्चाविशिष्टमिन्द्रियद्वयम् ।
मनश्चान्तश्शरीरं परमाणुपरिमाणम् ।
तत् खलु द्रव्यभूतं संयोगगुणभागितयेष्यते ।
द्रव्यञ्च द्विविधम्---अनेकद्रव्यम्, अद्रव्यद्रव्यञ्चेति ।
तत्र मनसो ऽनेकद्रव्यत्वे कल्पनागौरवम्, आरम्यारम्भकद्रव्याभ्युपगमप्रसक्तेः ।
अद्रव्यद्रव्यत्वे ऽपि 862परममहत्वाभ्युपगम आत्मना सह 863संयोगासम्भवः ।
न हि 864परममहतोरपरिस्पन्दयोरनवयवयोश्च संयोगोपपत्तिः ॥
त्रिविध एव संयोगः---अन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति ।
तस्मात् 865परमाणुपरिभाणं मनः ।
तच्च सदकारणत्वान्नित्यम् ।
आशुतरसञ्चारिचतत्, आशुतरेन्द्रियाधिष्ठानदर्शनात् ।
न हि तदनधिष्ठितमिन्द्रियं स्वविषयमवसाययितुमलम्, अन्यत्र व्यासक्तचित्तस्य विषयान्तराप्रतीतेः ।
तस्य मनसो ऽनादिर्धर्माधर्मापेक्षः क्षेत्रज्ञेन सह संयोगः, देहान्तरसंयोगश्च तस्माददृष्टापेक्षादात्ममनस्सन्निकर्षादुत्पन्नस्य कर्मणः प्रसादेन ।
सो ऽयमात्मा भोक्ता, भोगायतनं---शरीरम्, भोगसाधनानि---इन्द्रियाणि, भोग्याः---सुखादयः आन्तराः, बाह्याश्च पृथिव्यादयः, भुक्तिश्च---वित्तिः---सुखदुःखानुभवः, इति पञ्चसु विधासु सर्वं तत्त्वं परिसमाप्यते ।
आत्मनि प्रमाणनिरूपणम् ।
केन पुनः प्रमाणेनास्याऽत्मनः प्रमितिः,866 अप्रमीयमाणत्वे चास्य सत्तोपगमो निर्निबन्धनः ।
तते केचिदाहुः---मानसं प्रत्यक्षं सुखादिष्विवाऽत्मनि प्रमाणमिति ।
तदयुक्तमिति प्राभाकराः ।
न ह्येकस्य कर्तृत्वम्, कर्मत्वञ्च स्वापेक्षमुपपद्यते, स्वात्मनि क्रियावृत्तिविरोधात् ।
न चाहमिति संविद्वशेनाविरोधः, स्वयम्प्रकाशत्वेन, विषयप्रतीतिगोचरत्वेन वा तदुपपत्तेः ।
विषयैस्सहोपलम्भनियमश्चैवं सत्युपपन्नः ।
अन्ये मन्यन्ते---स्वप्रकाशाय हि प्रमाणमप्रकाशस्वभावेषु विषयेष्व पेक्ष्यते, प्रकाशस्वरसे स्वात्मनि प्रकाशापेक्षा मुधैव, संवित्तिवत् ।
संवित्तेस्स्वप्रकाशत्वविचारः ।
प्रमाणफलभूता हि संविन्त्तिरवश्यं स्वयम्प्रकाशाभ्युपगमनीया ।
अन्यथोत्पन्नायामपि तस्यामप्रकाशमानायां विषयाणां विदितत्वावेदने विदितत्वव्यवहारो न स्यात्, न च वाच्यं व्यवहारयोग्यतैव विषयेषु पुरुषस्य संवित्, सा व्यवहार उत्पन्ने फलेनानुमीयते ।
यतो व्यवहारप्रवृत्तेरपि पुरस्ताद्विदितत्वं विषयाणामनुसन्धीयत इति 867सर्वजनसम्मतमेतत् ।
नापि मानसप्रत्यक्षसमधिगमनीया संवित् ।
स्वयम्प्रकाशत्वेनाप्युपपत्तौ सत्याम्, तत्कल्पनायां प्रमाणाभावात् ।
विषयेषु हि स्थायिषु स्वयम्प्रकाशेष्वभ्युपगम्यमानेषु स्वापादिदशाः पुरुषाणामनुपपन्नास्स्युः ।
संविदि तु स्वयम्प्रकाशायां नैष दोष आपद्यते, स्वापादिषु तस्या एवासत्वात् ।
विषयास्तु प्रत्यभिज्ञाबललब्धस्थेमानः पुरुषाणां स्वापादिदशायामपि न सन्तीति न शक्यमभिधातुम् ।
ततस्ते परायत्तप्रकाशाः ।
संवित्तिस्तु स्वयम्प्रकाशेति, सिद्धो दृष्टान्तः ।
868स्वयम्प्रकाशस्य सत्तोपगमो न प्रमाणान्तरायत्तः ।
एवञ्च तुरीये ऽपि प्रकाशो नोपरमते ।
अत एव च मोक्षस्य 869पुरुषैर्नेष्येत ।
एतदपि प्रामाणिकाग्रगण्या न साध्वित्याहुः ।
स्वरसप्रकाशत्वे पुरुषस्य जाग्रत्स्वप्नतुरीयेष्विव सुषुप्तावपि प्रकाशापत्तेः, स्वापस्तेभ्यो न भिद्येत ।
न हि स्वारसिकस्योच्छेदः, आवरणं वा सम्भवति ।
872यत्विदं केनचित्प्रलप्यते-स्वारसिकमपि पार्थिवानामणूनां श्यामत्वं पाकपदावेदनीयेनाग्निसंयोगेन निवर्तत इति ।
तदसत् ।
यदकृतकं तत्सर्वमविनाशि दिगादिवत् ।
अकृतकश्च श्यामिमा पार्थिवानामणूनामित्यनुमानग्रस्तत्त्वान्नाऽदरणीयम् ।
स्वारसिकता च पार्थिवानामणूनां श्यामतया न सिद्धा, लौहित्यस्येव तस्यापि पाकजत्वोपगमात् ।
सदकारणत्वमेव 873नित्यत्वम् ।
अकारणमपि चेदनित्यम्, न नित्यलक्षणं 874किञ्चिदवकल्पते ।
स्वमतनिरूपणम् ।
तत्त्वविदस्त्वाचक्षते---नाऽत्मा विषयाननुविद्धो ऽवभासते, न च विषया बोद्धर्यनवभामाने भासन्त इति तावत् सिद्धम् ।
तत्र यदेतत् विषयेषु प्रामाणम्, तज्जनितैव या संवित् सा पुरुषं, स्वविषयांश्च विषयीकुर्वन्ती समुदीयते ।
तत्संवित्तिफलभागित्वे ऽपि पुरुषस्य न कर्मता, किन्तु कर्तृतैव गन्तृवत् ।
यथा---गमनफलसंयोगयोगिनो ऽपि875 गन्तुर्न कर्मता, किन्तु कर्तृतैव, तथा बोद्धुरपि वेदितव्यम् ।
परसमवायिक्रियाफलयोगि हि कर्मेति कर्मज्ञाः ।
अत एव च सहोपलम्भनियमो ऽपि 876विषयवेत्तृसंवित्तीनामुपपन्नः ।
एवञ्च विषयवित्तिगोचरत्बादात्मनो विषयवेदनोपायोपरमात्877 स्वापादिष्वप्रकाशो युक्त एव878 ।
तुरीये ऽपि सम्भूतसकलोपलम्भोपाय आत्मा 879सन्मात्रावस्थ एवावतिष्ठते ।
दुःखनिवृत्तिरेव मोक्ष इति स्वमतवर्णनम् ।
न च मोक्षस्यापुरुषार्थता, सांसारिकविविधदुःखोपरमरूपत्त्वान्मोक्षस्य ।
दुःखोपरमो हि पुरुषैरर्थ्यते ।
न चेदं युक्तम्---यथा निखिलदुःखोपरमरूपत्वात् परमपुरुषार्थत्वम्, तथा 880सकलसुखोच्छेदरूपत्वादपुरुषार्थतापीति ।
यतः सांसारिकं सुखं विवेकिनस्साधनपरतन्त्रलक्षणतया, 881क्षयितालक्षणतया च दुःखकवलितं दुःखमेवेति मन्यमना नाऽत्यन्तमाद्रियन्ते ।
अत 882एव मोक्षायोत्तिष्ठन्ते ।
एवञ्च 883परमानन्दाभ्युपगमो ऽपि मन्दफल एव ।
न च प्रमाणमपि 884तत्रावकल्पते, श्रुतीनां सिद्धवस्तुबोधकत्वाभावात्, प्रत्यक्षविरोधश्च ।
न संसरन्तस्तथाविधमानन्दमनुभवन्ति ।
न चाभिभूततयाननुभवः ।
स्वारसिकस्य स्वयम्प्रकाशस्याऽनन्दस्याभिभवायोगात् ।
न च परमप्रेमास्पदतयाऽत्मन 885आनन्दरूपतासिद्धिः, आत्मनि प्रेमासिद्धेः ।
शरीरोपघाति हि दुःखोदयात्तदुपघातपरिहारं सर्वे प्रार्थयन्त इत्यात्मनि प्रेमाभिमानः ।
किञ्च संसारिणां स्वारसिकः परमानन्दो नानुभूतपूर्व इति, कथं तन्निबन्धनमात्मनि 886प्रेम ।
अतो विषयविशेषसम्भोगज887 एवाऽनन्द इति सुन्दरम् ।
मोक्षस्तु सांसारिकदुःखोपशमात्पुरुषार्थ इति पुष्कलम् ।
मण्डनमिश्रमतानुवादः ।
कः पुनरेष मोक्षः ? अविद्यास्तमय इति केचित् ।
यत् एकमेवाद्वितीयमसंसृष्टं सकलोपाधिपरिशुद्धं ब्रह्मतत्त्वम्, तत् अनाद्यविद्यावशेन शरीरादिसद्वितीयमिवोपाधिकलुषितमिवावभासमानं887 लब्धजीवव्यपदेशं सत्, बद्धमिव 888लक्ष्यते ।
अतो ऽनाद्यविद्यैव संसारः, निखिलविकल्पातीतपरिशुद्धविद्योदयात् तदस्तमय एव मोक्ष इति ।
तन्निरासः ।
889तदिदं श्रद्धामात्रविजृम्भितमिति890 प्रमाणपरतन्त्राः ।
स्यादेतदेवं यद्यद्वैतं कस्यचित्प्रमाणस्य गोचरः ।
न चैतदित्थम्, न खल्वद्वैतं कस्य चित् प्रमाणस्य गोचरः ।
स्यान्मतम्, प्रत्यक्षमेव विधिमात्रोपक्षीणव्यापारमपरिस्पृष्टान्योन्यभेद891मद्वितीयमेकं तत्त्वं साक्षात्करोतीति ।
तदसत्---सत्यं विधायकमेव प्रत्यक्षम् ।
तच्च विदधदपि 892रूपं रूपतया, रसञ्च रसतया विदधाति, न पुनस्सर्वमेकता, 893यथा रूपे 894धारावाहिनी बुद्धिः, तथाभूतैव यदि रसे ऽपि स्यात्, तदा भवेदेव प्रत्यक्षेण895 साक्षात्कृतमद्वैतम् ।
न त्वेतदेवमिति सर्वप्रतिपत्तृस्वसंविदितम् ।
यच्च प्रमेयविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा, सत्ताया महासामान्यरूपत्वात् तावन्मात्रमेव सत्त्वमिति साधितम् ।
तदपि गगनग्रासकल्पम् ।
सत्त्वं न विशेषमात्रं वस्तु, सर्वत्रा ।
नवृत्तप्रतिभासप्रवेदनीयस्य सामान्यस्यापह्वोतुमशक्यत्वात् ।
नापि सामान्यविशेषात्मकमेकं896 वस्तु, एकस्य द्वेरूप्यविरोधात् सामान्यविशेषौ तु परस्परसम्बद्धे द्वे वस्तुनी प्रत्यक्षमवगाहते, तथा च कुतस्सत्ताद्वेतसिद्धिः ।
897यथा च सामान्यविशेषयोर्जातिव्यक्त्योरिह प्रत्ययो नास्तीति, तथा जातिनिर्णये प्र.पं.पृ. 50 निर्णीतम् ।
898न चाऽगमादेवाद्वैतसाधनम् ।
तन्न ।
आगमस्य कार्यैकविषयतया सिद्धे तत्त्वे प्रामाण्यानुपपत्तेः899 ।
अपि च वाक्यात्माऽगमः प्रमाणमिष्यते ।
900तच्चानेकपदात्मकमनेकपदार्थात्मनि वाक्यार्थे धियमुपजनयत्, कथमद्वैतमवभासयेत् ।
अथेदमुच्यते"स एष आदेशो नेति नेती" बृ. उ. अ. 3. ब्रा. मं. 6.टति 901सकलोपाधिनिषेधेन नानाभूतवस्त्वन्तरापाकरणादद्वैतमागमेन साध्यत इति ।
तदप्यसारम् ।
यः खल्वेष इति सद्रूपतया प्रत्यवमृष्टः पदार्थः, सो ऽसत्त्वापादकेन902 नञर्थेन सह सम्बद्धुमयोग्यः, अस्ति नास्तीतिवत् ।
अन्वयायोग्ययोश्च पदार्थयोरन्वयासम्भवान्न वाक्यार्थीभवनम् ।
903एवन्तर्हि निराकृतानि सर्वाण्येव निषेधवाक्यानि ।
मन्द 904मैवं परिभावय ।
न हि निषेधवाक्येषु कस्यचिदात्यन्तिको निषेधः, किन्तु क्वचित्किञ्चिन्निषिध्यते ।
905ब्रह्माद्वैताभिमानी तु भवानात्यन्तिकमेव निषेधमभिलषति ।
906तथा च सो ऽयमात्मीय एव बाणो भवन्तं प्रहरति---"907लब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य सम्भवः" ॥
[ब्र. सि. त. कां. श्लो. 2] इति ।
अतः प्रत्यक्षादिविरुद्धार्थत्वादद्वैतावबोधक आम्नायो न 908यथाश्रुतो वर्णयितुं न्याय्यः ।
909यत्विदं प्रपञ्चेन प्रसाधितं910 --- प्रत्यक्षादिविरोधे ऽप्यागमस्यैव911 बलीयस्त्वम्, तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति ।
912तदपि मनोरथमात्रम् ।
प्रत्यक्षादिविदोधे पदार्थानामन्वययोग्यताविरहादागमादर्थबोधस्यैव तद्विरोधे ऽनुदयात् ।
अतः प्रत्यक्षादिविरोधादागमे गौणी, लाक्षणिकी वा वृत्तिराश्रयितव्या913 ।
आनन्दादिश्रुतीनां स्वमतेन व्याख्या ।
914तत्राऽनन्दादिश्रुतयस्स्वाभावकिदुःखाभावपरतया वर्णनीयाः, लौकिकानन्दस्याल्पतया, दुःखानुषक्ततया च व्याख्येयाः ।
एकत्वश्रुतयश्चैकस्मिन्नायतन एकस्यैव स्वामित्वमित्येवम्पराः ।
"915इन्द्रो मायाभिः पुरुरूप ईयते" इति, देहात्माभिमानेन जन्मनि जन्मनि भिन्न इवाऽभातीत्यर्थः ।
अनेकदेहपरिग्रहे ऽप्येक एवाऽत्मेति नानात्वनिषेधस्यार्ऽथः ।
"स916 एष नेत्येष नेती" ति च शरीरादीनामात्मत्वनिषेधस्तद्व्यतिरिक्तप्रतिपत्तिपरः ।
विज्ञानश्रुतयश्च 917चिच्छक्तियोगित्वाद्व्योमादिभ्यो विशेषाभिधानपराः ।
सर्वात्मश्रुतयश्च सर्वस्याऽत्मार्थत्वात् तादर्थ्यनिमित्तोपचाराः918 ।
919"आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवती" बृ. उ. 4अ. मै. ब्रा. ति यदुच्यते, तत् आत्मज्ञानस्य परमपुरुषार्थमोक्षफलत्वात्, तस्मिन् विज्ञाते सर्वमेव ज्ञानं निष्फलमिति दर्शयितुमित्येषा दिक् ।
920अथोच्येत---वित्तेर्भिन्नस्याप्रकाशात्मनः प्रकाश एवानुपपन्न इति ।
यद्यत् प्रकाशते, तत् तत् प्रकाशादभिन्नम्, प्रकाशात्मकञ्च ब्रह्म ।
अतो ब्रह्मात्मकं जगदिति सिद्धमद्वैतमिति ।
921तदिदं स्वपक्षविरुद्धम् ।
कथमेवं बुद्धिमन्तो ऽभिदधति ।
एवं हि नानाभूतानामाकाराणां प्रकाशाभेदे प्रकाशस्यापि नानाभावापत्तेरद्वैतं दूरमपास्तम् ।
922अथोच्येत---विविधो ऽयमाकारप्रपञ्चोविद्याध्यासवशादवभासत इति ।
एतदपि स्ववचनविरुद्धम् ।
सदात्मा प्रकाशः, तेन सहासदात्मान आकारास्तावदभिन्ना इति न घटते ।
तथा सत्यप्रकाशात्मानस्ते कथमिव प्रकाशेरन् ।
अपि चाप्रकाशात्मन एव 923प्रकाशस्सम्भवतीति 924बाह्यार्थसिद्धावुक्तम् ।
अत एषो ऽपि माहायानिकपक्षानुप्रवेशात्925 ब्रह्मवादिनां मोह एव ।
अपि चात्यन्तमसन्तं प्रपञ्चं कथमिवाविद्या प्रकाशयितुमलम् ।
न खल्वसत्ख्यातिरविद्या926, किन्त्वग्रहणरूपैवेति927 नयवीथ्यां 928साधितम्929 ।
अतो नाविद्यास्तमयो मोक्षः ।
स्वमतेन मोक्ष-तत्साधननिरूपणम् ।
930आत्यन्तिकस्तु देहोच्छेदो निश्शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति ।
युक्तम् ।
धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति ।
स तयोरेकान्तोच्छेदे व्यपगतदेहेन्द्रियसम्बन्धस्समुत्खातनिखिलसांसारिकदुःखानुबन्धो मुक्त इत्युच्यते ।
931कथं पुनरशेषधर्माधर्मंपरिक्षयः ।
न तावदुपभोगेनैव ।
अनादिशरीरसन्ततिसञ्चितानां, भोगसमये ऽपि सञ्चीयमानानामनन्तानां कर्माशयानां क्षेप्तुमशक्तेः ।
उच्यते---यः खलु सांसारिकेभ्यो दुःखेभ्य उद्विग्नः तदनुषङ्गशबलेभ्यश्च सुखेभ्यो ऽपि विगतस्पृहो मोक्षायोत्तिष्ठते, स तावद्बन्धहेतुभूतेभ्यो निषिद्धेभ्यः प्रत्यवायहेतुभूतेभ्यः, काम्येभ्यो ऽभ्युदयसाधनेभ्यश्च निवर्तमानस्सन्नुत्पन्नपूर्वौ धर्माधर्मौ भोगेन क्षयं नयन्, शम-दम-ब्रह्म-चर्यादिकाङ्गोपबृंहितेनाऽत्मज्ञानेन932 "न स पुनरावर्तते" छा. उ. अ. 8 इत्यपुनरावृत्तये चोदितेन निश्शेषकर्माशयं नाशयनम् मुच्यते ।
न चापुनरावृत्तेरर्थवादतया वर्णनम्, आत्मज्ञानस्यापरार्थत्वात् ।
परार्थत्वे हि पर्णमयी ।
न्यायेन फलश्रुतिरर्थवादतया वर्ण्येत ।
ज्ञानविधेरपारार्थ्ये तु सैवाधिकारिविशेषणं रात्रिसत्रवत् ॥
न च कर्मविधिशेषभूतमात्मज्ञानम्, तस्यापरार्थत्वात्, परार्थत्वे प्रमाणाभावात, 933उपकारलक्षणशेषत्वनिराकरणादित्यलमतिविस्तरेण ।
स्वमतेनाऽत्मपरिमाणनिरूपणम् ।
ननु मुक्तस्यात्मनस्सकलोपलम्भातीतस्य934 सन्मात्रावस्थितौ किं प्रमाणम् ? उच्यते---सदकारणञ्च यत्, तदविनाशि गगनवत् ।
सदकारणश्चायमात्मेत्यविनाशित्वाद्ध्रुवत्वसिद्धिः935 ।
परममहत्त्वञ्चाऽत्मनः परिमाणं गगनवत् ।
यत्र यत्राऽत्मनो गुण उपलभ्यते, तत्र तत्र तावदात्म वर्तत इति प्रमाणसिद्धम् ।
गुणिनमन्तरेण गुणस्यावृत्तेः ।
तत्र ह्येष संशयः---किमसौ गत्व सन्निधीयते, उत गतिनिरपेक्ष एवेति ।
तत्र गतिसव्यपेक्षत्वाश्रयणे गतेस्तावत्कल्पना, तस्याश्चासमवायिकारणं कल्पनीयम् ।
न च तत्र किञ्चन प्रमाणमस्ति ।
अगच्छतो ऽपि सन्निधानोपपत्तेर्गगनवत् ।
अथोच्येत यत्रापि देहोन वर्तते, तत्रापि चेदात्मा सन्निधीयते, तदा शरीर इव तत्रापि तद्गुणानामुपलब्धिस्स्यादिति ।
तन्न ।
यतस्सर्वात्मगुणानामात्म-मनस्सन्निकर्षो ऽसमवायिकारणम् ।
स च संयोगो 936द्विष्ठतया मनो937-विरहेणान्यत्र न वर्तते ।
मनश्च शरीरस्यान्तरवतिष्ठत इत्युक्तम्938 ।
यत्रैव चासमवायिकारणम्, तत्रैव कार्यमिति न बहिरात्मनो गुणोपलम्भः ।
नन्वेवं शरीरस्यापि गतिकल्पनमप्रमाणकमेव ।
न ।
तस्यैकत्र सतो ऽन्यत्र दर्शनप्रसङ्गात् ।
आत्मनस्तु सतो ऽपि सकलकरणपथातीतस्य दर्शनप्रसक्तिरापादयितुमशक्येत्यगत्या सर्वसयोगिभिरात्मा संयुज्यते ।
तत्तु परममहत्त्वमन्तरेण न सम्भवतीति नाणुपरिमाणः, शरीरपरिमाणो वा ।
शरीरपरिमाणवत्त्वञ्च विना सावयवत्त्वमनुपपन्नम् ।
तादृशं हि महत्त्वं-अवयवबहुत्वमहत्त्व-प्रचयविशेषाणामन्यतमस्मिन्नायत्तम् ।
न चावयवकल्पना प्रमाणवती ।
ननु सर्वगतत्वे पुरुषस्य शरीरान्तरे ऽपि भोगप्रसङ्गः ।
मैवम् ।
यस्य यच्छरीरं, तस्य तद्भोगायतनम्, यानि च यस्येन्द्रियाणि, तानि तस्य भोगसाधनानीति, नाऽयतनान्तरे भोगप्रसङ्गः ।
आत्मनो विभुत्वे भोगसाङ्कर्यशङ्का-समाधाने ।
ननु शरीरेन्द्रियसम्बन्धव्यवस्थैव किन्निबन्धना ।
उच्यते---धर्माधर्मसम्बन्धनिबन्धनेति भवानवबुद्ध्यताम् ।
यदीयाभ्यां धर्माधर्माभ्यां यानि शरीरन्द्रियाण्युपात्तानि, तानि तस्यैव भोगसाधनानीति ।
धर्माधर्मव्यवस्थैव किमायत्तेति चेत् ? तदुपायभूतकर्मसम्बन्धायत्ता939 ।
कर्मसम्बन्धव्यवस्था तु तत्समवायिकारणभूतशरीरेन्द्रियसम्बन्धनिबन्धनेत्यनादितया शरीरेन्द्रियधर्माधर्मसन्ततेस्सर्वमुपपन्नम् ।
आत्मैकत्वशङ्का-निराकरणे ॥
आह्व---विभुत्वञ्चेदात्मनः, तदा सर्वशरीरेष्वेक एवाऽत्मास्तु940 गगनवत् ।
यथा गगनमेकमेव घट--मणिकादितत्तदनेकसम्बन्धि, तथाऽत्मापि किं नाभ्युपेयते, किं प्रतयायतनं भेदाभ्युपगमेन ।
उच्यते---यस्तावत्प्रतिपत्ता परायतनस्वामिनं स्वप्रयत्नपूर्वकात्मीयशरीरसमवेतकर्मसमानचेष्टादर्शनादनुमानतः प्रत्येति942 प्रयत्नवत्तया, नासौ तं ग्राहकैकरसतया, किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेव ।
तेन 943प्रतीतिसिद्धत्वाद्भेदस्य, अलं भेदाभ्युपगमेनेति वचनमकिञ्चित्करम् ।
न हि 944परायतनस्वामिनि स्वमित्येवमनुमानमुदेतुमलम् ।
यथा मम शरीरे मदीयप्रयत्नपूर्विका चेष्टा, तथा परशरीरे ऽपि मत्प्रयत्ननिबन्धनैवेति प्रत्यक्षविरोधात् ।
प्रत्यक्षेण हि स्वात्मनि समवयन्प्रयत्न उपलभ्यते ।
न च परशरीरचेष्टानुगुणः प्रयत्नस्स्वात्मनि पुरुषाणां प्रत्यक्षीभवतीति, पर एव प्रयतिता परशरीरे ऽनुमीयते ।
नन्वेवमनुमानेन परात्मप्रतीतौ, कथमिदमुच्यते"अगृह्यो न हि गृह्यते" बृ. उ. अ. 4. ब्रा. 2 ख. 4 इति ।
परेण न गृह्यत इत्येतदभिप्रायमेतद्भवतीत्युच्यतेग्राहकैकरसतया परेण न गृह्यत इति तस्यार्ऽथः, तस्मान्न विरोधः ।
किञ्च नानाव्यवस्थाना नानाभूताः प्रतिक्षेत्रं पुरुषाः 945धर्मा-धर्म-सुखदुःखादिव्यवस्थादर्शनात् ।
अन्यथा ह्येकस्य धर्मा-धर्मादयस्सर्वस्य भवेयुः ।
ब्रह्मसिद्धिकृतो मतेन शङ्का ।
946अत्र कश्चित्पण्डितमानी प्राऽह---काल्पनिकी सुखदुःखादिव्यवस्था भविष्यति ।
यथैकस्मिन्नेव शरीरे पादादिवेदनाव्यवस्था न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति ।
न हि पादगता वेदना शिरसि, न वा शिरोगता वेदना पादे ।
न च वेदना पादादिष्वेव समवैतीतिशक्यते वक्तुम्, तेषामज्ञत्वात् ।
ज्ञाता हि वेदनाभिस्सह सम्बध्यते, दुःखविशेषरूपत्वात् तासामिति ।
तन्निरसनम् ।
तदिदं बालजनमोहनमिति ।
वृद्धाः ।
"पादे मे वेदना,"शिरसि मे वेदने"ति सर्ववेदनास्वेको दुःखी प्रकाशते ।
पादादिषु तु सन्तापादिकं समवैति ।
947तत्र सन्तापस्तेजसा सह संयोगः, शूलस्तु वायुवा सहेति वातपित्त---श्लेष्मणां क्षोभजेषु सर्वेषु विकारेषु वेदितव्यम् ।
अचेतनानामपि पदादीनां पित्तादिसंयोगो न विरुध्यते ।
943तज्जन्यं दुःखमात्मन्येव समवैति ।
अथोच्येत---यथा प्रतिबिम्बभाव एकस्यैव 949बिम्बस्य मणिकृपाणदर्पणाद्युपाधिवशेन, व्यवस्थितानि च श्यामत्वादीनि, तथैकस्याऽत्मनो नानाशरीरोपाधिवशेन सुखादयो व्यवतिष्ठन्त इति ।
तदयुक्तम्---श्यामत्वादीनामौपाधिकानामुपाधिवशवर्तित्वाद्विम्बसम्बन्धाभावात् ।
तेनैकधर्मिधर्माणां सतामेषा व्यवस्था सम्भवति ।
सुखादयस्तु नौपाधिकाः, किन्त्वात्मसमवायिन एवेत्येकात्मवर्तित्वेन950 व्यवस्थानुपपत्तिः ।
किञ्च सिद्धे व्यक्तमेकत्वे स्यादप्येषा कल्पना, न951 चाऽत्मैकत्वे प्रमाणमस्ति ।
एकपुरुषश्रुतयश्च प्रागेवोपवर्णितार्था इति, सिद्धं प्रतिक्षेत्रं नानाभूताः पुमांस इति ।
952नानाविवादसन्दर्भतमस्सङ्घातभेदनः ।
एव शालिकानाथेन तत्त्वालोकः प्रवर्तितः ॥
इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां तत्त्वालोको नामाष्टमं प्रकरणं समाप्तम् ।
953न्यायिशुद्धिर्नाम नवमं प्रकरणम् ।
954अपौरुषेये सम्बन्धे शब्दः प्रामाण्यमृच्छति ।
स च नित्यत्वसिद्धौ स्यादिति तत्प्रतिपाद्यते
यद्युच्चरितमात्रविनाशी शब्दो भवेत्, तदा तस्य वृद्धव्यवहारेण स्वाभाविकी स्वार्थाभिधानशक्तिरवसातुमशक्या ।
भूयोभूयः प्रयोगदर्शने हि तत्तदस्वार्थपरिहारेण निष्कृष्य स्वार्थाभिधानसामर्थ्यमवधार्यते ।
न चोच्चरितमात्रापवर्गिणश्शब्दस्य पुनः पुनः प्रयोगदर्शनमुपपद्यते ।
स्वार्थाभिधानसामर्थ्यानवधारणे च प्रथमश्रुत इव शब्दो नार्ऽथमवबोधयितुमलम्955 ।
अर्थञ्चानवबोधयतः प्रामाण्यमयुक्तमिति, शब्दस्य प्रामाण्यमिच्छता युक्तमभिधानस्य नित्यत्वस्थानमिति सप्रयोजनमिदम् ।
ननु क्षणिकत्वे ऽपि वर्णानां 956गत्वादिविषयवृद्धव्यवहारपूर्वकमेव सम्बन्धाध्यवसानमुपपद्यते, किं नित्यत्वस्थापनयत्नेन ।
उच्यते---न प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणापि शुक्तिकार957जतबोधवदभेदप्रत्ययाभिमानोपपत्तेः ।
यत्र हि भेदमध्यवस्यत एवाभेदज्ञानम्, तत्रान्यथानुपपत्त्या सामान्याश्रयणं घटते ।
न चानित्यत्ववादिनो ऽपि958 वर्णेषु प्रत्युच्चारणं साक्षाद्भेदाध्यवसानं सम्मतम् ।
ननु च युक्तं शुक्तिकारजतादिषु भेदाग्रहणादभेदव्यवहार इति सामान्यासम्भवः, नेदं रजतमिति बाधकप्रत्ययोदयात्, इह तु सासान्योपपत्तेर्भ्रान्तिकल्पना निष्प्रमाणिकैव, नायं गकार इति बाधकाभावात् ।
उच्यते ।
न बाधकमात्रायत्तैव भ्रान्तिकल्पना, किन्तु कारणदोषायत्तापि ।
दृष्टञ्चातिसादृश्याद्भेदाग्रहणाद् भ्रन्तित्वमिति, साक्षादनुपजाते ऽपि बाधके, युक्तमेव भ्रमावधारणम् ।
अतो न गत्वादिस्तत्र सम्भवति ।
959अभिव्यञ्जकवैधर्म्यादभिव्यक्तेरसम्भवे ।
प्रयत्नानन्तरं दृष्टेरभिधानं प्रयत्नजम्
960
किञ्च पुरुषप्रयत्नानन्तरं हि श्रवणं शब्दस्य द्वेधावकल्पते---प्रागजातत्वादनुपलब्धः, प्रयत्नेन जनित उपलभ्यतामापद्यते, अनभिव्यक्तत्वाद्वाभिव्यज्यत इति ।
तत्र न तावत्---प्रयत्नस्य शब्दं प्रत्यभिव्यञ्जकत्वं सम्भवति ।
961आवरणापायेन किञ्चिदभिव्यज्यते,सन्निधानेन 962वा ।
न च शब्दस्याऽवरणमुपपद्यते ।
इन्द्रिसम्बन्धप्रतिबन्धेन ह्याऽवरणं कुड्यादिना घटादेरुपलब्धम् ।
न च शब्दस्येन्द्रियसम्बन्धः प्रतिबन्धुं शक्यते, नित्यत्वात् ।
उत्पत्तिनिरोधो हि प्रतिबन्धः ।
न चासौ नित्यस्योपपद्यते ।
आकाशो ह्वि श्रोत्रेन्द्रियं शब्दवत्त्वात्, शब्दोपलम्भकतया च शब्दवत्त्वं चक्षुर्वत् ।
यथा---चक्षू रूपोपलम्भकं रूपवत्, तथा श्रोत्रमपि शब्दवत् ।
आकाशश्च शब्दवानिति स एव श्रोत्रम्, तद्गुणश्च शब्दस्तस्मिन्नित्यसमवेत इति, न तस्याऽवरणसम्भवः ।
अतस्तदपनयेन नाभिव्यक्तिः ।
अत एव सन्निधानस्यासम्भवः, नित्यसन्निधानादभिव्यङ्यस्य ।
किञ्च---अभिव्यञ्जकास्समानदेशस्थानेकेन्द्रियाग्राह्यान् युगपदेवाभिव्यञ्जयन्ति, रूपादीनिव प्रदीपादयः ।
रूपम्, परिमाणम्, संख्येति सर्वं सकृदेव प्रदीपादभिरभिव्यज्यते ।
अतस्सर्वशब्दोपलम्भो दुर्निवार एव ।
किञ्च आकाशविशेषगुणत्वाच्छब्दस्य, एकत्वादाकाशस्य स्रुघ्नस्थेनाभिव्यक्तः पाटलीपुत्रस्थेनाप्युपलभ्येत ।
सर्वदा चोपलम्भोपरमो न स्यात् ।
अथ श्रोत्रेन्द्रियसंसकर एव शब्दस्याभिव्यक्तिरिष्यते, न सो ऽपि घटते, कः खल्विन्द्रियस्य संस्कारः---न तावदुन्मीलनवदावरणापगमः, पूर्ववदावरणासंभवात् ।
नाऽप्यालोकेनेवाऽप्यायनं963 चाक्षुषस्य रश्मेः कोष्ठ्यानां वायूनाम्, आकाशस्य चावयवसंयोगासम्भवात्964 ।
"सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाशयेत् ।
घटायोन्मीलितं चक्षुः पटं न हि न 965बुध्यते ॥
" श्लो. वा. श. अ. श्लो. 60. 61 इति ।
तस्मादभिव्यञ्जकत्वे ऽनुपपन्ने, यदि 966प्रयत्नकारणको ऽपि न स्यात्, तदा तदपेक्षोपलब्धिर्न सम्भवेत् ।
तेनेदमनुमानं प्रयोक्तव्यम्---शब्दः पुरुषप्रयत्नोत्पाद्यस्तदनभिव्यङ्ग्यत्वे सति तदनन्तरोपलब्धेः, यो यदनभिव्यङ्यस्तदनन्तरोपलभ्यः, स तस्योत्पाद्यः, यथा-घटःकपालव्यापारस्येति ।
केन पुनः प्रकारेण प्रयत्नेन शब्द उत्पाद्यते ।
तत्र 967केचिदाहुः---पुरुषप्रयत्नोदीरितैर्वाय्ववयवैस्स्थानविशेषाभिधात968 - संस्कारसंस्कृतैस्सर्वतोदिक्कैस्संयोगाख्यासमवायिकारणानुगृहीतैश्च स्वसमवेतः शब्द आरभ्यते ।
वायोश्च गतिमत्त्वात्, तदारब्धश्शब्दो ऽपि गतिमान् कर्णशष्कुलीमण्डलावच्छिन्नेन नभसा श्रोत्रभावमापन्नेव संयुक्तस्सन्नुपलभ्यते ।
वेगाख्यसंस्कारनिबन्धना च वायोर्गतिरिति, तदपगमे गतिविच्छेदाद् दूरे यच्छोत्रम्, तत्राप्रत्यासन्नत्वाच्छब्दो न श्रूयते ।
न 969चैतदुपपद्यते---वायवीयश्चेच्छब्दो भवेत्, स्पर्शनेन बधिरैरुपलभ्येत ।
स्यान्मतम्--- 970अभिभूतत्वात् स्पर्शनेनानुपलब्धिरिति ।
तन्न ।
प्रत्यक्षोपलब्ध्यर्हत्वात्971 ।
यदि ह्यसावभिभूतः, तर्हि श्रोत्रेणापि नोपलभ्येत ।
न च वाच्यं न स्पर्शनेन्द्रियग्राह्योवायुरिति ।
तदनुविधानेन तदवगतेः ।
अथ मतम्---स्पर्शमात्रं स्पर्शनेन्द्रियेणोपलभ्यते, न वायुद्रव्यमिति ।
तन्न---स्पर्शव्यतिरेके ऽपि972 द्रव्यस्य प्रत्यभिज्ञायमानत्वात्973 ।
अन्ये 974त्वाहुः---संयोगाद्विभागाद्वाऽद्यश्शब्दो निष्पद्यते ।
यथा ताल्वादिवायुसंयोगानुगृहीताद्वाय्वाकाशसंयोगादाकशे शब्दस्सञ्जायते, तथा ताल्वादिवायुविभागोपकृताद्वाय्वाकाशविभागादाकाश एव शब्दश्शब्दान्तरमारभते, तदपि शब्दान्तरमिति कर्णशष्कुलीमण्डलावच्छिन्ने नभसि श्रोत्रभावमापन्ने निष्पन्नश्शब्दश्श्रूयत इति ।
975नानाभावे प्रयत्नस्य नानाभावोपलम्भनात् ।
वैलक्षण्ये च शब्दस्य वैलक्षण्येन कार्यता
किञ्च---अभिव्यङ्ग्यश्चेत् प्रयत्नेन शब्दो न प्रतियत्नं भेदेनोपलभ्येत ।
न खल्वभिव्यञ्जकप्रदीपभेदे ऽपि नानाभावेन भावानामुपलम्भः ।
कारकभेदस्तु कार्यभेदहेतुरिति 976संप्रतीतः ।
अतश्शब्दस्य प्रयत्नो जनयितेति निश्चीयते ।
यथा कारकवेकलक्षण्यानुविधायिनी कार्यवैलक्षण्यसिद्धिरविहता, तथा वैलण्ये ऽपि चाभिव्यञ्जकस्याभिव्यङ्यवैलक्षण्यं न सम्भवति ।
शब्दस्तु प्रयत्नस्य मृदुत्वे, बलवत्त्वे च मृदुर्बलवांश्चोपलभ्यमानस्तत्कार्यतां न जहातीति ।
सिद्धान्तः ।
977शब्दे तत्प्रत्यये स्पष्टे नानाव्यञ्जककल्पनात् ।
उपलब्धिव्यवस्थानमुपपन्नं भविष्यति
यदि शक्ष्यामश्शब्दस्य स्पष्टं प्रत्यभिज्ञानमुपदर्शयितुम्, तदा प्रयत्नस्य कारकत्वे निषिद्धे, अभिव्यञ्जकत्वे च स्थिते, उपलब्धिव्यवस्थानं व्यञ्जकबहुत्वेन वर्णयिष्यामः ।
श्रोत्रमेव संस्क्रियते, तत्संस्कारकता च----तदभिव्यज्जकता ।
कोष्ठ्यो हि वायुः प्रयत्नवदात्मसंयोगादुद्गच्छति978 ।
स 979नाभेरुद्गच्छन्नुरः- प्रभृतिष्वष्टसु स्थानेष्वभिघातेतन संस्कृतो यावद्वेगमभिप्रतिष्ठमानश्श्रोत्रमनुप्राप्तश्शब्दोपलम्भानुगुणं संस्कारमारभते ।
तत्संयोग एव श्रोत्रसंस्कारः ।
वेगवत्त्वाच्च वायोः, कर्मोत्पत्तौ श्रोत्रविभागात् संयोगोपरमे, शब्दस्यानन्तरमुपलम्भविच्छेदः ।
प्रयत्नभेदाच्च वायुकर्मभेदादुरःप्रभृतिस्थानसंयोगान्यत्वाव्यवस्थया शब्दश्रवणम् ।
शब्दोत्पत्तिवाद्यप्युत्पादकभेदमनुमन्यत एव, अन्यथा कार्यभेदासम्भावात् ।
यत्तूपवतिर्णतं---यथोन्मीलनसंस्कृतं चक्षुर्न समानदेशस्थानुपलभ्यान् व्यवस्थयोपलम्भयतीति ।
तदयुक्तम्---तत्रैकत्वादभिव्यञ्जकस्य ।
एकेमेव ह्युन्मीलनं सर्वोपलम्भानुगुणनेत्रसंस्कारारम्भकमिति, कुत उपलब्धिर्व्यवतिष्ठताम् ।
इहत्वेकत्वं संस्काराणामसिद्धम् ।
नन्वभिव्यङ्ग्यस्यैकेन्द्रियग्राह्यत्वे, अभिव्यञ्जकस्यैकतैव प्राप्नोति ।
ये समानेन्द्रियग्राह्याः, तेषामेक एवाद्यभिव्यञ्जकः ।
यथा---आलोको घटादीनाम् ।
एकत्वे चाभिव्यञ्जकस्योपलब्धिव्यवस्था नोपपद्यते ।
अतो ऽभिव्यञ्जकत्वासम्भवे, कारकत्वे व्यवस्थिते, भेदाग्रहणनिबन्धनैव प्रत्यभिज्ञेति न्याय्या कल्पना---इति ।
अत्रोच्यते ।
एकेन्द्रियग्राह्यतापि भवेत्, अभिव्यञ्जकभेदो ऽपि भवेदिति, किमनुपपन्नम् ।
स्वाभाविकी हि यस्य सम्बन्धव्याप्तिः, तस्य लिङ्गत्वम् ।
980आशङ्क्यमानाशेषोपाधिपरिहारेण हि स्वारसिकसम्बन्धव्याप्तिनिश्चयः ।
इह तु न शक्यते निर्णेतुं---किमेकेन्द्रियग्राह्यतया घटादीनाम्, तद्गतरूपादीना ञ्चैको ऽभिव्यञ्जकः, उत रूपिद्रव्यत्वात्, तत्समवायित्वाच्चेति ।
अतो ऽनवधारितसम्बन्धव्याप्तिकमेकेन्द्रियग्राह्यत्वं नाभिव्यञ्जकैक्यानुमानसमर्थम् ।
अतो ऽभिव्यज्जकत्वे ऽपि प्रयत्नस्योपलब्धिव्यवस्थोपपत्तिः ।
ननु स्थिरवाय्वपनय एव संस्कारः ।
अपनीते च तस्मिन्, सर्वशब्दोपलब्धिर्दुर्निवारा ।
उच्यते---नावरणानयनं 981तस्याभिव्यञ्जकम्, वायुना शब्दावरणासम्भवात्, किं 982त्वदृष्टसापेक्षेण ।
एञ्चापनेतृकाष्ठ्यवायुभेदात् 983स्थिरवायुविभागलक्षणसंस्कारभेदादुपपन्नैवोपलब्धिव्यवस्था ।
अपि च न वयं स्थिरवाय्वपनयं संस्कारमाचक्ष्महे, किन्तु कोष्ठ्यवायुसंयोगमेव, प्रथमभावित्वात् ।
किमिति तर्हि भाष्यकारेण"स्तिमितानि वाय्वन्तराणी" त्युक्तम् ? कोष्ठ्यस्य वायोर्वेगविनाशार्थम् ।
984स्पर्शवद्द्रव्यसंयोगाद्वि वेगविनाशो ऽन्यत्र प्रतीति इति, इहापि तदर्थमेव स्थिरवायुकीर्तनं985 भाष्ये ।
ननु चैकत्वादाकाशस्य, तस्य च श्रोत्रत्वात् तत्संस्कारे, सर्वपुरुषेन्द्रिय संस्कारात् सर्वे ऽपि शब्दमुपलभेरन् ।
नैषदोषः ।
986धर्मा-धर्मोपार्जितकर्णशष्कुलीभेदात् ।
कर्णशष्कुलीसंस्कारो हि श्रोत्रसंस्कारः, भिन्नाश्च प्रतिपुरुषं कार्णशष्कुल्य इति, असंस्कृतकर्णशष्कुलीको न शब्दमुपलभते ।
अनुवातञ्च 987दूरत एव शब्दमुपलभते ।
बाह्यवायुनोदनानुगृहीतस्य कोष्ठ्यवायुवेगस्य दूरगमनहेतुत्वात् ।
शब्दाच्छब्दान्तरारम्भपक्षे तु नानुवातस्य कश्चिदुपयोगः ।
अभिव्यज्जकनानात्वाच्छब्दो नानेव लक्ष्यते ।
नेत्रवृत्तिविभेदेन चन्द्रस्तैमिरिकैरिव
स्पष्टे तद्ग्रहे नानाभावोपलम्भश्शब्दे तावदसिद्ध एव ।
किन्तु परस्परनिरपेक्षैरभिव्यञ्जकैः कोष्ठ्यवायुभिर्नानावक्तृसमुत्थैर्नानाभूतैर्भिन्नं श्रोत्रसंस्कारमारभमाणैर्नानाभूतशब्दबुद्धिं जनयद्भिर्नानेव शब्दो बुध्यते, चन्द्र इव तिमिरविभिन्नाभिर्नेत्रवृत्तिभिः ।
नानादेशोपलम्भे हि सर्वेषां भ्रान्तिसम्मतिः ।
कर्णच्छिद्रगतस्यैव शब्दस्य श्रवणं यतः
यदुच्यते---कार्यत्वे शब्दस्य कारणदेशभेदान्नानादेशोपलम्भ988 इति ।
तदयुक्तम् ।
यद्यपि कृतकश्शब्दः, तथापि संनिकृष्ट-विप्रकृष्टयोर्युगपच्छब्दोपलम्भप्रसङ्गेन प्रतिवाता-नुवातयोश्चाविशेषापत्तेर्नेन्द्रियं प्राप्तस्योपलम्भकम् ।
प्राप्तावपि नेन्द्रियं शब्ददेशमुपसर्पति, प्रतयक्षत्वाच्छोत्रदेशे कर्णशष्कुल्याः प्रतिवाता-नुवातयोश्च तुल्योपलम्भापत्तेः ।
शब्दे तु श्रोत्रपथं प्राप्त उपलभ्यमाने देशभेदः प्रतीयते ।
अतो भ्रन्तिरेषा-नानादेशेषु शब्द उपलभ्यत इति ।
किन्निबन्धना भ्रान्तिः ।
अभिव्यञ्जकदेशनिबन्धनेति ब्रूमः ।
ताल्वादिस्थानाघातसापेक्षो989 हि कोष्ठ्यो वायुरभिव्यनक्ति ।
अतो वक्तृदेशो ऽपि भवत्यभिव्यञ्जकदेशः ।
तेन शब्दं शृण्वतस्तदभिव्यज्जकदेशो ऽपि तदविनाभावोपकल्पितो बुद्धिस्थो भवति ।
शब्दाभिव्यक्तिविशेषेण च दूरा-सन्नत्वे तस्य कल्प्येते ।
प्रत्यक्षोपलभ्यमानवक्तृविषये च शब्दश्रुतिविशेषे दिग्विशेषो नियतमवधारितः, अतो दिग्विशेषकल्पनापि ।
यस्तु न तथा विवेक्तुमलम्, तस्याभिव्यञ्जकदेशं प्रति व्यामोहो दृश्यत एव ।
एवञ्चेन्द्रियाणां स्वानुभवासमर्थत्वाच्छोत्रगतशब्दोपलम्भे तद्देशाग्रहणात्, तदुच्चारणप्रदेशस्य प्रतीयमानत्वात्, तद्गतत्वप्रतिपत्तेश्च, तत्तद्देशगतशब्दप्रतिपत्तिव्यवहारं प्रवर्तयतीति990 घटत एवेयं भ्रान्तिः ।
वैलक्षण्यं स्वभावने वर्णानां न च सम्मतम् ।
नादाल्पत्व-महत्त्वाभ्यां तथात्वभ्रान्तिसम्भवात्
स्पष्टे तद्ग्रहे प्रयत्नस्तावद्वर्णानां जनको नेति स्थिते, तदनन्तरोपलम्भनियमेन991 चाभिव्यञ्जकत्वे निर्णीते, अभिव्यञ्जकवृद्धिह्वासयोश्चाभिव्यङ्ग्यवृद्धिह्वासहेतुत्वाभावान्न शब्दो वर्धते, ह्वसते वा ।
किन्तु बलवति प्रयत्ने महान् वायुरुत्पद्यते, 992तस्यावयवा भूयांसः कर्णशष्कुलीमण्डलस्य नेमिभागैर्बहुभिस्सम्बध्यन्ते ।
ततश्चाभिव्यज्जकसंयोगबहुत्वात्, युगपदुपलम्भकबहुत्वात्, तेषाञ्च विच्छेदाग्रहणान्महानिव शब्दो ऽवभाति, तरूणामन्तरालाग्रहणादिव महद्वनम् ।
यदा ते वाय्ववयवास्सहसा, विलम्बेन वा संयुज्यन्ते, तदोपलम्भो ऽपि द्रुतः, विलम्बितो वा ।
यदा त्वेषामुच्चारणे ताल्वादीनां संवृतत्वं भवति, तदा तदनुरोधेन वर्णोपलब्धिरपि एकमात्राकालैव भवतीति, ह्वस्ववर्णव्यवहारसिद्धिः ।
यदा 993विवृततरत्वम्, असंवृतत्वं वा ताल्वादीनामेव सम्पद्यते, तदा वर्णप्रतीतेरपि मात्राकालवृद्ध्या दीर्घवर्णव्यवहारसिद्धिः, वृद्धव्यवहारे तदनुरोधेनाप्यर्थाभिधानदर्शनात्, तथैव प्रतिपादकत्वमप्याश्रीयते ।
न चैवमभिधानस्यानित्यत्वदोष, तदुपाधिविशिष्टस्य वर्णस्य वाचकस्यानित्यत्वात्1 अतो वर्णानुपूर्व्यनित्यत्वे न कश्चिद्दोषः ।
आनुपूर्वीविशेषभाजां वर्णानांवाचकभूतानां नित्यत्वात् ।
ननु 994क्षणिका शब्दस्याभिव्यक्तिरिति, कथं तद्ग्रहणसम्भवः ।
उपलब्धे हि घटादिभावे तद्वशेन पूर्वानुभवाहितसंस्कारप्रबोधेन "स एवायमि"ति प्रत्यभिज्ञोदीयते ।
शब्दे पुनरुच्चरित-तिरोहिते, पुनरुत्तरकाले कथं प्रत्यभिज्ञोदय इति ।
तत्राह--- नावश्यं तद्ग्रहेणैव तत्संस्कारप्रबोधनम् ।
तेन हेत्वन्तरोद्बुद्धात् संस्कारात्तद्ग्रहोदयः
यदि ह्ययं नियमः--तदुपलम्भ एव तत्संस्कारोद्बोधहेतुरिति, ततो नोपपद्यते शब्दे प्रत्यभिज्ञा ।
संस्कारास्त्वनियतोद्बोधहेतव इति, कारणान्तरवशेनोद्बुद्धात् संस्कारात् प्रथमसमागमसमय एव शब्दे प्रत्यभिज्ञा भविष्यति ।
ननु"स एवायं गकारः" इति 995प्रतीतिस्तद्ग्रहः, न पुनर्भेदाग्रहणादिति, कथमेष निर्णयः ।
दृष्टो हि शुक्तिकायां भेदाग्रहात्"तदेवेदं रजतमि"ति प्रत्ययः---इति ।
तत्राऽह--- 996भेदे मानं यदा नास्ति शुक्तिका-रजतादिवत् ।
तदा प्रतीतिसंसिद्धस्तद्ग्रहः केन वार्यते
स्पष्टे हि शुक्तिका-रजतयोर्भेदावसायिनि प्रमाणे, सादृश्याद्भेदानवबाधादभेदप्रतीतिरिति कल्प्यते ।
शब्दे तु न प्रत्यक्षसिद्धः प्रत्युच्चारणं भेदः ।
कथं न सिद्धः ।
ननु महत्त्वा-ल्पत्वाभ्यां विभिन्नो वर्ण उपलभ्यते ।
नैत-देवम् ।
महत्त्वा-ल्पत्वे प्रतियतो ऽपि, वर्णप्रतीते महत्त्वा-ल्पत्वे एव भिन्ने अवभातः, न वर्णाः ।
न वाऽनुमानेनापि भेदो ऽवगन्तुं शक्यत इति प्रागेव निवेदितम् ।
अतो भेदे प्रमाणाभावात्, अभिन्न एवायं भिन्नावभास इति, साक्षात्प्रतीतिबलनैवावस्थापितम्
ननु च तद्ग्रहबलेनैवानुमानं निरस्तम् ।
निरस्ते चानुमाने, तद्ग्रह इतीतरेतराश्रयमिति ।
तत्राऽह--- अनुमाननिरासेन 997तद्ग्रहत्वं प्रसाध्यते ।
स्वयं प्रतीतिसिद्धत्वाद् भ्रान्तिशङ्का तु वार्यते
भेदाग्रहनिबन्धनेयं भ्रान्तिरिति शङ्का केवलानुमाननिरासेनापनीयते ।
प्रतीतिबलसिद्धस्तु तद्ग्रहो न कारणान्तरमपेक्षत इति, कथमितरेतराश्रयता ।
ननु किमिति तद्ग्रहबलाज्ज्वालायामपि भेदानुमानं न निराक्रियतैत्यत आह--- ज्वालाभेदं विना 998भासां विततिर्नोपपद्यते ।
भेदाज्ञानेन सादृश्यात् प्रत्यभिज्ञा तु युज्यते
अवयवी-ज्वाला ।
सर्वश्चावयवी स्वावयवसंयोगेन जातः, तद्विनाशेन विनश्यति ।
तन्तुव्यतिषङ्गजनितो हि पटस्तन्तुविभागे विनाशी दृश्यते ।
999प्रभा च गृहोदरादिवर्तिनी तैजसं रूपम् ।
न च द्रव्याश्रिता रूपादयो द्रव्यं विरहय्य वर्तन्ते ।
तेन तैजसाः परमाणवो नित्यमभिभूतत्वादनुपलम्भमान अपि, प्रत्यक्षतो यावत्प्रभावितति सन्निधीयन्त इत्यङ्गीकरणीयम् ।
तेषु च देशान्तरमनुप्राप्तेष्वेतदाश्रयणीयम्-एतेषां संयोगा विघटन्त इति ।
विघटितेषु तेषु, तदारब्धे द्रव्ये ऽपि नाशमुपेयुषि, 1000ज्वालादर्शनं ज्वालान्तरदर्शनमन्तरेण नोपपद्यते ।
भेदाग्रहणनिबन्धना तु प्रत्यभिज्ञा भ्रान्तिश्शुक्तिरजतादिषु दृष्टत्वादुपपन्ना ।
विना तु शब्देभेदेन न किञ्चिन्नोपपद्यते ।
उक्तेन नीतिमार्गेण तद्ग्रहो ऽतो ऽत्र सम्मतः
प्रत्युच्चारणं भेदव्यतिरेकेणापि प्रयत्नानन्तरोपलभ्यमानत्वं यथोपपद्यते, तथोक्तमेवेति, अप्रतिपक्षा प्रत्यभिज्ञा ।
1001सदसत्कारणत्वेन तस्माच्छब्दस्य नित्यता ।
एतदेवव हि नित्यत्वं व्योमादिष्वपि सम्मतम्
शब्दस्य प्रयत्न एव कारणतया सम्भावितः ।
स च प्रत्यभिज्ञाबलेनद्विजीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति, प्रथमदर्शंने ऽप्यसावभिव्यञ्जक एव ।
अतः 1002कारणरहितत्वे 1003सति सत्त्वान्नित्यश्शब्दो गगनादिवत् ।
1004तेन नास्यानित्यतेति ॥
एषा शालिकनाथेन शब्दनित्यत्वसाधनी ।
प्रभाकरगुरोर्दृष्ट्या न्यायशुद्धिः 1005प्रकीर्तिता
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0