भाषा

ENहिગુ
ग्रंथ पाठ

प्रकरणपञ्चिका (टीका सहित) · अध्याय 8

8.1

किं पुनरिदं प्रमाणं नाम ? न तावदविसंवादि ज्ञानं प्रमाणम् ।
स्मृतेरपि तथाभावप्रसक्तेः ।
अथ स्मृतिर्विकल्परूपतया परमार्थसत् स्वलक्षणमगृह्णान्ती संवृतिसन्तमाकारमवस्तुभूतमुल्लिखन्ती द्विचन्द्रादिबोधवन्नाविसंवादिनीति मतम् ।
एवमपि नानुमानं प्रमाणं स्यात् ।
तस्यापि विकल्परूपत्वात् ।
तर्हि विकल्परूपमनुमानमवस्तुविषयमपि वस्तुविषयमिवाध्यवसीयते, इत्यध्यवसीयमानवस्तुभूतस्वलक्षणाविसंवादितया तत्प्रमाणम् ।
स्मृतिरपि तथा स्यात् ।
सापि हि स्वलक्षणाध्यवसायिन्येव जायते ।
अपि चावस्तुभूतं स्वविषयं वस्तुतयाध्यवस्यच्छुक्तिकारजतबेधवत् कथमनुमानमविसंवादि ।
किञ्च यद्यनुमानं विकल्परूपतया स्वलक्षणं न गृह्णाति, कथं तर्ह्यध्यवस्यत्यपि ।
नहि ग्रहणादन्यो ऽध्यवसायो नाम ।
यो ह्याकारो न गृह्यते स कथमध्यवसीयेतापि ।
प्रतीतिविरुद्धं चेदमुच्यते "स्मृतिरनुमानवद् बाह्यं वस्तु न विषयीकुरुते" इति ।
विकल्पभूतयोरपि तयोः प्रत्यक्षप्रतीतवस्तुग्राहकत्वप्रतीतेः ।
अथोच्येत---न वयं यथावस्थितार्थग्राहकमविसंवादकमभिदध्महे, किन्त्वर्थक्रियासमर्थवस्तुपरिप्रापकम् ।
यथाभूतं हि येन वस्तूपदर्शितं, प्रवृत्तो ऽपि यदि तथाभूतमेव प्रतिलभते; तदा तदविसंवादिज्ञानं प्रमाणमुच्यते ।
तथा चोक्तम्---"प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः ।
अविसंवादनं .......[प्र. वा. परि. 1-श्लो. 3.]" इति तथा---"न108 ह्याभ्यामर्थं परिच्छिद्य प्रवर्त्तमानोर्ऽथक्रियायां विसंवाद्यत" इति च ।
एवमपि स्मृतेः प्रामाण्यापत्तिः ।
अथ मतं स्मृत्वार्ऽथ प्रवर्तमानो नियमेनार्ऽथ न प्रतिलभते इति ।
एवमपि भूतार्थविषयमनुमानमप्रमाणं स्यात् ।
नहि तदुपदर्शितार्थस्य प्रतिलम्भो ऽस्ति ।
अथ यद्यप्यनुमानप्रतीतस्य भूतस्य वस्तुनः प्राप्तिर्नास्ति, तथापि तत्प्रतिबद्धलिङ्गजन्मतया तस्य प्राप्तियोग्यता तावदस्त्येव, तावता च तस्य प्रामाण्यमिति ।
एवमपि स्मृतिः प्रमाणमापद्यते ।
स्मृतिरपि ह्यनुमानवदर्थे पारम्पर्येण प्रतिबद्धैव ।
यथा वह्निस्वलक्षणाद्धूमस्वलक्षणम्, ततश्च धूमदर्शनम्, ततश्च धूमविकल्पः, तस्माच्चानुमानमित्यनुमानमर्थेन पारम्पर्येण प्रतिबद्धत्वादर्थाविसंवादि अर्थप्रापणसमर्थम्, तथा स्मृतिरपि---अर्थादनुभवः, ततः संस्कारः, संस्काराच्च स्मृतिरित्यर्थप्रतिबद्धैवेति तत्प्राप्तियोग्यतया प्रमाणमापद्येत ।
यदि मन्वीत सत्यामपि प्राप्तियोग्यतायां स्मृतेर्यत् तया प्रापयितव्यं स्वलक्षणं, तदनुभवेनैव प्रापितमिति न प्रमाणं स्मृतिः, अनुमानं त्वप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति ।
एवमप्यर्थक्रियासमर्थवस्तुपरिप्रापकतामात्रं न प्रमाणलक्षणम्, किन्तु विशेषणमुपादेयम्, 109अप्राप्तप्रापकमविसंवादिज्ञानं प्रमाणमिति ।
अथोच्यते प्राप्तं प्रति प्रापकत्वमेवापरस्य नास्तीति ।
तदसत् ।
अर्थप्रतिबद्धता हि प्रापकता, सा च ज्ञानान्तरस्यापि नानुपपन्ना ।
यद्युच्येत न प्रापकतामत्रेण प्रामाण्यम्, अपि तु प्रवर्तकतयापि ।
तथा सति यत् प्रापयतिप्रवर्तयति, च तत् प्रमाणमिति ।
एतदपि न किञ्चित् ।
प्रवर्तकतापि ज्ञानान्तरस्यापि घटत एव ।
प्रवृत्ति योग्यार्थोपदर्शकत्वमेव प्रवर्तकत्वम् ; तच्च भूतार्थविषयानुमानस्येव स्मरणस्याप्यस्ति ।
प्रवर्तकत्वे च प्रमाणलक्षणा नुप्रवेशिनि निर्विकल्पकज्ञानानामप्रमाणता स्यात्, स्वयं व्यवहारप्रवर्तकत्वाभावात् ।
तदुत्थास्तु विकल्पा एव प्रापकतया प्रवर्तकतया च प्रमाणभूताः स्युः ।
धारावाहिकज्ञानेषु च पूर्वज्ञानविषयार्थत्वादुत्तरेषां प्रमितित्वं न स्यात् ।
अथोच्येत ।
इष्यत एव तेषामप्रमाणतेति ।
तदयुक्तम् ।
लोके तेषु पूर्वस्मादविशिष्टत्वात् प्रमाणभावस्य ।
लौकिकं च 110प्रामाण्यं परीक्षकैरप्यनुसरणीयम् ।
अथ भिन्नत्वादर्थक्षणानां सर्वेषामप्यप्राप्तप्रापकत्वमस्तीति ।
तदसत् ।
क्षणभेदस्यापरामर्शान्न तदपेक्षा प्रमाणतोचितेति ।
क्षणिकता च 111मीमांसाजीवरक्षायां प्रतिक्षिप्तैवेति कृतमतिविस्तरेण ।
भाट्टाभिमतप्रमाणलक्षणखण्डनम् ।
नापि 112दृग्मविसंवाद्यगृहीतार्थग्राहकं प्रमाणमिति प्रमाणलक्षणमुपपद्यते ।
धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् ।
न च कालभेदावसायितया प्रामाण्योपपत्तिः ।
सतो ऽपि कालभेदस्यातिसौक्ष्म्यादनवग्रहात् ।
अपि च दृग्मिति किं निवर्त्त्यम् ? संशयज्ञानमिति चेत्, कः पुनरयं संशयः ? साधारणधर्मदर्शनादेकत्र अनेकधर्मावगमाद्वादिनामध्यवसीयमानविशेषाणां विप्रतिपत्तेश्चानध्यवसितविशेषे वस्तुन्यनियतविशेषविषयं विज्ञानं 113संशय इति तार्किकाः ।
यथा सन्तमसतिरोहितविशेषे वस्तुन्यूर्ध्वतामात्रदर्शनेन किमयं स्थाणुरुत पुरुष इति ।
तथा---प्रत्यक्षो वायुः स्पर्शवत्त्वात् पृथिवीवत् ।
तथा---अप्रत्यक्षो वायुररूपवत्त्वात् गगनवदिति ।
केचिन्नित्यं शब्दमाहुः, केचिदनित्यं इति वादिनां विवादात् जिज्ञासोस्तत्त्वे संशयो भवति इति ।
तदसत् ।
यौ हि धर्मौ संशय्येते, तयोरेकमिदं ज्ञानं नोदीयते, किन्तु द्बे एते विज्ञाने विशेषणस्मरणे ।
तयोश्च विशेषणयोरेकस्यापि तस्मिन् धर्मिणि निश्चयो नास्तीत्येकान्ततो व्यवहारं प्रतिपत्ता प्रवर्तयितुमशक्नुवन् संशेत इव भवतीति, भवति संशयव्यवहारः ।
ये च स्मरणे तयोर्गृहीतग्राहितयैव प्रामाण्यं निरस्तमिति किं दृग्ग्रहणेन ।
114अविसंवादिग्रहणमपि सर्वज्ञानानामर्थाव्यभिचारादविशेषकम् ।
ननु शुक्तिकायां रजतमिदमिति ज्ञानं, प्रतिबिम्बज्ञानं च व्यभिचारि दृश्यते ।
नैतदेवम् ।
यदि रजतज्ञानं रजतविषयं न स्यात्, ततो व्यभिचरत्यर्थम् ।
रजतविषयत्वे तु को व्यभिचारः? ननु नेदं ज्ञानं रजतविषयम्, किन्तु शुक्तिकाविषयमेव ।
उच्यते ।
शुक्तिकाविषयमित्यस्य को ऽर्थः ? किं यासौ शुक्तिकाव्यक्तिस्तामेव विषयीकरोति ? उत शुक्तिकात्वमेव ।
न तावद्शुक्तिव्यक्तिरनेन विषयीकर्तु शक्या ।
भिन्नत्वादाकारस्याकारिणश्च ।
न च समीचीनरजव्यक्तिरपि न रजतत्वबुद्ध्या गोचरीभवति, किं पुनः शुक्तिका व्यक्तिः ? शुक्तिकात्वं पुनरभासमानमेव विषय इति नोपपद्यते ।
अथोच्येत व्यवहारयोग्यतापत्तिर्विषयत्वमिति, तथापि शुक्तिकात्वमविषय एव ।
न हि तद् व्यवहारयोग्यतामापद्यते ।
अवभासमानतैव विषयत्वम् ।
तेन रजतत्वमेव विषयः ।
तच्च पुरोवर्तिनि न सम्भवतीति तद्विषयिणी स्मृतिरेवेयं कुतो ऽस्या व्यभिचारः ।
प्रतिबिम्बज्ञानं तु मुखाद्यवभावं मुखादिविषयमेव ।
भास्वरे हि दर्पणादौ नयनरश्मिर्निपतितः प्रतिहतः परावृत्तो मुखादिना संयुक्तस्तदेव मुखादि गृह्णाति ।
नन्वेवमपि सव्यदक्षिणविपर्यासो, देशविशेषान्यत्वपरिमाणाल्पत्वमहत्त्वप्रतिभासश्च निर्निबन्धनः ।
अत्राभिधीयते ।

मुखादेर्देशो न गृह्यते दर्पणादीनां त्वग्रहणमिति मुखादयस्तद्देशा इव भान्ति ।
अभिमुखेन मुखादिना नयनरश्मिः संयुक्त इति तथैव तदवगमात् सव्यदक्षिणविपर्यासो युक्त एव ।
अल्पत्वमहत्त्वे च दर्पणादे रश्मिप्रतिघातहेतोरल्पतया महत्तया च दोषभूतया मुखादिपरिमाणाग्रहणाद्दर्पणादिपरिमाणग्रहणाच्च मुखादिष्ववभासेते ।
तेन नास्ति व्यभिचारः ।
एवमादि च नयवीथ्यां निपुणतरमुपपादितमित्यनयैव दिशा सर्वत्र115 व्यभिचारो वर्जनीय इति नेदमपि प्रमाणलक्षणम् ।
प्राभाकरसम्मतं प्रमाणलक्षणम् ।
इदानीं स्वाभिमतं प्रत्यक्षलक्षणमाह ।
"प्रमाणमनुभूतिः"116 ।
न च स्मृतेः प्रामाण्यापत्तिरिति दर्शयति---"सा स्मृतेरन्या" इति अथ का स्मृतिः ।
"स्मृतिः पुनः---पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते" ।
नचैवं धारावहिकज्ञानानां स्मृतित्वम् ।
इन्द्रियार्थसन्निकर्षजत्वात् पूर्ववत् ।
मात्रग्रहणाच्च प्रत्यभिज्ञानस्य न स्मृतित्वम्, इन्द्रिय117सचिवसंस्कारजत्वात् ।
अथ कथं स्मृतिर्न प्रमाणम् ।
तत्राह "न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात्" ।
स्मृतिर्हि तदित्युपजायमानां प्राचीं प्रतीतिमनुरुद्ध्यमानां न स्वातन्त्र्येणार्थं परिच्छिनत्तीति न प्रमाणम् ।
स्मृतिप्रमोषस्तर्हि प्रमाणम् ।
न ।
सो ऽपि पूर्वप्रतीतिसव्यपेक्ष एव ।
तज्जन्यसंस्कारमात्राधीनजन्मत्वात् ।
धारावाहिकविज्ञानेषु तर्ह्युत्तरविज्ञानानि स्मृतिप्रमोषादविशिष्टानि कथं प्रमाणानि इत्यत्राह---"अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः" ।
व्याप्रियमाणे हि पूर्वविज्ञानकारणकलापे उत्तरेषामप्युत्पत्तिरिति न उत्पत्तितः प्रतीतितो वा धारावाहिकविज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमाणता ।
यद्यनुभूतिमात्रं प्रमाणं, ततो रजतमिदमिति यद् भ्रान्तिविज्ञानं, तदपि प्रमाणं स्यात् ।
अत्रोच्यते ।
रजतमिदमिति नेदमेकं विज्ञानम्, किन्तु द्वे एते विज्ञाने ग्रहणस्मरणरूपे ।
तत्र रजतमिति स्मरणं तस्यानुभवरूपत्वाभावान्न प्रामाण्यप्रसङ्गः ।
इदमिति विज्ञानमनुभवरूपं प्रमाणमिष्यत एव ।
भ्रान्तिरूपता रजतज्ञानस्यैव, ग्रहणव्यवहारप्रवर्तकतया 118व्यवहारे विसम्वादकत्वात् ।
ये ऽपि चैकमिदं विज्ञानं मिथ्याभूतमित्यास्थिषत; ते ऽपि बाधकप्रत्ययाधीनं मिथ्यात्वमभ्युपगच्छन्तो नेदमंशस्य मिथ्याभावं वदितुमीशते, तत्र बाधकप्रत्ययाभावात् ।
बाधकप्रत्ययदशायामपीदमंशस्यानुवृत्तेः ।
एकमपि विज्ञानमर्थावच्छेदसमाश्रितभेदं प्रमाणमप्रमाणं च युक्तमेव ।
पीतशङ्खादिज्ञानं तर्हि प्रमाणं प्रसक्तम् ।
तत्र हि पीतिमा शङ्खस्वरूपञ्च द्वयमनुभूयत एव ।
नयनगतपित्तद्रव्यवर्त्ती हि पीतिमाप्यनुभूयत एवेति नयवीथ्यां निपुणतरमुपपादितम् ।
शङ्खस्वरूपे चानुभूतिरविसंवादैव ।
नायं दोषः ।
को नाम पीतशङ्खज्ञानमप्रमाणमाह, प्रमाणमेव हि तद्, यथार्थविषयत्वात् ।
विज्ञानद्वयन्त्वेतदेकविज्ञानसाधारणरूपम्, तत्रैकविज्ञानसाधारणरूपावमर्शादेकविज्ञानसदृशव्यवहारप्रवर्तकतया व्यवहारदशायां विसम्वादमावहत् प्रमाणमपि सद् भ्रान्तमित्युच्यते ।
यत्र तु व्यवहारविसम्वादो नास्ति, तत्र भ्रान्तिरपि न व्यपदिश्यते ।
यथोष्णजलज्ञाने ।
तत्रापि न जलगतमौष्ण्यमनुभूयते, किन्तु वन्ह्न्यवयवगतमेव ।
जलगतस्यौष्ण्यस्य च वन्हयसंयोगेनोत्पादनानभ्युपगमात् ।
पाकजो हि गुणः पाकान्तरेणैव निवर्तते ।
जलगतस्यौष्ण्यस्यानपेक्षितपाकस्यैवाग्निसंयोगविच्छेदेनैव निवृत्तिः ।
गत्वरा हि तत्र तेजो ऽवयवाः सञ्चारितास्तेष्वन्यत्र गतेष्वपरतेजो ऽवयवसञ्चरणविच्छेदे युक्तैवापाकजत्वे पाकान्तरानपेक्षा औष्ण्यस्य निवृत्तिरिति, न पीतशङ्खादिज्ञानतुल्यत्वमुष्णजलज्ञानस्य ।
तस्मात् पीतशङ्खादिज्ञानं प्रमाणमेव भ्रान्तञ्चेत्यनवद्यम् ।
यस्तु विपरीतख्यातिवादी उष्णजलज्ञानमप्रमाणं भ्रान्तञ्चाह, तस्य सर्वलोकविरोधः ।
प्रमाणसंख्यानिरूपणम् ।
कतिविधं पुनः प्रमाणमित्यत्राह---"तत्र पञ्चविधं मानम्" ।
अनेनैकादिसंख्या, षडादिसंख्या च 119व्यवच्छिन्ना ।
काः पुनस्ता विधा इत्यत्राह--- शास्त्रं तथोपमानार्थापत्ती इति गुरोर्मतम्" ।
गौतमोक्तप्रत्यक्षलक्षणस्यानुवादः ।
किं पुनः प्रत्यक्षस्य लक्षणम् ।
केचिदाहुः---120इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति ।
इन्द्रियस्यार्थेन सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत् प्रत्यक्षम् ।
तत्र स च सन्निकर्षः षोढा भिद्यते---संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, संयुक्तविशेषणता चेति, ।
तत्र संयोगात् पार्थिवाप्यतैजसवायवीयानां द्रव्याणां चक्षुःस्पर्शनाभ्यां ग्रहणम् ।
प्राप्यकारि चक्षुः बहिरिन्द्रियत्वात् त्वगिन्द्रियवत् ।
तैजसं तद् रूपप्रतीतिहेतुत्वात् दीपवत् ।
तस्य रश्मयः प्रसरन्तो द्रव्येण संयुज्यन्ते ।
ते च पृथ्वग्रा इति पृथून्यपि द्रव्याणि 121प्राप्नुवन्ति ।
नन्वेवं दूरे अर्थ इति सान्तरालग्रहणं न स्यात्, प्राप्तौ सत्यां दूरत्वासंभवात् प्राप्यकारित्वात् स्पर्शनवत् ।
किञ्च संयोगस्य गतिनिबन्धनत्वाद् गतिमतां च क्रमेणासन्नदूरगमनात् समकालमासेदुषां दवीयसां चार्थानां ग्रहणं नोपपद्यते ।
उच्यते--- 122भोगायतनापेक्षया सान्तरालग्रहणं तावदुपपन्नम् ।
समसमयसंवेदने तु केचित्परिहारमेवं वर्णयन्ति ।
सकलानर्थान्प्राप्ययुगपदुपस्थितेन बाह्येन तेजसा सहैकीभूतास्ते चाक्षुषा रश्मयो युगपद्ग्रहणहेतव इति ।
123तदन्ये दूषयन्ति---इत्थं प्राप्तावभ्युपगम्यमानायामतिदूरव्यवहितानामप्यर्थानां ग्रहणं दुर्निवारम् ।
अन्येत्वाहुः---क्षेपीयस्तया तेषां रश्मीनां कालभेदानवग्रहाद्यौगपद्याभिमान इति ।
तदपरे नानुमन्यन्ते ।
अतिसन्निकृष्टेषु वस्तुषु गतिकालभेदः पद्मपत्रशतभेदवत् मा नाम अवसायि ।
124अनेकयोजनसहस्त्रान्तरितेषु भूमिष्ठेष्वर्थेषु ध्रुवे च सदैव कालभेदानवसायो न बुद्धिमनुरञ्जयति ।
125वयन्तु वदामः---अदृष्टसापेक्षत्वाददोषः ।
नयनरश्मिभिरेकीभूते ऽपि बाह्ये तेजसि यावानेव तस्य भागो ऽदृष्टवशेनोपलब्धिहेतुतयोपात्तः ।
तावानेवोपलब्धये प्रभवति, न सर्व इति, न सर्वोपलम्भो युगपत् भौमध्रुवादिसिद्धिश्च ।
ननु प्राप्यकारिणि नायने तेजसि काचाभ्रपटलतिमिरान्तरितेषु कथमुपलब्धिः ।
तैर्नयनरश्मेरप्रतिघातात् ।
ये126 पुनरप्राप्यकारि चक्षुराहुस्तेषां व्यवहितविप्रकृष्टार्थग्रहणं दुर्निवारम् ।
सन्निधान इव विप्रकर्षे ऽपि स्फुटतरमणीयांसो ऽप्यर्था गृह्येरन् ।
प्राप्य ग्रहणे तु तेजोवयवानामप्रचुरतया युक्तमस्फुटदर्शनं दवीयसाम्, क्षोदिष्ठानामदर्शनम् ।
अथ कस्मादणु पार्थिवादि आकाशकालदिगात्मानश्च न प्रत्यक्षेण गृह्यन्ते ।
उच्यते---महत्वमनेकद्रव्यत्वं रूपविशेषश्च सन्निर्ष इव प्रत्यक्षहेतुः ।

127अनेकद्रव्याभावात्परमाणोरदर्शनम् ।
अमहत्त्वाद्द्वयणुकस्य ।
आकाशादीनां त्वरूपत्वादद्द्रव्यद्रव्यत्वाच्चेति वेतितव्यम् ।
तत्रेदं बोध्यम्---त्रिविधं द्रव्यं संयोगाद्दर्शनस्पर्शनाभ्यां गृह्यते ।
संयुक्तसमवायाच्च तद्गतगुणानां रूपादीनां कर्मणाञ्च ग्रहणम् ।
संयुक्तसमेवतसमवायाच्च गुणत्व-कर्मत्व-रूपत्वादीनाम् ।
समवायात् शब्दग्रहणम् ।
कर्णशष्कुलोपरिच्छिन्नगगनमेव श्रोत्रम्, तद्गुणश्शब्द इति तत्त्वालोके निपुणतरमुक्तम् ।
समवेतसमवायाच्च शब्दत्वप्रतीतिः ।
संयुक्तविशेषणतयाभावग्रहणम्, अफलवती शाखेति ।
नैयायिकमतखण्डनम् ।
128तदयुक्तम्---यदि महत्त्वानेकद्रव्यतवरूपवत्त्वान्येव प्रत्यक्ष 129निमित्तम्, तदा वायोरप्रत्यक्षता स्यात् ।
न च वाच्यमिष्यत एवेति ।
स्पर्शनेन तदुपलम्भात् ।
स्पर्शमात्रं तेनोपलम्भते, न वायुद्रव्यमिति चेत् ।
शीतोष्णानुष्णाशीतस्पर्शेषूपलभ्यमानेषु प्रत्यभिज्ञायमानत्वाद्द्रव्यस्य ।
यदा हि तैजसमुष्णत्वं जलगतञ्च शीतत्वं वायोश्चानुष्णाशीतत्वं स्पर्शनेन वायौ वाति सति प्रतीयते, तदा प्रत्यभिज्ञायते द्रव्यं तदेवेदिमिति ।
तेन न स्पर्शमात्रप्रतीतिः ।
तस्माद्रूपवत्त्वमिव स्पर्शवत्तापि प्रत्यक्षे हेतुरित्युसंख्यानं कर्तव्यम् ।
यच्च संयुक्तसमवेतत्वात्कर्मणां प्रत्यक्षत्वमुक्तम्, तदप्ययुक्तम् ।
तस्य संयोगविभागलक्षणफलानुमेयत्वात्130 ।
एतच्च पञ्चिकाद्वये प्रपञ्चितम्, अत्रापि चानुमानपरिच्छेदे वक्ष्यामः ।
131यच्च संयुक्तसमवेतसमवायाद्गुणत्वादीनां ग्रहणमिष्टं, तदपि तेषामभावादेवायुक्तम् ।
समवेतसमवायाच्च शब्दत्वग्रहणमप्येवमेवानुपपन्नम् ।
संयुक्तविशेषणतयाभावग्रहणमत्रैव132 133निराकरिष्यामः ।
अन्यच्च समवायविशेषणता नाम सन्निकर्षान्तरं किमिति नेष्यते ।
यथा गोरश्वस्य चान्योन्याभावप्रतीतये संयुक्तविशेषणता नाम सन्निकर्षान्तरमाश्रीयते134; तथा 135ककारखकारयोरपीतरेतराभावावगमाय समवेतविशेषणतालक्षणं सन्निकर्षान्तरमभ्युपगन्तुमुचितम् ।
तस्मार्त्तिविध एव सन्निकर्षः प्रत्यक्षहेतुः---संयोगः, संयुक्तसमवायः, समवायश्चेति ।
अव्यपदेश्यमिति किमर्थम् ? इन्द्रियार्थसन्निकर्षोत्पन्नस्य शाब्दताशङ्का136निराकरणर्थम् ।
यदा हि---रूपं रूपमिति 137जानाति रसं रस इति जानाति तदा शब्दसञ्जल्पसम्भवात् शाब्दताशङ्का कस्यचित् स्यात् ।
तन्निराकरणायाव्यपदेश्यमित्युक्तम् ।
न हीन्द्रियार्थसन्निकर्षजे ज्ञाने शब्दस्य व्यापृतिरस्ति, यतश्शाब्दता स्यादिति ।
138तदिदमसङ्गतम् ।
लक्षणं हि प्रत्यक्षस्य वक्तव्यम् ।
येन रूपेण सजातीयविजातीयेभ्यो भेदस्तदेव लक्षणम् ।
तत्र तावत् शाब्दाद्भेद इन्द्रियार्थसन्निकर्षजत्वेनैव सिद्धः ।
शब्दसञ्जल्पनानुवद्धिस्य प्रत्यक्षस्य शाब्दत्वाशङ्का शाब्दपरीक्षापर्वणि निराकर्तुमुचिता 139अनुमानशङ्केव सर्वस्य 140शाब्दस्य ।
अव्यभिचारिपदञ्चविपर्ययनिराकरणाय यदुक्तम्, तत् सर्वज्ञानानामव्यभिचारित्वादविशेषकमित्युक्तम् ।
व्यवसायात्मकतापि संशयनिवृत्यर्थं न वक्तव्या ।
स्थाणुर्वा पुरुषो वेति हि स्मृतिज्ञानद्वयम्; एतच्च नेन्द्रियार्थसन्निकर्षजमिति न तस्य प्रत्यक्षताप्रसक्तिः ।
किञ्चाव्यभिचारिपदेनैव संशयस्यापि व्यावृत्तिः सिद्धाः ।
तस्यापि यथाज्ञायमानार्थव्यभिचा रत्वात् ।
अपि चाव्यभिचारिता व्यवसायात्मकता च न प्रत्यक्षलक्षणम्, किन्तु प्रमाणलक्षणम् ।
तेन सामान्यतः प्रमाणलक्षणं कृत्वा, तद्विशेषस्य प्रत्यक्षस्य प्रातिस्विकं सजातीयविजातीयव्यावृत्तिसमर्थं लक्षणं वाच्यम्---ऽइन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षमिति ।
अस्मिन्नपि लक्षणे ऽनुमानादिप्रमितिः स्वात्मनि, प्रमातरि च न 141प्रत्यक्षा स्यादनिन्द्रियजत्वात् ।
धर्मकीर्तीयस्य प्रत्यक्षलक्षणस्यानुवादः ।
142अपरे पुनराहुः---ऽकल्पनापोढमभ्रान्तं प्रत्यक्षमिति ।
कल्पना---जात्यादियोजना, तया रहितं यद्विज्ञानं, तत्प्रत्यक्षम् ।
तथाभूतमेव तैमिरिकादीनां केशोण्ड्रकादिज्ञानं प्रत्यक्षं मा प्रसाङ्क्षीदित्युक्तमभ्रान्तमिति ।
143तच्चतुर्विधम्---इन्द्रियज्ञानम्, सर्वचित्तचैत्तानां स्वसंवेदनम्, मानसम्, योगिज्ञानञ्चेति ।
यदिन्द्रियाणामर्थेन सन्निकर्षादुपजायते, तदिन्द्रियज्ञानं पञ्चसु रूपादिषु पञ्चविधम् ।
सर्वज्ञानानां स्वसंवेदनं विकल्पविरहात्प्रत्यक्षम् ।
सुखादयस्तु 144विज्ञानाभिन्नहेतुकतया न तस्माद्भिद्यन्त इति ते ऽपि स्वसंविदिता एव ।
मानसन्त्विन्द्रियज्ञानेन स्वविज्ञेयक्षणानन्तरक्षणसहकारिणा जन्यते ।
तस्य चेन्द्रियज्ञानग्राह्यस्यानन्तर एव क्षणो ग्राह्यः ।
ननु जन्यज्ञानसमये जनकस्यार्थक्षणस्यातीतत्वात्कथमर्थस्य145 प्रत्यक्षग्राह्यता ।
उच्यते---एतदेव ग्राह्यतवमर्थानां यदुत्पादकत्वं स्वरूपार्पकत्वञ्चेति ।
अर्थाकारं प्रत्यक्षं ज्ञानम् ।
अन्यथा निराकारा संवित्तिः कथं रूपादिसंवित्तिव्यवस्थां लभेत ।
अत एवार्थसारूप्यं प्रमाणम्, तस्यैव व्यवस्थाहेतुत्वात् ।
अर्थेन सारूप्यं विज्ञानं घटयति नेन्द्रियादि, इति न तत्प्रमाणम् ।
नन्वेकस्याकारस्य प्रतीतेस्तस्य च ज्ञान एव 146अवस्थितत्वात्कथमर्थस्य प्रत्यक्षता ।
उच्यते---योर्ऽथो ज्ञानस्याकारमात्मनो ऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष इति न दोषः ।
147किञ्च साकारता ज्ञानस्याश्रयणीया ।
अन्यथा स्वप्नादिष्वसति बहिरर्थे कस्याकरः प्रकाशेत ।
प्रकाशात्मकज्ञानाद्बहिर्भूतश्चाकारः कथं प्रकाशेत, जडस्य प्रकाशायोगात् ।
अपि चार्थस्य वित्तेश्च सहोपलम्भो नियतः ।
स च भेदादनियमव्याप्ताद्व्यापकविरुद्धोपलब्ध्या148 निवृत्तो ऽभेदे ऽवतिष्ठमानो ऽभेदमनुमापयति ।
149भेदावभासस्तु द्विचन्द्रादिप्रतीतिवदनादिवासनानिबन्धन इति परिकल्पनीयम् ।
भूतार्थभावनाप्रकर्षपर्यन्तजञ्च योगिज्ञानम् ।
प्रमाणप्रतीतमर्थं परोक्षमपि भावयतो यद्भावनायाः परमे प्रकर्षे सत्यपरोक्षावभासं ज्ञानं जायते, तत्प्रत्यक्षम् ।
स्पष्टप्रतिभासत्वेन निर्विकल्पकत्वात् ।
न हि विकल्पानुविद्धस्य प्रत्ययस्यस्पष्टार्थप्रतिभासतास्तीति ।
तन्निराकरणम् ।
150एतदनुपपन्नम् ।
सविकल्पकविज्ञानानां151 जात्यादियोजनयोदीयमानानामिन्द्रियज्ञानानां प्रत्यक्षतापाकरणात् ।
अथोच्येत जातिगुणयोर्द्रव्यात्पृथक्त्वेनाग्रहणाद्भेद एव नास्ति ।
तेन ताभ्यामविद्यमानाभ्यां योजयित्वा जायमानं जातिगुणकल्पनाज्ञानं न प्रत्यक्षमिति ।
तदप्यसत् ।
152एकैकद्रव्यव्यतिरेकेण द्रव्यान्तरे ग्रहणात्पृथक्त्वेनाग्रहणस्यासिद्धेः ।
एकस्मिन्नपि द्रव्ये द्रव्यान्तराद्व्यावर्तमाने अनुवर्तमानयोर्जातिगुणयोर्भेदावगमादिति जातिनिर्णये निर्णीतम् ।
कर्मकल्पना तु न प्रत्यक्षमित्यनुमतमेव, अनुमेयत्वात्कर्मणः ।
द्रव्यकल्पना तु विषाणी, दण्डीति च न प्रत्यक्षतामतिवर्तते, 153इन्द्रियव्यापारानुविधायित्वात् ।

नामकल्पनापि देवदत्तो ऽयमिति प्रत्यक्षा, इन्द्रियव्यापारानुविधायित्वात्1 तत्र यद्यपि वर्णात्मकं नाम स्मरणनिविष्टम्; तेन सह वाच्यवाचकभावो ऽपि स्मृतिसमारूग् एव ।
तथापि 154संज्ञी प्रत्यक्षतां न मुञ्चति ।
न हि संज्ञा, तत्सम्बन्धो वा तदानीमेकविज्ञाने विशेषणत्वेन प्रतिभातः ।
किन्तु एतौ स्मृतिसमारूगवेव ।
संज्ञिनि हि दृश्यमाने प्रागनुभूतौ तौ स्मृतिमारोहतः ।
अत एवोक्तम्--- संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।
संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥
इति अतः नामयोजनया जायमानं ज्ञानं न प्रत्यक्षमिति 155ये वदन्ति ते ऽप्यनयैव दिशा निराकृताः ।
ऐन्द्रियके ज्ञाने नामयोजनायाः सम्भवात् ।
अपि च जातिगुणयोप्रत्यक्षत्वमिच्छतो न किञ्चित्प्रत्यक्षमवकल्पते156 ।
न हि रूपशून्या काचिद्रूपिबुद्धिरस्ति ।
जातिगुणौ157 च रूपिणां रूपे ।
सर्वा हि प्रतीतिः एवमित्युपजायते, प्रकारश्चैवंशब्दार्थः ।
जातिगुणौ चार्थानां प्रकारभूतौ ।
अतस्ताभ्यां योजयन्त्येव सर्वा इन्द्रियप्रतीतिस्समुत्पद्यत इति निर्विषयं कल्पनापोग्पदम् ।
अभ्रान्तपदमपि सर्वज्ञानानां स्थूलावभासित्वात् ग्राह्यग्राहकसंवित्तिभेदयोगित्वात्सौगतानां निर्विषयमेव ।
यच्च मानसं नाम प्रत्यक्षमुक्तं 158तद्धारावाहिकविज्ञानान्नातिरिक्तं मन्यामहे ।
स्यान्मतम् ।
159अनुपरते इन्द्रियव्यापारे इन्द्रियज्ञानम्, उपरते त्वनन्तरक्षणप्रभवं मानसमिति ।
तदयुक्तम्---इन्द्रियव्यापारोपरमस्याप्यपरोक्षार्थप्रतीतिफलसम्भवे सत्यसिद्धत्वात् ।
यच्चातीतार्थविषयं मानसमित्युक्तम् ।
तदप्ययुक्तम् ।
वर्तमानस्याकारस्य प्रतीतेः ।
न चायमाकारो वित्तेरेव;वेद्यतया वित्तेः 160पृथगवभासनात्, वित्तिर्हि वित्तितया, वेद्यश्चाकारो वेद्यतयावभाति इति, न तयोस्तदात्मकतोपपद्यते ।
यच्चोक्तं भेदावभासो भ्रम इति ।
तदपि कारणाभावादयुक्तम् ।
न चार्थवित्तिव्यवस्थैव भेदहेतुः, निराकाराणामपि वृत्तीनां स्वभावत एव विशिष्टार्थसम्बन्धितया स्फुरणात् ।
अर्थसारूप्यञ्च यद्व्यवस्थाकारणमुक्तम् ।
तदसिद्धम् ।
स्थूलावभासित्वाज्ज्ञानानाम्, अणुरूपत्वाच्चार्थस्य ।
किञ्च यदि 161तत्सारूप्यं तदुत्पत्तिसंवेद्यतालत्तणम्, ततस्समानाकारस्य समनन्तरप्रत्ययस्यापि वेद्यता स्यात् ।
स्वप्नादिष्वपि बाह्यस्यवार्थस्याकारः स्मृतौप्रथत इति नयवीथ्यां साधितम् ।
यच्च जडस्य प्रकाशायोगादित्यभेदकारणमुक्तम् ।
तदप्ययुक्तम् ।
जडस्यैव प्रकाशसम्बन्धो घटते ।
162तदात्मकता तु नेष्यत एव ।
अपि च यदि ज्ञानानतिरिक्तस्यैव प्रकाशः, तदा ग्राह्यग्राहकवित्तीनां भेदस्य कथं प्रकाशः ।
तस्यालीकस्य 163ज्ञानस्वरूपाननुप्रविष्टत्वात् ।
यच्च सहोपलम्भनियमादभिन्नत्वमाकारस्य वित्तेश्चोक्तम् ।
तदप्यसारम् ।
वित्तेर्भेदे ऽप्यर्थस्य नियमोपपत्तेः ।
यैव हि संवित्तिः, सैव तस्यार्थस्योपलब्धिरिति कथमसौ तां विना प्रकाशेत ।
यच्च स्वसंवेदनं सर्ववित्तीनां प्रत्यक्षमुक्तम् ।
तदनुमन्यामहे एव ।
सुखादीनां यत् तदभिन्नहेतुतया तदभेदात्स्वसंवेदनमिष्टम् ।
तदनुपपन्नम् ।
हेत्वभेदस्यासिद्धेः ।
अर्थस्य ज्ञानहेतुत्वात् ।
ज्ञानस्य सुखादिनिमित्तत्वात् ।
असन्निहिते ऽप्यर्थे ज्ञानमात्रात् स्वप्नादिषु सुखाद्युपपत्तेः ।
यच्च योगिज्ञानं प्रत्यक्षमिति मतम् ।
तदप्यसत् ।
प्रमाणविशेषो हि प्रत्यक्षम् ।
न च भूतार्थभावनाप्रकर्षपर्यन्तजस्य योगिज्ञानस्य प्रमाणतैव सम्भवति, स्मृतिरूपत्वात् ।
प्रमाणेन हि भूतभर्थं परिच्छिद्य या भावना, सा स्मृतिसन्ततिरेव ।
तत्प्रकर्षजमपि ज्ञानं स्मृतिविशेष एवेति न प्रमाणम्, न वा प्रत्यक्षमित्यलमतिविस्तरेण ।
वृत्तिकारमतस्यानुवादतन्निरासौ ।
164यदपि केचिन्मन्यन्ते "तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम्" [1-1-4] इति प्रत्यक्षलक्षणम् ।
तदप्यव्यापकत्वादलक्षणम् ।
स्वात्मनि लिङ्गादिजापि प्रतीतिः प्रत्यक्षत्वेनेष्यते, सकलप्रतीतीनाञ्च स्वरूपं प्रति प्रत्यक्षताभिमतेति, 165किमिदमुच्यते---तत्सम्प्रयोग इति ।
उच्यते---ये शुक्तिकारजतादिज्ञानादिष्वपि प्रत्यक्षतामाहुः, ते निराक्रियन्ते ।
प्रमेयेषु हि लोके तदेव प्रत्यक्षमित्युच्यते यद्विषयं ज्ञानम्, तेनैवेन्द्रियाणां सम्प्रयोगे पुरुषस्य यद् ज्ञानं जायते ।
न च शुक्तिकासम्प्रयुक्ते चक्षुषि यद्रजतज्ञानं जायते तदेवंविधतम् ।
तस्मान्न रजतज्ञानं प्रत्यक्षम् ।
रजतज्ञानं हि रजतविषयम्, न च रजतेनेन्द्रियं सम्प्रयुक्तम्, रजतस्य तत्रासन्निहितत्वात् ।
166तस्मान्न रजतज्ञानं प्रत्यक्षम् ।
किन्तर्हि स्मरणं तत्, इति दर्शयितुं सूत्रमिदमिति वर्णनीयम् ।
गुरुमतेन प्रत्यक्षलक्षणम् ।
स्वाभिमतमिदानीं प्रत्यक्षलक्षणमाह--- "साक्षात्प्रतीतिः प्रत्यक्षमि"ति ।
ननु भावनाप्रकर्षपर्यन्तजा स्मृतिरपि साक्षात्कारवती प्रत्यक्षं प्रसज्यते ।
न ।
प्रमाणाधिकारात् ।
अनुभूतिः प्रमाणम्, तद्विशेषश्च प्रत्यक्षमिति न 167स्मृतेः प्रत्यक्षत्वापत्तिः ।
प्रत्यक्षस्य 168विषयमाह---"मेयमातृप्रमासु सा" ।
तत्र विभागमाह---"मेयेष्विन्द्रिययोगोत्था" द्रव्यजातिगुणेष्विन्द्रियसंयोगोत्था सा-प्रत्यक्षा प्रतीतिः मेयेष्विन्द्रियसंयोगेन, तत्संयुक्तसमवायेन, समवायेन च जायते ।
कानि पुननिन्द्रियाणि ? घ्राण-रसन-नयन-त्वक्-श्रावणानि बाह्यानि, आन्तरञ्च मनः ।
किं पुनरेषामस्तित्वे, भेदे च प्रमाणम् ? उच्यते---विषयावबोधस्तावत्कादाचित्को दृश्यते, तस्य चात्मा समवायिकारणम्, असमवायिकारणेन विना कार्यं न जायते ।
तच्चासमवायिकारणं समवायिकारणप्रत्यासन्नं भवति ।
प्रत्यासत्तिश्च द्विधा दृष्टा---कार्यसमवायस्तत्कारणसमवायश्च ।
अग्निसंयोगो हि पाक्यद्रव्यसमवेतो ऽसमवायिकारणभूतस्तत्रैव गन्धादिकमारभते ।
तन्तुरूपाणि पटकारणभूतेषु तन्तुषु समवेतानि पटरूपारम्भे ऽसमवायिकारणानि ।
तत्र तावदात्मनो नित्यत्वात्तत्कारणसमवेतमसमवायिकारणं न भवतीत्यात्मसमवेतमेव गुणान्तरमसमवायिकारणमाश्रयणीयम् ।
तत्र नित्यद्रव्यसमवायिनो वैशेषिकगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणत्वेनावधारितः ।
पार्थिवपरमाणुषु रूपादयो ऽग्निसंयोगमेवासमवायिकारणमाश्रित्योत्पद्यमानाः प्रतीता इत्यात्मनो ऽपि बोधाख्यो धर्मो द्रव्यान्तरसंयोगमेवासमवायिकारणमाश्रयते ।
तस्य च द्रव्यस्याश्रयभूतद्रव्यान्तरसद्भावे प्रमाणाभावादद्रव्यद्रव्यत्वं निश्चीयते1 द्विविधं चाद्रव्यद्रव्यम्--- परममहदाकाशादिकम्, परमाणुरूपञ्च ।
तत्रास्य द्रव्यान्तरस्य परममहत्त्वोपगमे संयोग एवानुपपन्नः ।
संयोगकारणाभावात् ।
यो हि संयोगः साक्षात्प्रतीयते, सो ऽन्यतरकर्मजः, उभयकर्मजः, संयोगजो वा ।
तेन नियतकारणत्वेन संयोगस्यावगतत्वात्, तदभावे संयोग एव नास्तीति निश्चीयते ।

न च परमहतोः साक्षात्संयोगो 169भवति, न वानुमातुं शक्यत इति पारिशेष्यादणुत्वमेव तस्य 170द्रव्यस्याश्रीयते ।
अणुत्वे च तत्कर्मवशादेव संयोगोदयो नानुपपन्नः ।
तत्कर्मोत्पत्तौ च प्रयत्नवदात्मनः संयोग एव कारणम्, शरीरकर्मवत् ।
प्रयत्नाभावे171 चादृष्टवदात्मसंयोगकारणता वायुतिर्यक्पवनवत् ।
तदुक्तम्--- 172अग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्म अदृष्टकारित, [वै. द. अ. 5. आ. 2. 13.] मिति1 सुखदुःखेछाद्वेषप्रयत्नानुभवे यत्, तत् द्रव्यान्तरं मनश्शद्बाभिधेयं निरपेक्षं कारणम्, सर्वस्मृतिषु173 पूर्वग्रहणजनितसंस्कारोद्बोधसहकार्यनुगृहीतमिति 174विवेक्ततव्यम् ।
एतेन 175यदाहुः--- षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
[अभि. ध. को. स्था.-17] इति, तदपि निराकृतम् ।
द्रव्यान्तरसंयोगस्यैव नित्यद्रव्यगतवैशेषिकगुणारम्भे ऽसमवायिकारणत्वेन दृष्टत्वात् ।
रूपग्रहणे रूपवदालोकस्य निमित्तत्वदर्शनाद्रूपवदेवेन्द्रियं रूपग्रहणनिमित्तमिति कल्पनीयम् ।
तथा---गन्धवदेव गन्धग्रहणे निमित्तम् ।
तथा---स्पर्शवच्च स्पर्शग्रहणे निमित्तम् ।
रसवच्च रसग्रहणे निमित्तम् ।
शद्बवदेव शद्बग्रहणे निमित्तम्, इति वेदितव्यम् ।
तेन गन्धवत्पार्थिवं घ्राणं गन्धग्रहणकारणम्, रसवच्चाम्भसं रसनं रसानुभवनिमित्तम् ।
रूपवच्च तैजसं चक्षू---रूपदर्शनहेतुः ।
वायवीयं स्पर्शवत् त्वगिन्द्रियं176 स्पर्शग्रहणहेतुः ।
शद्बगुणवच्चाकाशं श्रोत्रेन्द्रियं शद्बग्रहणहेतुः ।
इन्द्रियसम्बन्धापन्नस्यापि177चार्थस्य विषयान्तरासक्तचित्तस्याप्रतिपत्तेः178 मनस्संयोगापेक्षा इन्द्रियाणामाश्रहीयते ।
तेनाभ्यन्तराणां सुखादीनां ग्रहणे सन्निकर्षद्वयं कारणम्---आत्ममनस्संयोगाख्यः179 सन्निकर्षः, सुखादिमनस्सन्निकर्षश्च संयुक्तसमवायलक्षणः ।
बाह्यरूपादिग्रहणे च सन्निकर्षचतुष्ट्यं कारणम्---आत्ममनस्सन्निकर्षः, मन इन्द्रियसन्निकर्षः, द्रव्येन्द्रियसन्निकर्षः रूपेन्द्रियसन्निकर्षश्च ।
180प्रमेयविभागमाह-"द्रव्यजातिगुणेषु सा" इति ।
सा-इन्द्रियसंयोगोत्था प्रतीतिः द्रव्यजातिगुणेषु भवति ।
स्पर्शवन्महत्त्वयुक्तं द्रव्यं पार्थिवम्, आप्यम्, तैजसम्, वायवीयञ्च, चतुर्विधमैन्द्रियकम् ।
तथाविधद्रव्योदयकारणम्, तत्र प्रमाणञ्च जातिनिर्णये निर्णोतम् ।
जातिसद्भावो ऽपि जातिनिर्णय एवोक्तः ।
181गुणस्तु---रूपरसगन्धस्पर्शाः संख्यापरिमाणपृथक्त्वानि संयोगविभागौ परत्वापरत्वे बुद्धिसुखदुःखेच्छाप्रयत्नाश्च प्रत्यक्षग्राह्याः ।
क्वचिद्द्रव्याग्रहणे ऽपि रूपादीनां ग्रहणम्, रूपाद्यग्रहणे ऽपि द्रव्यस्येति, नास्ति द्रव्यगुणयोर्ग्रहणं प्रति नियमः ।
द्विविधा चेयं 182द्रव्यादिप्रतीतिः ।
"सविकल्पाविकल्पा च प्रत्यक्षा बुद्धिरिष्यते" ।
इति ।
183विभजति--- "आद्या विशिष्टविषया स्वरूपविषयेतरा" ।
इति ।
प्रथमं हि स्वरूपमात्रग्रहणं द्रव्यजातिगुणेषूपपद्यते184 ।
तच्च स्वानुभवसिद्धम् ।
समाहितमनस्को हि विषयान्तरानुसन्धानशून्य इन्द्रियसंयुक्तं वस्तु साक्षादुपलभत इति स्वसंविदेवात्र प्रमाणम् ।
निर्विकल्पकनिरूपणम् ।
तस्य न स्वलक्षणमात्रं विषयः ।
जात्याद्यकारावभासस्य185 स्पष्टत्त्वात् ।
नापि सामान्यमात्रं186 विषयः ।
भेदग्रहणस्य प्रतीतिसिद्धत्वात् ।
187"लब्धरूपे क्वचित् किञ्चिद् [ब्र. सि.] इत्यादि" यदुच्यते, तदितरेतराभावविषयम्, न तु वस्तुभेदविषयम् ।
188वस्तुभेदप्रतीत्युत्तरकालं हि परस्पराभावो ऽवसीयते ।
घटं घटाकारतया, पटञ्च पटाकारतया विदित्वायं स न भवतीति 189तयोरितरेतराभावं प्रतिपद्यते ।
घटादिविज्ञानञ्च190 वस्त्वन्तरग्रहणानपेक्षमित्यप्रतीते ऽपि191 वस्त्वन्तरे, तद्ग्रहो नानुपपन्नः ।
तस्मात्सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानं प्रत्यक्षं प्रथममुपपद्यते192 ।
किन्तु वस्त्वन्तरानुसन्धानशून्यतया सामान्यविशेषतया न प्रतीयते ।
अनुगतं हि सामान्यमुच्यते, व्यावृत्तिश्च विशेषः ।
न च वस्त्वन्तरानुसन्धानमन्तरेणानुगतिव्यावृत्ती प्रत्येतुं शक्यते ।
अप्रतिपद्यमानो ऽपि च ते, शक्नोत्येव स्वरूपं तयोः प्रतिपत्तुमिति, निर्विकल्पकमसामान्यविशेषविषयम् ।
सविकल्पकनिरूपणम् ।
सविकल्पकन्तु तत्पृष्ठभावि त एव वस्तुनी सामान्यविशेषात्मना प्रतिपद्यते ।
ननु वस्त्वन्तरानुसन्धाने नेन्द्रियं समर्थम् ।
इन्द्रियसामर्थ्यसमुत्थञ्च प्रत्यक्षमिति, कथं सामान्यविशेषात्मकं प्रत्यक्षस्य विषयः ।
उच्यते---भवेदेतदेवं यदीन्द्रियाण्येव चेतनानिस्युः; ज्ञानानि वा ।
आत्मा त्वेकः सर्वानुभवितव्यानुभविता संस्कारवशेन वस्त्वन्तरमनुसन्धदिन्द्रियेण192 सामान्यविशेषात्मना वस्तु शक्नोत्येव प्रत्येतुम् ।
तथा निर्विकल्पकेन सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानेनापि तयोर्भेदो गृहीतुं न शक्यते ।
न हि वस्तुभेदमात्रेण भेदबुद्धिः193, किन्तु धर्मान्तरग्रहो ऽपि194 भेदबुद्धौ सहकारी ।
तेनानुगतिव्यावृत्ती धर्मान्तरभूते ऽगृह्णतः सत्यपि सामान्यविशेषयोर्भेदे भेदबुद्धिर्नासीत्, उत्तरकाले च वस्त्वन्तरानुसन्धानेन ते प्रतिपद्य भिन्नत्वमवसीयते ।
भेदे सति विशेषणविशेष्यभावावसाय इति, न निर्विकल्पकदशायां विशिष्टबुद्धिः ।
195सविकल्पकदशायान्तु विशेषणविशेष्यभावमवगच्छति ।
गुणप्रतीतावपि निर्विकल्पकं न विशिष्टतया द्रव्यमवच्छिनत्ति, द्रव्यगुणयोर्भेदानवगमात् ।
अन्वयव्यतिरेकाभ्यां हि गुणजात्योर्द्रव्याद्भेदो ऽवगम्यते196 ।
न च निर्विकल्पके ऽन्वयव्यतिरेकाद्यनुसन्धानमस्तीति, तेन न 197भेदग्रहः, अगृहीतभेदञ्च तत् न विशिष्टतां ग्रहीतुमीष्टे इति सविकल्पक एव विशिष्टप्रत्ययः ।
नामकल्पनायामपि शद्बवाच्यतायाः स्मर्यमाणाया एव 199विशेषणत्वम् ।
कर्मकल्पनाप्येवमेव व्याख्येया ।
200प्रत्ययान्तरोपस्थापिते ऽपि विशेषणे विशिष्टप्रत्ययो भवत्येव ।
आत्मनः प्रमातृत्वान्निर्विकल्पकपृष्ठभाविनश्च सविकल्पकस्य गृहीतग्राहित्वे ऽपि धारावाहिकन्यायेन 201प्रमाणत्वं वेदितव्यम् ।
विशेष्यविशेषणभावातिरेकेणागृहीतग्राहकतापि सम्भवत्येव सविकल्पकस्य ।
अस्य च बाह्यवस्तुविषयत्वं जातिनिर्णये निर्णोतम् ।
न चेदमनिन्द्रियजं ज्ञानम्, इन्द्रियाधीनप्रवृत्तित्वात् ।
अपरोक्षार्थावभासो ह्ययं सविकल्पकप्रत्ययः ।
स तादृशो नेन्द्रियव्यापारमन्तरेणास्ति ।
त्रिपुट्या निरूपणम् ।
सम्प्रति मातरि मितौ च प्रत्यक्षं व्याख्यातुमाह--- "सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा ।
साक्षा202त्कर्तृत्वसामान्यात्प्रत्य203क्षत्वेन सम्मता" ॥
इति ।
204या काचिद्ग्रहणस्मरणरूपार्ऽथप्रतीतिः, तत्र साक्षादात्मा भाति ।
न ह्यर्थावभासिन्यात्मन्यनवभासमाने विषया भासन्ते ।
सर्वा हि प्रतीतिरेवमुपजायते ऽहमिदं जानामीति, न पुनर्जानातीत्येवं काचिद्बुद्धिरस्ति ।
तदा205 च स्वपरसंवेद्ययोरनतिशय सङ्गस्सयात् ।

न च 206प्रत्ययान्तरविषयत्वेन नियमः सम्भवति ।
एकप्रतीतिविषयत्वे युक्त एव सहोपलम्भनियमः ।
207तस्मात्सर्वैरेव ज्ञानहेतुभिरात्मनि साक्षात्कारवती धीरुपद्यते ।
विषयापेक्षया प्रमाणान्तरत्वनिरूपणम् ।
नन्वेवं तर्हि सर्व प्रत्यक्षं प्रसक्तम् ? यदि मात्रभिप्रायम् ।
इष्टमेव ।
प्रमेयाभिप्रायमिति चेत् ।
न ।
सर्वत्र प्रमेयस्यापरोक्षत्वनियमाभावात् ।
स्मृतिष्वनुमानादिषु208 च न प्रमेयमपरोक्षम् ।
तेन 209प्रमेयापेक्षयैव प्रमाणान्तरत्वव्यपदेश इति मन्तव्यम् ।
सर्वाश्च प्रतीतयः स्वयं प्रत्यक्षाः प्रकाशन्ते ।
तेन तासां स्वात्मनि युक्तमेव प्रत्यक्षत्वम्, प्रमाणत्वञ्च ।
ज्ञानस्य स्वप्रकाशत्वनिरूपणम् ।
मेय-मातृ-प्रमाणानां 210प्रतीतौ विशेषः कः ? उच्यते--- मेये मातरि च व्यतिरिक्ता प्रतीतिः साक्षात्कारवती, मितौ त्वव्यतिरिक्ता ।
इदमहं गृह्णामीति वा, इदमहं स्मरामीति वा त्रितयमेवावभासते ।
211मेयमात्रवभासरूपा संविदेका ।
न तु 212तस्यां संविदन्तरं चकास्ति ।
न च सा नावभाति ? 213तदनवभासे सर्वानवभासप्रसङ्गात् ।
किञ्चाप्रकाशस्वभावानि मेयानि, माता च प्रकाशमपेक्षन्ताम् ।
प्रकाशस्तु प्रकाशात्मकत्वान्नान्य214मपेक्षते ।
जाग्रतो हि मेयानि माता च प्रकाशन्ते ।
सुषुप्तस्य तदा न तत् द्वयमपि प्रकाशते ।
न च तदानीं तद् द्वयमपि नास्त्येव, प्रबोधे प्रत्यभिज्ञानात् ।
तत्र प्रकाशात्मकत्वे तु सुषुप्तिदशायमापि तत् द्वयं प्रकाशेत ।
तस्मादप्रकाशात्मकं तत् द्वयमप्यङ्गीक्रियते ।
प्रकाशस्य त्वप्रकाशमानस्य सत्तैव नाभ्युपेयते ।
तस्मात्स्वयंप्रकाशसमय215 एव मेयमातृप्रकाशः ।
किञ्च स्वत एव यदुपपद्यते, न तत्र परापेक्षा युक्ता ।
मेयानां मातुश्च स्वयं प्रकाशो न नोपपद्यत इति, युक्ता तयोः परापेक्षा ।
मितौ च काचिदनु पपत्तिर्नास्तीति स्वयम्प्रकाशैव मितिः ।
सौत्रानितकमतेन पूर्वपक्षः ।
तत्राहुः--- 216स्वयम्प्रकाशा चेन्मितिरभ्युपेयते, तदा निराकारस्य प्रकाशायोगादवश्यमाकारो ऽभ्युपगमनीयः ।
217एकश्चायमाकारो ऽवभासते, तेन प्रकाश एव तदाकार इति युक्तम् ।
किञ्च निराकारत्वे प्रकाशस्य प्रतिकर्मव्यवस्था नोपपद्यते, न हि तस्य सर्वार्थेषु कश्चिद्विशेषः ।
अर्थाकारत्वे तु यस्याकारो ऽसौ, तस्येति घटते प्रतिविषयव्यवस्था ।
तदाहुः---"न हि 218संवित्तिसत्तयैव तद्वेदना219 युक्ता, तस्याः सर्वत्राविशेषादविशेषप्रसङ्गात्, तान्तु सारूप्यमाविशत् तत्सरूपयद् घटयेत्" इति ।
अत अर्थसारूप्यमेव प्रमाणमिति युक्तम् ।
व्यवस्थापकतया हि प्रमाणानां प्रमाणत्वम् ।
अर्थसारूप्यञ्च व्यवस्थाहेतुः, न चक्षुरादिकम्, तस्यानेकार्थसाधारणत्वात् ।
किञ्च वित्तिसंवेद्ययोः सहोपलम्भो नियत उपलभ्यते, न कदाचिदपि वित्तिमन्तरेण वेद्यस्योपलब्धिः, नापि वित्तेर्वेद्यरहितायाः ।
ये च 220परस्परं व्यतिभिन्नावभासा भावाः, तेषां न सहोपलम्भनियमः ।
न घटस्य पटस्य नियमेन महोपलम्भः, तेन भेदादनियमव्याप्तात् नियमो व्यावर्तमानो ऽभेद एवावतिष्ठमानो ऽभेदं साधयति ।
तदुक्तम्--- "सहोपलम्भनियमादभेदो नीलतद्धियोर् ।
[प्रमाण. वा.] इति" एतेनैवन्यायेनाहमित्याकारकस्यालयविज्ञानस्य221 वित्तेश्चाभेदस्समर्थनीयः ।
222कथं तर्हि 223ग्राह्यग्राहकाकारबुद्धयः परस्परं भिन्नाः प्रतिभासन्त इति ।
तदाहुः--- "224भेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये ।
" प्र. वा. परि. 3 श्लो. 389 ।
इति तथापरमुक्तम्--- "225परिच्छेदो ऽन्तरन्यो ऽयं226 भागो बहिरवस्थितः ।
ज्ञानस्याभेदिनो भिन्नप्रतिभासो ह्युपप्लवः ॥
" प्र.वा.परि. 2.श्लो. 212 ।
इति ।
भेदभ्रान्तौ चानादिभेदवासनैव निमित्तम् ।
एतद्विचारणीयम्---येयमाकारविशेषयोगिनी प्रतीतिः, सा किं 227बाह्यादर्थादुपजायते, किं वा समनन्तरप्रत्ययादिति ।
तदुक्तम्--- 228यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी229 ।
सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥
प्र. वा. परि. 3. श्लो.334 ।
इति ।
तत्र सौत्रान्तिका मन्यन्ते---समनन्तरप्रत्ययमात्रादाकारविशेष इति न घटते, देशकालप्रतिनियमायोगात् ।
घटज्ञानानन्तरमपि पटज्ञानं जायते ।
230यत्र च यदा बहिर्देशे घटो ऽस्ति, तत्र यदि घटज्ञानमात्रमेव पटज्ञानोत्पत्तौ हेतुः, तर्हि यदा यत्र पटो नास्ति, तत्र तदापि पटज्ञानं स्यात् ।
न चैवमस्ति ।
अतो ऽस्ति समनन्तरप्रत्ययादप्यधिकोर्ऽथो ज्ञानाकारो ऽपत्तिहेतुः ।
किञ्च यथा मरीचिकाजलज्ञाने जलार्थिनः प्रवृत्तस्यार्थक्रिया न सम्भवति, तथा सम्यग्जलज्ञाने ऽपि231 न स्यात् ।
न ह्यर्थशून्यत्वाविशेषे सम्यग्जलज्ञानमिदम्, इदं नेति विभागो ऽवकल्पते232 तस्माद्बाह्योर्ऽथोप्यङ्गीकर्तुमुचितः233 ।
विज्ञानवादिमतेन सौत्रान्तिकमतस्य निरासः ।
तदपरे234 भ्रान्तमिति मन्यन्ते ।
तथा हि---न तावत्क्वचिदर्थस्याकारवि235 - शेषाधायकत्वं साक्षादवगतम्, कल्पनीयन्तु तत् ।
तच्च दृष्टे समनन्तरप्रत्यय एव वरं कल्प्यम् ।
कार्यभूतज्ञानानां वैलक्षण्ये समनन्तरप्रत्ययवैलक्षण्यं हेतुरस्तु ।
तेन किञ्चिदेव ज्ञानङ्कस्यचिदेव कुत्रचिदेव कदाचिदेव हेतुरिति प्रतिनियमसिद्धिः ।
236विज्ञानवादी चार्थक्रियामपि ज्ञानरूपामेव मन्यते ।
तेन किञ्चिदेव जलज्ञानमर्थक्रियाजननसमर्थं, 237किञ्चिच्च न इत्यपि प्रतिनियमसिद्धिः ।
अवश्यञ्चार्थमन्तरेण विशिष्टाकारज्ञानोत्पत्तौ समनन्तरप्रत्ययस्य सामर्थ्यमास्थेयम् ।
अन्यथा स्वप्नादिष्वाकारप्रतिभासप्रतिनियमो न स्यात् ।
न च देशान्तरकालान्तरवर्तिनामेव तत्र सामर्थ्यम्, अविद्यमानस्य सामर्थ्यायोगात् ।
238अथानुभवजनितसंस्कारात्तत्राकारप्रतिभासनियम इति चेत्, अस्तु तावदेवम् ।
यो ऽसावनुभवः, सो ऽपि तर्ह्यत्रानुभवान्तरजनितसंस्कारादेवास्त्वित्यनया दिशा किमर्थाभ्युपगमेन ।
239संस्कारो ऽपि च संस्कारादिति, अनुभवपूर्वकमेव विज्ञानं कार्यकारणभावेन प्रवर्तते, तेनार्थानुभवाकारात् ज्ञानात् यदपरं विज्ञानं जायते, तत् विशिष्टस्वभावम्, ततो ऽपि यदपरम्, तदपि विज्ञानं विशिष्टस्वभावमेवेति, विज्ञानस्वभावविशेष एव भावना, वासना, संस्कार इत्यादिभश्शब्दैर्व्यपदिश्यते ।
अर्थक्रियासम्वादयोग्यञ्च ज्ञानं प्रमाणम्, इतरच्च नेति प्रमाणाप्रमाणभेदोप्युपपन्नः ।
तस्माद्विज्ञानान्याकारविशेषयोगीनि हेतुफलभावेनानादिसन्तानवाहीनि सन्तु; तदतिरेकी न कश्चिदर्थो नामेति ।
विज्ञानवादिमतनिराकरणम् ।
अत्रोच्यते---यत्तावदुक्तं ज्ञानस्य साकारत्वसिद्धये नार्थसारूप्यमन्तरेण प्रतिकर्मव्यवस्थासिद्धिरिति ।
तदयुक्तम्; न हि 240कस्यचिदप्यर्थस्य स्वरूपमनुभूतं साकारविज्ञानवादिना ।
ज्ञानाकारपर्यवसितवृत्तित्वात्सर्वज्ञानानाम् ।
यस्य च स्वरूपमेव नावसितं, न तेन सह कस्यचित्सारूप्यपरिकल्पनम् ।
न चापि ज्ञानाकारोदयवशेनार्थो व्यवस्थाप्यमानः सरूपतया परिकल्पयितुं शक्यते ।

असरूपादपि 241कार्यगताकारोपपत्तेः ।
लाक्षरक्तबीजाङ्कुरावस्थाया विशेषानवगमेपि रक्तकार्यस्योत्पत्तिर्दृश्यते ।
न हि यदाकारं ज्ञानमुत्पद्यते, तदाकार एवार्थोज्ञानस्योत्पत्तौ निमित्तमित्यत्र 242किञ्चित्प्रमाणं प्रक्रमते ।
अपि च स्थूलाकारं ज्ञानमुत्पद्यते, 243परमाण्वाकारश्चार्थः ।
साधारणाकारा बुद्धिः, 244असाधारणाकारश्चार्थः इति, सारूप्यं245 किं भवति ? किञ्च सारूप्यमात्रेण वेद्यत्वे 246वेद्यवेदकभावव्यवस्था नोपपद्यते ।
एकार्थविषयाणां सन्तत्यन्तरविज्ञानानां वेद्यवेदकत्वानुपपत्तेः ।
अथोत्पादकम् 247स्वरूपार्पकञ्च वेद्यम्, तथापि धारावाहिकज्ञानं पूर्वं पूर्वं उत्तरस्य उत्तरस्य वेद्यं स्यात् ।
अथाकारविशेषाधायकं वेद्यम्; एवमपि पूर्वपूर्वविज्ञानमात्रं वेद्यमापद्यते ।
पूर्वं पूर्वं हि विज्ञानमाकारविशेषोदयकारणमित्युक्तम् ।
अपि च निराकारत्वे संविदा प्रतिकर्मव्यवस्था नानुपपन्ना ।
अर्थप्रतिबद्धव्यवहारविशेषप्रवृत्त्यनुगुणो हि पुरुषस्य धर्मविशेषः---संवेदनम्, तच्च स्वयम्प्रकाशम् ।
यत् अर्थप्रतिबद्धव्यवहारानुगुणतया प्रकाशते, तत् तदर्थसंवेदनमिति व्यवस्थाप्यते ।
सहोपलम्भनियमश्च भेदे ऽप्युपपद्यते ।
यैव हि नीलधीः, सैव नीलस्योपलम्भः ।
248कथं नीलोपलम्भमन्तरेण नीलमुपलभ्यते ।
किञ्चानेनेदमप्यनिष्टमापद्यते ।
उपलम्भमन्तरेणाप्युपलभ्येतेति ।
सर्वस्यैव हि वस्तुनो न उपलम्भमन्तरेणोपलम्भ इष्यते ।
न ह्युपलम्भत एवोपलम्भः ।
250किञ्चोपलम्भोपलभ्ययोर्मेदो ऽसहोपलम्भनियमव्याप्त इति, नियमस्ततो निवर्तमानो ऽभेदे एवावतिष्ठमानस्तेन व्याप्तस्तं गमयेत् ।
उपलभ्योपलम्भयोस्तु भेदे ऽपि नियम उपपद्यते ।
उपलभ्यमन्तरे251णोपलम्भासम्भवात् ।
तेन तयोर्भेदे ऽपि सहोपलम्भनियमो दृष्टो नाभेदं साधयितुं252क्षमः ।
किञ्च---वित्तिवेद्ययोर्भेदेनापि सहोपलम्भनियमो ऽस्तीति, तस्यापि वित्तिरूपत्वापत्तेर्वित्तेरेकत्वं हीयते, ततश्च भेद एव सहोपलम्भनियम 253इत्युपपद्यते ।
किञ्च यो ऽपि वित्तेर्वेद्यस्याभेदमाह, सो ऽपि तावद्वेद्यप्रतिभासं 254नावजानीते ।
तथा सति कथमनुमानमुत्पद्यते255 ।
न हि प्रतितिविपर्ययेणानुमानस्यात्मलाभो ऽस्ति ।
यदपि ज्वालादिष्वभेदानुमानम्, तदपि न प्रतीतिं 256स्वार्थात्प्रच्यावयति, किन्तु सैवेयं ज्वालेति ग्रहणस्मरणरूपे द्वे प्रतीती व्यवस्थितविषये दर्शयति ।
इह तु भेदप्रतीतिः प्रत्येतव्यादेव व्यावर्तनीयेति, न तद्विरोधेनानुमानमुत्पद्यते ।
"भेदश्च257 भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये" ।
इति चानुपपन्नम् ।
न हि तत्र भेदो दृश्यते, किन्त्वेकस्मिन्नेव चन्द्रमसि नेत्रवृत्तिभेदेन द्वे प्रतीती जायेते ।
तयोरिन्द्रियवृत्तिभेदादभिन्ने ऽपि चन्द्रमस्यर्थद्वयविषयं258 व्यवहारं विमूगः प्रवर्तयन्तीति, तत्र तत्रोक्तम् ।
यच्चेदमुक्तम्---स्वयम्प्रकाशायाः संविदो ऽभ्युपगताया नीलाद्याकारो ऽस्तीति ।
तदप्ययुक्तम् ।
संविदभिन्नतयावभासमानस्याकारस्य 259संविद्रूपत्वानुपपत्तेः ।
निराकारा संवित्कथं प्रकाशेतेति चेत् ।
निराकारेति किमुक्तम् ? निःस्वभावेति चेत् ।
260तदसत्, संविदः संवित्स्वभावत्वाभ्युपगमात् ।
अथ नीलाद्याकारेति चेत् ।
केयं राजाज्ञा नीलाद्याकारेणैव प्रकाशितव्यम्, नान्येनेति ।
प्रकाशे तु सति 261यद् यथाभूतं प्रतीयते, तत्, तथाभूतमित्यभ्युपगमो युक्तः ।
यच्चोक्तं---स्वप्ने ज्ञानस्याकारो ऽवभासत262 इति ।
तदप्ययुक्तम् ।
तत्रापि 263बहिरवभासित्वात्संविदः ।
न च सा बहिर्विषया न भवति ।
तस्याः 264पूर्वानुभवाहितसंस्कारोद्बोधवशेन पूर्वानुभूतवस्तुविषयत्वात् ।
कथं तर्हि पूर्वानुभूतत्वं नानुसन्धीयते, 265कथं वानुभूयमानत्वाध्यवसानमिति ।
उच्यते ।
संस्कारोद्बोधनिमित्तेयं स्मृतिरिष्यते ।
संस्कारोद्बोधश्चादृष्टनिबन्धनः ।
तस्य सुखदुःखहेतुत्वात् ।
स्वप्ने ऽपि सुखदुःखानुभवात् ।
तेन 266तावत्येवांशे तददृष्टं संस्कारमुद्बोधयति, यावत्येव सुखं दुःखं वोपपद्यते ।
न चानुभूतांशस्मरणे सुखदुःखोदय इति, न च तत्र संस्कारोद्बोधः, नापि स्मृतिः ।
अत एव च गृहीतांशानवधारणे ऽनुभवमात्रमेवाशिष्यत267 इत्यनुभवाध्यवसायो ऽपि समर्थितः ।
यत्पुनराहुः---जडस्य प्रकाशायोगात्प्रकाशात्मक एवाकार इति ।
तदपि न चतुरस्रम् ।
जड इति किमुक्तम् ? अप्रकाशात्मक इति चेत्, न अप्रकाशात्मकस्यैव प्रकाशाद्व्यतिरिक्तस्य एष काश इति प्रकाशादेव सिद्धम् ।
किञ्च चित्रपटज्ञाने268 नानाभूतानामाकाराणामेकप्रकाशात्मकत्वविरोधादसद्भूतत्वमेवाभ्युपगतम् ।
चत्रावभासेष्वर्थे षु यद्येकत्वं न युज्यते ।
सवैव तावत्कथं बुद्धिरेका चत्रावभासिनी ॥
[प्र. वा. द्वि. प. श्लो. 208] इति ऽचोदयित्वा,ऽ उक्तम्--- 269इदं वस्तु बलायातं यद्वदन्ति विपश्चितः ।
यथा यथार्ऽथाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥
[प्र. वा. द्वि. प. श्लो. 205] इति ।
यथा यथाऽकारा विचार्यन्ते, तथा तथाघटमाना विविच्यन्ते---शून्या भवन्ति--असद्भूता भवन्ति इत्यर्थः ।
पवञ्च ते तावदाकारा असद्भूताः प्रकाशात्मानो न भवन्तीति, कथं प्रकाशन्ते ।
तथा ग्राह्यग्राहकसंवित्तीनां भेदो ऽत्यन्तासद्भूतः प्रकाशाननुप्रवेशी कथं प्रकाशेत ? तथा 270प्रमेयविमर्शोत्थास्तु बाह्यार्थापह्नवप्रकारा जातिनिर्णय एव प्रायशो विकल्प्य निराकृता इति, ते नेह प्रस्तूयन्ते ।
ये पुनर्जाग्रत्प्रत्ययानां स्वप्नप्रत्ययदृष्टान्तेन प्रत्ययत्वादित्यनेन हेतुना बाह्यार्थशून्यत्वं प्रतिपादयन्ति, तेषां बाह्यविषयसकलप्रतीतिविरुद्धः पक्षः ।
271दृष्टान्तीकृतस्यापि स्वप्नादिप्रत्ययस्य बाह्यग्राह्यसमर्थनेन हेतोर्विरुद्धत्वं दोषः, दृष्टान्तस्य साध्यविकलत्वञ्चोद्भावनीयम् ।
तस्मात्स्वयम्प्रकाशत्वे ऽपि संविदो न बाह्यग्राह्यापन्हव इति स्थितम् ।
संविदः स्वयम्प्रकाशत्वे शङ्कानिरासौ ।
271ये त्वाहुः--- 273अङ्गुल्यगं यथात्मानं नात्मना स्प्रष्टुमर्हति ।
स्वांशेन ज्ञानमप्येवं नात्मना जातुमर्हति ॥
[बृ.टी] इति ।
तत्र यदि कर्मकर्तृत्वानुपपत्तिरुच्यते, ततो न किञ्चिदवहीयते ।
न हि वयं कर्मकर्तृभावमभ्युपेमः ।
अथार्थप्रकाशरूपायाः स्वयम्प्रकाशता विनिवार्यते, ततः प्रतीतिविरोधः ।
किञ्च प्रतीतिबलेन 274यैरेकस्यात्मनः कर्तृकर्मभावो ऽभ्युपगम्यते, कथमिव ते संविदो ऽपह्नुवीरन् ।
अपि च ज्ञानमनुमेयमिष्यते ।
तदनुमाने नार्थसत्तामात्रं लिङ्गम्, तस्य तदविनाभावनियमाभावात् ।
अथार्थज्ञानमित्युच्यते, तदपि नोत्पत्तिमात्रेण लिङ्गम् ।
अनवभासमाने उत्पन्नानुत्पन्नयोरविशेषात् ।
न ह्यनवभासमानं लिङ्गं लिङ्गिनमनुमापयति ।
न चार्थज्ञानस्य ज्ञानन्तराधीनमवभासनम् ।
न च ज्ञानान्तरादवगमः ।
ज्ञानान्तरदवगमेन अवगमे चानवस्थाप्रसङ्गात् ।
तस्मादर्थज्ञानं स्वयम्प्रकाशमेवाभ्युपेतव्यम् ।

275 एतेन ये सुखादिवन्मानसप्रत्यक्षं ज्ञानान्तरमेव ज्ञानसद्भावे प्रमाणमाहुः, ते ऽपि निराकृताः ।
स्वयम्प्रकाशत्वेनाप्युपपत्तौ पराधीनत्वकल्पनानुपपन्नेत्युक्तमेव ।
किन्तर्ह्यनुमीयते? ज्ञानम् ।
ननु न तत् संविदः स्वयम्प्रकाशाया भिन्नमुपलभ्यते ।
सत्यम्, अत एवानुमीयते ।
ननु किं तदिति न 276विद्मः ।
277संविदुत्पत्तिकारणमात्ममनःसन्निकर्षाख्यं तदित्यवगम्य परितुष्यतामायुष्मता ।
प्रमाणुलभावं 278विवृणोति--- "मानत्वे संविदो बाह्यं हानादानादिकं फलम् ।
ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी" ॥
इति ।
यदा प्रमितिः प्रमाणमिति भावसाधनमाश्रीयते, तदा संविदेव 279प्रमाणम् ।
तस्याश्च व्यवहारानुगुणस्वभावत्वाद्धानोपादानोपेक्षाः फलम् ।
प्रमीयते ऽनेनेति करणसाधने प्रमाणशब्दे आत्ममनःसन्निकर्षाद्यात्मनो ज्ञानस्य प्रमाणत्वे तद्बलभाविनी संविदेव बाह्यव्यवहारोपयोगिनीसती फलम् ।
280"आपेक्षिकञ्च करणं मन इन्द्रियमेव वा ।
तदर्थसन्निकर्षो वा मानञ्चेत्पूर्वकं फलम्" ॥
इति ।
यदा तु साधकतमस्य करणत्वात्तमपश्चातिशयार्थकत्वादतिशयस्य बाह्यापेक्षत्वादालोकाद्यपेक्षमिन्द्रियमेव प्रमाणम्, तस्य विषयसन्निकर्षः, तस्य वा मनःसन्निकर्षः प्रमाणम्, तदापि संविदेव फलम्, तदर्थप्रवृत्तत्वात् साधनानाम् ।
281ये पुनः प्रमाणादभिन्नं फलमाहुः, ते ऽपि वादिनः कार्यकारण्योरैक्याभावादेवोपेक्षणीयाः ।
इति महामहोपाध्यायश्रीशालिकनाथमिश्रविरचितायां प्रकरणपञ्चिकायां प्रकाणपारायणो प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः ।
677 विमलाञ्जनं नाम सप्तमं प्रकरणम् ।
प्रकरणार्थप्रतिज्ञा ।
678अपौरुषेये सम्बन्धे सिद्धे शब्दार्थयोर्द्वयोः ।
प्रामाण्यं वेदवाक्यानामिति स प्रतिपाद्यते

8.2

इति ।
यदि पौरुषेय एव शब्दानामर्थैस्सह सम्बन्धो भवेत्, तदा प्रमाणान्तरगोचरेष्वेवार्ऽथेषु पुरुषाणां सङ्केतकरणशक्तेः, 679अपूर्वकार्यात्मनि च वेदार्थे 680प्रमाणान्तराणामवकाशाभावेन तत्र सङ्केताभावात्, असङ्केतिते 681चावाचकत्वाभ्युपगमात्682 दुर्लभमेव वेदवाक्यानां प्रामाण्यमापद्यते683 इति, अर्थवानेवायमपौरुषेयशब्दार्थसम्बन्धप्रतिपादनयत्नः ।
वैशषिकमतेन पूर्वः पक्षः ।
684तत्र शब्दार्थसम्बन्धं पोरुषेयं प्रचक्षते ।
जगदीश्वरनिर्माणां वदन्तो वेदवादिनः

8.3

इति ।
अनादौ हि वृद्धव्यवहारपरम्परायां सत्यां 685वृद्धव्यवहारसिद्धो वाच्यवाचकभावश्शब्दार्थयोरपौरुषेयः प्रसिध्येत् ।
तथाहि---वृद्धानां स्वार्थेन 686व्यवहरमाणानां वाक्यमुपशृण्वन्तो बालाश्शब्दश्रवणसमनन्तरभाविना चेष्टाविशेषेणविशिष्टार्थविषयां 687मनीषामाकलयन्तो688वाचकतां शब्दस्याध्यवस्यन्ति, ते ऽपि वृद्धा यदा बाला आसन्, तदा ते ऽप्यनयैव दिशा व्युत्पद्यन्ते स्म ।
येभ्यश्च वृद्धेभ्यस्ते व्युत्पत्तिमलभन्त, ते ऽप्यनयैव दिशा व्युत्पत्तिमलभन्त, ते ऽप्यन्येभ्यो वृद्धेभ्य इति, विनापि सङ्केतयितारं पुरुषम्, उपपद्यत एव शब्दार्थयोरनादिवृ689द्धव्यवहारसिद्धस्सम्बन्धः690 ।
वृद्धव्यवहारस्यानादित्वाक्षेपः ।
नो खल्वनादितैव 691वृद्धव्यवहारपरम्पराया उपपत्तिमती ।
तथा हि--- विदाङ्कुर्वन्तु भवन्तस्तनुभुवनादिकं सर्वं सावयवमवसीयते ।
यच्च नाम सावयवं, तदवयवव्यतिषङ्गसमासादितात्मलाभम्692 ।
पश्यामो वयं तन्तुव्यतिषङ्गसमासादितात्मलाभं पटम्, कटञ्च वीणासंयोगसम्पादितसत्ताकं सावयवम् ।
एषा दिक् अन्त्यावयविभ्यो ऽवतरन्ती आद्व्यणुकमवतिष्ठते ।
परमाण्वोश्च परस्परसंयोगो नियतो ऽन्यतरकर्मजः, उभयकर्मजो वाभ्युपगमनीयः ।
कर्म च परमाणुष्वदृष्टवत्क्षेत्रज्ञसंयोगात् प्रतिज्ञायते ।
तदुक्तं"अणुमनसोश्चाऽद्यं कर्मेत्यदृष्टकारितम्" वै. द. अ. 5. आ. 2. सू. 13 इति ।
अन्यस्य कारणस्याभावात् ।
न चादृष्टमलब्धस्ववृत्ति कार्याय पर्याप्तम्, अचेतनत्वात् वासीवत् ।
न च चेतनानधिष्ठितमचेतनं वृत्तिमुपलभते ।
न खल्वनधिष्ठिता वासी वर्धकिना वर्धनाय प्रवर्तते ।
तदेवमदृष्टं क्षेत्रासमवायि चेतनाधिष्ठितं कार्याय 694पर्याप्तमिति दर्शनबलेनावश्यमभ्युपगमनीयम695 ।
न चेदमिह चिन्तनीयम्---य एव क्षेत्रज्ञाः, त एव तेषामदृष्टानामधिष्ठातारो696 भवेयुरिति, तेषामज्ञत्वात् ।
न हि ते स्वसमवायिनी अपि धर्माधर्मलक्षणे ऽदृष्टे स्वरूपतः, कार्यतो वा वेदितुमीशते ।
य एव च यत् स्वरूपतः, कार्यतो वा वेदितुमीष्टे, स एव तस्याधिष्ठाता ।
यथा---तक्षा वास्याः ।
तस्मादन्यः क्षेत्रज्ञेभ्यस्सकलक्षेत्रज्ञसमवायिधर्माधर्मलक्षणादृष्टसाक्षात्करणगोचराचिन्तनीयशक्तिविभवः को ऽपि चेतनातिशयो ऽधिष्ठाता 697नित्यप्रतिष्ठितस्स्वतन्त्रो ऽभ्युपगन्तव्यः ।
न चेदं वाच्यं केन प्रमाणेन तस्य क्षेत्रज्ञेष्वसम्भाविनी धर्माधर्मसाक्षात्करणशक्तिरवगम्यत इति ।
यत एव प्रमाणात् तस्य सद्भावो ऽवगम्यते, तत एव तस्य ज्ञानशक्तिरप्यवगम्यत इति, अन्तर्भावितज्ञानशक्तिरेवासौ सामान्यतोदृष्टानुमानस्य गोचरः ।
अत एव कथमसावधिष्ठास्यतीत्यस्यापि पर्यनुयोगस्यानवकाशः ।
किं तस्याधिष्ठाने प्रयोजनमिति यो ऽयमपि पर्यनुयोगः, स चेतनातिशयानुमानाङ्गीकरणेन पराकृतः ।
क्षेत्रज्ञो हि चेतनस्स्वप्रयोजनमुद्दिश्य प्रवर्तते ।
स च क्षेत्रज्ञविलक्षणो ऽनपेक्षितप्रयोजन एव स्वतन्त्रः प्रवर्तते ।
अत एव स्वातन्त्र्यात् 698कदाचित् तस्य प्रवृत्तिरुपपत्तिमती ।
स्वातन्त्र्यमपि तस्य सत्तानुमानसमधिगम्यमेवेति, न 699पृथक्प्रमाणसव्यपेक्षम् ।
अतस्सिद्धं तत्प्रभवस्य तनुभुवनादेरादिमत्त्वमुत्पत्तिमत्त्वञ्च, तथाऽदिमत्तया विनाशित्वम् ।
कृतका हि भावा ध्रुवभाविविनाशाः, तथा दृष्टचरा घटादय इति, नानादित्वं वृद्धव्यवहारपरम्परायाः ।
तेन 700पुरुषसङ्केतादेव 701शब्दस्यार्ऽथप्रतिपत्तिहेतुत्वमास्थेयम् ।
सङ्केतनिबन्धनं वाचकत्वमितिशङ्का ।
अपि च 702देवदत्तादिपदेष्वविवादा तावत्पुरुषसङ्केतनिबन्धना वाचकता ।
तद्दर्शनाद्गवादिशब्दनामपि तथाविधत्मेवानुमातुमुचितम् ।
अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते ।
अयमेव हि सामान्यतोदृष्टस्य विषयो---यदन्यत्र दृष्टम्, अन्यत्रानुमीयते ।
देवदत्तादिपदेषु स्वाभाविकं स्वार्थबोधकत्बमित्यपि न समीचीनम्, प्रमाणाभावात्, 703पुरुषसङ्केतानपेक्षत्वप्रसङ्गाच्च ।
न च नियमे सङ्केतस्य व्यापारः, प्राक्सङ्केतादनियतार्थप्रत्ययोदयप्रसङ्गात् ।
क्लेशमात्रफलमिदमुच्यते---गवादिष्वपिनियतार्थप्रतिपत्तिः पुरुषसङ्केतायत्तैव, स्वाभाविकी तु 704स्वार्थप्रतिपादनशक्तिरुपयोगिन्येव विशिष्टार्थप्रतिपत्तावित्यलममुना प्रतिपन्नार्थविघातिना वादेनातिनिर्बन्धेन ।
किञ्च यथोदितप्रमाणबलसिद्धे भगवति सकलजगन्निर्माणैकप्रवीणे धर्माधर्मयोस्साक्षात्कर्तरि705 तत्कर्तृकत्वेनापि706 सिध्यति वेदानामपूर्वेर्ऽथे प्रामाण्यमिति, मीमांसकानां विद्वेषमात्रनिबन्धनो ऽयं पौरुषेयत्वपक्षप्रतिक्षेपः, मन्त्रार्थवादानाञ्च भूयसाममुमर्थमज्जसा वदतामन्यथा वर्णनमिति ।
सिद्धान्तः ।
707औत्पत्तिकस्तु सम्बन्धश्शब्दस्यार्ऽथेन 708सम्मतः ।
वृद्धसंव्यवहारस्य प्रवाहानादिता यतः

मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc