प्रकरणपञ्चिका (टीका सहित) · अध्याय 22
इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विषयकरणीयं नाम द्वादशं प्रकरणं समाप्तम् ॥
परिच्छेद 1
13_1
अथाङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरुपणपरः प्रथमः परिच्छेदः
प्रकणार्थप्रतिज्ञा ।
1374व्याख्याविकल्पसम्भवमङ्गान्यधिकृत्य संशयं छेत्तुम् ।
परमं प्रभाकरगुरोर्गम्भीरं भावमभिधास्ये1375
अङ्गानां चातुर्विध्यम् ।
इह चतुर्विधमङ्गजातम्--जाति-गुण-द्रव्य-भावार्थात्मकम् ।
तत्र भावार्थात्मकमपि द्विविधम्---सन्निपत्त्योपकारकम्, आरादुपकारकञ्चेति ।
सन्निपातिनां चातुर्विध्यम् ।
तत्र सन्निपत्त्योपकारकं चतुर्विध्रं, साध्यभूतोत्पत्ति-प्राप्ति-विकृति-संस्कृतिभेदात् ।
1376यथाक्रमं संयवन-दोहन-विलापन-प्रोक्षणादिरूपम् ।
तत्र संयवनेन प्रागभूतः पिण्ड उत्पद्यते ।
सदेव क्षीरं दोहनेन प्राप्यते ।
विलापनेन प्राचीं संहतावस्थामपबाध्य, इतरा द्रवावस्थाऽज्यस्योत्पद्यते ।
पार्थिवं ह्याज्यं गन्धवत्त्वात् स्वभावतस्संहतरूपमग्निसंयोगेन द्रवीभवति ।
तदाह भगवान्काश्यपः---"सर्पिर्-जतु-मधू-च्छिष्टानां पार्थिवानामग्निसंयोगात् द्रवत्वमद्भिस्सामान्यम्" [वै. द. अ. 2. आ. 1. सू. 6] इति ।
तथा शाब्दैरप्युक्तम्---"अग्निसंयोगेनाऽज्यं द्रवीभवतीति च्विप्रत्ययप्रयोगादि"ति ।
प्रोक्षणन्तु द्रव्यस्य न प्रागवस्थाध्वंसेन दशान्तरमादधाति---इति ।
श्लोकश्चात्र भवति---पूर्वाव्स्थाप्रहाणेन दशान्तरपरिग्रहम्1377 ।
विकारमाहुस्संस्कारं केवलातिशयोदयम्1378
इति ।
सन्निपातिनामङ्गानां लक्षणम् ।
किं पुनरेषां चतुर्णामपि सन्निपत्त्योपकारित्वे लक्षणम् ? 1379यत्-कारक-विध्यपेक्षं फलं जनयति, तत-संनिपत्त्योपकारकम् ।
यथा--कर्त्तरि स्नानम्,1380 कर्मण्यवघातादि, अधिकरणे दध्यानयनमित्याद्यूहनीयम् ।
भाट्ठमतेनाऽशङ्का ।
तत्र सन्निपत्त्योपकारकाङ्गवाक्येषु केचित्पृथग्विधीनभ्युपगच्छन्ति ।
ते हि मन्यन्ते---यद्यत्र पृथग्विधयो नाभ्युपगम्येरन्, तदाधिकृताधिकारादङ्गतैवावघातादीनां न स्यात् ।
न च द्रव्यसम्बन्धमुखेन प्रकृताधिकारापूर्वसम्बन्धादङ्गतासिद्धिः, व्रीह्यादिशब्दानामाकृतिवचनत्वात् ।
यद्यपि कार्यप्रत्यासन्नतया व्यक्तीनां तल्लक्षणार्थो जातिशब्दः, तथापि व्यक्तिमात्रं लक्ष्यते, नापूर्वविशेषसंबद्धा व्यक्तिः ।
न च प्रकृततयाऽग्नेयीवत्तदपूर्वसाधनव्यक्तिलक्षणावशेनापूर्वसंबन्धः, यद्यप्याग्नेयीन्यायेन सन्निहितव्यक्तिपरिग्रहः, तथा स्वरूपेणैव तासामप्रकृतव्यक्तिपरिहारेण प्रतीतिः, न पुनरपूर्वविशेषसाधनतया, तस्य स्वरूपस्य लाक्षणिकत्वात् ।
न च लक्षितलक्षणायां कारणमस्ति1381 ।
तथाहि---जात्या व्यक्तिर्लक्ष्यते, व्यक्त्या च साधनविशेष इति लक्षितलक्षणा1382 कारणाभावादयुक्ता ।
अत एव"चाऽग्नेय्याऽग्नीध्रमुपतिष्ठते" झ्र्तै. सं. 3. 1. 6.] इति सत्यपि प्रकृतपरिग्रहे, न कृगन्तरेणाग्नीध्र 1383उपस्थीयते ।
अत एव च न तत्र विनियुक्तविनियोगविरोधः ।
कार्यान्तरसाधनतया चाऽग्नीध्रोपस्थाने ऽविनियोगात् ।
एवञ्च स्वरूपमात्रेणैवावधातादीनां सम्बन्धान्नापूर्वविशेषसम्बन्धसिद्धिः, दीक्षणीयावाङ्नियमवत् ।
यथा स्वावान्तरापूर्वसम्बन्धाद्वाङ्गिनयमो नाधिकारापूर्वानुप्रवेशी, तथावघाताद्यपि स्यात् ।
ततश्चाधिकारापूर्वं प्रत्यवघातादीनामङ्गता न स्यात् ।
तदनङ्गत्वे च तत्प्रयुक्त्यभावादवघातादीनामनुष्ठानं न स्यात् ।
अतीऽवघातादिषूत्पत्तिनियोगो ऽङ्गीकरणीयः ।
तस्मिन् खल्वाश्रिते, अधिकाराभावेन तस्यानुष्ठानानुपपत्तेरधिकारिणि कल्पयितव्ये, प्रकृताधिकारापूर्वे ऽधिकृत एव प्रयाजादिष्वप्यधिक्रियत इति, नोपायो--पेयभावात्तदङ्गत्वसिद्धिः--इति ।
तन्निरासः ।
तदिदं तत्रभवानुपाध्यायो1384 न मृष्यति ।
तदाह"अनभिज्ञो भवान्विषय--नियोज्यानामि" [बृ. टी. 3. 1. 3] त्यत्र ।
अवघातादिषु शब्दतः, वस्तुस्वभावतश्च तुषकणविमोचनादि दृष्टम्, प्रोक्षणादिषु शब्दत एवादृष्टञ्च कार्यमङ्गीक्रियते ।
तत्र यदि नियोगो ऽप्यपर आश्रीयेत कार्यभूतः, तदा कार्यद्वयमेकस्मिन् वाक्ये नान्वीयते ।
न च यथा स्वर्गादिकं फलम्, तथाभूतमेतद्भवितुमर्हति ।
तस्य च नियोज्यविशेषणत्वेनान्वीयमानत्वात्1385 ।
न च तुषकणविमोचनादि नियोज्यविशेषणम्द्व क्रियाफलत्वात् ।
यदेव नियोगफलम्, तदेव नियोज्यविशेषणतामनुभवति ।
साध्यविशिष्टो हि नियोज्यस्तदेव कार्यतया प्रतिपत्तुमर्हति, यदेव तस्य साध्यं साधयतीति, नियोज्यविशेषणस्य सिद्धिरवसीयते ।
यच्च क्रियाफलम्, न तन्नियोगात्सिध्यतीति, न तद्विशिष्टो नियोगे नियोज्यतामश्नुते ।
न च प्रतीततुषकणविमोचनादिकार्यत्यागो युक्तः, प्रतीतहानादेव ।
ननु च नियोगाभिधायिलिङादिप्रयोगवशेन नियोगो ऽपि प्रतीति एवेति तुल्यो दोषः ।
उच्यते ।
सन्निहिते विधौ विधिरवगम्यमानस्स एव तावदवगन्तुमुचितः ।
तत्र यदि तद्विषयानुप्रवेशिता विषयस्य न स्यात्, तर्हि भवेद्विध्यन्तरम् ।
अनुप्रविशति चावघातादि प्रकृतविषयम्, तदर्थव्रीह्यादिसम्बन्धात् ।
1386सन्निहिताधिकारनियोगपरतयैवावहन्त्यादिभिः पदैरवघातादय उच्यन्ते, तथाभूतानां तेषां क्रिया-कारकभावोपदेशात् ।
यदि स्वरूपमात्रावस्थितैर्व्रीह्यादिभिस्सह सम्बन्धस्स्यात्, तदा तदधिकारसम्बन्धा न स्यादिति, तदीयसाधनविशेषलक्षणया व्रीह्यादिभः1387 पदैरुपस्थापितो ऽवघातादिभिरन्वीयते, न स्वरूपमात्रम् ।
एवञ्चोपदेशत एव यवेष्वप्यवघातादयस्सिद्धा भवन्ति, साधनभावस्याविशेषात् ।
अत एव चावघातादयो नियोगसाधनतयाप्राप्ता एव विधीयन्ते ।
नियमस्तु प्रयोजनम् ।
यदि नियोगाङ्गतयावधातादयो न विधीयेरन्, तदा पुरोडाशमात्रसिद्ध्यर्थतया नखविदलनाद्यप्याक्षिप्येत ।
नियोगाङ्गतया त्ववधातादिषु विहितेषु, तैर्विना नियोगसिद्ध्यनुपपत्तेः नियमेन न एवाक्षिप्यन्ते ।
नियोगाङ्गता तु पक्षे ऽप्यप्राप्ता, नियोगस्यालौकिकतया तदङ्गत्वस्यापि शब्दादन्यतो ऽनवगमात् ।
नियोगाङ्गत्वाच्चावघातादीनाम्, नियोगसम्बन्धः प्राप्तस्य लिङादिभिरनूद्यते ।
अवघातादीनां नियोगविषयत्वशङ्का-निरासौ ।
ननुयद्यवघातादीनां नियोगसम्बन्धो ऽस्ति, कथं तर्हि तेषां नियोगाविषयत्वमुच्यते ? इत्थमुच्यते--- न नियोगसंबन्धितामात्रमुच्यते, यस्य नियोसिद्धिरेव कार्यम्, स विषयः ।
अवधातादीनाञ्च तुषकणविमाचनाद्यवान्तरकार्यङ्कुर्वतां नियोगाविषयत्वम् ।
तेन नियोगाविषयत्वम्, अङ्गता चेति सिद्धम् ।
विधेयास्त्ववघातादयो नियोगसिद्ध्यर्थतयोपादीयमानत्वात् ।
तदुक्तम्---"यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तन्त्रे व्यवहारः" [सू. 2. वृ. टी. पृ. 39] इति ।
तदेवं नियोगप्रत्यभिज्ञोपबृंहितसन्निधानमात्रेणैवावघातादीनां नियोगाङ्गता, न पदार्थान्वयमुखेनेति सिद्धम् ।
येषां पुनः पदार्थान्वयमुखेनानुप्रवेशो ऽभिमतः, तेषां प्रकरणाधीतस्य पाञ्चदश्यस्य, अनारभ्याधीतस्य च साप्तदश्यस्य सामिधेनीसम्बन्धमुखेनानुप्रवेशिनोरविशेषात्, उभयोरपि प्रकृतावेव निवेशः, विकल्पश्च स्यात् ।
सन्निधानमात्रेण तु प्रकरणाधीतस्य ग्रहणे शीघ्रं पाञ्यचदश्यमधिकारानुप्रविष्टमिति, तदवरुद्धे साप्तदश्यमधिकारविरुद्धं1388 नानुप्रविशति ।
तेन विकृतावेव तस्य निवेशः ।
यदि सन्निधानतो ऽधिकारविधावनुप्रवेशः, तर्हि पर्णतादीनामनारभ्याधीतानां कथमनुप्रवेशः ? उच्यते---जुह्वादयो ऽव्यभिचरितक्रतुसम्बन्धा इति, तत्सम्बन्धमुखेन क्रतुसम्बन्धसिद्धिः, तत्सम्बद्धेष्वेव च जुह्वादिषु पर्णतादिसम्बन्धात् ।
अत एव"हिरण्यं भार्यमि" [तै. ब्रा. 2. 2. 5. 2] ति स्वतन्त्रमेवाधिकारनियोगविषयः, हिरण्यस्य क्रतुसम्बन्धव्यभिचारात् ।
ये च पदार्थस्वरूपान्वये ऽनर्थकत्वापत्तेः, तत्सम्बन्धावस्थान्वयपूर्वकं ग्राहकान्वयमाहुः, तेषामिदमेव तावत्कथम्, आनर्थक्येन न भवितव्यम्--इति ।
वेदवाक्यत्वादिति चेत् ? वेदेनानर्थकेन न भवितव्यमिति न राज्ञा1389 ज्ञापितम्, यस्यार्ऽथो गम्यते, तस्य मा भूदानर्थक्यम्, अनवसीयमानार्थस्य त्वर्थवत्त्वं मनोरथमात्रविजृम्भितम् ।
पक्षान्तरालम्बनेनाप्यर्थवत्ता भवत्येवेति, वरं संनिधानवशेन नियोगाङ्गताभ्युपगमः ।
1390सन्निधानमपि सम्बन्धे कारणमिति वाक्यविदः ।
सम्बन्धञ्च गुणप्रधानभावमन्तरेण न स्यात् ।
तत्र च"न कार्यमन्यार्थं भवती"ति नियोग एव प्रधानम्, अङ्गमवघातादयः ।
सन्निधानविषये शङ्का-निरासौ ।
यदि चानर्थक्येन नियोगसम्बन्धः, तदा च"तृच उत्तमः पर्यासः" इति 1391द्वादशाह एव न निविशते ।
क्रतुसम्बन्धो ह्यन्तः पर्यास उच्यते ।
तेन तत्र पदार्थमात्रसम्बन्धे ऽप्यानर्थक्यं नास्ति ।
तथा"हिरण्मय्यस्स्रुचो भवन्ति" [आप. श्रौ. सू. 8. 5. 29] इतिस्रुचामव्यभिचरितक्रतुसम्बन्धानां धर्मविधेरानर्थक्यं नास्तीति, न प्रकृताधिकारसम्बन्धस्स्यात् ।
किञ्चानर्थक्यपरिहारायऽपूर्वसम्बन्धो ऽभ्युपेतः ।
किमिति न सन्निहितापूर्वसम्बन्धस्समाश्रीयते ।
यदि सन्निधानमकारणम्, ततश्च"अग्नेस्तृणान्यपचिनोति" [आप. श्रौ. सू. 3. 4. 3.] इति नाग्निहोत्रे एव व्यवतिष्ठेत ।
अथ सन्निधानविशेषात्तदपूर्वसम्बन्धिनामग्न्यादीनां परिग्रहः, तदा वरं सन्निधानविशेषात्तदपूर्वसम्बन्ध एवास्तु, किं परम्पराश्रयणेन ।
यथा क्रियाकारकभावेनान्विताभिधानम्, तथा प्रयोजन-प्रयोजनिभावेनापि ह्यभिधानं लोके प्रतिपन्नम् ।
न हि व्रीह्यादयः प्रयोजनतां प्रतिपत्तुमर्हन्ति---इति, तत्परित्यागेनापूर्वेणैव सह प्रयोजन--प्रयोजनिभावेन सम्बन्धः ।
अवान्तरापूर्वे शङ्का-तन्निरासौ ।
ये चावघातादिष्ववान्तरापूर्वाणि सङ्गिरन्ते, तेषां मते"प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती"ति प्रोक्षणं दीक्षणीयावाङ्नियमवदवान्तरापूर्वप्रयुक्तं स्यात् ।
ततश्च त्रैधातवीयामिव वाङ्नियमः, नखनिर्भिन्ने चरौ प्रोक्षणं न 1392 स्यात्, तत्प्रयोजकं रूपं तत्र नास्ति--इति ।
न चैतद्वाच्यं--तुषकणविमोचनादिकार्यमुखेनाधिकारापूर्वमेव प्रयोजकमिति, वाङ्नियमे ऽपि तथा प्रसङ्गात्, दीक्षणीयायामपि क्रत्वपेक्षितत्वोपत्तिरपि1393 कार्यमस्तीति, ज्योतिष्टोम एव प्रयोजको वाङ्नियमस्य स्यात् ।
ततश्च 1394दीक्षितत्वोत्पादिकायां त्रैधातवीयायामपि स्यात् ।
ननु यद्यवघातादिष्ववान्तरविधयो नेष्यन्ते, कथं1395 तर्हि"न चाविहितमङ्गं भवति" [शा. भा. अ. 3, पा. 4. अ. 13.] इत्यङ्गेष्वेवान्तरविध्यभ्युपगमो भाष्यकारस्य ? उच्यते ।
आरादुपकारके ऽनृतवदनप्रतिषेधे चावान्तरविधिरङ्गीकुतः, तद्व्यतिरेकेणाङ्गत्वानुपपत्तेः ।
स्वरूपेण क्षणिकत्वात्कर्मणाम्, उपकारजननकाले तदनवस्थानादङ्गत्वं न घटत इति, इहैव वक्ष्यामः ।
अत एव जज्जभ्यमानमन्त्रवचने सन्निपत्त्योपकारिणि "पुरुषप्रयत्नश्रवणमनुवादः" इति वदति भाष्यकारः ।
यत्र ह्मवान्तरविधिरस्ति, तत्र पुरुषयत्नश्रवणं नानुवादः ।
यदेव हि तदवान्तरापूर्वम्, तत् कार्यतया लिङादिवाच्यम् ।
न च कृतिरूपपुरुषप्रयत्नानभिधाने कृत्यवच्छिन्नस्वभावकार्याभिधानोपपत्तिरिति, तदर्थं कृतिरूपपुरुषप्रयत्नाभिधानं युक्तमिति, नाविवक्षितः पुरुषप्रयत्नः ।
एवं नियोगप्रत्यभिज्ञोपवृंहितसंनिधिसमाम्नानवशादवघातादयो ऽवहन्त्यादिपदैरधिकारनियोगैदमर्थ्येनान्वयिनो ऽवगता - स्सन्तस्तदन्वितावस्थैर्व्रीह्यादिभिस्सह क्रिया--कारकभावेनान्वितास्तान् प्रति शेषतां प्रतिपद्यन्ते ।
स्वमतेन श्रुत्यादीनां विनियोजकत्वकथनम् ।
किं पुनरवधातस्य व्रीह्यादिशेषत्वे प्रमाणम् ? कार्यमिति ब्रूमः ।
तथा हि---न कार्यमन्यार्थं भवति, कार्यत्वादेव ।
तेन यत् कार्येण सम्बद्धम्, तत्तावत्तदर्थम् ।
यदपि च कार्यैदमर्थ्यापन्नेन संबद्धं, तेनापि सह यस्य साध्यसाधनभावः, तदपि तदर्थमेव, कार्यैदमर्थ्यापन्नस्यान्यैदमर्थ्ये प्रमाणाभावात् ।
एवं 1396सर्वेषु शेष--शेषित्वं वेदितव्यम् ।
यदि 1397कार्यतयैवैदमर्थ्यावगमः, कथं तर्हि श्रुत्यादीनां विनियोगकारणत्वम् ? द्वारविशेषसमर्पकतया ।
कार्यविशेषकरतया च शेषश्शेशिणि शेषतामापद्यते, नान्यथा, अकिञ्चित्करस्य शेषत्वानुपपत्तेः ।
तत्र श्रुतिः"व्रीहीनवहन्ती"ति द्वितीयात्मिका व्रीह्यादिगतन्तुषकणविमोचनादि समभिव्याहृतक्रियासाध्यभूतं समर्पयन्ती 1398नियोगकरणतामनुवदति, न पुर्द्वीतीयैव शेषितां व्रीह्यादीनाम्, अवधातस्य च शेषतामाह ।
"गां ददाती"त्यादिषु व्यभिचारात् ।
क्रियाजन्यफलभागिता हि सर्वत्राव्यभिचारिणी द्वितीनयावाच्या, न शेषिता, व्यभिचारित्वात् ।
क्रियाजन्यस्य फलस्य भागि कारकमेव कर्म ।
तच्च किञ्चिदीप्सितम्, भूत-भाव्युपयोगात् ।
किञ्चिच्चानीप्सितम्, अनुपयोगात् ॥
अनेनैव विशेषेण भगवतः पाणिनेस्सूत्रद्वयम्--- "कर्तुरीप्सिततमं कर्म" [पा. सू. 1. 4. 49] "तथायुक्तञ्चानीप्सितमि" [पा. सू. 1. 4. 50] ति च ।
येषां मते शेषितैव द्वितीयार्थः, तेषां मते"सुवर्णं भार्यमि"ति क्रतुधर्म एव स्यात् ।
श्रुतानुगुणाधिकारानुप्रवेशितैव न्याय्या यतः, न स्वतन्त्राधिकारकल्पना, अवगतसुवर्णशेषित्वत्यागप्रसङ्गात् ।
क्रियाजन्यफलभागित्वे तु शब्दार्थे, न श्रुतहानिरिति, 1399स्वतन्त्रकर्त्रवगमात् 1400तत्कारणभूताधिकारकल्पनैव न्याय्या ।
प्रकृतनियोगाप्रत्यभिज्ञानान्नियोगान्तरे स्थिते प्रजापतिव्रताधिकारकल्पनेवाधिकारकल्पनैवाचिता---इति ।
लिङ्गस्योदाहरणम् ।
1401स्नानादिषु वस्तुस्वभावपर्यालोचनया लिङ्गात्कर्तृसंस्काररूपकार्याङ्गीकारः ।
तेन कर्तरि शेषता स्नानादीनाम्, सामर्थ्यात् ।
सामर्थ्यमात्रञ्च लिङ्गम्, नाभिधानसामर्थ्यमेव ।
वाक्यस्योदाहरणम् ।
"अभिक्रामं जुहोती" [तै. स. 2. 6. 6. 1] तयादिषु वाक्यादभिक्रमणस्य होमः कार्यतया प्रतीयत इति, वाक्येनायं विनियोगः ।
1402सन्निपत्त्योपकारकाणान्तु न प्रकरणेन विनियोगस्सम्भवति ।
येषां प्रकरणं द्वारं कल्पयति, तेषां प्रकरणाधीनो विनियोगः ।
प्रकरणनिरूपणम् ।
इतिकर्त्तव्यताकाङ्क्षां प्रकरणम् ।
तया च करणोपकारः कार्यभूतः कल्प्यते ।
न चासौ सन्निपत्त्योपकारिणं द्वारमिति, न तेषां प्रकरणेन विनियोगः ।
स्थान-समाख्ययोस्सन्निपातिषु न विनियोजकत्वम् ।
स्थान-समाख्ययोरपि सन्निपत्त्योपकारकाणि प्रति न कार्यकल्पकतेति, न विनियोगकारणत्वम्, एवं1403 सन्निपत्योपकारकाणां नियोगैदमर्थ्यमभिधानतः, विनियोगतश्च कारकैदमर्थ्यम्, उपादानतश्चाधिकारनियोगकरणीभूतयागाद्यैदमर्थ्यंम् ।
1404नियोगाक्षेपो ह्युपादानम्, तत्कृतं प्रोक्षणादेः क्रत्वर्थत्वम् ।
यदि तदियकरणोपकारकता प्रोक्षणादेर्न स्यात्, तदा केनापरेण प्रकारेण तदन्वितनियोगप्रतीतिर्निर्वहतीति, नियोग एव तदन्वितः प्रतिपन्नस्तस्य करणोपकारकतां कल्पयन् करणैदमर्थ्यमाक्षिपतीति, तत्कृतमेव प्रोक्षणादेः क्रत्वर्थत्वम् ।
विनियोगात् पुनः कारकैदमर्थ्यमेवेति कथं पुनस्तेषां करणोपकारकता ? तुषकणविमोचनादिकार्यपरम्परादानेनोपकार्यविशेषाधायकतया ।
नन्वेवं सति कारकानुप्रवेशिनामवघातादीनां 1405करणशरीरविशेषाधायकतया करणोपकारकत्वं, प्रयाजादीनान्त्वव्यतिरिक्तकरणानुग्रहजनकतेति, न सर्वैरेक उपकारः क्रियते ।
ततश्च सर्वैरेकेतिकर्तव्यतेति न स्यात् ।
उच्यते ।
उपकार्यविशेषायत्तसिद्धित्वादुपकारसिद्धेरुपकार्यविशेषस्योपकारं1406 जनयितुमलम्, नान्यस्येत्यवघातादिविनियोगादवगम्यते ।
एवञ्चोपपन्नमवघातादेरपि प्रयाजादिभिस्सह करणोपकारजनकत्वम् ।
सन्निपातिनामारादुपकारकत्वशङ्का-निरासौ ।
कस्मात् पुनः प्रयाजादिवदवधातादयो ऽप्युपकारका नाभ्युपेयन्ते ? प्रकृताधिकारनियोगप्रत्यभिज्ञानात् ।
सम्भवति चात्र नियोगैक्यं तदीयव्रीहिसंस्कारमुखेनेत्युक्तम्1407 ।
प्रयाजादितुल्यत्वे ह्यवघातादीनामङ्गीक्रियमाणे, उत्पत्तिनियोगान्तरमाश्रयणीयमिति वक्ष्यामः1408 ।
तत्र सङ्ग्रहश्लोकाः---सन्निधानवशोत्पन्ना प्रकृतापूर्वगामिनी1409 ।
मा बाधि 1410प्रत्यभिज्ञेति तदनुग्रहकाङ्क्षया
अवहन्त्यादिभिश्शब्दैः कार्यान्वितपदार्थकैः ।
प्रकृतापूर्वसम्बद्ध1411 एव स्वार्थो ऽभिधीयते
तथा सति तदीयत्वं तेषां रक्षितुमिच्छता ।
ब्रीह्यादिभिः पदैर्युक्ता कार्यसाधनलक्षणा
क्रियाकारकसम्बन्धो ऽप्यतस्साधनगोचरः1412 ।
शेषिभावो ऽपि1413 तस्यैव श्रौतद्वारानुसारतः
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0