प्रकरणपञ्चिका (टीका सहित) · अध्याय 21
1349॥
रचिता सच्चरितानामनुग्रहं कर्तुकामेन ।
वाक्यार्थमातृकाया वृत्तिरियं शालिकेनैव ॥
इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां सवृत्तौ वाक्यार्थमातृकायां द्वितीयः परिच्छेदस्समाप्तः ।
समाप्तञ्चेदं प्रकरणपञ्चिकायां सृत्तिर्वाक्यार्थमातृका नामैकादशं प्रकरणम् ॥
अथ विषयकरणीयं नाम द्वादशं प्रकरणम् ।
प्रकरणार्थप्रतिज्ञा ।
1350प्रभाकरमतं सम्यगालोच्य क्रियते मया ।
विषयं 1351करणञ्चैव विवेक्तुं युक्तिवर्णना
"ज्योतिष्टोमेन स्वर्गकामो यजेते"त्येवमादिषु स्वर्गकामादिर्नियोज्यत्वेन सम्बध्यमानः, नास्वर्गसाधने कार्ये बोद्धृतयान्वेतुमलम् ॥
क्रिया हि क्षणभङ्गिनी न कालान्तरभाविनस्स्वर्गादेस्साधनायोपपद्यत इति, कालान्तरावस्थायि क्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्तीति 1352स्थितम् ।
स्वसिद्धान्तवर्णनम् ।
कार्यञ्च कृतीप्सितमुच्यते ।
कृतिः-आत्मव्यापारः-पुरुषप्रयत्न इत्यनर्थान्तरम् ।
चेतनश्चाऽत्मा कार्ये बोद्धृतयान्वयमुपैति ।
न चान्यव्यापाराभिनिर्वर्त्यमन्यस्स्वसम्बन्धितया कार्यत्वेन संवेदयितुमलमिति, आत्मनो मानसप्रत्यक्षसमधिगमनीयः प्रयत्नस्स्वव्यापारः ।
अतस्तन्निर्वर्त्त्यमेवापूर्वं कार्यमात्मा मन्यते ।
प्रयत्न एव भवितव्ये ऽपूर्वे प्रयोजकभूतस्य भावयितुरात्मनो व्यापार इति, भावनाशब्देनोच्यते ।
न च कार्याभिधानं कृतिमनभिदधतां लिङादीनमुपपद्यत इति, ते कृतिमप्यभिदधति, अपूर्वञ्च ।
न च युगपदनेकाभिधानं दोषः, तथाऽवगमात्, आनुगुण्याच्च ।
अवगता हि प्रमाणेन लिङादीनां कार्याभिधायिता ।
आनुगुण्यात् ।
कृतिर्गुणभूता प्रधानपदवर्तिन्यपूर्वात्मनि कार्ये ।
अविवादा च कर्त्रादिगतसङ्ख्यावचिता लिङादीनां कार्याभिधायिनामपि ।
न चाभिधेयतामात्रेण भावनाया एव वाक्यार्थत्वम् ।
भाव्यमपूर्वं प्रति गुणभावेनाभिधानात्, प्रधानभावेनापूर्वस्याभिधानात्तदेव वाक्यार्थ इति, न किञ्चिदनुपपन्नम् ।
अत एव भगवतो भाष्यकारस्य तत्र तत्र व्यवहारः---"पुरुषप्रयत्नः---करणमपूर्वस्य भावनो"च्यत1352 --इति ।
धात्वर्थस्य विषयत्वोपन्यासः ।
तस्य तथाविधस्य कार्यस्य नूनं केनचिद्भावार्थेनावच्छेदः ।
न हि प्रयत्नो भावार्थमन्तरेणास्ति ।
सर्वो हि पुरुषप्रयत्नः कञ्चिद्भावार्थमवश्यमाश्रयते, तेन विना तदभवात् ।
तेन प्रयत्नाविनाभावी भावार्थः प्रयत्नाभिनिर्वर्त्त्यमपूर्वमवच्छिनत्ति ।
अवच्छेदकतयैव विषयभावः1353 ।
"यत्रैव1354 हि यो भवति नान्यत्र, स तस्य विषय"इति विषयविदः ।
"1355अनन्यत्र भावो विषयशब्दार्थः" इति च ।
अतो भाव्य एवार्ऽथो विषयः, भाव्यस्यैव पुरुषप्रयत्नगोचरत्वात् ।
तेन कार्याभिधायिभिस्सह विषयबोधकतयैव भावार्थः कर्मशब्दस्समभिव्याहारं प्रथममर्हति, तस्य 1356प्रतिपत्त्यनुबन्धत्वात् ।
अविषयं ह्यपूर्वं कार्यं प्रत्येतुमशक्यम् ।
प्रतीतस्य च कार्यस्य साधनाकाङ्क्षा ।
तेन न जघन्यया साधनतया भावार्थानामपूर्वेण सहान्वयः ।
किन्तु प्रतीत्युपायतामेव मन्यमानो 1357भगवानेवं ब्रूते---"न ह्यविषयान्नियोगान्नियोगज्ञानमुत्पद्यते" [बृ. टी.] इति ।
धात्वर्थस्य करणत्वनिरूपणम् ।
स च विषयीभूतभावार्थावच्छिन्नो विध्यर्थः कार्यात्मा प्रतीतः करणम्, इतिकर्तव्यताञ्चापेक्षते, अन्यत्रापि साध्ये तथादर्शनात् ।
तत्र स एव भावार्थो विषयीभूतः करणमित्यवसीयते, कृतिव्याप्यत्वात् ।
यो हि यया कृत्यान्यार्थप्रवृत्तया विषयीक्रयते, स एव तत्र करणम् ।
यथा--- परशुरुद्यमन-निपातनाभ्यां काष्ठगतद्वैधीभवनलक्षणकार्ये प्रवृत्ताभ्यां व्याप्यमानस्तयोरेव द्विधाभवनलक्षणफलावच्छेदलब्धद्वैधीकरणव्यपदेश्ययोश्च्छिदिधातुवाच्ययोः करणम्, तथेहाप्यपूर्वार्थप्रवृत्तपुरुषप्रयत्नव्याप्यमानो भावार्थस्तस्मिन्नेव प्रयत्ने ऽपूर्वभावनारूपे करणम् ।
ननु कथं प्रयत्नलब्धात्मा भावार्थो भावनायां करणम् ।
भाव्यमानतया हि कर्मैव स्यात् ।
उच्यते ।
तत्र धात्वर्थो न कर्म, अपूर्वार्थकृतिविषयत्वात् ।
सर्वाण्येव हि कारकाणि कर्त्तृव्यतिरिक्तानि तद्व्यापारव्याप्यानि, न चैतावता तानि कर्मतां 1358भजन्ते, अनीप्सितत्वात् ।
क्वचिच्चानीप्सिते कर्मता दृश्यत एव ।
यथा--- "अग्निहोत्रं जुहोति" [तै. स. 1. 5. 9] इति ।
करणन्तु यद्यपि स्वरूपनिवृत्तौ न सम्भवति, तथाप्यपूर्वभावनारूपता तदधीनेति नानुपपन्नम् ।
यथा परशोरेव ।
न हि परशुः कर्म, करणन्तु भवति, अनीप्सितत्वात् ।
1359उद्यमन-निपातनयोर्द्वैधीकरणरूपतायास्तदधीनत्वात् ।
परशुसम्बन्धप्रभावे ह्युद्यमन-निपातने द्वेधाभवनफलनिष्पादकतया द्वेधाभावने कारणतां1360 भजेते ।
अतः"उद्भिदा यजेते" [तां. ब्रा. 29. 7. 2. 3.] इति तृतीयानिर्देशोपपत्तिः1361 ।
अपूर्वभावनायां करणत्वाद्यागस्य, तन्नामत्वाच्चोद्भिच्छब्दस्य ।
एवञ्चापूर्व-फलयोरेकैव भावना, एकत्वात्पुरुषप्रयत्नस्य ।
एकमेव च करणम्, तद्भावनाव्याप्यत्वादेकैव भाव्यता ।
1362अत एव च साध्यविवृद्धिरियमिति प्राभाकराः ।
धात्वर्थस्य विषयत्वकरणत्वयोरुपसंहारः ।
1363यदि विषयीभूतस्य करणता, हन्त तर्हि "दर्शपूर्णमासाभ्यामि"त्यत्र तन्त्राभिहितानां तन्त्रेणैव प्रतिपत्त्यनुबन्धत्वात्, विषयभावस्यैकत्वादेकमेव करणं स्यात्, ततश्च भेदेनेतिकर्तव्यतासम्बन्धो न स्यात् ।
उच्यते--न सम्यगवधृतामायुष्मता श्रुतिशालिनांवचः ।
यदेव विषयीभूतम्, तदेव करणम्, नान्यदिति तस्यार्ऽथः ।
प्रतीत्यनुबन्धतया ।
च विषयभावः, स यथामिधानमवकल्पते, प्रतिपत्त्युपायत्वादभिधानस्य ।
अत स्तन्त्राभिधानात्सहितानां विषयभावः, करणन्तु सिद्ध्यनुबन्धी नियोगस्य, तच्च यथास्वभावं वेदितव्यम् ।
स्वभावाधीनाहि साधनानांअ साधकतेति स्वभावभेदे भिन्न साधकता ।
साधकत्वे च कृतिविषयत्वात्करणतेति भेदेन करणभावः ।
नन्वेवं प्रत्येकं करणभावाश्रयणे करणान्तरनिरपेक्षाणां किमिति नियोगसिद्धिहेतुता न भवति ? नैवम् ।
यथाश्रुतकरणाधीनसिद्धित्वान्नियोगस्य ।
तत्र बहूनि करणानि तस्य श्रूयन्त इति, तथैव तस्य सिद्धिः ।
1364अनेककरणसम्पाद्यताप्येकस्य दृष्टा ।
यथा---गमनस्याश्वेन,शिबिकया, रथेन वा गच्छति---इति ।
भिन्नस्तत्र 1365कारणावान्तरव्यापार इति यद्युच्येत ।
अत्राप्युत्पत्त्यपूर्वाण्यवान्तरव्यापारभूतानि भिन्नानि सङ्गिरामह एव ।
अत एव तद्भेदेन भिन्नत्वात्करणभावस् 1367परमापूर्वप्रयुक्तत्वे ऽप्याज्यौ-षध-सान्नाय्यधर्माणामसङ्करः ।
अपूर्वसाधननिवेशित्वाद्धर्माणाम्, तस्य च भेदात् ।
ये पुनर्यागादीनामपूर्वञ्चान्तरा भावनां नानुमन्यन्ते, तेषां यागादीनां करणभावो दुर्घटः ।
अव्यापाररूपत्वादपूर्वस्य, व्यापारसम्बन्धप्रभवत्वाच्च1366 करणभावस्य ।
गौणं करणत्वमिति चेत् ! कथं तर्हितिकर्तव्यतासम्बन्धः ।
करणं हीतिकर्तव्यतया सम्बध्यते ।
1367गौणञ्च न करणम्, न हि गौणे मुख्यधर्मस्सम्भवति ।
ये ऽपि1368 सर्वाख्यातेष्वेव भावनाभिधानमाहुः, तेषामपि मतमस्मभ्यं न रोचते ।
न हि कार्यानभिधायिपु लडादिषु भावनाभिधाने प्रमाणमस्ति ।
वार्तिकमतनिराकरणम् ।
1369यदपि किं कराति ? पचतीत्युत्तरदर्शनप्रमाणमुपन्यस्तम् ।
तदपि न साधकम् ।
व्यापारविशेषप्रश्नो ह्ययं---किङ्करोतीति1370 ।
तत्र पचतीत्युत्तरेणापिप तदेव निर्दिश्यते ।
यत्तु व्यापारमात्रवाचिधातूच्चारणमात्रं न क्रियते, तत्र तावन्मात्रस्यापभ्रंशत्वात् ।
प्रत्ययान्तरोच्चारणे च प्रश्नेन सहासम्बन्धः ।
अत एवाचेतनव्यापारे वर्तमानापदेशादीनां प्रयोगः ।
लिङादयस्तु चेतनमेवाधिकृत्य प्रयुज्यन्ते ।
न चाचेतनेषु गौणः प्रयोगः मुख्यत्वे ऽप्यविरोधात् ।
कर्तृसङ्ख्यादिमात्रवचनत्वे च"रथो गच्छती"त्यादिषु मुख्यत्वापत्तेः ।
न चेदं वाच्यम्---संयोग-विभागावेव धात्वर्थः, व्यापारस्तु परिस्पन्दात्मा"रथो गच्छती"त्यादिषु लडर्थः, तेनाचेतने ऽपि मुख्य एवलडर्थ इति ।
धातूनामेव क्रियावाचित्वात्प्रथमोपनिपाती व्यापार एव धात्वर्थो 1371युक्तः, न जधन्यौ संयोग-विभागौ ।
किञ्चानेकार्थताप्यापद्येत ।
केवलस्य संयोगस्यावाच्यत्वात्, संयोगजे ऽपि संयोगे गच्छतीत्यप्रयोगात्, विभागजे ऽपि विभागे प्रयोगानुपलब्धेः, न केवलस्य संयोगस्य, विभागस्य वा गमिवाच्यतेति, किमनेन मनीषिकानिमित्तेन बालजल्पितेन 1372बालजनमनोहारिणा निर्बन्धेन ।
शालिकनाथेन कृतं कृतिनामुपकारसिद्धये सम्यक ।
समुदीक्ष्य वा गुरुमतं सम्यग्विषयकरणीयमिदम्1373
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0