प्रकरणपञ्चिका (टीका सहित) · अध्याय 23
इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरूपणपरः प्रथमः परिच्छेदस्समाप्तः ॥
13_2
अथाङ्गपारायणे आरादुपकारकाङ्गनिरुपणपरः
द्वितीयः परिच्छेदः प्रकरणार्थप्रतिज्ञा ।
1414आरादुपकारकं द्विविधम्--अदृष्टप्रयोजनं, दृष्टा-दृष्टाप्रयोजनञ्च ।
तत्रादृष्टप्रयोजनं "समिधो यजति" [श. ब्रा. 2. 6. 1. 1] इत्यादि ।
अस्य कारकगतं किञ्चित् प्रयोजनं न दृश्यते ।
आरादुपकारकविषय एकदेशिमतम् ।
1415तत्र केचित्तावदधिकारापूर्वं प्रत्यङ्गतासिद्ध्यर्थमेषामधिकृताधिकारमिच्छन्ति ।
ते हि मन्यनते---उत्पत्तिनियोगास्तावत् समिदादिषु निर्विवादं सम्मताः ।
न च नियोगो नियोज्यमन्तरेणाभिधीयते ।
तथा सति विश्वजिदादिषु नियोज्यपरिकल्पना न स्यात् ।
तत्र च नियोज्ये कल्पयितव्ये, यद्यनुषङ्गः फलपदस्य कल्प्येत, यदि वा विश्वजिन्यायेनाधिकारी कल्प्येत, तदाधिकारापूर्वस्येतिकर्तव्यताकाङ्क्षा न 1416परिपूर्यते ।
न परमापूर्वाधिकृते त्वधिकारिणि सति, उपायो-पेयभावो गम्यते ।
न ह्यन्यथाधिकृताधिकारभाव उपपद्यते ।
यस्य हि परमापूर्वं साध्यम्, स परमापूर्वाधिकारी, तेन यथा"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यादौ स्वर्गकामे साध्यस्वर्गविशिष्टे ऽधिकारिणि स्वर्ग-यागयोरुपायो-पेयभावः, तथैहापि समिदादिपरमापूर्वयोः ।
तत्र"न च कार्यमन्यार्थमि"ति न्यायेनाधिकारनियोगैदमर्थ्यमेव समिदादीनामवसीयते ।
तदिदं ग्राहकग्रहणमिति गीयते ।
तत्रोत्पत्तिशिष्टाग्नेयादिकरणावरुद्धे परमापूर्वे प्रकारान्तरेणैदमर्थ्यानुपपत्तेरितिकर्तव्यतात्वेनैव सम्बन्धः--इति ।
तन्निरासः ।
तदिदमनुपपन्नमिति प्राभाकराः ।
1417तथाहि---यदि सर्वस्य नियोगस्य नियोज्यान्विताभिधानमाश्रीयते, 1418तर्हि राजसूयिकानामिज्याविशेषाणामुत्पत्तिनियोगानामपि साधिकारत्वं स्यात् ।
ततो ऽभिषेचनीयतन्त्रमध्ये पठितानां विदेवनादीनामभिषेचनीयावान्तरापूर्वप्रकरणेन तदङ्गतैव स्यात् ।
अथोच्येत---नादृष्टार्थो नियोगो नियोज्यान्वितो ऽभिधीयते, किन्त्वनुष्ठानलब्धये ।
अभिषेचनीयादयश्च परमापूर्वप्रयुक्त्यैव लब्धानुष्ठानाः, परमापूर्वस्यापि तद्विषयत्वात्, तेनैव स्वसिद्ध्यर्थं विषयीभूतास्विज्यासु प्रयुज्यमानासु तद्विषयोत्त्पत्तिनियोगा अपि लब्धसिद्धयो न स्वसिद्धये नियोज्यान्तरमाकाङ्क्षन्ति---इति ।
तर्हि प्रयाजादिनियोग अपि विनियुक्तविषयत्वान्नाधिकारान्तरमपेक्षेरन् ।
स्यान्मतं---विनियोग एव तेषामधिकृताधिकारमन्तरेणानुपपन्नः---इति ।
तदसत्---नियोगैदमर्थ्यमात्रेण प्रथमं शब्देनावगताधिकारसम्बन्धानां प्रकरणेनेतिकर्तव्यतात्वेन विनियोगात् ।
तथाहि---अधिकारविधिसन्निधौ "समिधो यजती"त्यादयो निरधिकारा एव तावदाम्नायन्ते ।
तत्र यो ऽसावधिकारविधिः, स एव प्रयोजनभूतो निरधिकारस्सैमिदादिभिस्स्वयमप्रयोजनभूतैरन्वितस्स्वशब्देनाभिधीयते1419 ।
समिदादिवाक्यानि च द्रव्यदेवताविशिष्टानि यागस्वरूपाण्येव सन्निधापयन्ति, सन्निधानमात्रेण तैस्सहाधिकारनियोगस्यान्वयः ।
यदि च सन्निधानं नाऽद्रियेत, तदा समिदाधिकारनियोगस्यान्वयः ।
यदि च सन्निधानं नाऽद्रियेत, तदा समिदादिष्वपि किमिति परमापूर्वाधिकारी कल्प्यते ।
तदेवं सन्निधानमात्रतस्सिद्धमधिकारैदमर्थ्यं1420 कथं भवतीत्यपेक्षा ।
तथा साध्यभूतस्याधिकारापूर्वस्य च कथमित्याकाङ्क्षा ।
तेन करणोपकार एव तेषां द्वारमाश्रीयते ।
तत्र यदैदमर्थ्येनान्विताभिधानम, तद्ग्राहकग्रहणम् ।
यच्च तेषां करणोपकारद्वारपरिकल्पनम्, स एव प्रकरणविनियोगः---इति ।
अवान्तरापूर्वापह्नवशङ्का-परिहारौ ।
नन्वेवमवान्तरापूर्वाण्यपह्नुतानि ? नापह्नोष्यामहे ।
यद्यपि प्रथमं लिङादयो न व्यतिरिक्तं नियोगं प्रतिपादयितुमीशते, "व्रीहीनवहन्तीत्यादि"ष्विवशङ्क्यमानाधिकारनियोगानुवादकत्वात् ।
तथाप्यधिकारनियोगं प्रत्येषां क्षणभङ्गिनामवान्तरापूर्वाण्यजनयतामङ्गता नोपपद्यत इति, पश्चाद्यदधिकारापूर्वाङ्गभावोपपादनायाऽश्रयणीयान्यवान्तरापूर्वाणि लिङाऽभिघेयान्नयुपेयन्ते ।
तदेतद्दीक्षणीयावाङ्नियमाधिकरणे [मी. द. 9. 1. 2.] व्युत्पादितम् ।
नन्वेमाश्रयिष्ववान्तरापूर्वाभ्युपगमो यथा, तथात्रैव वक्ष्यामः ।
यानि 1421चावान्तरापूर्वाणि, तानि शब्देनाङ्गभूतान्यधिकारापूर्वं प्रत्युपनीयन्ते ।
दीक्षणीयादिष्ववान्तरापूर्वशङ्का-परिहारौ ।
नन्वेवं तर्हि दीक्षणीयादिषु वाङ्नियमस्यावान्तरापूर्वप्रयुक्तता न स्यात् ।
किन्तु"प्रोक्षिताभ्यामुलूखल-मुसलाभ्यामवहन्ती"तिवत् तदपूर्वप्रयुक्ततैवाऽपद्येत ।
न ।
तस्य स्वरूपनिष्पत्त्यर्थत्वात्, यद्यप्यवान्तरापूर्वाणां परमापूर्वाङ्गभावः, तथापि तेषु स्वरूपनिष्पत्त्यर्थ एव वाङ्नियमादिको धर्मः,"दीक्षणीयायामनुब्रूयाद्" [आप. श्रौ. सू. 20. 4. 10] इति दीक्षणीयासम्बद्धावान्तरापूर्वस्वरूपसंबन्धावगमात् ।
न च तेषां स्वरूपपरित्यागेनाङ्गा-ङ्गिभावलक्षणा युक्ता, लक्षणैव यतः ।
न च स्वरूपार्थत्वेनाननुष्ठानम्1422 ।
स्वरूपस्यैवानन्यगम्यसिद्धित्वात् ।
शब्दैकगम्यसिद्धिकं सर्वमपूर्वम्, अवघातादीनान्तु प्रमाणान्तरावसेयसिद्धीनां विनापि प्रोक्षणं स्वरूपसिद्धेः ।
स्वरूपार्थत्वे 1423युक्तं नियमनियोगस्याननुष्ठानम् ।
तदेवं स्वयमङ्गत्वाल्लब्धानुष्ठानेषु प्रयाजादिषु नाधिकारकल्पनावकाशः ।
तेनैव प्रकारेण प्रधानविषयेषूत्पत्तिनियोगेषु करणावान्तरव्यापारो1424 वेदितव्यः ।
यो हि तमवान्तरव्यापारं नाभ्युपगच्छति, तस्य1425 करणभेदो न स्याद्दर्शपूर्णमासादिष्फ, तथाऽग्नेयादिधर्मा उपांशुयाजादिषु भवेयुः, परमापूर्वप्रयुक्तत्वात्, तत्प्रति साधनभावाविशेषात् ।
अवान्तरव्यापारभेदे तु युक्ताव्यवस्था, अन्यथाऽग्नेयस्य करणता, अन्यथोपांशुयाजादीनामिति ।
यथा बृहद्र---थन्तरयोस्स्तुतिसाधनयोरप्यन्यथा साधनतेति धर्मव्यवस्था ।
तथा--पार्वणहोमयोरपि ।
अत एव विकृतिषु बाधः ।
न हि यथाऽग्नेयस्यापूर्वसाधनता तथा सौर्यस्येति, प्राकृतद्वाराभावेन पार्वणहोमयोर्बाधः ।
ये च सन्त्यवान्तरापूर्वाणि न साधनरूपाण्याचक्षते, न तेषाम1425 वान्तरव्यापारतेति प्राचीनसकलदोषप्रसङ्गः ।
कार्योत्पत्तिनिमित्तभावेन ह्यवान्तरव्यापारता, 1426अन्यथा श्रमादेरपि 1427कृषिसमुत्थस्य विलेखनवत् सस्याधिगमे ऽवान्तरव्यापारतापत्तेः ।
नन्वेवमधिकारशून्यत्वे दीक्षणीयादिष्वतिदेशो न स्यात् ।
उच्यते---निरधिकाराणामपि कार्यत्वाविशेषात्, अनिर्जातोपायत्वाच्च युक्तैव कथमित्याकाङ्क्षा ।
भाट्टमतेनावान्तरप्रकरणोपक्षेपः ।
नन्वेवमङ्गीकृतमवान्तरप्रकरणम् ।
कर्तव्यस्य हि कथमित्याकाङ्क्षा प्रकरणमिति मीमांसकप्रसिद्धिः ।
अवान्तरप्रकरणनिरासः ।
।
नावान्तरप्रकरणं नाम प्रमाणमस्ति, प्रमेयाभावे प्रमाणानुपपत्तेः1428 ।
यावदेव तान्यवान्तरापूर्वाणि नावगम्यन्ते, तावदेव सर्वस्याऽरादुपकारकस्य पदार्थजातस्याविशेषेण प्रधानविधिपरिगृहीतत्वात् ।
पश्चात्तु सर्वेषामधिकारानुप्रवेशाविशेषात्, नान्योन्यं तादर्थ्यमस्तीति, नावान्तरप्रकरणविनियोज्यत्वसम्भवः ।
यानि तु वाक्यादिभिः, तेष्ववान्तरापूर्वाणि निवेशितानि, तानि 1429तत्र प्रतिष्ठितानि न परमापर्वं संक्रमिष्यन्ति ।
शङ्का नन्वेवं प्रयाजादिषु सौमिकविध्यन्तप्रसङ्गः ।
नायं दोषः ।
यदि निरधिकाराणामपि साधिकाराणामिव स्वारसिकाकाङ्क्षा भेवत्, भवेदेवम् ।
अननुष्ठेयत्वान्न स्वाभाविकीतिकर्तव्यताकाङ्क्षा ।
कथं पुनः कार्यता, अननुष्ठेयता च ।
तन्निरासः नूनं भवानश्रुतपूर्वसप्तमाद्यः1430 ।
विविक्तं हि तत्रेदं गुरुणा---यदेव हि पुरुषेण ममेदं कार्यमिति निरपेक्षमेवावगम्यते, तदनुष्ठेयम् ।
यत्तु तत्सिद्ध्यर्थं प्रागसिद्धं सद्विनियुज्यते, तत् कार्यम् ।
परमापूर्वञ्च निरपेक्षं कार्यमवगम्यते ।
कार्यावगमाद्धि फलावगतिः, न फलावगतेः कार्यतेति षष्ठाद्ये क्षुण्णम्1431 ।
अतस्सिद्धो ऽनुष्ठेयकार्यविवेकः ।
प्रयाजादिष्वपूर्वोपपादनम् ।
यदेव चानुष्ठेयं तत्रैव कथमित्याकाङ्क्षा, न कार्यमात्रे ।
अवहीनस्तर्हि प्रयाजादीनामिव दीक्षणीयादिष्वाकाङ्क्षापह्नवेनातिदेशः ।
न सम्यगवगतं मतमस्माकं भवता ।
अयं हि नो राद्धान्तः---स्वारसिकीतिकर्तव्यताकाङ्क्षा निरधिकाराणां नास्ति, कारणान्तरसमुत्था तु नाऽपह्नूयते ।
तत्र दीक्षणीयादिषु प्रयाजादिदर्शनेनेतिकर्तव्यताकाङ्क्षा कल्प्यते ।
स्वरसतो ऽप्याकाङ्क्षाशून्यस्य कारणान्तरोपनिपातनिबन्धनाऽकाङ्क्षा युज्यते ।
यथा---"पटो भवती" ति निराकाङ्क्षस्यापि पदद्वयस्य रक्तपदोच्चारणात् रक्तं प्रत्याकाङ्क्षा ।
अन्यथा"रक्तः पटो भवती"त्यनन्वयप्रसङ्गः ।
एवं प्रयाजादिषु न किञ्चिदाकाङ्क्षोत्थापने 1432कारणमस्तीति, न सौमिकधर्मातिदेशः, सिद्धश्च दीक्षणीयादिष्वैष्टिकविध्यन्तलाभः---इति ।
ये त्वधिकृताधिकाराभ्युपगमेन साधिकारतामङ्गनियोगानामाहुः, तेषां प्रयाजादिषु 1433रात्रिसत्रन्यायेनार्ऽऽथवादिकफलकाम एवाधिकारी प्राप्नोतीति, नाधिकृताधिकारसम्भवः ।
स्यान्मतम्--इतिकर्तव्यताकाङ्क्षा प्रधानविधेर्न परिपूर्यते--इति ।
मा परिपूरि, प्रयोजनन्तु1434परिपूर्णम्, अर्थवादपदानि प्रमाणांशोपनिपातीनि, तेषां 1435परोक्षा वृत्तिर्मा भूदिति तत्प्रतिपाद्यफलकाम एवाधिकारी युक्तः ।
साधिकारविधिसन्निधिमात्रेण तु निरधिकारणां प्रतीतेर्तादर्थ्ये ऽधिकाराकाङ्क्षा नास्तीत्यर्थवादपदान्यर्थवादमात्रपर्यवसायीन्येव ।
तथा"पयो व्रतं ब्राह्मणस्ये" [तै. आ. 2 प्रपा. अनु. 8, तै. सं. 6. 2. 5. 2] इत्यादिषु भोजनाय प्रवृत्तस्य द्रव्यार्जननियमवत्, स्ववाक्य एवाधिकारिणो लब्धत्वान्न प्रधानप्रवृत्तस्याधिकारश्शक्यते कल्पयितुम्, अन्यथा स्वातन्त्रयं पयोव्रतादीनामापद्यते ।
तथा---"नानृतं वदेदि" झ्र्तै. सं. 2. 5. 5. 6] ति प्रकरणाधीते ऽपि निषिध्यमानक्रियाकर्तुरधिकारावगमान्न प्रकरणानुप्रवेशसम्भवः ।
तथा"भिन्ने जुहोति"ति निमित्तस्याधिकारिविशेषणत्वाद्विना निमित्तकल्पनादधिकारिविशेषालाभान्न होमस्य दर्शपूर्णमासाङ्गत्वलाभः ।
न वेदमिह समाधानम् ।
1436भिन्नशब्दस्य यौगिकत्वात्प्रकृतगामित्वे सति, निमित्तवतो ऽप्यधिकारे ऽधिकृतस्याधिकार इति, प्रकरणे भिन्नस्याविनियोगात् ।
तद्धि प्रकरणे संनिहितम्, यत् तत्र विनियुक्तम् ।
न भिन्नस्य विनियोगो ऽस्ति ।
अपि चाधिकाराकाङ्क्षायामधिकारे कल्पयितुमुपक्रान्ते, किमित्यार्थेन सन्निधानेनाधिकारः कल्प्यते ।
1437भवत्वनुषङ्गः, साक्षाच्छ्रुतस्याधिकारपदस्य, प्रधानवाक्ये तु श्रुते ऽधिकारपदे प्रधानेन सह संबन्धे सति, सन्निहितानामश्रुताधिकाराणां साधिकारैदमर्थ्येनान्वितानामधिकाराकाङ्क्षैव नास्तीत्यनुषङ्गनिराकरणे मूलयुक्तिः ।
अभ्युच्चयमात्रन्तु वरमनुषङ्गत इतिकर्तव्यताकाङ्क्षापरिपूरणमेवेति ।
प्रयाजादीनां विकल्पशङ्का-परिहारौ ।
अपि च प्रत्येकं"समिधो यजती" [श. ब्रा. 2. 6. 1. 1] त्यादिषुप्रधानाधिकृतस्याधिकारावगमात्प्रत्येकमेव समिदादीनां प्रधानोपायभावात् प्रत्येकमितिकर्तव्यताभावस्स्यात् ।
अवान्तरविधयो हि तदा स्वविषयाणामुपायभावं प्रकल्पयन्ति, करणावरुद्धे परमापूर्वे करणताया असम्भवात्, करणोपकारजनकतयैवोपायभावकल्पनम् ।
ततश्चानपेक्षोपायभावोपगमात्1438 प्रत्येकमेकैककरणोपकारसम्पादकत्वात् विकल्पस्समिदादीनां स्यात् ।
अधिकारविधिना तु तेषां तादर्थ्यमात्रग्रहणे तस्य तदन्वितस्यान्यथानुपपत्तेः, तादर्थ्यसिद्ध्यर्थं करणोपकारजनकता कल्पनीया, 1439सा च यथान्वयम् ।
अन्वये च सर्वेषां यौगपद्यम् ।
तत्र यदि प्रत्येकं करणोपकारजनकता स्यात्, तदा विकल्पे सति नित्यवदन्वयो नोपसंह्वियेत ।
मिलितानान्तु तज्जनकताश्रयणे सर्वथा तदन्वयोपसंहार इति, न प्रत्येकमितिकर्त्तव्यताभावः ।
उपायोपेयभावे तु तादर्थ्येनान्वये सति वैकल्पिकत्वादुपायभावस्य, तथैवान्वयो ऽपीति युक्तम् ।
प्रयाजादिषु सौमिकधर्मातिदेशशङ्का ।
किञ्चाधिकृताधिकारेण सर्वेषु साधिकारेषु सत्सु, प्रयाजादेरितिकर्तव्यताकाङड्क्षा स्वारसिकीति, सौमिकधर्मातिदेशस्तेषु स्यात्, 1440अव्यक्तत्वात् ।
न च वाच्यं सत्यामप्याकाङ्क्षायामितरेतराश्रयतया न तेषु सौमिकधर्मातिदेशः ।
सोमो हि दीक्षणीयादिभिरङ्गवान् दीक्षणीयादीन्यैष्टिकधर्मग्राहीणि ।
यदि चेष्टावपि प्रयाजादिषु सौमिकधर्माः प्रवर्त्तेरन्, तदा स्फुटतरमितरेतराश्रयत्वम्---इति ।
तन्निरासः ।
तदिदं बालजनजल्पितम् ।
यथा सोमे विनाप्यैष्टिकधर्मप्राप्त्या दीक्षणीयादिमात्रनिबन्धन एवोपकारः, तथेष्टावपि सौमिकधर्मनिरपेक्ष एवोपकारः ।
यदि परं 1441द्वयोरङ्गानि द्वयोरुपकारं गृह्णन्ति, परं तत्र चोपकारक्लॄप्तेरविरोधान्न1442 कश्चिद्दोषः ।
निरधिकारेष्वङ्गेषुन स्वारसिकीतिकर्तव्यताकाङ्क्षा, किन्तु लिङ्बलोत्थापीयेति दर्शितमादौ ।
तेन लिङ्गरहितेषु नाऽकाङ्क्षोदय इति, न प्रयाजादिषु सौमिकधर्मातिदेशः ।
शङ्का केचिदाहुः---यदि सन्निधिसमाम्नानमात्रेण प्रकृताधिकारानुप्रवेशो न भवति, तदा ज्योतिष्टोमप्रकरणे समाम्नातस्यापि षोडशिनः"उत्तरे ऽहन् द्विरात्रस्य गृह्यते" इति वैकृतत्वमेव स्यात् ।
तन्निरासः ।
तदसत् ।
1443ग्रहणचोदनेयं ग्राह्यापेक्षिणी ।
तत्र प्रकृततया सोमरस एव ग्राह्यत्वेनान्वयं याति ।
स च ज्योतिष्टोमाधिकारसम्बद्ध इति, तदनुप्रवेशः ।
पश्चात्तु तस्य वाक्येन पुनर्द्विरात्रसम्बन्ध इति नानुपपन्नं किञ्चित् ।
तदेवमारादुपकारकेषु प्रथमं तादर्थ्येनाधिकारनियोगं प्रत्यन्वितेषु, साधिकारेण विधिनानुष्ठेयभूतेन 1444करणोपकारक्लॄप्तेरप्रतीतेनाधिकारनियोगेन जनकत्वकल्पनम् ।
न च क्षणिकानां तेषां परस्परं स्वरूपेणासम्भवतां सम्भूयोपकारजनकतोपपद्यत इत्यवान्तरापूर्वाणि स्वीक्रियन्ते ।
आश्रयिकर्मविषये भाट्टमतेन शङ्का ।
1443नन्वेवमाश्रयिषु कर्मसु विनाप्यपूर्वेण द्रव्य-देवतासंस्कारमुखेन करणोपकारजननसिद्धिरिति नापूर्वसमाश्रयणे किञ्चन प्रमाणम् ।
प्राभाकरमतेन समाधानम् ।
किं भवानृजुविमलायामनवहितः1446 ? दर्शितं हि तत्रेतं हि तत्रेदं 1446चतुर्थे-- न साक्षाद्द्रव्यदेवतोपकारो यागे1447, किन्तु स्वाङ्गभूतमन्ताद्यंशमुखेन ।
न च यागे ऽधिकाराननुप्रविष्टे तयोस्तत्र विनियोगोपपत्तिः ।
न चापूर्वमन्तरेणा यागस्याधिकारानुप्रवेश इत्यवश्याश्रयणीयमवान्तरापूर्वम् ।
तेषाञ्चादृष्टतया न प्रयोजकत्वम् ।
दृष्टतया च द्रव्य-देवतासंस्कार एव प्रयोजकः ।
तत्रापि द्रव्य-देवतासंस्कारयोर्द्रव्यप्रतिपत्तिरेव प्रयोजिका, यागे द्रव्यस्य साक्षाद्व्यापारादिति मन्तव्यम् ।
द्रव्यस्य तु न श्रुतिविनियोगः ।
न क्वचिद्द्रव्यस्य द्वारं श्रुतिस्समर्पयति ।
न च प्राकरणिको ऽपि द्रव्यस्य विनियोगः, साक्षात्करणोपकारजनकत्वाभावात् ।
तस्य हि लिङ्गेन, वाक्येन, स्थानेन, 1448समाख्यया वा भावार्थ एव जनकतया सम्बन्धः ।
गुण-जात्योस्तु वाक्येन विनियोगः, नानाव्यापारत्वात्करणानाम् ।
अतस्साधनभूतद्रव्योपादाने तदवच्छेदकतयासत्येव तयोरुपयोग इति, न कारकतया विनियोगो विरुद्ध्यते ।
उत्पन्नकर्मगतसंख्ययाभ्यासनिरूपणम् ।
या तु 1448सङ्खयोत्पन्नकर्मसमवायिनी ।
यथा---"एकादश प्रयाजान्यजति" [श. ब्रा. 3. 6. 5. 1.] इति ।
सोत्पन्नानां कर्मणां विधानासम्भवात्कर्माश्रितो विधीयते ।
यद्यपि चोद्देश्यगतं विशेषणं वाक्यभेदभयेन विवक्षां नार्ऽहतीति, प्रयाजादीनां साहित्यं न विवक्षितम्, तथापि तस्याः पृथक्त्वनिवेशित्वान्न प्रत्येकमभिसम्बन्धः, किन्तु समुदायेनैव ।
न चाभ्यासं विनातस्याः परिपूर्त्तिरिति, अर्थादभ्यासाश्रयणे प्रकृतग्रहणात्स्वस्थानविवृद्ध्यैव1449 परिपूरणम् ।
यः पुनरुत्पद्यमानकर्मसमवेतस्सङ्ख्याख्यो गुणः, नासौ विधेयः ।
स हि विधीयमानानि कर्माण्यवच्छिनत्ति ।
न च तस्य विधेयत्वसम्भवः ।
बहुषु विहितेषु प्रचयो लभ्यत एवेति न पृथग्विधेयत्वमवलम्बते ।
अविधेयभूतो ऽपिचासौ भावार्थं भिन्दन् विधावुपकरोतीति सो ऽन्वयी ।
यस्तु भिन्नप्रतिपदिकाभिधेयः, सो ऽरुणिमादिवत् कर्मणि कारकतया विधीयते ।
पश्वेकत्वस्यौपादानिकशेषत्वनिरूपणम् ।
1450यः पुनरयं विभक्त्यभिधेयः, तस्य यद्यपि शक्त्या प्रातिपदिकार्थसम्बन्धः, तथापि तस्य तन्मात्रसम्बन्धे प्रकरणसमाम्नानापादितो ग्राहकसम्बन्धो नोपपद्यत इति, ग्राहकीयावस्थासम्बन्धितैवौपादानिकीति निर्णीयते ।
विनियुक्तस्य पश्वादेरुपादानमनवच्छिन्नस्य न सम्भवतीति, अस्ति तदवच्छेदकीभूतसंख्यापेक्षा, सङ्खयायाश्च प्रतीतग्राहकान्वयनिर्वाहायाऽश्रयापेक्षेति, तदवस्थासम्बन्धितां विधिः कल्पयति ।
सङ्खयान्वितश्च विध्यर्थः प्रतीतस्तदन्वयोपपत्तये ग्राहकीयदशासम्बन्धितामापादयति ।
उपादानस्य विषयोपन्यासः ।
1451उपादानलक्षणो विधिव्यापार आक्षेपापरपर्यायो मीमांसकैः प्रतिपन्नः, उत्पत्ति-विनियोगा-धिकार-प्रयोगविषयः प्रतिज्ञायते ।
तस्य च यथाप्रतीतविध्यनुपपत्तिरेव बीजम् ।
"सौर्यञ्चकं निर्वपेदि"त्यादौ साधिकारो विधिः प्रतिपन्न उत्पत्तिं विनानुपपद्यमान उत्पत्तिमाक्षिपति ।
न हि क्षणिकं यागमात्रमुत्पत्तिनियोगानपेक्षमधिकारसिद्धिसमर्थमिति बहुधोक्तम्, तदेव विश्वजिदादिष्वधिकारकल्पनाबीजम् इति ।
निमित्तपर्यन्ते चाधिकारे साध्यभूतो विधिरनुष्ठानापरनामानं करणस्य प्रयोगमाक्षिपति ।
कामाधिकारे तु कामाधिकारे तु कामसिद्धेस्तदायत्तत्वात्, मानसी प्रवृत्तिः प्रागेव फलायत्तानुष्ठानप्रवृत्तावप्यप्रतिहता निमित्तमस्तीति विधिरप्रयोजकः, उभयत्राङ्गेषु क्रतुरेव प्रयोजकः, क्रतूपकारद्वारत्वात्तेषाम् ।
यदेव हि यस्य कार्यं, तदेव तस्य प्रयोजकम् ।
क्रतूपकारश्चाङ्गानां कार्यमिति, तदेवानुष्ठाननिमित्तम् ।
"1452यच्च विधिना स्वसिद्ध्यर्थमाक्षिप्यते, तद्विधेयमिति" तन्त्रे व्यवहारः1453 ।
नन्वेवं विश्वजिदादावधिकारो ऽप्याक्षिप्ततया विधेय एव स्यात् ।
उच्यते ।
नाधिकारस्य नियोगसिद्धौ व्यापारः, किन्तु कर्तृत्वस्य ।
तत्प्रतिपत्त्यर्थश्च नियोज्याक्षेपः1454--- इति ।
विवरणमतेन क्रमस्यानभिधानोपन्यासः ।
एवञ्च--विधिना स्वसिद्ध्यर्थमनाक्षिप्यमाणत्वान्न क्रमो विधेय इति मीमांसकानामुद्गारः ।
निबन्धनमतनिरूपणम् 1455क्रमस्य पाञ्चमिकस्य न किञ्चिदमिधानमस्ति ।
न चानभिहितस्य तस्य वैनियोगिकम्, औपादानिकं वा शेषत्वं घटते, न वाशेषभूतस्य विधिराक्षेपाय प्रभवति ।
यस्तु 1454"वषट्कर्त्तुः प्रथमभक्षः" झ्राप. श्रौ. सू. 12. 24.6] इति प्रथमशब्दाभिधेयः क्रमः ।
स हि विनियोज्यः, विधेयश्चेति निबन्धनकारः ।
अत एवासौ तृतीये चिन्तितः ।
पञ्चमे हि यस्तावच्छ्रौतक्रमः"अध्वर्युर्गृहपतिं दीक्षयित्वा" [श. ब्रा. 12. 1. 1. 10] इत्यादौ, न तस्य किञ्चिदभिधानमस्ति ।
कथं तर्हि प्रतीयते ।
क्त्वाप्रत्ययो हि समानकर्तृकेर्ऽथे वर्तमानाद्धातोर्विधीयमानो ऽपि, य एव प्रथमं प्रयुज्यते, तत एव विधीयते, तत्र 1456क्त्वाप्रत्त्ययश्रवणात् ।
प्रथमप्रयोज्यत्वे स्थितेर्ऽथावगतिरपि तथैव, यथाप्रयोगभावित्वादर्थावगतेः, यथावगति चानुष्ठानमिति, तत्क्रमो ऽपि तथाविध एवावगम्यते ।
अर्थादीनां क्रमानभिधाननिरूपणम् ।
1457अर्थादिष्वभिधानशङ्का दूरापास्तैव ।
अनभिधीयमानस्याप्यवगत्युपायभावस्तत्र तत्र प्रकरणे चिन्तित एव ।
क्रमस्य चोदनालक्षणत्वाक्षेप-समाधाने ।
यदि विध्यर्थं प्रति शेषत्वं क्रमस्य नास्ति, कथं तर्हि चोदनालक्षणत्वम् ? न विधेयता चोदनालक्षणत्वे हेतुः, अधिकारस्य तदभावप्रसङ्गात् ।
1458विध्यर्थस्तदन्वितः प्रतिपाद्यत इति चोदनालक्षणत्वम् ।
तर्हि क्रमान्वितो ऽपि प्रयोगविधिरवसीयत इति, तस्यापि चोदनालक्षणत्वमविरुद्धम् ।
क्रमविशेषपरिगृहीतप्रयोगावच्छिन्नो हि प्रयोगविधिः प्रतीयते ।
अत एवानङ्गत्वे ऽपि क्रमस्याऽदरः, तदभावे प्रयोगानुपपत्तेः, प्रयोगाविधेश्च विशिष्टप्रयोगसाध्यत्वात् ।
तदेवं द्विविधमौपदेशिकम्---वैनियोगिकम्, औपादानिकञ्च ।
अधिकारनिरूपणाम् ।
तत्र न यथाधिकारं विनियुज्यते, अपि तु यथाविनियोगमधिकारः ।
सामान्यतो ऽप्यधिकाराश्रयणेन विनियोगसिद्धेः ।
यद्यपि प्रतिप्रकरणं व्यवस्थासिद्धये ग्राहक्रहणपूर्वको विनियोगः, यद्यपि च साधिकारस्यैव ग्राहकत्वम्, तथापि सामान्यतो ऽपि स्वर्गकामादावधि कारिणि लब्धे साधिकारत्वे सम्पन्ने, ग्राहकग्रहणे संवृत्ते विनियुक्तेष्वङ्गेषु तदवच्छिन्ने विध्यर्थे कार्यात्मनि तदनुष्ठानसमर्थस्य 1460स्वर्गकामिनो ऽधिकार इति, पश्चादधिकारिविशेषनियमः ।
1461अत एवान्ध--बधिर--पङ्ग्वादीनामवेक्षणा--श्रावणा-भिक्रमणाद्यङ्गवति, अत्र्यार्षेयाणामार्षेयत्रयवरणलक्षणाङ्गभाजि, आहवनीयादियोगिनि चानाहिताग्नीनामनधिकारः ।
तेषां तथाविधविध्यर्थसम्पादनेस्वाभाविकशक्त्ययोगादिति स्वयमूहनीयम् ।
अशक्तानामङ्गवैकल्यसमाधानेन, अद्रव्याणां द्रव्यार्जनेन चाधिकारवर्णम् ।
येषां पुनस्स्वाभाविकी शक्तिरनपेता,1462 तेषामधिकारो भवत्येवाद्रव्याणाम्, 1463समाधेयव्याधिविशेषपरवशेन्द्रियाणाञ्च ।
ननु तेषामधिकारो न निर्वहत्येव, अपूर्वसिद्धिनिबन्धनत्वात्तस्य, तस्यास्सकलाङ्गग्रामायत्तत्वात् ।
सत्यम् ।
कामाधिकारो न भवत्येव ।
तस्य सेतिकर्तव्यताकफलभावनाकरणविषयत्वात् ।
फलकामस्य हि फलभावनां प्रत्यकरणीभूते ऽधिकारो नावकल्पयते ।
सर्वञ्च करणं सेतिकर्तव्यताकं करणतामनुभवतीति सम्मतम् ।
ततस्साङ्गाननुष्ठाने सेतिकर्तव्यताकत्वव्याघातात्, विषयाभावाद्विषयिणो ऽप्यनुपपत्तेरधिकारविलय एव कामिनाम् ।
नित्येष्वङ्गविषये यथाशक्तिन्यायः ।
1464निमित्तवतश्च केवलभावार्थविषय एवाधिकार इत्यङ्गानुपसंहारे ऽपि विषयाप्रमोषान्नाधिकारावगमः ।
अनपेतश्चाधिकारो यावदुपसंहरणीयाङ्गसम्पाद्यतामेव तदानीमवगमयति, औत्सर्गिकी तु सकलाङ्गायत्तसिद्धितैव ।
अनेनैवाभिप्रायेण निमित्ताधिकारे गौणः, मुख्यश्च शास्त्रर्थ इति प्राभाकराणामुल्लापः ।
नैमित्तिकानामनुष्ठानं कादाचित्कम्, प्रतिनिमित्तमावृत्तिरिति कथनञ्च ।
अस्ति च किञ्चिदङ्गं निमित्तायत्तविधानम् ।
तत्सत्येव निमित्ते ऽङ्गम् ।
यथा---"भिन्ने जुहोती"ति ।
तत्र चैष शास्त्रार्थः---सति भेदने भेदनहोमसहितो ऽङ्गकलापः करणोपकारं जनयति, तदभावे तु केवल एव---इति ।
यावच्च भेदनादिकमावर्तते, तावती होमस्याऽवृत्तिः ।
एषतावदौपदैशिको ऽङ्गकलापः ।
कार्यप्रयेयनिरूपणोपक्रमः ।
कार्यनिबन्धनं 1465किञ्चिदङ्गं मीमांसका मन्यन्ते ।
उपदेशो हि प्रतिप्रकरणमङ्गानां व्यवस्थित एव, अपूर्वग्रहणपूर्वकत्वाद्विनियोगस्य ।
यदि हि"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यनेन साधिकारं यागमुद्दिश्य"समिधो यजति"ति समिदादिविधिस्स्यात्, तदानीमुद्दिश्य विधानात्, यावद्यागमेव समिदादिविधिरिति, यजिमत्सु सर्वापूर्वेषु समिदादिविधानादुपदेशो नव्यवतिष्ठेत ।
न हि तदा स्वर्गकामपदम्, दर्शपूणमासपदं वा विशेषणायालम्, उद्दिश्यमानविशेषणविवक्षायां वाक्यभेदापत्तेः ।
सन्निधानमात्रेण त्वन्विताभिधानसिद्धेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यत्वे सति समिदादीनां तदनुप्रवेशाद्विनियुक्तविषयतयाप्यनुष्ठानसम्पत्तेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यमेव1466 नोद्देश्यसमर्पकम् ।
तत्राङ्गानामपूर्वेण सह तादर्थ्येनाप्यन्विताभिधानम्, प्रकरणेन च करणोपकारलक्षणद्वारपरिकल्पनम् ।
तत्र चोपादानलक्षणेन विधिव्यापारेणाङ्गानां समुदितानामुपकारजनकत्वपरिकल्पनमिति, प्रतिप्रकरणमङ्गव्यवस्था ।
कार्यप्रमेयनिरूपणम् ।
क्व पुनः केषां कार्यनिबन्धनमङ्गत्वम् ? प्राकृतानां वैकृतापूर्वेषु, तदीयकरणे च 1467यमतिदेशमाचक्षते, प्राकृतानां प्राकृतस्थानपतितेर्ऽथान्तरे, यमूहमभिदधति ।
द्विविधं शाब्दम्-उपदेशजम्, 1468कार्यजञ्च1469 ।
तत्र च वैकृतापूर्वस्य साध्यभूतस्य सेतिकर्तव्यताककरणाकाङ्क्षस्य विषयीभूते भावार्थे करणेलब्धे, या परेतिकर्त्तव्यताकाङ्क्षा, तस्याञ्च न प्रकृतिवदुपकारान्तरकल्पनोपपद्यते ।
कॢप्ते ह्युपकारान्तरे तज्जनकद्विविधपदार्थाकाङ्क्षा पश्चात्तनी सा प्रकरणाधीतपदार्थवर्गसम्बन्धेन न परिपूर्यते ।
प्राकृते तूपकारे स्वीकृते, तन्मुखेन द्विविधप्राकृतपदार्थोपस्थापनादाकाङ्क्षा परिपूर्यत इति, प्राकृतमेवोपकारं स्वीकरोति ।
भाट्टाभिमतानुमानो-पमानयोरतिदेशाहेतुत्वनिरूपणम् ।
कः पुनर्हेतुस्स्वीकरणे ? नानमानम्, अव्यभिचरितलिङ्गसम्बन्धाभावात् ।
नोपमानम्, तस्य सादृश्यमात्रविषयत्वात्, सिद्धविषयावगाहिनोश्चानयोः कार्ये प्रामाण्यानवतारात् ।
लिङादिना प्राकृतोपकारस्याभिधानम् ।
उच्यते ।
य एवासौ नियोगाभिधायी लिङादिशब्दः, स एव प्राकृतोपकारान्वितं स्वार्थमभिदधाति ।
प्रकृतोपकारान्वितं स्वार्थमभिदधाति ।
प्रकृतावपि विध्यर्थपरिकल्पितोपकारेणान्वितं स्वार्थं लिङादिरेव वक्ति ।
अन्विताभिधाने चाऽकाङ्क्षायोग्यता--सन्निधिश्च कारणम् ।
इह च प्राकृतस्योपकारस्यैवाऽकाङ्क्षा-योग्यता च तावदविवादा ।
सन्निधानन्तु बुद्धेन प्राकृतेनैवापूर्वेण लिङ्गविशेषण च प्राकृतमपूर्वं बुद्धौ सन्निधीयते, तच्च स्वोपकारं सन्निधापयति ।
अत एवोपकारसम्बन्ध औपदेशिक इति 1470तत्त्वविदः ।
विकृतावुपकारस्यौपदेशिकत्वोपन्यासः ।
यो हि ग्रन्थेन, विध्यर्थेनवोपस्थापितस्तस्मिन्नन्वयमेति, स औपदेशिकः ।
यथा--- प्रकृतावुपकारः, यथा वा-विश्वजिदादावधिकारी ।
तदेवमुपकारस्सम्बन्धमुपेतः केन पदार्थवर्गेण जन्यत इति, पश्चात्तस्यैव वैकृतस्यापूर्वस्याऽकाक्षा भवतिशङ्का ।
ननु प्रकृतावेवासावुपकारो निर्ज्ञातजनकभूतपदार्थवर्ग इति नाऽकाङ्क्षोदये कारणमस्ति ।
अत एव पदार्थानामतिदेशो नेति मन्यन्ते ।
यदि पदार्थेष्वपि पश्चाद्भाविन्याकाङ्क्षा स्यात्, तदा तद्धेतुके प्राकृतानां वैकृतापूर्वसम्बन्धे सति, को नामोपकारस्येव पदार्थानामतिदेशं वारयेत् ।
अन्यत्रोक्तस्य1471 ह्यन्येन सम्बन्धो ऽतिदेश इत्यतिदेशविदः ।
तन्निरासः ।
अत्र ब्रूमः---यदि करणोपकारप्रयुक्ताः प्राकृताः पदार्थास्सयुः, तदा निर्ज्ञातेषु जनकेषु1472 प्रधानाकाङ्क्षा नावतरेत् ।
अपूर्वप्रयुक्तास्तु धर्मा इति मीमांसकाः ।
तथा सति यदपूर्वप्रयुक्तास्ते धर्माः, तत्सम्बद्धे एवोपकारे तेषां जनकता कल्पिता, नान्यसम्बद्धे ।
अतो वैकृतापूर्वसम्बन्धस्यानिर्ज्ञातोपायाकाङ्क्षा नानुपपन्ना ।
तेषां तु1473क्लॄप्तसाधनभावानां पदार्थानामनुष्ठानमेव केवलम्, तेषामौपदेशिकत्वादुपकारसाधनभावस्योह-बाधौ न स्याताम् ।
आकाङ्क्षानिबन्धने तु विकृत्यपूर्वसम्बन्धे यथोह-बोधौ सिद्ध्यतः, तथात्रवक्ष्यामः ।
एवञ्च सत्यां पदार्थाकाङ्क्षायां पश्चादुपकारेण ये प्राकृताः पदार्था बुद्धिविषयतामापद्यन्ते, ते ऽन्वयमासादयन्ति ।
उपकारस्य प्राकृतपदार्थोपस्थापकत्वोपन्यासः ।
केन पुनस्सम्बन्धेनोपकारस्तानुपस्थापयति ।
उच्यते ।
प्रकृतौ तेषां पदार्थानाम्, तस्य चोपकारस्य जन्य-जनकभावः प्रतीति इति, तयापूर्वप्रतीत्या स्मृतिस्तेषु जायते ।
तेषु स्मृतिसन्निहितेषु लब्धान्वयेषु यथाप्रकरणाधीतेषु पश्चादुपकारसाधनत्वं मिलितानां कल्प्यते ।
तदाहुः---"वैकृतं पदार्थवर्गं प्राकृतमुपकाराढौकितं तथा विधिरुपकारे साधनमेकीकृत्य कल्पयति, उपकारलक्षणकार्योपस्थापितप्राकृतपदार्थान्वयज्ञानञ्च विकृत्यपूर्वकार्यजं शाब्दमुच्यते ।
न च पदार्थानामपूर्वान्तरसम्बन्धो ऽनुपपन्नः ।
अन्यदीयस्यान्यसम्बन्धाभावाद्" [बृ. टी. 10. 1. 1] इति ।
अर्थश्चायमतिक्षुण्णक्रृजुविमलादिषु ।
ऊहस्य शाब्दत्वनिरूपणम् ।
तत्र प्राकृतानां संस्काराणां प्राकृतद्रव्यस्थानपतितपदार्थसम्बन्धनिश्चयः ऊहापरनामापि कार्यज 1474एव शाब्दः ।
प्रकृतौ यत्कार्यं प्रतीतमवघातादीनाम्,"तदेवेदमि"ति निश्चये सति, 1475तेषां वैकृतद्रव्यान्तरसम्बन्धनिश्चयः ! यदपूर्वार्था ह्यवघातादयः, तदीयतण्डुलोत्पत्तिप्रकृतिद्रव्यमवघातादिभिस्संस्कार्यमिति प्रकृतौ शास्त्रार्थः ।
विकृतावपि तादृशा एव नीवारादय इति, 1476तद्धर्मोहस्तेषु ।
बाधनिरूपणम् ।
एवं कृष्णलादिष्ववधातादिषूहितेषु द्वारभूतकार्याभावेन यो बाधनिश्चयः, सो ऽपि कार्यज एव ।
तदेवमूहित--बाधिता--भ्युच्चितपदार्थजन्यः प्राकृत उपकारो विकृताविति स्थितम् ।
तन्त्रा-वापनिरूपणम् ।
तेषाञ्चौपदेशिकानां कार्यसम्बद्धानाञ्चाङ्गानामनेकप्रधानसम्बन्धे 1477प्रयुक्ति विशेषस्तन्त्रमनुष्ठानस्य1478 ।
तथा देश-काल-कार्तृणां प्रयोगानुबन्धभूतानां भेदो नावसीयते कार्यस्यैवाभेदे ।
भिद्यमाने तु कार्ये कार्यार्थमनुष्ठानमावर्तत एव ।
देशादिभेदे ऽपि प्रयोगभेदावगमादावृत्तिरेवानुष्ठानस्य ।
प्रसङ्गनिरूपणम् ।
यस्य च परार्थमनुष्ठितस्यापि कार्यं तन्त्रमित्यवगम्यते, तस्यान्यत्राप्युपकारकत्वमेवेति सकृदनुष्ठानम्--इति ।
नानाभ्रमविषयाणां1479विधिसिन्धौ 1480निमज्जताङ्गानाम् ।
प्रविततगम्भीराणां पारायणमेतदाचरितम्
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0