प्रज्ञापारमितापिण्डार्थ · श्लोक 21-40
यदाह बोधिसत्त्वः सन्नित्यभावप्रकल्पना ।
विक्षेपं विक्षिपन् शास्ता सांवृतस्कन्धदर्शनात्
एतेनाष्टसहस्र्यादावादिवाक्यात्प्रभृत्यपि ।
आ समाप्तेर्निषेद्धव्या विधिनाभावकल्पना
हेतुवाक्यानि नैतानि कृत्यमात्रं तु सूच्यते ।
ब्रह्मजालादिसूत्रेषु ज्ञेयाः सर्वत्र युक्तयः
बोधिसत्त्वं न पश्यामि अहमित्यादि विस्तरैः ।
निराकरोति भगवान् भावसङ्कल्पविभ्रमम्
यन्न पश्यति नामापि गोचरं[न] क्रियां तथा ।
स्कन्धांश्च सर्वतस्तेन बोधिसत्त्वं न पश्यति
कल्पितस्य निषेधो ऽयमिति सङ्ग्रहदर्शनम् ।
सर्वो ज्ञेयतयारूढ आकारः कल्पितो मतौ
प्रज्ञापारमितायां हि त्रीन् समाश्रित्य देशना ।
कल्पितं परतन्त्रं च परिनिष्पन्नमेव च
नास्तीत्यादिपदैः सर्वं कल्पितं विनिवार्यते ।
मायोपमादिदृष्टान्तैः परतन्त्रस्य देशना
चतुर्धा व्यवदानेन परिनिष्पन्नकीर्तनम् ।
प्रज्ञापारमितायां हि नान्या बुद्धस्य देशना
दशसङ्कल्पविक्षेपविपक्षे देशनाक्रमे ।
त्रयाणामिह बोद्धव्यं समस्तव्यस्तकीर्तनम्
यथादिवाक्ये निष्पन्नपरतन्त्रपरिकल्पितैः ।
अभावकल्पनारूपविक्षेपविनिवारणम्
तेन बुद्धं तथा बोधिं न पश्यामीति वाचकैः ।
आ समाप्तेरिह ज्ञेया कल्पितानां निराकृतिः
शून्ये रूपे स्वभावेन समारोपः क्व केन वा ।
इत्यन्येष्वपि वाक्येषु बोद्धव्यं तन्निवारणम्
न हि शून्यतया शून्यमिति वाक्यं विनिर्दिशन् ।
अपवादविकल्पानां निरासं सर्वथोक्तवान्
मायोपमस्तथा बुद्धः स स्वप्नोपम इत्यपि ।
अयमेव क्रमो ज्ञेयो विज्ञैर्वाक्यान्तरेष्वपि
सामानाधिकरण्येन प्रोक्तो मायोपमो जिनः ।
मायोपमादिशब्दैश्च परतन्त्रो निगद्यते
पृथग्जनानां यज्ज्ञानं प्रकृतिव्यवदानिकम् ।
उक्तं तद्बुद्धशब्देन बोधिसत्त्वो यथा जिनः
निजं स्वरूपं प्रच्छाद्य तदविद्यावशीकृतम् ।
मायावदन्यथा भाति फलं स्वप्नम् इवोझति
अद्वयस्यान्यथाख्यातौ फले वाप्यपवादिनाम् ।
अपवादविकल्पानामपवादो ऽयमुच्यते
न रूपं शून्यता युक्ता परस्परविरोधतः ।
नीरूपा शून्यता नामरूपमाकारसङ्गतम्
मूल पाठ: Prajñāpāramitāpiṇḍārtha · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0