प्रज्ञापारमितापिण्डार्थ · श्लोक 41-58
इत्येकत्वविकल्पस्य बाद्धा(ध्या?)नानात्वकल्पनम्(ना?) ।
रुणाद्धि नान्यत्तद्रूपं शून्यतायां कथञ्चन
असदेव यतः ख्याति तदविद्याविनिर्मितम् ।
असत्ख्यापनशक्त्यैव साविद्येति निगद्यते
इदमेवोच्यते रूपं प्रज्ञापारमितेति च ।
अद्वयं द्वयमेवैतद्विकल्पद्वयबाधनम्
युक्तिं चाह विशुद्धत्वात्तथा चानुपलम्भतः ।
भावाभावविरोधाच्च नानात्वमपि पश्यति
नाममात्रमिदं रूपं तत्त्वतो ह्यस्वभावकम् ।
तत्स्वभावविकल्पानामवकाशं निरस्यति
रूपं रूपस्वभावेन शून्यं यत्प्रथमोदितम् ।
तत्स्वभावसमारोपसङ्कल्पप्रतिषेधनम्
नोत्पादं न निरोधं च धर्माणां पश्यतीति यत् ।
भगवानाह, तद्वयस्ता तद्विशेषस्य कल्पना
कृत्रिमं नाम वाच्याश्च धर्मास्ते कल्पिता यतः ।
शब्दार्थयोर्न सम्बन्धस्तेन स्वाभाविको मतः
बाह्यार्थाभिनिवेशस्तु भ्रान्त्या बालस्य जृम्भते ।
तथैव व्यवहारो ऽयं त्वत्रार्थो ऽस्ति कश्चन
अत्र तेन यथा नाम कल्प्यते न तथास्ति तत् ।
वाच्यं वस्तु ततो निष्ठा यथानामार्थकल्पना
प्रज्ञापारमिता बुद्धो बोधिसत्त्वो ऽपि वा तथा ।
नाममात्रमिति प्राह व्यसन् सत्यार्थकल्पनम्
शब्दार्थप्रतिषेधो ऽयं न वस्तु विनिवार्यते ।
एवमन्येष्वपि ज्ञेयो वाक्येष्वर्थविनिश्चयः
नैवोपलभते सम्यक् सर्वनामानि तत्त्ववित् ।
यथार्थत्वेन तेनेदं न ध्वनेर्विनिवारणम्
सुभूतिस्तु द्वयं व्यसन् शब्दं शब्दार्थमेव च ।
बोधिसत्त्वस्य नो नाम पश्यामीति स उक्तवान्
प्रज्ञापारमितावाक्यं नास्ति यन्नेयता गतम् ।
ऊह्यास्तु केवलं ते ऽर्था[स्तदेवं]सूक्ष्मया धिया
प्रक्रान्तार्थतिरस्कारो या चार्थान्तरकल्पना ।
प्रज्ञापारमितायां हि प्रोक्ता सा प्रतिवर्णिका
एतावानर्थसङ्क्षेपः प्रज्ञापारमिताश्रयः ।
आवर्त्य(र्त?)ते स एवार्थः पुनरर्थान्तराश्रितः
प्रज्ञापारमितां सम्यक् सङ्गृह्याष्टसहस्रिकाम् ।
यत्पुण्यमाप्तं तेनास्तु प्रज्ञापारमितो जनः
मूल पाठ: Prajñāpāramitāpiṇḍārtha · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0