भाषा

ENहिગુ
ग्रंथ पाठ

प्रज्ञापारमितापिण्डार्थ · श्लोक 1-20

1

आचार्यदिग्नागविरचितः
प्रज्ञापारमितापिण्डार्थः (प्प्प)
। नमः प्रज्ञापारमितायै ॥
प्रज्ञापरमिता ज्ञानमद्वयं सा तथागतः ।
साध्या तादर्थ्ययोगेन ताच्छब्द्यं ग्रन्थमार्गयोः

2

आश्रयश्चाधिकारश्च कर्म भावनया सह ।
प्रभेदो लिङ्गमापच्च सानुशंसमुदाहृतम्

3

श्रद्वावतां प्रवृत्यङ्गं शास्ता पर्षच्च साक्षिणी ।
देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये

4

सङ्गीतिकर्ता लोके हि देशकालोपलक्षितम् ।
ससाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति

5

सर्वं चैतन्निपातात्मश्रवणादेः प्रकीर्तनम् ।
प्रासङ्गिकं तु एवार्था मुख्या द्वात्रिंशदेव हि

6

प्रभेदः षोडशाकारः शून्यताया यथाक्रमम् ।
निर्दिष्टो ऽष्टासहस्त्रया स विज्ञेयो ऽन्यापदेशतः

7

इत्थमष्टसहस्रीयमन्यूनार्थैर्यथोदितैः ।
ग्रन्थसङ्क्षेप इष्टो ऽत्र त एवार्था यथोदिताः

8

बोधिसत्त्वं न पश्यामीत्युक्तवांस्तत्त्वतो मुनिः ।
भोक्ताध्यात्मिकवस्तूनां कथिता तेन शून्यता

9

रूपं रूपस्वभावेन शून्यमित्युक्तितः पुनः ।
बाह्यान्यायतनानीह भोज्यानि प्रतिषिद्धवान्

10

रूपाद्यभावे तद्देहप्रतिष्ठालक्षणक्षतिः ।
गतार्था येन तद्दृष्टं तदाध्यात्मिकमित्यसत्

11

आध्यात्मिकानां शून्यत्वे प्रकृतेरपि शून्यता ।
विज्ञानरूपं गोत्रं हि कृपाप्रज्ञात्मकं मतम्

12

नोत्पन्नो न निरुद्धो वा सत्त्व इत्यादिना स्फुटम् ।
सत्त्वसंसारयोः कामं दर्शिता तेन शून्यता

13

बुद्धधर्मांस्तथा बोधिसत्त्वधर्मान्न पश्यति ।
इत्यादिना विनिर्दिष्टा शून्या दशबलादयः

14

प्रति प्रति यतो धर्माः कल्पिता इति कीर्तितम् ।
ततो न परमार्थो ऽस्ति धर्माणामिति चोक्तवान्

15

आत्मादिदृष्टेरुच्छेदं महत्या प्रकरोति यत् ।
ततः पुद्गलनैरात्म्यं भगवान् सर्वथा जगौ

16

सर्वधर्मा अनुत्पन्ना इति कीर्तयता तथा ।
कथितं धर्मनैरात्म्यं सर्वथा तत्त्ववेदिना

17

सावद्यनिरवद्यानामवृद्धिपरिहाणितः ।
संस्कृतासंस्कृतानां च कुशलानां निराकृतिः

18

कुशलानां च शून्यत्वे तद्गता अक्षता तथा ।
कल्पितैवेति भेदानां शून्यतायाः स सङ्ग्रहः

19

दशभिश्चित्तविक्षेपैश्चित्तं विक्षिप्तमन्यतः ।
योग्यं भवति बालानां नाद्वयज्ञानसाधने

20

तानपाकर्तुमन्योन्यं विपक्षप्रतिपक्षतः ।
प्रज्ञापारमिताग्रन्थस्ते च सम्पिण्डय दर्शिताः

मूल पाठ: Prajñāpāramitāpiṇḍārtha · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc