पौष्करसंहिता · अध्याय 42
प्रतिष्ठापनम् अब्जाक्ष आच्युतं भुक्तिमुक्तिदम् ।
इति श्री पौष्करसंहितायां नानाधर्मप्रतिष्ठानं नाम एकचत्वारिंशो ऽध्यायः
अथ द्विचत्वारिंशो ऽध्यायः
श्रीभगवानुवाच ---
द्वादशाक्षरपूर्वैस्तु मन्त्रैः सर्वेश्वरः पुरा
आराध्यो भगवान् भक्त्या वेद्यां वा कलशे स्थले ।
सन्तर्प्याज्यादिकैर् भक्त्या मन्त्रैः श्रुतिमयैस्ततः
भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत् ।
विविधैर् उपचारैस्तु पुष्पधूपानुलेपनैः
विसर्जने कृते विष्णौ सानले कमलोद्भव ।
शिल्पिनो यत्र ये दक्षा मान्यास्ति तदनन्तरम्
यथाप्रसन्नबुद्ध्या तु शश्वन्निर्वर्तयन्ति च ।
तैर् अपि प्रयतैः स्नातैः तर्पणीयः स्वकः पतिः
ततः परिगृहीतव्यं क्षेत्रं त्वभिमतं द्विज ।
अभुक्तम् अथवा भुक्तं वसुधागुणलक्षितम्
निःशल्यम् अनुकूलं च स्थपतीनां च संमतम् ।
समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम्
महेन्द्रो ऽपांपतिर्वायुर्विर्त्तपेशानदिक्षु च ।
पदम् आसाद्य वै कुर्याद् दिव्याद् आयतनाश्रितम्
पञ्चायतनपूर्वं तु शुभं देवगृहं महत् ।
सिद्धये तत्स्वमार्गात् तु विमार्गात् तदसिद्धये
एतावद् अर्थनान्मुक्तं अतो ऽन्येषां तु दोषकृत् ।
स्वमार्गं परमार्गं वा येषां सर्वगतो हरिः
स्फुरत्यविरतं बुद्धौ गुरुं तं शास्त्रतः स्वयम् ।
शुभे ऽनुकूले नक्षत्रे नमस्कृत्याच्युतं विभुम्
निर्वर्त्य नित्यं विघ्नेन पूर्वम् अर्चापयेद् द्विज ।
सह एकायनैश्चान्यै ऋग्यजुः सामपाठकैः
सांलंकारैश्व सोष्णीषैः सितांबरधरैस्तथा ।
समालभनमाल्यैश्च भूषितैः साङ्गुलीयकैः
शङ्खवादित्रनिर्घोषैर् गीतिभिर् माङ्गलीयकैः ।
फलपुष्पाक्षतकरो जालसिद्धार्थकादिकम्
समादाय शुचिः कर्ता देशिकेन सह द्विज ।
स्थानम् आसाद्य सर्वेषां वासुदेवं हृदि स्मरन्
पुण्याहं वाचयित्वा च गायत्रीत्रितयादिकम् ।
उद्धोष्य शाकुनं सूक्तं शिवसंकल्पमेव च
श्रीसूक्तेन समोपेतं भद्रश्रीसामम् उत्तमम् ।
कर्मारम्भेण सह वै स्वस्ति भो इत्ययं पठेत्
चमषट्कांस्ततोदीर्य शान्ताद्यास्तदनन्तरम् ।
जपन्नष्टाक्षरं तिष्ठन् कर्तास्ते देशिकस्ततः
बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा कमलोद्भव ।
ततां पर्णकुटीं कृत्वा वातवृष्टिक्षमां शुभाम्
तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रपीठगम् ।
पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः
नारायणम् अपां मूर्तिं हेमाद्ये कुतपे शुभे ।
सन्निधीकृत्य संपूज्य सरित् तीर्थाम्बुपूजिते
हेमसर्वौषधीरत्र दर्भवर्गस्रगन्विते ।
मन्त्रास्त्रकलशाभ्यां तु संपाद्य रचनां ततः
साधारम् आसनं ताभ्यां ज्ञात्वा कुर्यात् तदर्चनम् ।
हृदि मन्त्रेश्वरं सास्त्रं पूजयित्वा यथाविधि
न्यस्तव्यम् आसने कौम्भे प्राणवन्मनसा सह ।
सौम्यनाडीपथा चैव ततो ह्यस्त्रं समन्त्रराट्
दक्षिणेन तु मार्गेण त्वपसव्यघटे विभोः ।
अवतार्य ज्वलद्रूपं दहन्तं विघ्नसंचयम्
मन्त्रत्रयं तु सामान्यं सर्वत्र विहितं द्विज ।
षडष्टाक्षरमन्त्रं यत् तथा वै द्वादशाक्षरम्
हेतीशं यत् सहस्रारं परिज्ञेयं तदायुधम् ।
कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः
अस्त्रं तदङ्गम् आपाद्यं सविशेषम् इदं शुभम् ।
साङ्गं समर्चयित्वा तु भोगैर् मात्रावसानिकैः
सत्सूक्तैर् यजुभिः सामैर् यथावसरलक्षणैः ।
व्यञ्जकैर् अथ सर्वेशम् अथ होमं समाचरेत्
सहस्रशतसंख्यं यत् पूर्णान्तैः साक्षतैस्तिलैः ।
कुण्डमन्त्रास्त्रदृक्पूतैरेवं कुर्यात् तु देशिकः
स्थलेषु वालुकाद्येषु प्रागादौ विनिवेश्य च ।
चत्वारश्चातुरात्मीया मन्त्रज्ञाः कृतमण्डनाः
ऋग्वेदाद्याश्चतस्रो ये ईशाद् वायुपथावधि ।
भक्त्या क्रियापरा याज्या होमार्थं क्षेत्रसंग्रहे
होतव्यं भ्रमिलिङ्गैस्तैर् मन्त्रैर् आज्यादिकं बहु ।
चतुर्भिश्चातुरात्मीयैर् द्विषट्कार्णपुरस्सरैः
होतव्यम् अपरैर् विप्रैः स्मरन् सर्वेश्वरं हरिम् ।
उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च
होमार्थं सर्वकुण्डेषु मन्त्रविन्यस्तविग्रहम् ।
शुचयः संयता दक्षा वास्तुशास्त्रकृतश्रमान्
विश्वकर्मकुलोद्भूतान् आहूयाग्रे निवेश्य च ।
पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै
माल्यचन्दनसोष्णीषैर् भूषिताङ्गुलिकादिकान् ।
संवीक्ष्य पावनीकृत्य ह्यादाय घटिकान्वितम्
कार्पासं सुदृढं सूत्रं सहस्राराभिमान्त्रितम् ।
स्थपतीनां करे दद्यात् सह चैकशलाकया
प्रोक्षितान् पञ्चगव्येन सहस्राराभिमन्त्रितान् ।
विकीर्य लाजसंमिश्रान् बीजान् सिद्धार्थकान्वितान्
जपन्नस्त्रं सचक्रं च त्रिधा कुर्यात् प्रदक्षिणम् ।
प्राक्पदात् तत्पदं यावत् सह घण्टारवैः शुभैः
क्षेत्रमानम् अथादाय करैर् अभिमतैस्ततः ।
शिष्यदेशिककर्तृस्थैर् विश्वकर्मांशकैस्तु वा
ईशकोणादि तत्सूत्रं चतुर्दिक्षु प्रसार्य च ।
शङ्कुभिर्यज्ञदारूत्थैर् मुद्रयेच्च दिशाष्टकम्
ततो भूतबलिं दद्यात् प्रादक्षिण्येन बुद्धिमान् ।
तिलपिष्टं निशाचूर्णं सलाजदधिसक्तुकम्
भूतक्रूरम् इति प्रोक्तं तेन भूतबलिं हरेत् ।
भूतानि राक्षसा वापि ये ऽत्रं तिष्ठन्ति केचन
ते सर्वे ऽद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः ।
शरवेत्रलताचर्मपुञ्जाद्यैर् ग्रथितान् द्रुमान्
मृदङ्गोर्ध्वसमाकारान् पाण्डुमृद्ग्रहणक्षमान् ।
नचाङ्गहोमास्युस्तीक्ष्णान् कुद्दालाख्यखनित्रकान्
सुदृढान् यज्ञकाष्ठोत्थान् हस्तिपादांश्च पूजयेत् ।
क्षेत्रब्रह्मपदे स्थित्वा यथाभिमतदिङ्मुखः
संस्मृत्य द्वादशार्णेन भगवान् भूतभावनः ।
अधिभूताधिदेवाख्यं स्मरेद् अध्यात्मलक्षणम्
सप्तद्वीपवतीं तत्र समुद्रादिसमन्विताम् ।
सप्तपातालसहितां भूतैर्युक्तं चरादिकैः
शक्तिभिः शब्दनिष्ठाभिः सर्वभाभिः समावृताम् ।
ब्रह्मबीजसमेतेन लकारेण सबिन्दुना
स्वसंज्ञानातियुक्तेन मानयित्वा पुरा ततः ।
भावयित्वाधिभूतत्वम् आधिदैवमतः स्मरेत्
सामर्थ्यं यद् भगवतो विष्णोः सर्वेश्वरस्य च ।
परम् अध्यात्मरूपं च वाराहं वैष्णवं महत्
एतावद् उक्तं सामान्यं ध्यानं क्षितिपरिग्रहे ।
देवालयवशाद् अन्यद् विशेषं चात्र संस्मरेत्
चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्त्य च ।
चतुरश्रायते ध्यायेद् दिव्यं विद्यागमंन्विदम्
वृत्तशान्तोदितं चक्रं संवृतावयवं स्मरेत् ।
अनन्तशयनं देवं ध्यायेद् वृत्तायते गृहे
पुर्यष्टकं यद् अमलं कालपुष्करदेहभृत् ।
नाभिरन्ध्रोद्भवं विष्णोः स्थितम् अष्टदिगात्मनाम्
देवालये द्विजाष्टाश्रे स्मर्तव्यं वसुधागृहम् ।
ध्यात्वैवं द्वादशार्णेन मन्त्रेण च पुनः पुनः
षडक्षरेण संरोध्य मुद्रां बद्धा द्विजाच्युतम् ।
अधिध्यानसमाधानाद् यावत् कलशसन्निधिम्
प्राग्वद् विलक्षणैर् भोगैर् अथाष्टार्णेन पूजयेत् ।
सह विप्रैः स्वयं दद्याद् अग्नौ पूर्णाहुतिं पुनः
सर्वकर्मसमाध्यर्थं क्षेत्रे क्षेत्रीकृते सति ।
कुर्यात् पादप्रतिष्ठां वै सुशुभे दिवसे परे
अथ कर्मकरा दक्षा नियोक्तव्याः क्रमेण तु ।
संतोष्य चान्नपानाद्यैस्तोषम् आयान्ति वै (यथा)
श्रीभगवानुवाच ---
एवं परिगृहीते तु क्ष्मांशे शल्योज्झिते सति ।
आधृष्टे सोपला बाला वसुधा वसुभूमिदा
शुद्धिं सोपेक्षते किञ्चित् कृत्रिमाम् उदपासर ? ।
यावन्नोपवनस्तांतु ? चिररूढैर् महाद्रुमैः
संकीर्णा तत् प्रसूतैश्च मूलैर्व्याप्ता निरन्तरैः ।
ज्ञातं तस्यापि बालत्वं शुद्धिर्वै भाविनी स्मृता
त्यक्ता सरित्प्रवाहैर् न नगरग्रामदेशिकाः ।
महान्तं प्रेक्षते शुद्धिं भङ्क्त्वाशा बहुशो यतः
स्वात्वा वै भावम् उद्धृत्य दाद्याद् अभ्येति मृच्छुभाम् ।
सितामशर्करां स्निग्धां (जलान्तर्निखनेत वा )
दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसांपतिम् ।
नागनाथसमोपेतं सुरसङ्घमतस्थितम्
स्थित्यर्थम् उपलैः सर्वैः सह संपूर्यते मृदा ।
मृदोपलैश्च संपूर्य जातिषु स्निग्धया तया
आकोटय पौनः पुन्येन बालाद् वै वापरिसेचना (त्) ।
समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत्
बालवत्ससमेतं च वृषेन्द्रगणसंयुतम् ।
सतोयाः शालयश्चैव प्रभूततृणसंचयम्
विकीर्य सतिलं तत्र सन्त्यक्ते गोमयादिकैः ।
अपास्य गोगणं पश्चाद् उपलिप्य पुनर्महीम्
समर्चयित्वा सूर्यात्मा प्राग्वद् दिक्सिद्धिम् आचरेत् ।
प्रासादं भगवद् रूपसमेतं कमलोद्भव
यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा ।
भूभागे सति वै कुर्यात् तदग्रे यागमण्डपम्
दिक्त्रये तदलाभे तु सौम्ययाम्यदिगायतम् ।
आनुगुण्याय शुद्धिं च सुखं निर्बाधमिश्रितम्
शरैः काशैः शरैः कूर्चैर् अच्छिन्नं वा परैस्तु वा ।
सान्तरं विहितं तत्र पार्थिवं पीठपञ्चकम्
सप्तषट्पञ्चहस्तं च विभवानुगुणं ततः ।
चतुर्हस्तं तु वै सार्धं चतुर्हस्तम् अथापि वा
सुविस्तृतै (ते) ष्षडंशेन सर्वेषां परिवर्ज्य च ।
अन्तरालानि विप्रेन्द्र तद् उच्छ्रायम् अथाचरेत्
चतुर्विंशतिमांशेन स्वेन स्वेन महामते ।
तद् विस्तारोच्छ्रिते सर्वे कोणस्तम्भेषु भूषयेत्
तन्मानेन समारोप्य स्तम्भानां शिरसोपरि ।
रचनारचिताश्चान्ये दण्डास्तिर्यक्प्रसारिताः
सर्वे स्थूलाब्जसंभूताश्चतुर्दिक्तोरणान्विताः ।
तृतीयांशेन वै पीठात् तोरणाविस्तृतिर्भवेत्
सुविस्तृतैस्त्रिभागेन सर्वेषां उन्नतिः स्मृता ।
सचक्रगरुडाः सर्वे त्रिचतुःपञ्चसंख्यया
सान्तरालप्रमाणेन सस्तंभास्तोरणाखिलाः ।
विनिवेश्याः क्षितौ कृत्वा सर्वे चैव सुलक्षणाः
चतुरश्रास्त्वथो देशा ह्यष्टाश्रा मध्यतो द्विज ।
वर्तुलाचोर्ध्वभागाश्च समांशेन विभाजिताः
वीथी प्राक्पश्चिमा भागा उभयोः पीठसंमिता ।
सोत्तरं दक्षिणं भागम् एकैकं पीठवर्तकम्
कृत्वैवं भगवद् यागमण्डपं सर्वकर्मणा ।
उदग्दिक्पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजङ्कितम्
वर्तुलं चतुरश्रं वा प्रकाशाख्यं सुलक्षणम् ।
शङ्खचक्रगदापद्मैश्चिह्निते मेखलावनौ
द्रव्याणाम् अधिवासार्थं तत्समीपस्थितां महीम् ।
मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम्
चतुष्कं स्नानकुंभानां सोषधीनां निवेशने ।
अन्यत्र शयनं तस्मिन् स्नानपीठे तु विन्यसेत्
स्नानकुंभसमीपं तु स्नानद्रव्यसमन्वितम् ।
पीठं तत्पञ्चमं विद्धि वालुकाभिः सुपूजितम्
सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ।
कृत्वैवं अधिवासार्थं प्राकारवलयं महत्
प्रासादक्षेत्रमानं च सन्त्यज्य परितः स्थितम् ।
समेखलं सपीठं तत् दिक्षु कुण्डाष्टकं लिखेत्
अनुकल्पे तु वै कुर्यात् प्राच्यां दिङ्मण्डलाद्बहिः ।
तत्पाश्चात्ये तु वा भागे एकपीठाः सतोरणाः
स्तम्भा वा पृथक्पीठा विविक्ताश्च परस्परम् ।
प्राग्भागे चक्रपद्माख्यं दक्षिणे केवलेश्वरी
चतुरश्रं तु वा कल्प्यं गदामेखलम् अब्जज ।
पद्माद् उत्तरदिग्भागे शङ्खं कोणचतुष्टये
एष पादप्रतिष्ठायां कुण्डानां संस्थितिः स्मृता ।
चातुरात्म्यादिदेवानां ब्रह्मन् स्थापनकर्मणि
संस्थितिं शृणु कुण्डानां विविधा दिग्विदिक्षु च ।
महविभवसौभाग्यआयुरारोग्यवृद्धये ॥ पौस्_42. 96 ॥
सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये ।
व्यत्ययाच्च फलं विद्धि मुक्तये समतानसौ
गदाद्वन्द्वद्वयोपेतं प्राग्दिक्तुर्याश्रमेव च ।
चक्रदक्षिणदिग्विप्र शङ्खं प्रत्यग्गते ततः
पद्मम् उत्तरदिग्भागे यथाभिमतपल्लवम् ।
आग्नेयं तु समापाद्य कुण्डम् अश्वत्थपत्रवत्
विमुक्तकमलं कुर्यात् त्रिकोणं पूर्ववर्तुलम् ।
होमार्थं यातुदिक्कुण्डम् अष्टाश्रं वायवे पदे
धिष्ण्यं श्रीवत्ससंज्ञं यत् प्राग्वद् अर्धेन्दुलक्षणम् ।
ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम्
अतो ऽपरं संनिवेशम् एकाग्रम् अवधारय ।
धिष्ण्यं पूर्वपदे वृत्तम् आग्नेय्यां कौस्तुभाकृतिम्
चक्रं दक्षिणदिग्भागे शार्ङ्गाकारं तु यातुदिक् ।
आप्यं गदाकृतिं प्राग्वनमालाख्या वायवे पदे
उदग्दिक्कमलाकारं श्रीवत्साकारनीशगम् ।
विस्तारसममानं तु सर्वेषां विहितं तु वै
प्राग्वद् द्वादशमांशं तु ओष्ठार्धं परिमृज्य च ।
सुसमं मेखलाबन्धं कुर्यात् तद्विस्तृतेः समम्
समेखला वै विषमाः सर्वेषां पूर्ववद् द्विज ।
यथोक्तलक्षणा कार्या योनिः पिप्पलपत्रवत्
मध्यदेशे सुवृत्तं च तुर्यं श्रीवत्सलक्षणम् ।
प्रासादक्षेत्रभूमेर् वा तमेवैशपदे बहिः
संपाद्य मानयुक्तं वा तर्पणे सर्वकर्मणाम् ।
वास्त्वङ्गविबुधानां च लोकेशानां महामते
विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः ।
संपाद्यम् एवम् अब्जोत्थ सकुण्डं यागमन्दिरम्
ततो ऽन्तरात् सबाह्यं च ऊर्जनं परिभूषयेत् ।
सुविचित्रैर् ध्वजै रम्यैर्वैजयन्तीगणैश्च तैः
प्रोच्छ्रितैः कदलीरूपैर् द्रुमाङ्गैः पावनैर् दृढैः ।
सवस्त्रैः पूर्णसुघटैः पुष्पैर्वै मञ्जरीगणैः
वितानैविविधाकारैर् विनानलगृहं तु वै ।
सशरैर्बर्हिपक्षैस्तु सूत्रैर्भूताधिदैवतैः
प्राक् प्राप्तैर् लोकनाथाद्यैर् द्वाःस्थैः क्षेत्रलतागृहैः ।
दर्पणैश्चामरैश्चित्रैर् घण्टावृन्दैः स्वरान्वितैः
मध्वाज्यदधिसक्षीरसुपूर्णैः कांस्यभाजानैः ।
उपकुंभाननस्थैश्च हरितैः पालिकागणैः
शालितण्डुलपात्रैस्तु सहिरण्यैः फलोद्वहैः ।
लाजसिद्धार्थकैर् बीजभाजनैः षड्रसान्वितैः
सत्सुगन्धैस्त्वगेलाद्यैः पात्रैः पूगफलैस्ततः ।
मधूकबदरीलाक्षा3सुभिस्त्रिफलैः फलैः
यथा तत्प्रभवैः पुष्पैः बहुभिः प्रकरीयकैः ।
इत्येवमाद्यैर् विविधैर् भोगपूगैस्तु पावनैः
भूमयः पीठबाह्यास्तु सर्वदिक्परिवार्य च ।
संप्रवेश्याखिलं तत्र संभारं भूरिसंभृतम्
शुभे ग्रहे ऽनुकूले च नक्षत्रे सुस्थिरे ततः ।
लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते
प्रासादाङ्घ्रिप्रतिष्ठार्थं कर्ता वै भगवन्मयः ।
कृताह्निको द्विजेन्द्राद्यैर् देशिकेन समन्वितः
भेरीपटहवादित्रशङ्खशब्दादिकैः सह ।
ऋग्यजुः सामपूर्वांश्च प्रशस्ताः संपठन् श्रुतीः
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ।
संस्मृत्य स्वासने व्याप्तिम् अर्चयित्वोपविश्य च
मध्यपीठसमीपे तु प्राङ्मुखं पश्चिमे पदे ।
प्राग्दिक्प्रत्यङ्मुखं योज्यमृङ्मयाश्चासनेषु च
उदग्दक्षिणदिग्यन्त्रं यजुर्वेदांस्तु योजयेत् ।
प्राङ्मुखं पश्चिमे भागे सामज्ञान्विनियोज्य च
सह चैकायनैर् विप्रैर् मूर्तिसंज्ञोपलक्षितैः ।
दिगुत्तरस्यां च ततो नित्यकर्मपरायणान्
निवेश्याथर्ववेदांश्च सर्वे द्विद्विकसंख्यया ।
पृष्ठतः सुसहायाद्यैः सम्यग्ज्ञानप्रतीक्षकः
उपदेष्टा च मन्त्राणां द्विजादीनां समर्चने ।
दक्षिणे स्वात्मनः कुर्याद् एकचित्रं समाहितम्
ततः समाचरेत् न्यासं द्वादशाक्षरमूर्तिना ।
मन्त्राभिमानशक्तिं वै समालम्ब्य धिया ततः
अथाष्टाक्षरपूर्वैस्तु मन्त्रैः श्रुतिमयैस्ततः ।
प्राक्प्रोक्तविधिना पाद्यं भृङ्गारकमलं पुरा
पाद्यार्घ्यैः पञ्चगव्यं च कृत्वाभ्यर्च्य द्विजातये ।
समालंभनपुष्पाद्यैः सवस्त्रैर् अङ्गुलीयकैः
सपवित्रकैस्तु हेमाढ्यैर् धूपयित्वा यथाक्रमम् ।
प्रयतः ससहायश्च स्थपतिश्चोपवेशयेत्
दत्त्वाज्ञांयर्जमानस्य कर्मभूमौ स्थितानि च ।
सुवर्णराजतोत्थानि नवताम्रमयानि वा
शैलजान्यनुकल्पे तु मृत्कुम्भान्यथवाब्जज ।
तत्र मध्यमकुम्भं यत् चतुर्विंशाङ्गुलेन च
विस्तृते मध्यतस्तच्च द्व्यङ्गुलद्व्यङ्गुलोन्नतम् ।
वक्त्रम् अङ्गुलषट्केन तत्रास्यं त्र्यङ्गुलं स्मृतम्
मेखलोपरितो ज्ञेया त्र्यङ्गुला कमलोद्भव ।
ये तु दिक्कमलान्येवैतद् अर्धेनोन्नतैः समाः
फलैश्च विविधैश्चैव सह संपूर्य वै मृदा ।
आकोट्य खादिरैः काष्ठैः प्रबलैर् अम्बुसञ्चिताः
पूरणार्थम् अशेषात् तु कृत्वा खातं तु साधकम् ।
समीकृत्योपलिप्याथ प्राग्वद् दिक्सिद्धिम् आचरेत्
भूषयेच्च ध्वजैर् अन्यैर् वैजयन्तीः समुत्क्षिपेत् ।
शोभयेत् कदलीपूर्वैर् द्रुमाङ्गैः पावनैर् दृढैः
वस्त्रैः पूर्णघटैः पुष्पैः कौशेयैर् मञ्जरीगणैः ।
शुभे ग्रहे ऽनुकूले तु नक्षत्रे शुभदर्शने
लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते ।
प्रासादाङ्घ्रिप्रतिष्ठार्थं कर्ता वै भगवन्मयः
कृताह्निको द्विजेन्द्राद्यैर् देशिकेन समन्वितः ।
भेरीपटहवादित्रसर्वशब्दादिकैः शुभैः
वन्दिवृन्दसमोपेतैर् गीयमानैश्च मङ्गलैः ।
सामऋग्यजुपूर्वास्तु प्रशस्ताः पाठयेच्छ्रुतीः
सहसंभृतसंभारक्ष्माकृतं क्ष्मामलं विशेत् ।
समाचम्य कृतन्यासो द्वादशाक्षरमूर्तिना
अथाष्टाक्षरपूर्वैस्तु मन्त्रैः श्रुतिमयैः सह ।
पादार्घ्यपञ्चगव्यं तु कृत्वाभ्यर्च्य द्विजोत्तमम्
स्थपतिश्चार्घ्यपुष्पाद्यैः प्रवर्तेत सुकर्मणि ।
ओंकारपूर्वां गायत्रीम् एकैकं पाठयेद् द्विज
गायत्रीसामपूर्वं च कनिक्रन्दम् उदीर्य च ।
एवम् ओङ्कारपूर्वं च कर्माकरम्भम् अनन्तरम्
पठेद् एकायनं पश्चात् शिवसंकल्पम् एव च ।
ऋग्वेदज्ञो यजुर्ज्ञो ऽथ भद्रोनं समुदीर्यं च
भद्रश्रीसाम सामज्ञः शताद्यौ कृत्यधर्मवित् ।
विभज्य पूर्ववत् क्षेत्रं पवित्रीकृत्य सांप्रतम्
पवित्रमन्त्रैर् अखिलैर् वैदिकैः पाञ्चरात्रिकैः ।
कन्यां च सौम्यदिग्भागे ऐशान्यां वालयावने
मण्डलं पार्थिवे पीठे विनिवर्त्य चतुः समे ।
अशुभं सर्वतोभद्रं वश्यागारद्वयान्वितम्
भद्रपीठासनस्थं च सोदकं च घटद्वयम् ।
स्त्रगाद्यैर् भूषितं कृत्वा एकस्मिन् साधनं यजेत्
द्वादशाक्षरमन्त्रेण भगवान् पुरुषोत्तमः ।
श्रुत्युक्तैर् मन्त्रमुख्यैस्तु तदस्त्रपरके घटे
मन्त्रैर् हेतीशलिङ्गैस्तु चतुर्वेदसमुत्थितैः ।
मण्डपाग्रमथासाद्य हार्दम् आपाद्यम् अर्चनम्
अवतार्य बहिः कुर्यात् पूजनं प्राग्यथोदितम् ।
पूर्णाहुतिं विनाग्नौ तु तर्पयित्वा यथाविधि
यजेद् वास्तु नराद्यं वै सुरसङ्घं तदङ्गकम् ।
शतं शतार्धं पादं वा आहुतीनां समापयेत्
तिलानाम् आज्यसिक्तानाम् आज्यस्य तदनन्तरम् ।
सामरैर् वास्तुलिङ्गैस्तु मन्त्रैर् देवव्रतादिकैः
सुसमं कलशानां तु नवकं त्वथ धातुजम् ।
यथाशक्तिप्रमाणं तु नाल्पं वै द्वादशाङ्गुलम्
शैलजं मृन्मयोत्थं वा सुपक्वं सुदृढं शुमम् ।
भृङ्गारतुल्यम् अष्टाश्रं शङ्खाकारं तु वोच्छ्रितम्
वलिहीनं विरक्तास्यं द्रव्याणां ग्रहलक्षणम् ।
शुद्ध्यर्थम् अथ सर्वेषां स्नानकर्म समाचरेत्
अधिवास्याम्बरच्छन्नान् सद्यो वान्ये ऽहनि द्विज ।
क्रमशः पूरयेद् द्रव्यैस्तल्लिङ्गैः श्रुतिसंपठैः
गायत्र्याष्टाक्षरेणैव द्वादशाक्षरविद्यया ।
सुवर्णसिकताभिस्तु रत्नैर् मुक्ताफलादिकैः
धातुभिश्चाखिलैर् धान्यैर् अथान्यैः पारतादिकैः ।
सिद्धार्थकान्वितैर् बीजैर् धान्यैर् नीवारपूर्वकैः
कर्पूरमलयक्षोदकुङ्कुमागरुमिश्रितैः ।
पट्टस्त्रक्चन्दनाद्यैस्तु बाह्यतश्चोपशोभयेत्
एवं संपूज्य संस्कृत्य चतुर्णां मध्यतो न्यसेत् ।
पद्मासनगतां लक्ष्मीं निधिभिः परिवारिताम्
चतुर्णाम् अथ चान्येषां रत्नराट् कौस्तुभाभिधः ।
समन्त्रेण स्वनाम्ना च निधिनाथैः समन्विताम्
भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत् ।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम्
ब्राह्मं चतुष्पदं क्षेत्रं नयेद् अष्टच्छदात्मना ।
न्यस्य सार्वेश्वरं कुम्भं मध्यतः कर्णिकोदरे
रत्नकुंभचतुष्कं तु दिक्चक्रेष्वष्टदिक्षु च ।
प्रादक्षिव्येन प्राग्भागान् मन्त्रान् वा लौकिकान् द्विज
लक्ष्यं कुम्भचतुष्कं यद् ईशाद् वायुपदावधि ।
एवं न्यस्त्वा ततः कुर्याद् अर्चनं मध्यगस्य च
चतुष्कं हृदयाद्यं वै रत्नकुंभगतं यजेत् ।
चतुर्णां मन्त्रम् एकं तु श्रीकुम्भानां तु पूजयेत्
पुरतो नेत्रमन्त्रैस्तु मध्यकुम्भे च तस्य च ।
कृत्वैवं निष्कलं न्यासं सर्वेषां सांप्रतं ततः
विधाननवकं दद्यात् ताम्रं वा शैलजं समम् ।
सुवृत्तं चतुरश्रं वा सुधनं द्वादशाङ्गुलम्
चतुश्शक्तिनिरुद्धं च तत्र मध्यगते धटे ।
शक्तिर्वा या परा देवी विश्वसन्धारणक्षमा
प्रभासा वैश्वरी दिक्षु ज्ञानशक्त्यामृता च सा ।
विदिग्घटसमूहे तु स्मरेद् आनन्दलक्षणा
क्रियाख्या याच्युती शक्तिः शुद्धा शक्तस्य जन्मदा ।
न्यस्त्वैवम् अर्चनं कुर्यात् श्रियादीनां स्वसंज्ञया
निधीनां निधिनाथानां मन्त्रं साङ्गं यजेत् ततः ।
मुद्रां प्रदर्शयेत् मान्त्रीं सर्वसामर्थ्यलक्षणाम्
द्वादशाक्षरमन्त्रेण जप्तव्यं च समाचरेत् ।
सन्निरोधं द्विषट्कार्णे .......न सन्निधिम्
यजुर्ज्ञं त्वथ सञ्चोद्य युज्यतेति च यद्यजुः ।
ऋचं च पौरुषं सूक्तं सामज्ञो विष्णुसंहिताम्
अथर्वायेति षट्पाद्य द्विजम् एकायनं ततः ।
आत्मव्यूहादिकं कुर्यात् संज्ञामन्त्रचतुष्टयम्
नमस्कारसमोपेतं ततः साम रथन्तरम् ।
आहुत्वा (हा) हर्षपूर्वं वै ऋन्वेदं समुदीरयेत्
प्रतिष्ठासीति वै साम सामज्ञो ऽथ उदीरयेत् ।
अतो ऽन्तरं तु कुम्भानां....................
आपाद्यम् अथ सर्वेषां सुधालेपेन चैव हि ।
दिगष्टकं मुद्रणीयं क्षेत्रं शक्त्यष्टकेन तु
शिलान्तः सन्निरोधेन शिलानामसमास्तु वा ।
कार्या ऊर्ध्वसमाः सर्वाः सर्वतोभद्रलक्षणाः
स्नानाद्यैः संस्कृतं पूर्वं वासस्त्रग्वर्णभूषिता ।
रत्नाष्टकासनस्था च अष्टानां च सुविन्यसेत्
मन्त्रम् अक्षरभेदेन प्रणवाद्यन्तणं तु वै ।
प्रागादावीशदिङ्निष्ठम् अष्टकं व्यक्तिगं न्यसेत्
प्रणवेन स्वनाम्ना च नमो ऽन्तेन महामते ।
बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्रुवा
सन्ध्याख्या धृतिसंज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ।
वेदाद्यन्तं समुद्धोष्य यजुर्वेदव्रतैः सह
हये च विद्या ऋक्सूक्ता ब्रूयाद् एकायनं ततः ।
यदिवायो सवेत्यादिव हुत्वैवं कमलोद्भव
दत्त्वा पूर्णाहुतिं ब्रूयात् मन्त्रम् आश्राविकं हि यत् ।
कर्ता च देशिकेन्द्रो ऽथ संस्मरन् मन्त्रसंहिताम्
न्यस्तश्रियादिकैर् नाममन्त्रैः सर्वैः समन्वितम् ।
एषां बुद्धिः सप्तधेति मन्त्रम् एकायनं पठन्
दद्याद् आहुतिकं सर्वं कर्मणां पूरणाय च ।
एतावद् उक्तम् अब्जाक्ष मुख्यकल्पं मया च ते
अनुकल्पमतो वक्ष्ये सर्वेषां च हितावहम् ।
एतस्मिन् कलशे सर्वम् अन्यक्षेत्रगणार्चितम्
मन्त्रव्यूहं यथोक्तं च स्थलगोपलगं न्यसेत् ।
सर्वशक्तिमयीम् एकां शक्तिं वै पारमेश्वरीम्
निवेश्य मध्यतस्तस्मिन् दद्यात् कोशं सुधादिकम् ।
वर्णकैः कुंकुमाद्यैस्तु तत्रोर्ध्वे ऽब्जं लिखेत् ततः
भूभागं खातशेषं यत् समन्तात् समतां नयेत् ।
प्राग्वदाकोट्टनाद्येन सर्वाङ्गैरिपुभिस्ततः
पञ्चरङ्गेण सूत्रेण शङ्कुभिर् याज्ञिकैर् दृढैः ।
अस्त्रमन्त्रेण मन्त्रज्ञो जीमूतम् अथ संपठेत्
चतुः स्त्रक्चन्दनोपेतां बलिं वै साच्च कामिकीम् ।
दद्यात् पूर्वोदितां दिक्षु समाचम्य प्रणम्य च
द्वादशाक्षरमन्त्रेण त्रिस्थानस्थं च मन्त्रराट् ।
क्षान्त्वा तदोपसंहृत्य प्राग्वदर्चनपूर्वकम्
सांसारीनां बहिर्यावद् आचरेत् स्थपतिं पुनः ।
विश्वकर्मा पुरस्कृत्य अन्येषां पिशिताशिनाम्
दद्याद् द्विजेन्द्रपूर्वाणाम् अशनं दक्षिणादिकम् ।
अन्येषाम् अर्थिनाम् अन्नं धनदानं स्वशक्तितः
नानादेशवशाच्चैव कुर्याद् एवं गृहासनम् ।
विभागेन समायुक्तम् आलयं विविधं तथा
मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0