पौष्करसंहिता · अध्याय 43
ध्वजासनावसानं च विभज्य स्वधिया ततः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां प्रासादस्य पादप्रतिष्ठा नाम द्विचत्वारिंशो ऽध्यायः ॥
(समुदित श्लोकसंख्या 201)
अथ त्रिचत्वारिंशो ऽध्यायः
श्रीभगवानुवाच ---
प्रासादावासतः कोणे समारभ्य यथारुचि ।
प्राङ्कणं सर्वदिक्कृत्वा प्राकारं परिकल्पयेत्
ग्रहिकासप्रतोलीकं केवलं वामरान्वितम् ।
प्रासादे तु चतुद्वारे चतुर्मूर्तिर् अलंकृते
द्विद्विकं तु प्रतोलीनां दिक्षु प्राकारगं हितम् ।
चतुष्कं ? प्राष्टकं कुर्यात् प्रासादानां महामते
एकरूपं हि वा नानालक्षणं भगवद्वशात् ।
यथाभिमतमानं च प्रासादाभासमात्रकम्
पक्वेष्ठकाश्मदारुत्थं तत्र कोणचतुष्टये ।
चतुष्कं विहितं विप्र अष्टकं कल्पयेद् यदि
परस्परमुखं कुर्याद् द्वारोद्देशद्वये ततः ।
सान्तरं दिक्त्रये कुर्यात् प्रासादानां द्विकं द्विकम्
सपीठाद् देवमानाच्च द्वारोच्छ्रायम् उदाहृतम् ।
प्रमाणेनोन्नतानां च देवानां च महामते
नानाहृस्वप्रमाणानां पीठेनोन्नतिमानयेत् ।
वैतत्येनोन्नतत्त्वेन लक्षणानियमोज्झितम्
द्वारं सुखप्रवेशं च संकटानां गुणावहम् ।
कृतायां शुद्धविहितं ऋक्षेणानुगतं तु वै
विस्तारायामयोश्चैव आदायाङ्गुलसन्ततिम् ।
शुभाय ऋक्षलाभार्थं गुणयेच्च परस्परम्
शोधयेद् वाथ लाभार्थं मुष्टिभिश्चाङ्गुलिस्थितिः ।
एकत्रिपञ्च वै सप्त शेषाः सर्वे शुभाः स्मृताः
ध्वजशार्दूलवृषभगजेन्द्राः क्रमशो हि ते ।
एवं नक्षत्रलाभार्थं शोभयेत् तां स्थितिं पुनः
आदेकात् सप्तविंशान्तं शेषान्तं हृष्टम् आचरेत् ।
वरयेद् अङ्गुलं चैकं पादयोर्वा प्रयत्नतः
नूनम् अङ्गुलराशैर् वै शुभऋक्षाय सिद्धये ।
विचार्यैवं पुरा सम्यक् कुर्याद् भूमिसुरालयम्
शयनासन आसीनः सुपर्णस्थस्य वा विभोः ।
दिक्त्रये ऽभिमते चैव एवं वा दिक्त्रये त्रयः
उपविष्टं तु याम्यायां पश्चिमे या दिगुत्थितम् ।
उदग्दिग्दक्षिणद्वारे प्रासादे गरुडासनम्
चतुष्टयं चतुर्णां तु कोणानां यत् प्रकीर्तितम् ।
तत्रानले दिग्न्यस्थम् उदग्द्वारे तु प्राक्चरम्
स्वबोधपरिमाणेन सत्त्वेनाभिमतेन च ।
कलासक्ता इयत्ताख्याः परिच्छेदवशात् स्मृतम्
तम् आस्थापनसंज्ञं च विशेषं कमलोद्भव ।
संपन्ने ब्रह्मपाषाणसंस्कारे पैठिके ऽपि च
उद्वर्तनाभ्यञ्जनेन मृद्भूतिगोमयादिना ।
शिल्पिदोषोपशमने स्नानमात्रे कृते सति
निष्पन्ने नेत्रदाने तु स्नाने संपादिते परे ।
उत्थाप्य मूर्तिपालैस्तु गुर्वादीन् बहुभिर्बलात्
निवेशनेन मन्त्रं यद् विविधं सांप्रतं कृतम् ।
त्रितये चैकतां प्राप्ते वज्रलेपेन पौष्कर
प्रोक्ते लग्नोदये मन्त्रन्यासम् आचरणात् तु वै ।
यच्छक्तेर् अनुसन्धानात् तत् स्थितिस्थापने तथा
प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके ।
सिध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै
चलबिम्बस्य यन्मन्त्रं न्यासं वै सासनस्य च ।
नित्यम् आराधनार्थं तु कर्मार्चायाम् अपि द्विज
तं विप्र चलनाख्यं तु स्थितिस्थापनम् एव च ।
क्ष्माभङ्गैर् जलपूर्वैस्तु दोषैर्या चातिदूषिता
उद्धृत्य योजनान्यत्र स्थाने तु शुभलक्षणे ।
सम्यक् संस्थापनाद् भूयः संस्थापनम् उदाहृतम्
विद्युत्प्रपातपूर्वैस्तु दोषैर्या चाभिदूषिता ।
तदुत्थानकृते शश्वन्निर्देषे चासने स्थितिम्
तत्समा लक्षणाढ्या च प्रतिमान्या महामते (हे) ।
अन्यस्मिन् वा नेव पीठे बिम्ब (व?) त्परियोजिता
बोद्धव्यं तद् विशेषं च स्थापनोत्थापनं तु वै ।
ज्ञानसङ्घोज्झितत्वाच्च एकदिक्सममीक्षणात्
प्राधान्येनाथ दिक्चक्रं स्वगात्रैर् इह वासनात् ।
शयनासनसंस्थानचलाचलवशाद् अपि
प्रतिष्ठाख्यविशेषाश्च बहवः सर्वसिद्धिदाः ।
सामान्यसन्निवेशाच्च तद् विशेषगुणात् तु वै
स्थितं चाक्षरया शुद्ध्या सामान्यार्च्चा फलार्थिनाम् ।
फलसाम्यं परिज्ञेयं किं त्वन्यस्मिन् हि जन्मनि
चातुरात्म्यप्रतिष्ठा च ज्ञानं यच्छति शाश्वतम् ।
यत्प्राप्य न पुनर्जन्म पुनरेवाप्नुयान्नरः
फलकामस्तु यः कुर्याच्चतुर्मूर्तिनिवेशनम् ।
श्रद्धया परया भक्त्या संकल्पाद् एव पद्मज
पैतृकं मातृकं चैव जायाख्यं सप्तसंख्यकम् ।
कुलम् उद्धरते तस्मिन् जन्मप्राप्तौ क्षितौ पुनः
धर्मोपेतां हरेर् भक्तिम् आश्रय (त्य?) न्त्यब्जसंभव ।
जातजन्मा तृतीया तु ? प्राप्नुयात् सद्विवेकवत्
समुत्तरति वै येन घोरात् संसारसंकटात् ।
रूपम् आद्यप्रतिष्ठाया इत्युक्तं द्विजसत्तम
विशेषसन्निवेशेभ्यस्त्विदानीम् अवधारय ।
मनीषितं फलं भुक्त्वा दिव्येषु भुवनेषु च
जन्मासाद्य समुत्कृष्टम् आचरेत् पुनरेव हि ।
दैवी ब्रह्मप्रतिष्ठाद्या या परस्मिन् हि जन्मनि
प्राग्वद् यच्छति विज्ञानं परमेशपदाप्तिगम् ।
एतावद् उक्तं वैषम्यं सति साम्यं महामते
यज्ञोत्तमस्य दिव्यस्य सफलस्याब्जसंभव ।
अच्युतस्याविनाशस्य भवक्षयकरस्य च
भेदं यद् वस्तुमात्रेण स्थितं तद् अवधारय ।
वर्णा नां ब्राह्मणादीनां गृहाश्रमरतात्मनाम्
आदीक्षितानां प्राग्विप्र भीतानां मरणादिके ।
व्यवहारस्थितानां च प्रतिष्ठाद्या महामते
निर्वर्जिताः प्रयच्छन्ति फलमुक्तं हि यन्मया ।
निर्वाणदीक्षितानां च गुरुणाच्युतवेदिनाम्
भक्त्या प्राप्ताधिकाराणां नित्यं आराधनं प्रति ।
सम्यक्समाधिनिष्ठानाम् इह जन्मैकशेषिणाम्
विकल्पक्षीणचित्तानां प्रतिष्ठा विहिताब्जज ।
त्राणार्थं स्वकुलादीनाम् अनन्तानां च संभवात्
यावज्जीवावधिं कालं तेषाम् आस्थापनं तु वै ।
विहितं परितोषार्थं बुद्धेर् बुद्धिमतां वर
ज्ञात्वैवं धर्मलब्धेन धनेन च बलेन च ।
आक्षिपन् ग्रहणात् सर्वं ध्वजान्तं वै समाप्यय च
विश्वावासपदावासं दक्षिणाननम् आस्थितम् ।
पीठस्थम् उपविष्टं च प्राग्द्वारे निरृते गृहे
एवं खगेशपृष्ठस्थं वायुदिङ्मन्दिरे हितम् ।
दिव्यभोगफलावाप्तिं सह दिक्तल्पगात् तु वै
प्रजापतित्वम् आपन्ना उक्तदिग्विनिवेशनात् ।
स्थितिं त्रिविष्टपादीनाम् उपरिष्टात् तु शाश्वतीम्
विहायसगतिं दिव्यां यानगात् प्राप्यते पुमान् ।
भक्तानां फललिप्सूनां स्थानस्थलफलादिकम्
फलदिक्संस्थिताः सर्वे नगराणां फलार्थिनाम् ।
उत्कृष्टजन्मूपर्वं तु जन्म चात्मप्रकाशकम्
तद् विद्धि भवशान्त्यर्थम् अचिराद् एव पद्मज ।
यथोद्दिष्टक्रमेणैव दिक्त्रये विनिवेश्य च
नृसिंहकपिलक्रोडमूर्तयो वा महामते ।
प्राग्वद्विदिक्चतुष्केषु चतुर्णां विहितं क्रमात्
वाजिवक्त्रं तु मुक्तानां सिंहादीनां निवेशनम् ।
दिक्त्रये कच्छपादीनां कुर्यात् संस्थापनं तु वा
मीनवामननाथानां देवानां प्राक्फलाप्तये ।
विदिक्षु विनियोक्तव्यं यथोद्दिष्टक्रमेण तु
त्रिवित्रमकुठारास्त्रकरं कान्तावपुर्धरम् ।
सर्वदेवमयं विश्वरूपं तु परमेश्वरम्
एतावद् उक्तनियमम् अतो ऽन्ये ये ऽखिलास्तु वै ।
प्रादुर्भावान्तराश्चैव प्रादुर्भावाब्जसंभव
गुरूणां संमतेनैष योक्तव्यं नान्ययाजकैः ।
सदेवां हि कुटीं रम्याम् आपाद्याभिमतां ततः
द्वाराग्रे मण्डपाभासं सोपानपदवीयुतम् ।
वेदीविभूषितं कुर्यात् स्थितम् आराधनाश्रयम्
भोगानां स्थितये ऽन्येषां वातवृष्टिक्षमं शुभम् ।
प्रासादाङ्घ्रिप्रतिष्ठार्थम् आपाद्याब्जज वै ततः
पञ्चानां वा नवानां च एकस्मिन् वा घटोदके ।
सर्वरत्नमयोपेते न्यस्तं यत्परमेश्वरम्
आङ्गं सलाञ्छनं मान्त्रं परिवारसमन्वितम् ।
स्वशक्तिखचितं चैव प्रत्यहं पूजयेच्च तम्
मन्त्रबिम्बप्रतिष्ठार्थं कालविघ्नोपशान्तये ।
अन्यथा जायते विघ्नम् अनिवार्यं महामते
गच्छन्ति सन्निधिं मन्त्रा नित्यं त्रैकाल्यम् अर्चनात् ।
यच्छन्त्यनर्चनाच्छोकं रोधितं यत्र यत्र च
पदानि प्राङ्कणे चैव देवानां विनिवेशने ।
उक्तानि पद्मसंभूत इदानीम् अवधारय
मध्यदेशे तु तद्भूमेः प्रासादे ऽभिमते तते ।
सन्निवेशवशेनैव नानासंज्ञावसंस्थितः
पीठब्रह्मवशास्थानस्त (म्भ) म्ब ? स्य ? चतुरात्मनः ।
चतुर्दिग्वीक्षमाणस्य यानुसन्धानलक्षणा
बोद्धव्यं सा प्रतिष्ठा च दिग्व्यूहपरिपूरकी ।
धृतिशक्तिस्वरूपेण अमूर्तेनात्ययात्मना
स्थितये प्रक्रियार्थं च ब्रह्मपाषाणताम्रता ।
सर्वं ब्रह्मशिलानिष्ठम् आक्षितेः कमलोद्भव
व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुनः ।
द्रव्यमूर्तिम् अमूर्तां च गृहीतस्तम्ब ? लक्षणम्
एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु ।
संस्थिता स्थितिर् अच्छिन्ना सा प्रतिष्ठित एव हि
भिन्नानां व्यूहमूर्तीनां केवला (द्य) खिलस्य च ।
प्रादुर्भावसमूहस्य व्द्यादिकस्य तु यद् द्विज
एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ।
प्रतिष्ठाख्यं विशेषं तत् स्थापनं समुदाहृतम्
चिच्छक्तिम् अनुविद्धं च अव्यक्तं तत्त्वसंग्रहम् ।
द्रव्यमूर्तौ चलाख्ये च नीतम् एकात्मना धिया
बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज ।
अचलत्वेन सन्मन्त्रं चलभावनया पुनः
साङ्गं सलाञ्छनं चैव कृत्वा अभिमतं तु वै ।
आराधनार्थं हृदयन्यस्तं तद्धृदये पुनः
समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा ।
सदाख्यम् अपरं तत्त्व ....................
नानासंज्ञं तथा नानाप्रमाणं तद्वदेव हि ।
रचनाभिस्तथा नानाविविधाभिस्तु रञ्जितम्
बह्वीभिर्भूमिकाभिस्तु चित्रिताभिर् अलंकृतम् ।
आपादभूमेरण्डान्तम् अनुरूपं च यत्त्रयम्
उत्तरोत्तरतः कुर्याद् भूर्भुवस्वादिकोत्थितैः ।
स्थावरैर् जंगमैः सिद्धैर् विविधैर् मञ्जरीगणैः
नगैन्द्रैर् नागराजैस्तु सुशुभैर् नलिनीवनैः ।
मुरजशृङ्खलाबद्धैर् दिव्यैर् नानालतागृहैः
पुरुजाद्यैर् जलोद्भूतैः प्राणिजालैस्तथैव हि ।
वनजैर् नगजैश्चान्यैर् मृगराङ्गणपूर्वकैः
वारणाः शबराश्चैव हंसपद्मसमाश्रितैः ।
शङ्खस्वस्तिककह्लारपूर्वैर् अन्यैस्तु वारिजैः
नन्दिकैः केसरै रम्यैः शतपत्रवद् उत्थितैः ।
सकिङ्किणीकैश्चमरैरातपत्रैर् ध्वजादिकैः
भूमिगाभूमिगैः सर्वैः समुद्रैः सरितान्वितैः ।
नवोपकरणैर् देवैश्चन्द्रार्कज्वलनादिकैः
प्रादुर्भावान्तरैर् द्विव्यैः प्रादुर्भावसमन्वितैः ।
द्वीपैर् द्वीपान्तरोपेतैः पातालैस्तज्ज ? नान्वितैः
महर्जनस्तपःसत्यलोकनाथैर् महाप्रभैः ।
ध्यानमौनपरैर् ब्रह्मन् वह्निदेवयुतैर् द्विजैः
इत्येवम् आदिकैश्चान्यैर् जङ्घास्तम्भवतीः शुभाः ।
भूषयेत् कमलोद्भूत सर्वदिङ्नासिकैः सह
गर्भगृहाम्बरमध्यात् कुर्याच्चक्राम्बुजाङ्कितम् ।
पितामहाद्यैर् विबुधैः सिद्धविद्याधरैः सह
पुष्पजपमालाधरैः प्रह्वैश्चामरैर् व्यजनोद्धतैः ।
वनमालागदाशङ्खचक्रपद्मश्रियादिकैः
खगेशवेदवेदाङ्गैर् अक्षसूत्रकराङ्कितैः ।
आवार्यावरकत्वेन चक्रपद्माद्बहिः स्थितैः
अन्तर्भित्तिगणं सर्वदेवदैत्यादिकैर्गणैः ।
नृत्तगी (त) परैश्चान्यैर् नारदाद्यैर्विभूषयेत्
प्रणवेन स्वनाम्ना च नतिनिष्ठेन तत्र वै ।
सन्निरोध्य च तन्मन्त्रं भूलोकं पादमाक्षिति
एवं प्रासादपीठे तु भुवर्लोकं यथास्थितम् ।
जङ्घायां स्वर्गलोकं च महच्छिखरभूमिगम्
स्तम्भं च तलपं चैव चरणं जङ्घमेव च ।
स्थानं स्थूणं च पादं च पर्यायवचनास्त्विमे
जनर्लोकं च तद् वेद्यांतस्तपःसंज्ञं ? च दण्डकम् ।
सत्यसंज्ञश्च तल्लोकं तच्छिखायां सुरालये
भावयेच्च परां व्याप्तिमेव वै साप्तलौकिकीम् ।
भुवनोर्ध्वमयीं विप्र प्रासादे ऽभिमते तु वै
अनुविद्धं पादपाद्यैर् अन्यैस्वत्तास्वरूपकैः ।
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः
भूर्लोकांशं विना ब्रह्मंस्तथान्यैर् उज्झितं हि तत् ।
रजस्तमोमहत्त्वाच्च ईषत् सत्त्वगुणात् तु वै
सत्त्वैकगुणरूपाणाम् अन्येषाम् अत एव हि ।
भूर्लोकं च पृथक्संस्थं पदाद्यध्वगणस्य च
कूर्मब्रह्मात्मसंज्ञायां शिखायां च पदत्रयम् ।
न्यस्तव्यं जाग्रदाद्यं यद् रत्नन्यासे कृते सति
तुर्यब्रह्मपदोपेतं मन्त्राध्वप्रतिमासने ।
ताभ्यां तं पादतो ऽन्यस्य तत्त्वेयं कमलोद्भव
आनाभेमूर्धपर्यन्तं कलाध्वं भावयेत् ततः ।
तद् ब्रह्मरन्ध्रकमले मन्त्रब्रह्मतलक्षितौ
कर्णिकायां परं ब्रह्म सामान्यं शाश्वतं विभुम् ।
दीक्षाकाले यथोद्दिष्टा मया ते ऽध्वमयी स्थितिः
प्रासादानां तु सा सिद्धिः शिखान्तानां महामते ।
प्रतिमानां सपीठानां साधिभूतादिलक्षणम्
तत्राध्यात्मं हि भगवान् मूर्तं शान्तं मम आच्युतम् ।
स एव हि विराडात्मा ह्यधिदैवतमव्ययम्
अधिभूतं द्विजाव्यक्तं सर्वतत्त्वमयं हि तत् ।
विद्याकलादिकैश्चान्यैः परार्थैर (खि) लैः सह
सबीजे विलये यद्वत् सुसूक्ष्माद्यैर् व्यवस्थितः ।
तत्त्वाः शब्दादयश्चैव बुद्धिनिष्ठा महामते
तद्वत्प्रासाददेहे तु ते देवाधिष्ठिते स्मृताः ।
सर्वशक्तिमये विप्र शुद्धं सत्सत्त्वलक्षणैः
यथोपचाद् विहितं मन्त्रं सर्वेश्वराद् विभोः ।
सर्वज्ञं सर्वगं चैव सर्वकर्तारम् ईश्वरम्
मन्त्रमूर्तेस्तथा विद्धि उपचारात् तु तद्गृहम् ।
संस्कृतस्य त्वतो यत्नात् सपीठस्य यथाविधि
देववत् स्थापनं तस्य विहितं सत्त्वजस्य च ।
सोपानपदवी युक्ता जगती या सुलक्षणा
प्रासादस्य च पीठं तत् परिज्ञेयं यदात्मकम् ।
एकीभूतत्वम् आपन्नं सुधालेपैस्तु सायसैः
पक्वेष्टकासमेतैश्च स्थिरमृच्चोपलैस्तथा ।
प्रमाणलक्षणोपेतं विश्वविद् रचनान्वितम्
रञ्जितं रागजालेन फलं यच्छति शाश्वतम् ।
जीर्णत्वाच्च कृतं भूयः स्वयंव्यक्तादिभिर्द्विज
आकारेष्वाच्युतीयेषु विविधेष्वर्चितेषु च ।
फलं सहस्त्रगुणितं कर्ताप्नोति महामते
तोयाशयेशया वृक्षा क्षेत्रं पुष्करमादियत् ।
पौनःपुन्येन सद्भक्तैः कृतदुष्कृतशान्तये
अनाद्यज्ञानसंसर्गात् कालह्रासवशाद् अपि ।
नष्टं नरेन्द्रनाथा ये पालयन्त्यर्चनादिकैः
देहान्ते यान्ति ते स्वर्गं राज्यदोषैर् अनावृताः ।
कालेनेत्य पुनः स्वर्गात् ज्ञानम् आसाद्य निर्मलम्
येन सांसारिकं दुःखं दुःसहं नाशमेति च ।
फलम् एतावद् उक्तं हि देवालयसमापनात्
सवित्तानां च भक्तानां नृपाणाम् अपि पद्मज ।
सर्वाध्वभावनोपेतम् आस्तां तावत् सुरालयम्
भुवनाध्वमयीं व्याप्तिम् आपादयति केवलात् ।
अनुग्रहेच्छयाचार्यो भक्तानां संप्रदर्शयेत्
लक्ष्म्या लक्षणयुक्तस्य स्थपतेरशठस्य च ।
प्रागुक्तं लभते कर्ता सुसंपूर्णफलं द्विज
प्रासादानाममन्त्रं तु स्वयं शिल्पिकरात् तु वै ।
यत्फलं लभते कर्ता हेमक्ष्मान्नादिकं हि तत्
फलं सर्वस्वदानाद् वा लभते विधिपूर्वकात् ।
मृदा दार्विष्टकाद्यैस्तु स्वल्पं वा मध्यमं महत्
प्रमाणलक्षणोपेतं सुराकीर्णं सुरालयम् ।
यथोदितैर् गुणैर् युक्तं ग्राम्यं वा कुटिसंज्ञितम्
दिग्विदिक्सान्तराद् बाह्याद् युक्तं प्रस्थापितैः परैः ।
विभवव्यूहसंज्ञैस्तु प्रादुर्भावान्तरास्तु वा
अवनीचलनाद्यैस्तु दोषैः संचालितं यदि ।
दीर्घकालवशेनापि स्नातानां धनकर्मणाम्
कुर्याद् यथावद् उद्धारं गुरूणां संमतेन तु ।
राजा वा तद् अमात्यो ऽन्यः सद्भक्तश्च नृपाज्ञनया
व्रतार्चनादिकार्याणां लब्ध्वानुज्ञां परां विभोः ।
अनन्तशयने दार्भे उत्तानस्थं स्मरेद् विभुम्
द्वादशाक्षरमन्त्रेण स्वर्गेशं भगवान् हरिः ।
अयुतं त्वयुतार्धं च शतम् अर्धाधिकं तु वा
अथानुकूले नक्षत्रे नृपस्य नगरस्य च ।
शान्त्यर्थं जीवभूतं यन्मन्त्रेशगुणमूर्तिभृत्
त्रैगुण्यं यच्छते हस्तम् अर्चयित्वा यथाविधि ।
तर्पयित्वा च देहान्ते समिद्भिर्बहुभिः क्रमात्
भुवनाध्वमयं शक्तिर्व्यक्तिसङ्घं यथोदितम् ।
तथा वर्णाध्वपदसङ्घं सत्ताभूतं हि पञ्चकम्
तर्पयित्वार्चयित्वा च साधिभूताधिकं तु वै ।
भूतशक्तिगणं तद्वत् सुसूक्ष्मम् अपरं हि यत्
देवपीठालयं विप्र रुद्धं कुर्याद् यथाक्रमम् ।
उदयार्कसमं ज्ञात्वा संज्ञामन्त्रपदैः स्वकैः
प्रणवाद्यैर् नमो ऽन्तैश्च व्यक्तिस्थं पुनरेव हि ।
प्रातिमं रक्ष भगवन् मन्त्रवृन्दं हि चाध्वजम्
उदुम्बरार्धमानस्थं दिग्विदिग्भूमिकं हि यत् ।
बुद्धिधर्मस्थितैर् दर्भैर् व्याप्तामा बैम्बलक्षणे
सम्यक् तदपरिज्ञानाद् अनुसन्धानम् आचरेत् ।
तद् उत्थापनकाले तु कृतन्यासस्तु सांप्रतम्
उपोद्धरणलिङ्गैश्च साष्टाङ्गैर् वेदिकैस्तथा ।
एकैकम् आत्मसाकृत्वा पूरकेणार्कबिम्बवत्
सुसंमते ऽर्चिते कुंभे हेमाद्यैर् मूर्तिके तु वा ।
निरोध्योदकसंपूर्णे पूजयेत् प्रत्यहं ततः
संपन्नोत्पत्तये सम्यगवतार्य यथोद्धृतात् ।
संस्कृतस्य प्रतिष्ठानम् आचर्तव्यं हि वै पुनः
नृपेन्द्रराष्ट्रस्थानानां गोद्विजानां च वृद्धये ।
यत्पदप्राप्तये शश्वत् सखिलस्याखिलस्य च
प्रासादप्रतिमानां च एवम् उत्थापनं द्विज ।
गोभूहेमादिकानां च राष्ट्रस्य सनृपस्य च
जायते शुभशान्त्यर्थम् इहलोके परत्र च ।
अतो ऽन्यथा महान् दोषो भवेद् वै पद्मसंभव
प्रासादग्राहिकानां च बहिश्चाभ्यन्तरे तु वा ।
बिम्बानां चाल्यमानानां मन्त्रैर् अष्टाक्षरादिकैः
प्राग्वन्न्यस्तस्वमन्त्राणां समाहरणम् आचरेत् ।
मणिना सूर्यकान्तेन आदित्याद् अनलं यथा
समाहृतेषु मन्त्रेषु चाल्यमानेषु पौष्कर ।
भङ्गे कर्मवशाज्जाते प्रतिमासु प्रमादतः
प्राक्तनेनैव पापेन प्रायश्चित्तं चरेत् तदा ।
चित्तप्रसादजनकं कीर्तिशर्मकरं तु वै
तत्रैकरात्रपूर्वं तु त्रिरात्रं षडहन्तु वै ।
व्रतं द्वादशरात्रं च स्वशक्त्या तु समाचरेत्
स्नानादिहवनान्तेन कर्मणावहितेन (तु) च ।
तिलानि सहिरण्यानि दानं सरजतानि च
शान्तिपूर्वं द्विजेन्द्राणां साज्यक्षीरोदनादिकम् ।
भोजनं तु यथाशक्ति बहूनां वै महामते
सदानमेवं निर्वर्त्य व्रतं वै देशिकादिजम् ।
वसेद् आश्रित्य वै क्षेत्रं प्रसिद्धं सिद्धसेवितम्
सुप्रसिद्धं तु वा तीर्थम् एकाहं वा दिनत्रयम् ।
आवर्तयन् महामन्त्रमसकृद् द्वादशाक्षरम्
कालं मुहूर्तसंज्ञं यत् प्रतिसन्ध्यात्रयं तु वै ।
पूर्णम् आयतने कुर्याद् दिव्ये वा सिद्धसंज्ञके
सति वै भक्तिसाम्ये तु प्रायश्चित्तम् इदं स्मृतम् ।
सामान्यं सर्ववर्णानां मनसः प्रकटे तु वै
उत्तरोत्तरम् आधिक्यं जपकर्मणि वै स्मृतम् ।
शूद्रविट्क्षत्रविप्राणां भक्तानां नान्ययाजिनाम्
उक्तं ह्येतत् प्रकाशे तु अथ यावत्प्रसन्नताम् ।
तावत्कालं जपेन्मन्त्रं भक्षयेत् पावनं मतम्
यावत्प्रसादम् आयाति स्वबुद्धिर् मनसा सह ।
अप्रकाशे द्विषट्कार्णं मन्त्रम् अष्टाक्षरं हि यत्
षडक्षरं द्विजश्रेष्ठ क्रमात् सन्ध्यात्रयं तु वै ।
स्नानं यथोदितं कुर्याज्जपेद् अन्तर्जले स्थितः
त्रिमन्त्रसहितां शक्त्या स्नानकाले त्वनन्यधीः ।
अष्टार्णमुक्तसंख्यं तु प्रातर्मध्ये दिनक्षये
देशकालं तु वै कुर्यात् प्रतिस्नानं तु वै सकृत् ।
पञ्चाङ्गम् अभिषेकं च शेषं सन्ध्याद्वये हितम्
जघनान्तमधःकायं संप्रक्षाल्यामृताम्भसा ।
अधोवासः परित्यज्य शुभम् आदाय चाम्बरम्
दिनत्रयं च षडहमष्टाहो द्वादशाह्विकम् ।
शूद्रादीनां द्विजान्तानां हितं चोत्तरतोत्तरम्
क्रमम् एतन्महाबुद्धे मनसः शुद्धिकारणम् ।
फलेनानुगतं भूयो विध्यन्तरम् अथोच्यते
संक्षिप्तं सर्वसामान्यं यथाभिमतभूमिकम् ।
चतुर्हस्तद्विषट्कान्तं क्षेत्रं क्षेत्र .......कम्
उत्तरोत्तरपूर्वाभ्यां न्यूनं न्यूनतरावधि ।
भागैस्त्रिदशपर्यन्तैर् भक्तैः पञ्चशतादिकैः
भित्तयोंऽशद्वयेनैव पञ्चाङ्गाद् अन्तरं तु हि ।
गर्भं सार्धत्रयेनातो भित्तयोर्ऽधद्वयेन च
विद्धि षट्करमानस्य भूभागस्य च कल्पना ।
अष्टमांशोज्झितैर् भागैर् गर्भं सप्तपदं तु वै
परिज्ञेयं चतुर्भिर्वै तच्छिष्टैर् भित्तयोंऽशकैः ।
चतुर्भिर् अष्टभागैस्तु सार्धैर् अष्टकराग्रहम्
भागत्रयेन सार्धेन भित्तिव्यूहं समापयेत् ।
साङ्गं पञ्चकरं गर्भक्षेत्रं नवपदात् तु वै
शेषेण करसङ्घेन भित्तयः परिकीर्तिताः ।
षट्करं दशहस्तस्य गर्भक्षेत्रस्य विस्तृतम्
करद्विद्वितयेनैव भित्तिसङ्घं विधीयते ।
एकादशकरक्षेत्रात् गर्भं सार्धं च षट्करम्
सार्धं चतुःकरं चैव भित्तिमानम् उदाहृतम् ।
क्षेत्रद्वादशभागात् तु पादोनं समसप्तकम्
देवालयं परिज्ञेयं पादोनैकं चतुष्करैः ।
विधेया भित्तयश्चैव विभज्यैवं तमेव हि
कृत्वा त्रयोदशांशैस्तु फलदीभित्तयोंऽशकैः ।
नवांशे वभभिः पूर्णे विधेयं भगवद् गृहम्
शुभापचय सिद्धिम् आपाद्य व्द्यङ्गुलेनाङ्गुलेन वा ।
एषां प्रसादगर्भांशभित्तिभ्यां पातयेन्मनः
मानाधिकं विनिक्षेप्य क्षेत्राणां च निपातयेत् ।
परमाणुसमं मानं किं पुनश्चाङ्गुलादिकम्
मता वृद्धिकरी नॄणां वृद्धिपातम् अशोभनम् ।
समानीयं हि यत्नेन महता तच्च पौष्कर
रचनाभिरूपेतं च विहितं च चतुर्मुखम् ।
चातुरात्म्यव्यपेक्षायामेकद्वार.......था
यथाभिमतदिग्वक्त्रं नानासिद्धिफलाप्तये ।
चिरायुषार्थी प्राग्वक्त्रं यशोर्ऽथी दक्षिणामुखम्
कुर्यात् प्रत्यङ्मुखं चैव वृत्त्यर्थं च स्वतन्त्रके ।
उदङ्मुखं च प्रासादं धनधान्यं प्रयच्छति
एतावत् उक्तं हि फलमैहलौकिकम् उत्तमम् ।
नानाभोगसमोपेतं सर्वासां विद्धि पौष्कर
स्वक्षेत्रे वितते रम्ये स्वतन्त्रं स्वाङ्कनक्षितौ ।
सह पूर्वप्रतिष्ठायाम् अथवायतने हरेः
स्वायम्भुवे वा सिद्धाख्ये मुख्यकल्पम् इदं स्मृतम् ।
अनुकल्पमतो ऽन्यत्र बोद्धव्यं विबुधाङ्कणे
प्राक्प्रासादध्वजच्छायाविनियुक्ते तते पदे ।
इष्टकां च सुधाचूर्णं दोषैश्च परिशोधिते
तदन्तरे प्रतिष्ठाप्य होमाद्युक्तं हि सोन्नतम् ।
प्रासादद्वारमानैस्तु सपीठं विश्वम् आच्युतम्
संपूर्णं लक्षणैः सर्वैरार्णवान्तरकीर्तये ।
ष्यातीतस्य वंशस्य स्वकस्योद्धरणाय च
यदैवैतत्कृता बुद्धिः प्रतिष्ठां पादयाम्यहम् ।
तत्क्षणाद् एव तत्कीर्तिः प्रतिष्ठां लभते ऽच्युताम्
भूलोकाद्यखिलानां च स्थानानाम् अपि किं पुनः ।
विभवेन जगद्योनेः प्रतिष्ठां यः समाचरेत्
पित्रासू (दी?) नां गतासूनाम् अन्येषां वा करोति यः ।
वैष्णवं च प्रतिष्ठानं स्वशक्त्या विभवेन वा
अचिरादेव ते यान्ति शश्वदेवान्तकास्पदम् ।
वैष्णवं च परं स्थानं ततः कालान्तरेण तु
क्षित्यंशं शुभम् आसाद्य कुलशीलादिकैः सह ।
आचरन्ति शुभं येन प्राप्नुवन्ति पुनर्भवम्
कृपया.......नन्तु प्रतिष्ठां यः समाचरेत् ।
जातीनामथवान्येषां तदुत्थं च फलं.......
प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः ।
कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु
कृता वै ध्वस्तदोषाश्च निर्विघ्नम् अमलां पुनः ।
निवेशिताः सुसिद्धाद्यैस्तीर्थैः क्षेत्रावनेषु च
निवारयन्ति ये मोहाद् विभवव्यूहमूर्तिषु ।
संस्थानमानम् आकारं न दोषं कालान्तरोत्थितम्
स्मर्तव्या वासुदेवाद्या द्विभेदाः पारमेश्वराः ।
चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया
एवमन्ये व राहाद्याश्चतुर्व्यूहेन वै सह ।
तथैव केशवाद्या ये अन्येनान्यतरेण वा
मन्दमन्दतराद् भाववशाद् अमरपूजित ।
एवं यद् अधिकारेण कुर्याद् आराधनं हि यः
भोगैर् यथोदितैः शुद्धैः क्रियाभिर्विविधैस्ततः ।
निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं समन्त्रराट्
नानर्चितं विभोर्भोगं कल्पितं विनिवेद्य च ।
प्रणवाद्यन्तगेनैव .....................
मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0