भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 41

41.1

रचनासंनिवेशेन समभ्यूह्य समाप्य वै ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां भद्रपीठलक्षणं नाम चत्वारिंशो ऽध्यायः ॥
(समुदितश्लोकसंख्या 109)
अथ एकचत्वारिंशो ऽध्यायः
पौष्कर उवाच ---
उक्तमार्गेण चोद्दिष्टं मान्त्रं संस्थापनं तु वै ।
यथावद् उक्तं तद् अहं ज्ञातुम् इच्छामि सांप्रतम्

41.2

श्रीभगवानुवाच ---
नृणाम् आराधकानां तु मन्त्रैकनिरतात्मनाम् ।
मन्त्राकृतेः प्रबुद्धस्य गुप्तं कृत्वार्चनं हितम्

41.3

अथ दार्वादिकानां तु धातूत्थानां समाहितः ।
रचनासंनिवेशं च सस्तंभानां निबोधतु

41.4

तथा स्तंभविमुक्तानां भूभागाङ्घ्रिनिवेशिनाम् ।
बाहुल्यं च स्वविस्तारात् तृतीयांशसमं स्मृतम्

41.5

प्रणालं तत्समं दैर्घ्याद् विस्तृतेर्वार्धसंमितम् ।
विभज्य सुसमैर् भागैर् अधमं बलवत्पुरा

41.6

स्वल्पा द्वादशसंख्यैस्तु मध्यमास्तु द्विसप्तकैः ।
द्विर् अष्टसंख्यैर् विततास्तत्राद्यानां तु मध्यतः

41.7

विधेयं षड्भिर् अंशैस्तु पीठं श्लक्ष्णं समं शुभम् ।
सुवृत्तं चतुरश्रं वा स्वपद्मं केवलं त्वथ

41.8

चक्राम्बुरुहयुक्तं वा तदुच्छ्रायं विधीयते ।
अर्धभागेन बाहुल्यात् तत्सार्धं सकजस्य च

41.9

समं सचक्रपद्मस्य तयोः पूर्वोक्तलक्षणम् ।
विहितं किन्तु विप्रेन्द्र चतुरश्रस्य कल्पयेत्

41.10

कोणेषु शङ्खनिर्माणं शङ्खाद्यं वा चतुष्टयम् ।
वर्तुलस्य न ते कार्यास्तथैव कमलोद्भव

41.11

चक्रपद्मवियुक्तस्य चतुराश्राश्रयस्य च ।
यदुक्तं चक्रपद्माभ्याम् अर्धे तुङ्गत्वम् अब्जज

41.12

न केवलस्य विहितं मन्त्रास्पदस्य च ।
तद् अब्जं निखनेन्मध्याद् द्व्यंशं द्व्यंशं समन्ततः

41.13

खातं भागं समं चैव सार्धं दैर्घ्याद् विधीयते ।
जलाश्रयं तु परितः खाताद् भङ्गसमं बहिः

41.14

सोपवीतं च विहितम् अन्तरेखाश्रयस्थिते ।
द्वादशांशकृतानां च इत्येषाम् अंशकल्पना

41.15

विहिता काष्ठवर्गाणां शैलजानाम् अपि द्विज ।
भङ्गाद् विभक्तिभिर्भागैर्मात्रं यत्कल्पितं पुरा

41.16

तन्मध्ये मुनिभिर्भागैः सर्वं पूर्वोक्तम् आचरेत् ।
भागद्वयं द्वयं चैव परितो निखनेत् क्रमात्

41.17

जन्माश्रयं तु भागेन सार्धेन परितः स्मृतम् ।
ततोर्ध्वम् उक्तमानं यत् तत्र तद् विहितं तु वै

41.18

विभज्य तत् षोडशधा मध्ये भागाष्टकेन वै ।
विधेयम् अखिलं प्राग्वद् भागात् पादेन वै सह

41.19

परितो निखनेद् द्रोणीं ब्रह्मन् भागद्वयेन तु ।
जलाश्रयं तु विहितं पादोनेन द्वयेन वा

41.20

आपाद्य चक्रं प्रागुक्तं कमलाद्यं यथोदितम् ।
नवपद्ममयीं कुर्यात् संस्थितिं चार्चने विभोः

41.21

यथायथा च विस्तारं समभ्यूह्य तथातथा ।
आदाय खातपूर्वेभ्यो मध्यदेशे तु योजयेत्

41.22

विभक्तं भवते येन क्षेत्रं चेद् अम्बुजस्य च ।
नवानाम् अपि पद्मानाम् अथ मन्त्रवराश्रितम्

41.23

पद्मं साधारणाज्जालं युज्यते ऽभ्यर्चितं यथा ।
इति विस्तीर्णभागानां विभागं हि यथोदितम्

41.24

कृत्वाथ रचयेद् यत्नाद् बाहुल्यं मेखलादिकैः ।
जलाश्रयसमेनादौ तद् उद्देशात् क्रमेण तु

41.25

शोधयित्वानुपादेन बाहुल्यं दिक्चतुष्टयात् ।
त्रिचतुः पञ्च वा षड् वा ततः पुच्छाश्रितेर् भजेत्

41.26

त्रिधा विभक्तं सोष्णीषं सपद्मं मेखलात्रयम् ।
चतुर् विभक्तेनोष्णीषं मेखलाषट्कमध्यगम्

41.27

कुर्याद् वै किङ्किणीजालद्वयेन नलिनीं शुभाम् ।
मुनिभक्ते तु बाहुल्ये षोढा कमलसंभव

41.28

भागेनोष्णीषवर्गं तु श्लथगात्राग्रवद् भवेत् ।
तदधः शुक्तिकाकारं सूत्रं छिन्नं विधीयते

41.29

अधस्ताच्छुक्तिभागस्य वृत्तं कुर्यात् सकर्णिकम् ।
वृत्तासनं च विहितं चतुरश्रं समन्ततः

41.30

तदधस्त्रितयं कुर्यान्मेखलानां सुलक्षणम् ।
सपादाश्चोक्तपादेभ्यः किञ्चित्किञ्चिद् यथाक्रमम्

41.31

स्थितिरन्तरसूत्रीया विभागजननी हिता ।
सन्त्यज्योष्णीषपीठांशं गरुडं च कृताञ्जलिम्

41.32

स्ववक्त्रेणापरेणैव युक्तं पाणिद्वयेन तु ।
कुर्यात् पूर्वापराभ्यां वा मन्ये भद्रासनस्य च

41.33

गंगायमुनयोर् मध्ये वरुणं यादसां पतिम् ।
मध्यतस्तद् उदग्भागे भद्रपीठस्य कल्पयेत्

41.34

पार्श्वद्वये प्रमाणस्य समुद्रं रत्नपात्रधृत् ।
विधेयं सौम्यमूर्तिं च दिव्यैर् जलचरैः सह

41.35

दिक्चतुष्कम् अतः शेषम् आपूर्यं किङ्किणीगणैः ।
द्रव्यजे चलबिम्बे वा अङ्गुलैः परिनिर्मिते

41.36

अथोर्ध्वं तु नृपादीनां हितं नानानिवेशनम् ।
महाधनानां चान्येषां शुभेप्सूनां च कीर्तये

41.37

नानाधर्मप्रतिष्ठानं तत्र तावत् समाचरेत् ।
राजा वा साधकश्चान्यो लोकदं स्वर्गदं हि यत्

41.38

वृषोत्सर्गफलेनाशु निवृत्तिं तस्य कर्मणः ।
कृत्वा तदनु वै कुर्याद् हरेः संस्थापनं पुनः

41.39

विशेषकर्मनिचयं प्रत्यस्तम (? मे) ति यत्र वै ।
संकल्पाद् एव नाधर्ममाजीवम् अभिविन्दति

41.40

सम्यक् समाप्तो येनैव तेनान्यस्मिन् हि जन्मनि ।
विवेकजं परं ज्ञानम् आप्नुयान्मोक्षसिद्धिदम्

41.41

नान्येन कर्मणा यस्माद् विषकीर्णेन कर्मणा ।
जायते परया शान्तिर्धर्मवश्यो ऽक्षयप्रदः

41.42

पौष्कर उवाच ---
नानाधर्मप्रतिष्ठानं लोकानां हितकाम्यया ।
ज्ञातुम् इच्छामि भगवन् त्वत्तः संदेहशान्तये

41.43

श्रीभगवानुवाच ---
पञ्चायतनूपर्वं प्राक् कृत्वा देवालयं शुभम् ।
कामनारहितेनैव चेतसा विमलेन तु

41.44

धर्मार्थम् आश्रितं तस्मिन् पुरं कुर्याद् द्विजास्पदम् ।
सर्वलोकेषु सामान्यं सर्वदोषक्षयङ्करम्

41.45

सर्वधर्मोत्तमं चैव सर्वदा सर्वकामदम् ।
प्रवरं पञ्चकालज्ञसमूहं भगवन्मयम्

41.46

षट्कर्मनिरतं चापि त्रयीधर्मपरायणम् ।
ज्ञातिशुद्धं परिज्ञाय निर्द्वन्द्वं च परस्परम्

41.47

दाशाग्निहोत्रसंयुक्तं वेदाध्ययनतत्परम् ।
नदीशैलवनोपेते दुष्टप्राणिविवर्जिते

41.48

सस्यशालिफलाढ्ये तु स्निग्धशष्पसमाकुले ।
स्वादुतोयप्रदे देशे सुप्राकारविभूषिते

41.49

तम् आसाद्य शुभं तत्र पूजयित्वा जगत्प्रभुम् ।
ततः स्नात्वानुलिप्तं च वस्त्रालंकारभूषितम्

41.50

ताम्रशासनपूर्वं तु ब्राह्मणं विनिवेश्य च ।
आसनेषु समूहन्तं पाद्यार्ध्यकुसुमैर् यजेत्

41.51

तं च धूपैः सुगन्धैश्च ताम्बूलेन महामते ।
यथाक्रमोपदिष्टेषु दद्यात् पाणौ कुशोदकम्

41.52

द्वादशाक्षरमन्त्रेण प्रमाद्यम् इति पाठयेत् ।
प्रतिष्ठासीति वै साम कुर्याद् वै प्रार्थनां ततः

41.53

यथावद् अर्चनीयश्च मदनुग्रहकाम्यया ।
स्वगृहे पुण्डरीकाक्ष स्वकुलोत्थेन कर्मणा

41.54

सहसद्धर्मचारिण्या व्यक्तवेद्यां यथागमम् ।
समिदादीनि चाग्नीनाम् अग्नेर्वा शक्त्यपेक्षया

41.55

त्रैकाल्यमा च कर्तव्यं स्वधर्मः परिपाल्यताम् ।
प्रवेशं न समापन्ना दा (? द् दा) तव्यं पापकर्मणाम्

41.56

संस्कार्या स्वसुताः कन्या भृत्यामात्याः स्ववंशजाः ।
वैष्णवेन विधानेन कार्यास्ते भगवन्मयाः

41.57

आ मुहूर्तात् तु वै ब्राह्माद् यावदादित्यदर्शनम् ।
स्नानपूजाजपस्तोत्रपाठैः संध्यां समाचरेत्

41.58

यागसाधनभोगानाम् उपार्जनम् अनन्तरम् ।
ततः स्नानं तु विधिवद् यथोक्तं विधिना हितम्

41.59

सायम् आभूतशुद्धिं च अन्तर्यागम् अनन्तरम् ।
यथोक्तविधिना चाथ कुर्याद् आराधनं बहिः

41.60

ततो ऽग्निहवनं चैव क्रियां पैत्रीम् अनन्तरम् ।
बलिदानं च भूतानाम् अतिथीनाम् अथार्चनम्

41.61

बन्धुभृत्यसमोपेतम् आत्मयागम् अनन्तरम् ।
ऋक्सामपूर्वं स्वाध्यायम् इतिहासादिचिन्तनम्

41.62

आचर्तव्यं समाधानं स्वहृत्पद्मान्तरे ततः ।
त्रयोदशाङ्गम् इत्युक्तम् आह्निकं भगवन्मयम्

41.63

कार्यं वै प्रत्यहं भक्त्या क्षीयमाणे क्षपागमे ।
संन्यासम् आचरेद् भूयः कुर्याद्ग्रहणम् अस्य वै

41.64

देशिकेन्द्रमुखेनैवम् आज्ञातुं गृहमेधिनाम् ।
दत्त्वा निर्गत्य वै तत्र कर्ता कुर्यात् प्रदक्षिणम्

41.65

इति ब्रह्मप्रतिष्ठानं विधानं कथितं च ते ।
वैष्णवीयैः पालनीयं नृपेन्द्रैश्च स्वसिद्धये

41.66

स्वसिद्धान्तप्रतिष्ठानम् अथेदानीं निबोधतु ।
मठम् आयतने कृत्वा वृत्तिपूर्वम् अकृत्रिमम्

41.67

वणिक्कुटुम्बभृतकैर्युक्तं दासगणेन तु ।
वाप्यो घरट्टजा[लिटन्यः सह वातायनैः स्थिताः

41.68

तत्रान्नं व्यञ्जनोपेतं भक्ष्यकान्नादिकं बहु ।
विविधं साधयित्वां प्राक् स्नात्वा तु गुरुणा सह

41.69

द्वादशाक्षरपूर्वैस्तु मन्त्रैर् न्यस्ततनुः सुधीः ।
अर्चयित्वा जगन्नाथं परमेश्वरम् अच्युतम्

41.70

अभ्यागतान् समाहूय ब्राह्यणान् वेदपारगान् ।
इदं तद् अमृतं चान्नम् इदमायुः प्रजापतिः

41.71

इदं विष्णुरिदं प्राणम् इदं जीवम् इदं परम् ।
सर्वसत्त्वहितार्थं च अनुयागं प्रतिष्ठितम्

41.72

पञ्चभूतजगद्योनेर् अन्नमूर्ते जनार्दन ।
आ भूतसंप्लवं कालं भव सन्निहितस्त्विह

41.73

चोदयेद् ऋङ्मयान् प्राग्वत् सामज्ञाद् द्वे परे श्रुती ।
गुरुर् अभ्यर्थनीयश्च सकुटुम्बेन वै पुरा

41.74

अभ्यागतगणेनापि सह चान्यैः परेण तु ।
योक्तव्यं पालनीयं च मदनुग्राह्यया धिया

41.75

तर्पयेत ततो ऽन्नेन अन्नाद् अर्चार्चितेन तु ।
समूहम् उपविष्टं तु उच्छिष्टं शोधयेत् ततः

41.76

यायात् प्रदक्षिणीकृत्य अभ्यागतगणं ततम् ।
इदम् अन्नप्रतिष्ठानम् उक्तम् अच्युतभाविनाम्

41.77

ज्ञानप्रतिष्ठानम् (77-143)
परम् उद्धरणोपायं तथाखिलसुखप्रदम् ।
अथ ज्ञानप्रतिष्ठानम् इदानीम् अवधारय ।
यत्कृत्वा जायते ज्ञानं विवेकसहितं हि यत्

41.78

परिशुद्धान् समुच्चित्य पञ्चरात्रीयसञ्चयान् ।
सदागमादिकान् कृत्स्नान् वेदेवदाङ्गसंयुतान्

41.79

स्मृतिस्मृत्यन्तरोपेतान् इतिहाससमन्वितान् ।
आन्वीक्षकीभिर् विद्याभिः सशब्दाख्याभिसंवृतान्

41.80

नदी (? न्दि) नागरकैर्वर्णैविविधान् वर्णसंचयान् ।
पूरयित्वा विनिक्षिप्य संपुटेष्वक्षयेषु च

41.81

ग्रथयित्वासिताद्येन सूत्रेण सुदृढेन तु ।
सुस्थिरे सुप्रसिद्धे च नृपनागरसेविते

41.82

द्विजोषितेभ्यः संकीर्णे सत्समूहेन पालिते ।
समीपे ऽश्ममयं वेश्म लोहयन्त्रसमन्वितम्

41.83

सकवाटार्गलोपेतं सुधाधवलितं शुभम् ।
कञ्जस्थया वागीश्वर्या भूषितं चित्रभूषया

41.84

शङ्खचक्रगदापद्मकरप्रोद्यतया तया ।
प्रोद्वहन्त्याक्षमालां तु शास्त्रसञ्चयहस्तया

41.85

वरदाभयदायिन्या सिद्धाद्यैर्वान्तया परैः ।
ततः प्राग्वत् कृतन्यासः शुक्लाम्बरधरः शुचिः

41.86

लोहयन्त्रायने तस्मिन् प्रणवाधिष्ठिते ऽर्चिते ।
यथाक्रमं समारोप्य शास्त्रसंग्रहपुस्तकान्

41.87

पूजितांस्तु समालब्धान्नेत्रवस्त्रैस्तु वेष्टितान् ।
द्वादशाक्षरमन्त्रेण पूजयित्वा पठेद् इदम्

41.88

विशुद्धज्ञानदेहाय विष्णवे परमात्मने ।
सुप्रतिष्ठितम् अक्षय्यं तिष्ठ शास्त्रात्मनेह वै

41.89

अज्ञानाम् उपकारार्थं प्रबोधजननाय च ।
मुक्त्वा त्वामेवम् अक्षय्यं क्षयवन्तो ऽमरादयः

41.90

उक्त्वैवम् अर्चयेद् भूयो वेदवेदान्तविग्रहम् ।
सदागमाद्यैर्भगवत्पुराणाद्यैर् अलंकृतम्

41.91

प्रत्यहं परया भक्त्या विद्यापीठस्य चाग्रतः ।
शब्दब्रह्ममयं पीठं भद्रपीठे पुरोदिते

41.92

नियुक्तं चार्चने कुर्याद् अप्रमत्तं द्विजोत्तम ।
ततः प्रदक्षिणीकृत्य धूपं दत्त्वा क्षमापेयत्

41.93

सञ्चारदाने ऽर्थिनां च संचयं तत्र संचयेत् ।
शासनावनिबन्धां च तस्य वृत्तिं सुपुष्कलाम्

41.94

कृत्वा तच्छासनं दद्याद् ज्ञानकोशानुपालने ।
तस्मिन् देवगृहे पश्चाद् ब्रह्मचारींस्तु पाठयेत्

41.95

मन्त्रद्वयं पुरोद्दिष्टं स्वयं बद्धाञ्जलिः पठेत् ।
अज्ञानतिमिरान्धानां जनानाम् अविवेकिनाम्

41.96

शास्त्रपीठप्रतिष्ठानात् ज्ञानम् एति च निर्मलम् ।
एतस्माद् उत्थितेनैव फलेन महता हरिः

41.97

प्रीतिम् आयातु परमां फलं मे नोपयुज्यते ।
विद्यापीठप्रतिष्ठानम् इदं सम्यक् प्रकाशितम्

41.98

फलार्थिनां ज्ञाननिष्ठं फलं यच्छति चेप्सितम् ।
वापीकूपतटाकानाम् आरामाणां च मोक्षणम्

41.99

प्रतिष्ठापनपूर्वं च स्वर्गदं हि फलार्थिनाम् ।
कर्मसन्यासिनां विष्णोस्तत्पुनस्तत्पदप्रदम्

41.100

कारणं जगताम् ईशो भूतः सर्वेश्वरो ऽच्युतः ।
शब्दात्मिकाम् अमूर्तां च ज्ञानकर्मात्मलक्षणाम्

41.101

समासाद्य स्वरूपेण जगत्याम् अवतिष्ठते ।
तन्मयं देहम् आश्रित्य यत्सत्याह्लादम् उत्तमम्

41.102

सामराणाम् ऋषीणां च मनुष्याणां महामते ।
एवं नानारसमयीं शक्तिं विटपविग्रहाम्

41.103

दावानलस्थस (?प्र) करीं नानाव्यक्तमयैः स्वरैः ।
प्रवालपत्रकुसुममारुताम्बुविमिश्रितैः

41.104

अजङ्गमां पादपाख्यां पत्रपुष्फलप्रदाम् ।
मूर्तिं देवोपवरणीं भूमिं वै प्रथमांशकाम्

41.105

अपरां जङ्गमां मूर्तिं सौरभं संश्रितास्पदाम् ।
ततस्तद् उत्थितैस्तावत् पञ्चौपनिषदात्मकैः

41.106

मन्त्रितैः पञ्चभिर्मन्त्रैर्गोमयाद्यैर् यथाक्रमम् ।
सह ऋक्सामपूर्वैस्तु कुशोदकसमन्वितैः

41.107

शुद्धये ऽपि च तत्खातं पर्युक्ष्य परितः पुरा ।
नयेत् पावनतां पश्चाद् अम्बुना परिपूरिताम्

41.108

क्ष्मागतेनाथवाद्ये(?प्ये)न को (? कौ) पेनाल्पेन वा द्विज ।
अक्षारेण सुतोयेन सांप्रतं शीतलेन च

41.109

संभवे सति हे(?है)मेन देशकालवशाद् अपि ।
क्रीतेन ताटकीयेन पल्लवे(?ष्वने)नोद्धृतेन वा

41.110

गोब्राह्मणानां सांमूल्यं (? मुख्यं) गत्वा शतपदादिकम् ।
खातमध्ये विनिक्षिप्य स खातो विततो महान्

41.111

बहुकाले जलस्थायी यथाभिमतविस्तृतः ।
कार्यो वै सर्वदिक्सेव्यो ऽनवस्था जायते यथा

41.112

कुलस्त्रीजनवृद्धानां स्नेहम् आहरतां भृशम् ।
धनुर्द्वयसमं कुर्यान्निम्नत्वेन तु सर्वदा

41.113

सार्धकार्मुकतुल्यं वा एकज्यानिष्ठमेव वा ।
धनुर्द्वयात् समारभ्य यावद् धनुःशतं तु वै

41.114

विहिते खातविस्तारे ह्यत ऊर्ध्वं यथा च ते ।
तत्पार्थिवं च वायव्यं सौम्यम् आग्नेयमेव च

41.115

चतुरश्रायतं चैव आपाद्य शुभलक्षणम् ।
समूभागवशाच्चैव पदवीगणभूषितम्

41.116

वृक्षवल्लीगणोपेतं शाड्वलस्थलभूषितम् ।
पाथिकावासकैर्युक्तं तथा विश्रामतोरणैः

41.117

एवं कृत्वा यथोद्दिष्टं यत्र गोविग्रहक्षितौ ।
अवधार्य च सन्धार्य खातह्रासं च कुर्वती

41.118

कालं प्रवृत्तिपर्यन्तं तर्पयन्ती च तज्जलम् ।
एवं संस्कृत्य च ततः प्राग्भागम् अपि वीक्षयन्

41.119

प्रत्यग्भागस्थितः कर्ता गुरुणा ब्राह्मणैः सह ।
तदुद्धृतेनाम्भसाथ अथवान्येन सांप्रतम्

41.120

मृदा गोमययुतया तत्कालं लेपयेत् स्थलम् ।
द्वादशार्णेन गायत्र्या साम्ना वै वासुधेन तु

41.121

पूर्वदक्षिणसौम्यानां दिग्भागानां यथाक्रमम् ।
होमार्थम् ऋग्यजुःसामपाठकान् विनिवेश्य च

41.122

स्थलेषु वालकीयेषु कुण्डेषु सुशुभेषु वा ।
द्वादशाक्षरमन्त्रेण कृतन्यासस्वकेन वा

41.123

मृत्पिण्डम् एकम् आदाय स्वातमध्यात् तु पात्रकम् ।
कौशेयकुसुमोपेते आसने विनिवेश्य च

41.124

तोयपूर्णं तदूर्ध्वे तु कलशं काञ्चनोदरम् ।
वस्त्रेण वेष्टितं सम्यक् कुङ्कुमाद्यैर् विलेपितम्

41.125

पुष्पस्रङ्मञ्जरीदूर्वादर्भबीजफलोदकम् ।
सितोपवीतम् आशुभ्रं नेत्रम् उष्णीषभृन्न्यसेत्

41.126

पार्थिवेन च शून्येन जीवयुक्तेन भावयेत् ।
सबिन्दुनामये(?ले)नाथ सामृतेनाच्युतं विभुम्

41.127

नारायणं परां मूर्तिम् उत्थितां मधुरध्वनेः ।
पद्ममन्ते नियोक्तव्यम् अस्य बीजत्रयस्य च

41.128

नारायणाय भगवंस्ततो भूतात्मने नमः ।
स्नानपूर्वं प्रतिष्ठानम् आचर्तव्यं यथाविधि

41.129

द्वादशाक्षरमन्त्रेण अथवाष्टाक्षरेण तु ।
षडक्षरेण संपाद्य पूर्णान्ता हवनक्रिया

41.130

अर्चयित्वा यथाशक्ति गुरुपूर्वान् द्विजोत्तमान् ।
समादायाथ कलशं पूर्णं पल्वलजं हि यत्

41.131

कर्ता विनिक्षिपेत् पूर्वं मृत्पिण्डं पुष्करोदरे ।
कलशोदकम् उत्कीर्य इमं मन्त्रम् उदीरयेत्

41.132

आमूर्ते भगवन् नाथ वासुदेवामृतात्मने ।
आचन्द्रतारकं कालं तिष्ठ त्वं सुप्रतिष्ठितम्

41.133

मामकस्याञ्जसा त्राणं नाथ सानुगसंयुतान् ।
देवान् पितॄन् ससाध्यांश्च भूतान्याप्यायिता सदा

41.134

फलेन तु इहोत्थेन यातु प्रीतिं परां भवान् ।
तृप्तिर्भवतु भूतानां त्रैलोक्योदरवर्तिनाम्

41.135

इत्युक्त्वा पाठयेत् साम ध्रुवाद्यौ ऋङ्मयांस्ततः ।
प्रतिष्ठासीति वै साम सामज्ञान् ब्राह्मणोत्तमान्

41.136

पूजनैर् विविधैः पश्चात् तदुत्थेन तु साम्भसम् ।
तर्पयेद् ब्राह्मणान् सर्वान् खातकर्तॄन तथाखिलान्

41.137

प्रसाद्य दानपूर्वेण देशिकान् विभवे सति ।
दीनानाथांस्तथा भृत्याननन्तफलसिद्धये

41.138

सुवर्णवसुधादानं यथाशक्त्या समाचरेत् ।
कन्यादानं वृषोत्सर्गं पितृश्राद्धपुरःसरम्

41.139

वधबन्धोत्थितं दोषं धनदण्डोत्थितं च यत् ।
विचारणीयं लोकानाम् अर्थयित्वा नरेश्वरम्

41.140

किन्तु वी (?वि) ध्यन्तरम् इदं विहितं सति संभवे ।
प्रधानफलवृक्षं तु अश्वत्थविटपं तु वा

41.141

आरामसंप्रतिष्ठायां संस्कृत्य स्नानकर्मणाम् ।
समालभ्य स्वलंकृत्य उपवेत्य यथाविधि

41.142

वाससा वेष्टितं कृत्वा पुष्पस्रक्परिभूषितम् ।
होमान्तम् अखिलं प्राग्वत् समन्त्रं तत्समाचरेत्

41.143

तेन याति परं कर्ता पारं संसारवारिधेः ।
फलमूलान्नादिप्रतिष्ठा (143-219)
फलमूलान्नप्रतिष्ठां शृणु वक्ष्ये फलार्थिनाम् ।
नान्नदानात् परं दानं त्रिषु लोकेषु विद्यते

41.144

सद्यःप्रीतिकरं हृद्यं प्राणदं प्राणिनामपि ।
उत्पत्तावपि संस्कारे रसम् अन्नस्य कीर्तितम्

41.145

अन्नाद् भवन्ति भूतानि तस्मात् सर्वं प्रतिष्ठितम् ।
तच्च प्रतिष्ठितं येन तेन सर्वं प्रतिष्ठितम्

41.146

आत्मना सह लोके ऽस्मिन् स्वर्लोके ब्रह्मसंज्ञिते ।
यावज्जीवं च नीरोगो वसेद् दुःखविवर्जितः

41.147

पुत्रदारधनैर् अन्नैर् वृद्धिं याति क्षणात् क्षणम् ।
प्राप्नोति परमां पूजाम् उत्कृष्टेभ्यो महत्तराम्

41.148

देवता ऋषयः सिद्धास्तस्य संचिन्तयन्ति च ।
नित्यम् एव परां वृद्धिमायुषः सह चोन्नताम्

41.149

हृष्टः पुष्टस्ततो भूत्वा तृप्तो भवति सर्वदा ।
भुक्त्वा भोगान् सुविपुलानन्ते नारायणालयम्

41.150

याति चन्द्रप्रतीकाशैर्विमानैर्देवनिर्मितैः ।
स्वर्गादौ सर्वलोके तु स्थित्वा कल्पशतान् बहून्

41.151

कालात् पुनर् इहायाति देशे सर्वोत्तमे शुभे ।
सतां कुले समासाद्य जन्म जात्युत्तमं महत्

41.152

जायते रूपवान् वाग्मी विद्याज्ञानपरायणः ।
द्विषताम् अपि सर्वेषां पूज्यः प्रियतरः सदा

41.153

शीलवाञ् शौर्यसंपन्नो धृत्युत्साहसमन्वितः ।
द्विजदेवपरो नित्यं दाता भूतहिते रतः

41.154

एकान्ती धर्मवेत्ता वै नारायणपरायणः ।
त्रिवर्गम् अखिलं भुक्त्वा यथाभिमतलक्षणः

41.155

जन्माभ्यस्तं शुभं कर्म कृत्वानन्तगुणं पुनः ।
ज्ञानम् आसाद्यते येन प्रयाति परमं पदम्

41.156

न हि वै कूपवापीनां सुरभीणां च पूजनम् ।
दद्याच्छुद्धं हि तादात्म्यं विधानं सर्वम् आचरेत्

41.157

नीत्वाङ्गभावम् अस्मिंश्च गोगणं भगवद्गृहे ।
स्नानोपभोगपूर्वाणां विभोर् अनलतर्पणात्

41.158

प्रीत्यर्थं सुरभीणां तु प्रतिपाद्यं तु शासनम् ।
तम् अग्निं गोव्रजोपेतं धृतदीपसमन्वितम्

41.159

देववत् पालनीयं च यावद् आचन्द्रतारकम् ।
अनिशं ज्वलमानं च वसेत् कर्मकरैः सह

41.160

षडशीतिमुखाद्यं वै कालम् आसाद्य पुण्यदम् ।
कुण्डं सुलक्षणं कृत्वा दिव्याद्यैर्वेष्णवैर्गृहे

41.161

स्वयं प्रतिष्ठिते वापि धर्मस्कन्धेषु वै पुरा ।
द्वादशाक्षरमन्त्राद्यैः शुभैः सूक्तैस्तु वैष्णवैः

41.162

ऋग्यजुःसहसामैस्तु देवदेवप्रशंसकैः ।
एवं होता शनैश्चापि संपठेच्छान्तिके कृते

41.163

घृताद्यैर् अक्षतैः पीतैः सितकृष्णान्वितैस्तिलैः ।
संस्कृत्य चानलं कुण्डं प्राजापत्येन कर्मणा

41.164

आहुतीनां तु जुहुयात् सहस्राद् अयुतावधि ।
शताद्यं च सहस्रान्तं ताम्रजेन स्रुवेण तु

41.165

पालीयेनाष्टमांशेन धृतं तु जुहुयात् ततः ।
अकामो वा सकामो वा दद्यात् पूर्णाहुतिं ततः

41.166

नारायणस्तु वेदात्मा सहवेदमुखेन तु ।
ददात्यभिमतान् कामान् उपायं नैष्ठिकं तु वै

41.167

एवं कृते तु संपाद्याद् बध्नीयाद् धिषणोपरि ।
सप्ताहं वसुधारां च त्रिरात्रम् अथवा शुभम्

41.168

एकाहं वा स्वशक्त्या तु तद् विधानम् अथोच्यते ।
निर्धूमे वितते कुण्डे दृढैः काष्ठैस्तु याज्ञिकैः

41.169

कृत्वाग्निं मेखलाभूमेर् अधिकं शिबिकोपमम् ।
धनुर्द्वयोच्छ्रिते वाथ तदूर्ध्वे ताम्रजं ततम्

41.170

कटाहकं योजनीयं काष्ठजे वलये दृढे ।
स्थिरवंशचतुष्पादे पदवीसहनक्षमे

41.171

अङ्गुलैर् अथ मानीयैश्चतुःसंख्यैस्तु चोन्नतम् ।
हैमीं सुवर्णमानोत्थां शलाकां सर्वतः समाम्

41.172

तत्प्रमाणसमोपेतं मध्यमे तु कटाहके ।
वेधं कुर्याच्च लोहेन वस्त्रापूतम् अथाहरेत्

41.173

व्याजहीनं घृतं हव्यं सुगन्धि शुभलक्षणम् ।
कटाहके समुत्कीर्य यत्न [पूर्व]परिक्षय(?ष्कृत)म्

41.174

प्रवहं दिनरात्रीयं कालं यत् त्रिविधं स्मृतम् ? ।
एतावद् उक्तम् आरभ्य देवम् आत्मानं अक्षमम्

41.175

आप्रभाता[न्तम]थवाद्यं वाहरयेत् प्रहरं घृतम् ।
प्रहरद्वितयं वाथ प्रहरत्रयम् एव वा

41.176

प्रहराणां चतुष्कं वा स्वसामर्थ्याद्यपेक्षया ।
आदौ षट्प्रस्थमानात् तु चतुःप्रस्थान्तमेव हि

41.177

प्रवाहम् आहरेच्छक्त्या पालिकं तु घृतस्य वा ।
अधिभूताधिदेवाढ्यं स्तृत्वाध्यात्मतया घृतम्

41.178

पवित्रम् अमृतं ब्रह्म आज्यम् अध्यात्ममेव हि ।
अधिदेवं परं वह्निर् अधिभूतं च गोगणम्

41.179

स्मृतम् उक्तं ममैवं हि वसु मत्वा स्वरूपधृक् ।
तद्वारपरिमाणेन विधित्वेन च वर्तते

41.180

स्वदरिद्रम् इमं लोकं कृत्स्नं वै यत्प्रभावतः ।
विततेन तु पात्रेण स्थगयित्वा कटाहकम्

41.181

दैवत्वेनार्चनीयं च भगवान् पुरुषोत्तमः ।
सांप्रतं चार्घ्यपुष्पाद्यैर् वसुगर्भकटाहके

41.182

अनुग्रहकरस्त्वास्ते स्वयं श्रद्धावतां नृणाम् ।
आरम्भाद् एव निष्पत्तिपर्यन्तं शुभकर्मणाम्

41.183

अर्चयित्वा नमस्कृत्य द्वादशार्णेन चाच्युतम् ।
ततो ऽनुलेपनं दद्यात् पुष्पस्रग्धूपम् एव हि

41.184

नैवेद्यं मधुपर्काद्यं सभक्ष्यं सफलं महत् ।
अथ सर्वेश्वरं भक्त्या विभुम् आयतनस्थितम्

41.185

महता विभवेनैव स्नानपूर्वेण कर्मणा ।
पूजयित्वा यथान्यायं सत्सूक्तैः सम्यगुत्तमैः

41.186

रहस्यमन्त्रपूवैस्तु साष्टार्णद्वादशाक्षरैः ।
जानुभ्याम् अवनिं कृत्वा नतमूर्धाग्रतो भवेत्

41.187

तदेकक्षेम पूर्वं तु विनिवेश्य इदं पठेत् ।
परं वसु घृता ऋक्त्वं सर्वं संपूरितं त्वया

41.188

तारेयं परमा शक्तिस्वमिया(?स्वामित्वा)देव पूजितः(?ता) ।
वासाद्याननम् आग्नेयतुल्यं यज्ञस्य वै फलम्

41.187

सुमहद्गोकुलोपेतं ग्रामं यद् विषयोदितम् ।
तत्पालकानां विप्राणां शासनेन समाप्य च

41.190

यथा नोच्छिद्यते चैव कीर्तिधर्मपरं महत् ।
नृपेणैतत् तथा कार्यं यशोधर्मविवृद्धये

41.191

षट्काद् यद् अधिकं चैव सशुभं कीर्तितं त्रयम् ।
गोष्ठम् अग्निं च दीपं च अङ्गम् आयतनेषु तत्

41.192

धर्मज्ञैः पालनीयं च विच्छेदो न भवेद् यथा ।
यस्माद् वह्निमुखेनैव त्रयस्त्रिंशत्तु कोटयः

41.193

प्रत्यहं तृप्तिम् अतुलां विबुधानां प्रयान्ति च ।
दधिक्षीराज्यपूर्वैस्तु विविधैर्गोसमुत्थितैः

41.194

प्रीतिम् अभ्येति भगवान् उपहारैस्तु सात्त्विकैः ।
परमादित्यवत् सर्वम् आभासयति तेजसा

41.195

प्रभावाच्चैव दीपस्य नित्यं सन्निहितस्य च ।
यो ऽधिकृत्य जगन्नाथं षडशीतिमुखासु च

41.196

तिथिष्वर्च्यस्तु भगवान् कलशे मण्डने ऽनले ।
सोपवासः शुचिः स्नातः कृतकौतुकमङ्गलः

41.197

प्रणवादिनमोन्तेन मन्त्रेणानेन भक्तितः ।
प्रीयतां मम देवेशो धर्माध्यक्षो वृषाकपिः

41.198

गोहितो गोपतिर्गोप्ता सर्वमावृत्य च स्थितः ।
ततो ऽनुलिप्ते भूभागे कुतपः केवलं तु वा

41.199

अभुक्तमहतं शुद्धं प्रस्तीर्यं सतिलाक्षतम् ।
समस्तबीजं सकुशं सिद्धार्थकसमन्वितम्

41.200

तद् बहिस्तेजसं दद्यात् पूर्णं प्रागादितः क्रमात् ।
पात्राष्टकं पयः शालिदध्यक्षतरसैस्तिलैः

41.201

घृतेन सर्वबीजैस्तु वस्त्रैर्यवनिका बहिः ।
इषुभिः सह सूत्रैस्तु बर्हिपक्षैः सुविष्टरैः

41.202

जातबीजशरावाश्च पूर्णकुम्भमुखस्थिताः ।
पूर्णशाखासमेताश्च तरुशाखाभ्यलंकृताः

41.203

दिक्षु प्रज्वलितैर् दीपैः सह न्यस्य ऋगादिकैः ।
ततो ऽवतार्य तन्मध्ये सुरभिं कृतमण्डनाम्

41.204

सालंकृतां सवस्त्रां च घण्टाचामरभूषिताम् ।
सरत्नहेमकुमुदां तच्छृङ्गपरिभूषिताम्

41.205

मुक्ताप्रवाललाङ्गूलां रजताङ्घ्रिम् अभिप्रियाम् ।
ललाटदर्पणां श्रीमत्स्रगुष्णीषबलां महत्

41.206

एवम् एवाथ वीर्यध्वं सुरभिं कृतमण्डनाम् ।
यौवनस्थामधृष्टां च वामभागे वृषस्य च

41.207

कांस्योपदोहसंयुक्तां पूर्वेद्युर् अधिवासिताम् ।
नन्दासुनन्दासुरभिशीतलाख्यपदान्विताम्

41.208

चत्वारो धेनवः स्थाप्याः प्रागादौ तत्र संमुखम् ।
सुशक्तिविभवोपेता दुग्धदोहप्रदक्षमाः

41.209

सगर्भाश्च सवत्साश्च प्रसूताश्च सकृत् सकृत् ।
इष्टदेवम् अथोद्दिश्य दिग्भागान् सांप्रतं तु वै

41.210

हेतिना च तदीयेन चन्दनेनात्वचोत्सृजेत् ।
वृष्णिक्षेत्रसमेतं च तस्य चासंभवात् तु वै

41.211

आनुगुण्यं यथाशक्त्या तन्मूल्यं तु न कल्प्य च ।
चतुर्णाम् अग्निहोत्राणां बहिःस्थाः प्रतिपाद्य च

41.212

वस्त्रालंकरणोपेतं मूल्यं च सुरभीयकम् ।
वसुधां वसुधार्थं वा वृषोपकरणं हि यत्

41.213

प्रणिपाद्य गुरोर्भक्त्या वृषभं सुरभिं त्यजेत् ।
दक्षिणे स्कन्धदेशे च हेतिनाभिमतेन च

41.214

लोहेनानलतप्तेन मुद्रणीयं क्षणेन च ।
एवं कृत्वा वृषत्यागं तदुद्देशेन वै पुनः

41.215

प्रभूतम् अन्नदानं च दद्याच्चैव सदक्षिणम् ।
समन्त्रनाथम् उद्दिश्य ह्यात्मनोर्ऽथे परस्य वा

41.216

वृषोत्सर्गं हि यः कुर्याद् ब्रह्मलोकं व्रजत्यसौ ।
वृषो हि भगवान् धर्मो लोके कामार्थबन्धतः

41.217

तेन त्यक्तेन संत्यक्तं जन्मदुःखं हि शाश्वतम् ।
प्रकृत्या सह वै शश्वत् सुरभी सविनश्वरा

41.218

तद् विशेषाच्च तिस्रो याः शक्तयो मदनात्मिकाः ।
बुद्धिर् अस्मीति पूर्वा च पञ्चेन्द्रियम् अथापरा

41.219

विनिवर्तन्ति सर्वास्ता गोत्वमाश्रित्य ये स्थिताः ।
नानाधर्मप्रतिष्ठानं वृषोत्सर्गेण वै सह

41.220

उक्तम् अब्जसमुद्भूत इदानीम् अवधारय ।
अपवर्गप्रदं दिव्यं सूचितं यत् पुनः पुनः

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc