भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 40

40.1

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आगमनिर्णयो नाम एकोनचत्वारिंशो ऽध्यायः ॥
(समुदित श्लोकसंख्या 38)
अथ चत्वारिंशो ऽध्यायः
पौष्कर उवाच ---
परिज्ञातं मया देव दोषोपशमनं महत् ।
शान्तिकं परमं यद् वै व्यत्ययात् सौमनस्यकृत्

40.2

शास्त्रसंबन्धपर्यन्तं प्रसङ्गात् त्वदनुग्रहात् ।
नानाधर्मप्रतिष्ठा च भविनां स्वर्गदा च या

40.3

इदानीं ज्ञातुम् इच्छामि त्वत्तः संक्षेपतस्ततः ।
सरहस्यं जगद्योनेः प्रतिमालक्षणादिकम्

40.4

संविधानं प्रतिष्ठाख्यम् अशेषं पूर्वचोदितम् ।
क्षतदोषास्तु येर्ऽचानां मधूच्छिष्टोदिताः क्रियाः

40.5

तास्त्वयोक्ताः पुरा देव मानोन्मानादिकैर्विना ।
आमूर्धदेशकेशीयं चरणान्तं हि लक्षणम्

40.6

मया यथावन्न ज्ञातं नैपुण्येन जगत्पते ।
श्रीभगवानुवाच ---
नानाधर्मप्रतिष्ठानं पुरा कृत्वा तु पौष्कर ।
मोक्षार्थम् आचरेच्छुद्धां प्रतिष्ठाम् आच्युतीं पराम्

40.7

सुलक्षणे तु भूभागे गव्यैर् भक्तेन वै पुरा ।
प्राग्दिक्सिद्धिसमेतं तु वसुधालक्षणं च ते

40.8

स्फुटम् उक्तं प्रतिष्ठार्थं विज्ञातव्यं तद् एव हि ।
जलाश्रयादिका या भूर्विविधैश्च विभूषिता

40.9

वनौघवनसंयुक्तैर् ग्रामैः सह पुरादिकैः ।
प्रतिग्रहं प्रतिष्ठार्थं पूर्ववद् विधिपूर्वकम्

40.10

संपाद्य कुसुमारामपर्यन्तं च सुविस्तरम् ।
उत्तमं वनयात्रान्तं ततः कुर्यात् सदेशिकः

40.11

होराद्येन च लग्नेन मुहूर्तेनार्चितेन च ।
शकुने गागने भौमे चित्तसौख्यप्रदे शुभे

40.12

किञ्चिद् अध्वावशिष्टे तु वस्तव्यं च वनाद् बहिः ।
शुभे ग्रहे ऽनुकूले च नक्षत्रे वासरे ऽपि च

40.13

कुर्याद् वनप्रवेशं च तत्रेष्टा वनदेवताः ।
आदाय लक्षणोपेतम् उपलं वै सितादिकम्

40.14

सुस्निग्धं सुस्वनं शुद्धं दोषैर्हीनं स्फुटादिकैः ।
वृक्षं वा लक्षणोपेतम् अक्षतं सरलं दृढम्

40.15

फलं (?ल) पुष्पप्रदं स्थूलं सक्षीरं वा तदुज्झितम् ।
नानाजाति च कर्मण्यं यज्ञाङ्गानां गुणावहम्

40.16

सत्त्वाद्यं तद् अधिष्ठातृबलिदानपुरःसरम् ।
कृत्वा विसर्जनं चैव मध्वाज्याक्तेन देशिकः

40.17

शस्त्रेण प्रहरं दद्याच्छेतव्यं शिल्पिना ततः ।
चन्दनं स्यन्दनं तत्र तथा सुरभिचन्दनम्

40.18

अगरु कर्णिकारं च काश्मर्यं रक्तचन्दनम् ।
बिल्वामलकचूताश्च तालवर्णकसिंहकाः

40.19

श्रीपर्णी नालिकेरं च नागमातृकपीनकम् ।
गव्यं कपित्थं च तथा हिम-तालतमालकम्

40.20

बदरं खदिरं फल्गु मधूकं किंशुकद्रुमम् ।
फालवेतं च खर्जूरं नीपनारङ्गशिशुपम्

40.21

पिप्पलं वृक्षम् अश्वत्थं पिप्पलीविटपं महत् ।
सुरदारु हरीतक्यं बकुलं चाप्युदुम्बरम्

40.22

कालाख्यं पुष्पकूलं च वैरं चान्यत् फलद्रुमम् ।
फालास्यं भूर्जवृक्षं च पलाशं कृतमर्दकम्

40.23

तिन्दुकं बीजसारं च मातुलुङ्गद्रुमं महत् ।
राजवृक्षं कोहितकं सुनाभिकुटकार्जुनम्

40.24

सरलं कुटजः शाकः शमीश्रीवेष्टकेतकाः ।
असनस्पन्दनाख्यं च स्तबछस्तबकेति च

40.25

सारवन्तो मखीया ये सुसिद्धा लोकपूजिताः ।
ग्राह्यास्तरूत्तमाः सर्वे कर्मणि स्थापनादिके

40.26

एकैकतालवृद्ध्या तु द्वादशान्तकरावधि ।
द्विरष्टकं तु बिम्बानाम् एवं स्याद् अपरं तु वै

40.27

प्रयोजनवशेनैव तरवो बिम्बकर्मणि ।
विहिताः क्रमशस्त्वेते स्वल्पानाम् आदिनां महत्

40.28

केचित् फलवशेनैव विहिताश्च फलार्थिनाम् ।
निष्कामानां च विहिताः सर्वे सर्वफलप्रदाः

40.29

एतैः पूर्वोदिताः कार्याः सप्ताङ्गैस्तोरणाः शुभाः ।
अग्निकार्योपयोग्यानि स्रुवादीन्युदितानि वै

40.30

अग्नाविन्धनकाष्ठानि समित्परिधयस्तथा ।
आराधनार्थं मन्त्राणां भद्रपीठानि पुष्कर

40.31

मन्त्रबिम्बान्यशेषाणि तत्पीठानि तथैव च ।
प्रासादादीनि चित्राणि प्राकारसहितानि च

40.32

शयनान्यासनादीनि देवोपकरणानि च ।
रथादिरथयात्रार्थं वैष्णवेषूत्सवेषु च

40.33

केतुदण्डानि दीर्घाणि शिखराणां शिरोपरि ।
आहरेत यथाशास्त्रं छायाशुष्ककृतानि च

40.34

भङ्गभेदक्रिमिच्छिद्रसिंहऋक्षनखक्षतैः ।
दोषैर् अशनिपाताद्यैर् नाहरेद् दूषितानि वै

40.35

पौष्कर उवाच ---
भगवन् भद्रपीठानां प्रतिमानां च लक्षणम् ।
देवीयपिण्डिकानां च प्रासादानां तथैव च

40.36

यथावद् ज्ञातुम् इच्छामि रथादीनां च संस्थितिम् ।
प्रमाणं ध्वजदण्डानां मण्डपान् मण्डयन्ति ये

40.37

श्रीभगवानुवाच ---
स्वानुकूलदिने शुद्धे गुरूणां संमतेन च ।
मानम् आदौ तु सर्वत्र चिन्तयेत् सह शिल्पिना

40.38

सुनिवेशेन सह वै सर्वम् आपादयेत् ततः ।
यान्युक्तानि पुरा ब्रह्मन् व्यक्तिस्थानानि वै विभोः

40.39

द्वयं तेभ्यः शुभतरं भद्रपीठम् अकृत्रिमम् ।
मानोन्मानप्रमाणाढ्यं दिव्यम् आकारम् अब्जज

40.40

तत्र तावत् सुवर्णाद्यैर् लोहैः शुभतरैः स्मृतः ।
शुभा भगवदाकाराः शैलजाः समनन्तरम्

40.41

काष्ठं लेपं तथालेख्यम् इष्टं भूतिव्यपेक्षया ।
तत्राप्तानां द्विजार्चासु स्थितिर्मोक्षाप्तये स्मृता

40.42

सेवापराणां आप्तानां भूतये ऽमरयाजिनाम् ।
मखहोमपराणां तु दिवि देवासनाप्तये

40.43

यतीनां मुक्तसङ्गानां हृदि सर्वेश्वरे हरौ ।
एहि (? हीति) श्रेष्ठतरं विप्र अर्चादेशं सुलक्षणम्

40.44

चित्तप्रसादम् अतुलं यत्राभ्येति समर्चनात् ।
यत्नेन च समापाद्य मन्त्रैः संस्कृत्य वैदिकैः

40.45

मृद्भूतितीर्थतोयाद्यैर् मूलद्रव्यैः सुपावनैः ।
संस्मरेच्च मणिस्वर्णतारताम्रमयैर्विना

40.46

स्वदेहवद् उपादेयैर् नाडीव्यूहैः सवायवैः ।
धातुभिः सोमसूर्याग्निसहज्ञानादिकैर्गुणैः

40.47

गुणकारणतः क्ष्मान्तं यद् अन्यत्तत्त्वसंग्रहम् ।
द्रव्यम् आश्रित्य वै बैम्बं वर्तते यद् इदं महत्

40.48

तत्र हृत्कमलाकाशे मन्त्ररत्नप्रभोज्ज्वलम् ।
ब्रह्मभावनया न्यस्तं यच्छति प्रातिमं फलम्

40.49

श्रद्धापराणां कर्तॄणां फलताभ्येति च स्थिरम् ।
प्रतिपत्तिं परां ब्राह्मीम् आकारं प्रति सर्वदा

40.50

प्राप्नोति सद्वशाद् अन्ते ज्ञानम् आत्मप्रकाशकम् ।
प्रतिमानाम् अतो मानं सांप्रतं चावधारय

40.51

तालप्रमाणाद् एकैकं ह्रासयेत् अङ्गुलं क्रमात् ।
चतुरङ्गुलपर्यन्तं यावन्मानं पुनस्ततः

40.52

एकैकं वर्धयेद् विप्र शमपर्यन्तम् अङ्गुलम् ।
तालद्वयोन्नतिं यावच्चलार्चानाम् अतोर्ध्वतः

40.53

अचलानां द्विजार्चानां व्द्यङ्गुलं व्द्यङ्गुलं क्रमात् ।
चतुःशमावधिं यावद् अतोर्ध्वं तु समाचरेत्

40.54

एकैकं तालवृद्धया तु द्वादशान्तकरावधि ।
वर्धयेद् अत ऊर्ध्वं तु सपादं तालमेव च

40.55

आधिक्येन द्विजार्चानां जायते ऽन्यच्चतुष्टयम् ।
दद्यात् तदुन्नतेर् भूयो वृद्ध्यर्थं द्वादशाङ्गुलात्

40.56

तृतीयांशं तृतीयांशात् प्रतिमात्रितयस्य च ।
भूयस्तदुन्नतेर् दद्यात् तालार्धं तालम् एव वा

40.57

द्वितीयप्रतिमानां तु उच्छ्रायेण वरं भवेत् ।
शमम् एकं ततोर्ध्वं तु उन्मानार्थं तु वर्धयेत्

40.58

एकैवार्चा भवेद् अन्या वर्धयेद् अत ऊर्ध्वतः ।
क्रमाच्छतावधिं यावत् सांशात् तालाद्विजोत्तम

40.59

यथाभिमत उच्छ्रायसिद्धये ऽभिमताप्तये ।
भूयो भूयोन्नतिं कुर्यात् प्रादुर्भावाकृतेर्वशात्

40.60

प्रयोजनवशाच्चापि महत्त्वं बिम्बकर्मणि ।
विहितं क्रमशश्चैव स्वस्वमानादिना सह

40.61

तथा फलवशाच्चैव विज्ञेयं हि फलार्थिना ।
निष्कामानां च कथितं सर्वं सर्वफलाप्तये

40.62

मानतो बहुधा प्रोक्तम् इत्येवं प्रतिमागणम् ।
धातुमृच्छैलदारूत्थं यथासंपत्तितो द्विज

40.63

अधिरुध्य स्ववृक्षोत्थभिन्नैर् अवयवस्थितिः ।
वर्णकैः समवेता(?तै)श्च बद्धैः शस्त्राम्बरादिकैः

40.64

भिन्नैः स्नाय्वस्थिमांसाद्यैर्जीवानां विग्रहं यथा ।
मन्त्राणाम् एवम् अब्जोत्थ व्यक्तिर्धात्वादिकी स्मृता

40.65

अप्रबुद्धैः प्रबुद्धैर्या चतुर्वर्गफलाप्तये ।
पूज्यते विविधैर्भोगैर् अन्तः संपूजनाद् बहिः

40.66

चित्रशैलमयीं मुक्त्वा प्रतिमां महतीं च याम् ।
मृद्धातुदारुजं विप्र घटते कथम् अन्यथा

40.67

प्रमाणपरिशुद्धैस्तु भिन्नैर् अवयवैर् विना ।
एतावत् प्रतिमां विप्र मानमात्रम् उदाहृतम्

40.68

भक्तिश्रद्धापराणां च पूजार्थं हि चलाचलम् ।
तत्रायतनतीर्थानां यात्रायां गमने चला

40.69

प्रतिमाप्रयतानां च दद्याद् दोषदिकं विना ।
पूजितामुष्मिकीं सिद्धिम् ऐहिकीं च प्रयच्छति

40.70

अतो भिन्नासनारूढा स्वाश्रमे स्वाश्रमान्तरे ।
तस्माच्चलानाम् अर्चानां भिन्नं पीठं शुभप्रदम्

40.71

चलस्थिरविभागेन विहितं सर्वम् एव हि ।
मृण्मया लेशतः प्रोक्ताः प्रान्तपीठास्तु केवलाः

40.72

इदानीं सविशेषेण वक्ष्ये भङ्गासनात्तु वै ।
सांप्रतं भद्रपीठानां दारुजानां च लक्षणम्

40.73

व्यापकं हि यद् अन्येषां शैलहेमादिकात्मनाम् ।
द्विषट्काङ्गुलमानाच्च द्विहस्तान्तं महामते

40.74

कुर्याद् अङ्गुलवृद्ध्या तु भद्रपीठगणं शुभम् ।
त्रिविधैर् अङ्गुलैः प्राग्वद् यथाभिमतलक्षणैः

40.75

द्विदशाङ्गुलपर्यन्ताः सर्वे संक्षिप्तलक्षणाः ।
सर्वैकहस्तनिष्ठास्तु मध्यमानाः प्रकीर्तिताः

40.76

अत ऊर्ध्वं द्विहस्तान्ता मानतो वितताः स्मृताः ।
आद्यार्चा क्रमशो विद्धि प्राधान्यं चोत्तरोत्तरम्

40.77

फलाधिक्येन सह वै अर्घ्यपुष्पादिनार्चनात् ।
सप्रणालाश्चतुष्पादाः सर्वे सद्रचनान्विताः

40.78

एकपादाम्बरस्था ये बोद्धव्याः पार्थिवैर्विना ।
प्रनालरहितास्ते वै पादगात्रविभूषिताः

40.79

दर्पणोदरवत् कार्याः परिशिष्टा महामते ।
मुक्तामालासमोपेतैर् अर्धचन्द्रैः सदर्पणैः

40.80

कर्णिकाविततोपेतैः कर्णिकाकमलच्छदैः ।
हंसैर्विद्याधरैश्चापि संयुक्तैर् अन्तरान्तरा

40.81

यथा शोभानुरूपेण एवं संपाद्य सांप्रतम् ।
बाहुल्यं भद्रपीठीयं प्रणालेनोपशोभितम्

40.82

तदाराध्यस्य वै कुर्याद् उत्तरेण तु सर्वदा ।
स्वात्मनो दक्षिणे भागे तल्लक्षणम् अथोच्यते

40.83

विस्तृते भद्रपीठस्य तृतीयांशेन मध्यतः ।
पूर्वोद्दिष्टेन दैर्घ्येण श्लक्ष्णं वा रचनान्वितम्

40.84

प्रोल्लसन्तं यथा भाति स्नानाभं (?म्भः) निखनेत् ततः ।
समांशेनाग्रतो भागैर्विभज्य सुसमैस्त्रिभिः

40.85

मूलतः कण्ठदेशाद् द्वौ भागौ बाह्याद् विशोध्य च ।
त्रिधाग्रं मूलतः कृत्वा मध्यमं व्रजनिर्गतम्

40.86

जलोपभोगकान्तो ऽपि विद्धि भागद्वयोपरि ।
रचनोपर्युदुद्दिष्टा कार्या कर्माणिनी ? च सा

40.87

मकराननरूपा सा त्याज्या कापिललक्षणा ।
तृतीयांशेन विस्ताराद् भूगतः साङ्घ्रिसन्ततिः

40.88

समुद्गता न वै कुर्याद् बाहुल्यरचनान्विता ।
सर्वतो भद्रबिम्बैव मध्यतो गात्रकान्विता

40.87

भूषयेद् गात्रदेशेभ्यः पुष्पैः पत्रैस्तु साङ्कुरैः ।
भवेच्छशिकलाकारलाञ्छनैः स्वधियाथवा

40.90

कुर्यात् तदुत्तरे पद्मं सचक्रं केवलं तु वा ।
आनतं तं बहिः कुर्याद् आभोगं वाननं महत्

40.91

तदाननं तथेशान्ये भागान्तेन सुसंयुतम् ।
विधेयं च तथाभोगं दक्षिणावर्तलक्षणम्

40.92

संनिवेशम (?न) तःस्वाङ्गं गात्र[मध्यान्तटगैः सह ।
न च प्रासादभद्रं च एकाग्रम् अवधारय

40.93

अर्धेनार्ध्याच्च पीठात् तु विस्तीर्णं पृष्ठदेशतः ।
विधेयं चतुरश्रं तु सुवृत्तं वामभागतः

40.94

बाहुल्यवन्तं बाहुल्यात् तस्मिं[श्चैव] शिरो न्यसेत् ।
स्तम्भं सुवृत्तं विहितं श्लक्ष्णं वा चतुरश्रकम्

40.95

अष्टाश्रम् अथवा रम्यरचनारचितं तु वा ।
बाहुल्यात् त्रिगुणाद् दीर्घं विहितं स्तम्भवेष्टनम्

40.96

लतावितानपत्राढ्यैर् वनैर् उपवनैः सह ।
ध्यानासक्तैर्मुनीन्द्रैस्तु वेदाध्ययनतत्परैः

40.97

शङ्खचक्रगदापद्ममूर्तामूर्तैर्महामते ।
साक्षसूत्रकरैर्वापि सिद्धेस्तु भगवन्मयैः

40.98

इत्येषां रचनां कुर्याद् अपरां वाब्जसंभव ।
प्रफुल्लपद्मैरापूरात् कर्णिकाकेसरान्वितैः

40.99

उपर्युपरि संमूढैः कर्मभिस्त्वेवमेव वा ।
स्रग्दण्डवद् विधेयं वा नालं भद्रासनीयकम्

40.100

पृष्ठदेशे तु यद् भक्तं वृत्ताद्यं परिकल्पितम् ।
चक्राधारस्वभावेन ऊर्ध्ववक्त्राम्बुजात्मना

40.101

नीत्वा तद् बाह्यतः कुर्याच्चक्रं सर्वाङ्गचिह्नितम् ।
चतुर्भिः कूर्मवत् कुर्यात् स्तंम्भम् आधारम् उत्तमम्

40.102

समत्वेनासनीयस्य विस्तारस्य महामते ।
विस्तारं तस्य तेनैव सार्धेन विहितस्तु वै

40.103

माहेन्द्रमण्डलाकारं वृत्तं वा वसुधावने ।
समं वा मस्तकोद्देशाद् अनुपातेन संकटम्

40.104

त्रिभागं समतुल्यं वा बुध्नदेशाच्च विस्तृतेः ।
समापाद्यैव संस्कृत्य प्राग्वद् वै भवनान्वितम्

40.105

संनिधीकृत्य मन्त्रेशं मन्त्रं मोक्षाप्तये तु वै ।
यष्टव्यं परया भक्त्या स्वशक्त्या वा फलाप्तये

40.106

महता विभवेनैव साधकैः स्वगृहस्थितैः ।
एते भेदास्य विहिता अष्टाश्राः कमलोद्भव

40.107

षडश्रा वर्तुलाश्चापि चतुरस्रा अथापि वा ।
स्वदलेन समोपेतं चतुरश्रस्य कल्पयेत्

40.108

तदास्य सत्त्वसिद्ध्यर्थं सर्वदैवं महामते ।
विभवानुगुणेनैव प्रोक्तमानात् तु साधितम्

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc