भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 39

39.1

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां अधिकारनिरूपणं नाम अष्टात्रिंशो ऽध्यायः ॥
(समुदितश्लोकसंख्या 313)
अथ एकोनचत्वारिंशो ऽध्यायः
पौष्कर उवाच ---
प्रमाणम् आगमानां च ससंज्ञं परमेश्वर ।
ज्ञातुमिच्छाम्यहं शश्वत् संबन्धं विबुधादिकम्

39.2

श्रीभगवानुवाच ---
संक्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् ।
अनुष्टुप् छन्दोबन्धेन बद्धं श्लोकशतात् तु यत्

39.3

पादसंज्ञं हि तच्छास्त्रं मूलाख्यं द्विगुणं च तत् ।
यत् सार्धं शतसंख्यं तु तदुद्धारम् इति स्मृतम्

39.4

न्यूनभेदास्त्रयस्त्वेते ऊनाधिक्येन वै सह ।
बहुधा चापि सर्वेषां न संज्ञा चलते पुनः

39.5

सार्धं शतद्वयं यद् वै परिज्ञेयं तदुत्तरम् ।
बृहदुत्तरसंज्ञं च यद् एतद् द्विगुणं भवेत्

39.6

सार्धं सहस्रसंख्यं तु कल्पं तत् समुदाहृतम् ।
त्रयस्यास्य परिज्ञेयम् ऊनाधिक्यं पुनः शतैः

39.7

एवं संज्ञान्तरास्त्वन्ये आगमाः सन्त्यनेकशः ।
कल्पैकदेशास्ते सर्वे परिज्ञेयास्तथाब्जज

39.8

आ सहस्रत्रयात् सार्धात् षट्सहस्त्रं हि सोत्तरम् ।
द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम्

39.9

ये चान्ये चान्तरालं वै शास्त्रार्थेनाधिकैः शतैः ।
सर्वेषां संहितासंज्ञा बोद्धव्या कमलोद्भव

39.10

सपादलक्षपर्यन्ता ये च शास्त्राण्यतोर्ध्वतः ।
सहस्रशतमानेन आधिक्येन प्रकाशिताः

39.11

कल्पस्कन्धात् तु ते सर्वे परिज्ञेयाः क्रमेण तु ।
लक्षाधिकैस्तु बहुभिः सहस्रैस्तु शतान्वितैः

39.12

सार्धकोटित्रयान्तं च तच्च तन्त्राख्यम् आगमम् ।
नवप्रकारमित्येतद् भेदमुक्तं त्रयस्य च

39.13

यत्रान्तरालसंख्यानाम् असंख्येयं प्रवर्तते ।
युगानुसारबोधेन त्रैगुण्यवलितेन च

39.14

दिव्याद्यवान्तरान्तेन संबन्धेन च भूरिणा ।
अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः

39.15

कालेन सह निर्यान्तम् असंख्यं परमेश्वरात् ।
तद् वै विदितवेद्यानां सिद्धानां संस्थितं हृदि

39.16

यैः स्वबोधप्रमाणेन कोटिसंख्यं प्रकाशितम् ।
पादान्ता यस्य वै भेदाः क्रमशः समुदाहृताः

39.17

यत्र यत्रेच्छया जातं मतभेदेन वै सह ।
क्रियान्तराश्च बहवः शुद्धा राजस-तामसाः

39.18

आद्यं सर्वागमानां च पारमेश्वरम् आगमम् ।
प्रमाणपरिशुद्धं च हितम् अब्जज सात्वतम्

39.19

सिद्धान्ते भगवत् तत्त्ववेदिनः परमार्थतः ।
क्रमागतश्च तैः प्राप्तं मुक्तये भविनां तु वै

39.20

पौष्कर उवाच ---
विभोः सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् ।
अप्रमेयं महत् शास्त्रम् अनन्तं गगनोपमम्

39.21

श्रीभगवानुवाच ---
सर्वेश्वरस्य च विभोर् अव्ययस्याच्युतस्य च ।
वाच्यस्य वासुदेवस्य अप्रमेयाख्यम् आगमम्

39.22

अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज ।
ज्ञानात्मसंज्ञम् आत्मानं नीतं वै स्वेच्छया द्विज

39.23

स्वभावमाप्तकामस्य तस्यैतत् स्ववशस्य च ।
ज्ञानांशेनाभिमानाख्यं गुणशक्तिमयं महत्

39.24

गृहीतस्वयम् आत्मानम् अतीन्द्रियम् अनश्वरम् ।
शब्दमूर्तिः स भगवान् स्वेच्छया स्वयमेत्य च

39.25

विश्रान्तं ज्ञानमूर्तौ तु स च संकर्षणो विभुः ।
स्वयं वीर्यम् अनन्तं च मूर्छितं ज्ञानमूर्तिना

39.26

गुणं शक्तिमयं यस्य प्रकाशाख्यं तु विग्रहम् ।
आभिमानिकम् अक्षोभ्यं प्रद्युम्नाख्यं तु शाश्वतम्

39.27

महता तेन भूतेन शास्त्रं विद्युत्प्रभोज्वलम् ।
श्वसितं वीर्यमूर्तिस्तु प्रविष्टः स्वयमेव हि

39.28

अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् ।
जनितं चानिरुद्धेति धत्ते यो ऽनश्वरं वपुः

39.29

गुणशक्तिगुणोपेतम् अपराजितम् अक्षयम् ।
त्यक्तम् उद्गारवत् शास्त्रं प्रद्युम्नेन महात्मना

39.30

आदाय विधृतं तद् वै अनिरुद्धात्मना हृदि ।
गुणव्यक्तिमयं देवं वागीशम् असृजत् प्रभुः

39.31

अनिरुद्धो ऽव्ययात्मा च अर्थयुग्मं तदागमम् ।
अनुद्धृतम् असन्दिग्धं गतं चाव्ययतां ततः

39.32

यदंशाद् विदितं तद् वै ज्ञानमूर्ते स्वविग्रहे ।
अव्ययीकृतमाद्ये तु स्वरूपं ज्ञानमूर्तिना

39.33

नीतं समरसत्वं च प्रतिशास्त्रे प्रकाशिते ।
वागीश्वराच्च सिद्धानां तैरुद्धृत्य यथोदितम्

39.34

सम्यक् समुच्चयीकृत्य नवनीतं यथो(?था)दधेः ।
विभोर्विद्याधिदेवस्य ब्रह्मणो ऽस्य प्रकाशितम्

39.35

रुद्रादित्येन्द्रपूर्वाणां देवानां चोदितैर्द्विज ।
स्वांशोत्थानां च रुद्राद्यैः स्वांशोत्थैरर्थिनामपि

39.36

ब्रह्मणा नारदादीनां स्वसुतानां प्रकाशितम् ।
तेभ्यो लोकत्रयान्तस्थऋषीणां भावितात्मनाम्

39.37

स्वाभिप्रायवशेनैव नानाकालवशाद् अपि ।
नानादेशवशाच्चैव नानाजातिवशाद् अपि

39.38

इत्येतत् शास्त्रसंबन्धं कथितं ते यथास्थितम् ।
सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc