भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 38

38.1

सो ऽचिराच्छुद्धिम् आप्नोति दुष्कृतात् पूर्वसञ्चिताम् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम सप्तत्रिंशो ऽध्यायः ॥
(समुदितश्लोकसंख्या 64)
अथ अष्टात्रिंशो ऽध्यायः
पौष्कर उवाच ---
आकाराणाम् अनन्तानां क्षितौ क्षेत्रेषु वर्तिनाम् ।
कालेनान्तर्हितानां च तेषां भूयो निवेशनम्

38.2

कुर्वन्ति विबुधाः सिद्धाः स्मृत्वा स्मृत्वा तदाकृतिम् ।
असत्यैर् मर्त्यधर्मस्थैः कथं कार्यं निवेशनम्

38.3

स्वकुलोद्धरणार्थं च कीर्त्यर्थमपि चात्मनः ।
श्रीभगवानुवाच ---
साङ्गेनाराध्य मन्त्रेण ज्ञानध्यानान्वितेन च ।
भवनार्चनयुक्तेन सजपेन तु पौष्कर

38.4

निवेशनं च मन्त्राणां द्रव्यजास्वाकृतीषु यत् ।
विहिता सा प्रतिष्ठा वै मन्त्रिणाम् आप्तलक्षणा

38.5

मन्त्रसिद्धिप्रदं शश्वदन्ते मन्त्रं पदं द्विज ।
मन्त्रज्ञानाम् असामर्थ्यात् मृतानाम् अथ पौष्कर

38.6

अनुग्रहधिया चार्यप्रेरितैस्तत्सुतादिभिः ।
यथोदितेन विधिना तन्मन्त्रेण महामते

38.7

सह ऋक्सामसंज्ञैस्तु मन्त्रैः स्वव्याप्तिसंयुतैः ।
चेतसा सावधानेन व्यवहारयुतेन च

38.8

क्रियते मध्यमा सा वै प्रतिष्ठा स्वल्पभोगदा ।
पदमात्रं च देहान्ते संयच्छत्यमलं शुभम्

38.9

केवलैः श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ।
धारणा भगवद्ध्यानमन्त्रन्यासेन वै सह

38.10

देशिकेन्द्रेण वै कार्या भक्तानां परमेश्वरे ।
सामान्या तु परिज्ञेया यज्ञवत् स्वर्गभोगदा

38.11

ऐहिकामुष्मिकं मान्त्रं फलं यत्कमलोद्भव ।
विज्ञेयं देशिकाधीनं लोके ऽस्मिन् लोकपूजित

38.12

तस्माद् यस्तत्त्वविज्ञानी शास्त्रज्ञः सत्क्रियापरः ।
षडध्वविद् असंकीर्णः सर्वभावेन पौष्कर

38.13

तेन प्रतिष्ठितो देवश्चलो वा सुस्थिरो बृहत् ।
तत्र संरोधितो मन्त्रः सम्यग् अब्जदलेक्षण

38.14

चलस्थरविभागेन भवेत् सन्निहितः तदा ।
पौष्कर उवाच ---
देव कालान्तरेणैव द्रव्यम् एति क्षयात्मताम् ।
अप्रत्यक्षो हि मन्त्रात्मा लोकानां लोकपूजित (ः)

38.15

प्रतीक्ष्यते किं तत्त्वज्ञैर् अत्र मे संशयो महान् ।
श्रीभगवानुवाच ---
कर्मबन्धात् पृथक्कृत्य देवो देशिकमूर्तिकः ।
नानाभक्तिप्रपन्नानां तथा नानाफलार्थिनाम्

38.16

कर्मिणां कीर्तिशक्तिर्या विश्वमन्दिरपूरकी ।
निरस्तदोषा महती ताम् आक्रम्य महामते

38.17

दिव्यमन्त्रस्वरूपेण वृत्तिद्रव्यमयेषु च ।
उपायेष्वनुविद्धा सुधृत्या शक्तिमरीचिभिः

38.18

तिष्ठत्यनुग्रहार्थं च सा प्रतिष्ठेति कीर्तिता ।
एवं द्रव्यमयो यत्र सन्निवेशो ऽब्जसंभव

38.99

उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ।
प्रतिष्ठाख्यं हि तत्कर्म शुक्तिमुक्तिफलप्रदम्

38.20

तच्च सद् ब्रह्मनिष्ठानां द्विजानाम् आत्मसिद्धये ।
कर्तव्यत्वेन वै नित्यं निषिद्धम् अमलेक्षण

38.21

तद् दोषाच्च यतस्तेषां निस्तारो हि न विद्यते ।
देहापाताद् ऋते नान्यस्तत्पातस्त्वतिदोषकृत्

38.22

आदावेव हि तत् तस्मान्नाचर्तव्यं कृतात्मभिः ।
तत्कर्मप्रतिपन्नानां चतुर्णाम् अपि तैः सदा

38.23

कार्यं सम्यक् प्रतिष्ठानाम् अनुग्रहधिया सदा ।
नोपरोधस्वभावेन न लोभेन न मानतः

38.24

प्राप्ते त्वाकस्मिके दोषे ह्यङ्गभङ्गादिके ऽब्जज ।
भक्तानाम् अनुकम्पार्थं दिव्यैर्मन्त्रैर्बलादिकैः

38.25

द्वादशाक्षरपूर्वैस्तु मोक्षैकफललक्षणैः ।
संपूजितैः हुतैः जप्तैः कुरुते निष्कृतिं सदा

38.26

तस्मात् सर्वप्रयत्नेन कर्तव्ये ऽस्मिन् द्विजोत्तम ।
त्रैविद्यैः क्षत्रियैर्वैश्यैः शूर्द्रैर्वा भगवन्मयैः

38.27

सकामैर् अथ निष्कामैः मन्त्राराधनतत्परैः ।
स्नातकैः भगवद्बिम्बस्थापनार्थं सदैव हि

38.28

पुरा प्रसादनीयं (? यश्च) प्रार्थनापूर्वकं तु वै ।
अधिकारपदस्थं (? स्थश्च) द्विजेन्द्रः पाञ्चरात्रिकः

38.29

वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ।
सो ऽन्येषां भगवद्बिम्बस्थापने ऽधिकृतः सदा

38.30

अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा ।
अनन्यैर् उपपन्नानां भक्तानां कार्यमुच्यते

38.31

अनन्याः पञ्चकालज्ञाः व्यतिरिक्ता न ये पुरा ।
प्राक्सृष्टेस्तन्मुखोद्भूता द्विषट्काध्यात्मचिन्तकाः

38.32

चतुर्व्यूहपरत्वेन येषां वै प्रभवाप्यये ।
कर्मणाम् अपि संन्यासं कुर्वन्त्यध्यक्षतः क्रमात्

38.33

अतो ऽन्यो दुर्लभतरः पारम्यं यस्य तं प्रति ।
प्रमेयनिष्ठा शुद्धा च स्फुटा तत्कर्मणि स्थितिः

38.34

परत्वम् अन्यमार्गस्था नेच्छन्ति च परस्परम् ।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तदाकृतेः

38.35

मुक्ताधिकारिणं तं वै लब्धलक्ष्यम् अकृत्रिमम् ।
पञ्चकालरतं शुद्धं तन्त्रसिद्धान्तपारगम्

38.36

तेन वै श्रुतिमन्त्राणां त्रयाणाम् अपि चोदना ।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा

38.37

यस्मात् अब्जसमुद्भूत मण्डलादिषु वृत्तिषु ।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि

38.38

नित्यसिद्धे तदाकारे तत्परत्वे ऽपि पौष्कर ।
यस्यास्ति सत्ता हृदये तस्यासौ सन्निधिं भजेत्

38.39

मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः ।
अत्यौत्सुक्यं विना विप्र मनसः प्रीतये त्वपि

38.40

कामाप्तये ता कीर्त्यर्थं तस्य तद्विहितं द्विज ।
साधनेन प्रतिष्ठानां प्रासादे स्वगृहे तु वा

38.41

इति सम्यक् समाख्यातं मुख्यकल्पम् अतः परम् ।
अनुकल्पं यदत्रान्यत् तत्समासान्निबोधतु

38.42

प्राक्प्राप्तदीक्षैः विधिवत् त्रयीधर्मस्थितैर् द्विजैः ।
नित्याराधनसक्तैस्तु भक्तैर् भागवतैर् विभोः

38.43

धारणाध्यानपूर्वैस्तु लब्धलक्ष्यैस्तु कर्मणाम् ।
मन्त्रमण्डलकुण्डास्त्रमुद्रादीनां कृतश्रमैः

38.44

षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैर् अमत्सरैः ।
अनुज्झितक्रमैर् दक्षैः स्वकर्मपरिपालकैः

38.45

सत्कीर्तिप्रथितैः लोके तथाकीर्तिबहिष्कृतैः ।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते

38.46

निषिद्वम् अरविन्दाक्ष अतो ऽन्येषां हि सर्वदा ।
महामहं प्रतिष्ठाख्यं तथान्यं मिश्रयाजिनाम्

38.47

पौष्कर उवाच ---
देव व्यामिश्रयाजित्वं प्रतिषिद्धं पुनःपुनः ।
प्रागुक्तानां च यागानां द्रष्टुम् अङ्गीकृतं च यत्

38.48

तन्मात्रसंशयं जातं छेत्तुम् अर्हसि सांप्रतम् ।
श्रीभगवानुवाच ---
सत्यमेतन्महाबुद्धे यथा संचोदितं त्वया ।
किन्तु क्रियान्तरे प्राप्ते न दोषस्त्वधिकारिणाम्

38.49

यस्मात्सर्वपरत्वं हि तेषाम् अस्त्यच्युतं प्रति ।
तदाश्रितत्वाद् देवानाम् अन्येषां पूजनात् तु वै

38.50

न दोषो हि यथा लोके भ्रातृभृत्यगणस्य च ।
माननाद् धर्मपत्नीनां समक्षाद्वा परोक्षतः

38.51

ये पुनर्लोकधर्मस्थाः समबुद्धिपदोज्झिताः ।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु

38.52

वाङ्मात्रेण परत्वं वै सर्वेषां प्रवदन्ति हि ।
अधिकारं विना ये ऽत्र प्रेरिता देवतार्चने

38.53

एवं मार्गस्थितेर्लोभात् परिज्ञाय तदाशयम् ।
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः

38.54

नयन्ति नरकं नूनम् एवम् एव प्रवर्तिनः ।
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम्

38.55

कदाचित् तत्कृतं दोषं विदधाति च खण्डनाम् ।
आस्तां तावन्महाबुद्धे कर्तव्यं भक्तिपूर्वकम्

38.56

भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो जपकर्मणि ।
वर्णव्यत्ययम् आपन्नो लुप्तस्तेन स्वरेण वा

38.57

स्वरादिनाधिकं चैव मन्त्रैकार्थप्रदः सदा ।
अचिरात् तत्प्रयोक्तॄणां तथापि कमलोद्भव

38.58

अतिभक्तिप्रभावाच्च वाञ्छितं संप्रयच्छति ।
यस्मात् सद्भक्तिपूतानां प्रपन्नानां क्रमं विना

38.49

प्रसादम् एति मन्त्रेशस्त्वचिराद् भावितात्मनाम् ।
किं पुनर्वै क्रियाज्ञानसंपूर्णानां तु पौष्कर

38.60

श्रद्धाभक्तिपराणां च बोधितानां च देशिकैः ।
तस्मात् सम्यक् प्रसन्नानां शासने ऽस्मिन् महामते

38.61

कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सलैः ।
माम् असंप्रतिपन्नो यो मत्प्राप्त्यर्थं करोति च

38.62

मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ।
भविनां मामकी दीक्षा मोहाद् वा स्थापनादिकम्

38.63

स (? सा) नयत्यचिरात् तस्य भक्तिबीजेन वै सह ।
स्वकर्म कर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः

38.64

इहैव शीघ्रम् अब्जाक्ष देहान्ते गतसद्गतिः ।
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत्

38.65

भगवन्मन्त्रमाहात्म्यात् तद्व्यापारवशात् तु वै ।
संसर्गोत्थम् अघं याति प्राक्संस्कारवशात् पुनः

38.66

चीर्णदुश्चरितो भूयः प्राप्नुयान्मानुषीं तनुम् ।
प्रयत्नम् आचरेच्छुभ्रं येन शान्तिम् अवाप्नुयात्

38.67

साहङ्कारं तम् आचार्यम् अभक्तं नाधिकारिणम् ।
प्राप्नोति नूनं स लभेत् सकामं नारकीं स्थितिम्

38.68

सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृ [द्ट द्विज ।
यद्यप्येवं हि तत्रापि न भजेत् तत्र सन्निधिम्

38.69

प्रतिमाम् अर्च्य देहान्तं नूनं मां न विशत्युत ।
तत्क्षणाद् भूतवेतालाः कुर्वन्त्यर्थादिकक्षयम्

38.70

अन्यदर्शनसंस्था ये नानुग्राह्या अतो ऽब्जज ।
नापास्यो हि तथाऽचार्यः संसारभयभीरुणा

38.71

सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ।
अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम्

38.72

निर्वर्तनीयम् आमूलात् वैष्णवानां हि वैष्णवैः ।
पौष्कर उवाच ---
चतुर्णां ब्राह्मणादीनां भगवद्भाविनां विभो ।
हितार्थं ज्ञातुम् इच्छामि बिम्बापादनमेव च

38.73

श्रीभगवानुवाच ---
देवार्थं वनयात्रार्थं कुर्याद् रक्षादिके शुभे ।
प्राप्ते वनभुवो देशे कृते तद् देवतार्चने

38.74

शाश्वतं वनपर्यन्ते पाषाणं वा हरेद्द्रुमम् ।
चेतसा सुविशुद्धेन भगवद्यागपूर्वकम्

38.75

सह तत्पञ्चरात्रज्ञैस्तथा ऋक्सामपूर्वकैः ।
भक्तैः क्रियापरैः स्वच्छैर्विनीतैः शिल्पिभिः सह

38.76

संयतैर् दीक्षितैश्चापि वृक्षाद्यं प्राक् समाहरेत् ।
पाषाणं धातवो मृद्वा मृदु(?द्)गर्भांस्तु सेचयेत्

38.77

वनभूमिवनोत्थानां धातूनां मृत्स्वरूपिणाम् ।
संग्रहं विहितं स्वल्पं मेलनीयं च तद् द्विजे

38.78

प्रतिमापादनार्थं च महामृत्संचये शुभे ।
धातुद्रव्यमयानां च मृद्गर्भाणां हृदा सह

38.79

तारहाटकताम्रोत्थरेणूनां कमलोद्भव ।
विहिता योजना नित्यं मन्त्रमृद्दाहशान्तये

38.80

अङ्गारकाष्ठपर्यन्तं वनान्ताद् उपयुज्यते ।
तत्सर्वं विधिपूर्वं तु सिद्धिकृत् स्यात् समाहृतम्

38.81

एवम् आदाय तु पुरा वृक्षपूर्वं वनावनेः ।
तत्र वा स्वगृहोद्देशे बिम्बापादनम् आचरेत्

38.82

विधिवत् कर्मशालायाम् आज्ञप्तं गुरुणा यजेत् ।
शिल्पिस्वामिस्वकं पश्चात् स्वोत्थितेन क्रमेण तु

38.83

बुद्धिमान् यजमानो वा आरम्भादेव सन्त्यजेत् ।
सर्वोत्तमे ऽस्मिन् व्यापारे भावं राजसतामसम्

38.84

नूनं कलुषबुद्धीनां न तत्संपद्यते ऽब्जज ।
यद्येव परिपूर्णं वा विघ्नदोषशताकुलम्

38.85

कर्मणा प्राक्तनेनैव सात्त्विकस्यापि पद्मज ।
घटमाने ऽङ्गवैकल्यं जायते दौर्मनस्यकृत्

38.86

अथ तत्र विधानं यद् विहितं तन्निबोध मे ।
वर्णकैश्चित्रबिम्बस्य गालितेनाम्भसादिना

38.87

विहितावयवानां च योजना गन्धभावितैः ।
सितरक्तादिकै रागैः पावनैर् अस्त्रमन्त्रितैः

38.88

मृदा मृन्मयबिम्बानां मध्वाज्यक्षीरमिश्रया ।
कौशयचूर्णयुतया सुवर्णोदकसिक्तया

38.89

दारुजस्य तु संजाते भेदे भङ्गे तु वाब्जज ।
योजना वस्त्राशस्त्रभ्यां विहिता शान्तिपूर्विका

38.90

सर्वदा विहितं त्यागम् अश्मजानां बृहत्क्षते ।
क्षते हीषत्क्षते जाते सति रत्नशलाकया

38.91

सहेमया च विहितं घृष्टशाणस्य घर्षणम् ।
क्षतसाम्ये कृते चैव प्रतिमा स्याद् गुणावहा

38.92

स्थापनं सक्षतानां च करोति मरणं ध्रुवम् ।
गुरोश्च (?स्स) यजमानस्य शिल्पिश्रेष्ठस्य देशिनाम्

38.93

क्षतम् इन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् ।
आकर्णान् नाभिपर्यन्तम् अग्रस्थं पुत्रमृत्यकृत्

38.94

पश्चाद्द्वये तु जायायाः प्रष्ठाङ्गं भ्रातृहानिदम् ।
आकटेः पायुपर्यन्तं भगिनीनां क्षयो भवेत्

38.95

ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् ।
धनधान्यपशूनां च क्षयकृच्चाचिरेण तु

38.96

जानोः पादतलान्तं च भृत्यवर्गस्य दोषदम् ।
सर्वेषाम् अनुकम्पार्थम् आत्मनश्चापि कीर्तयेत्

38.97

कर्ता कमलसंभूत क्षतम् अक्षततां नयेत् ।
क्रियमाणस्य बिम्बस्य मधूच्छिष्टोज्झितस्य च

38.98

जाते ऽवयववैकल्ये ह्यनुकल्पम् इदं शृणु ।
विग्रहारम्भे क्षतदोषः भगवत्प्रतिपत्तौ तु जातायां सति तत्र च ।
तत्त्यागं च विनाशं च विरुद्धं ह्युत्तरोत्तरम्

38.99

बृहद् बिम्बाद्यपेक्षायां द्रव्यत्यागं हि नोचितम् ।
हेमादीनां तु धातूनाम् उत्कृष्टानां विशेषतः

38.100

जाते ऽवयववैकल्ये शान्त्यर्थं यागम् आचरेत् ।
भूयः संपूर्य तस्याङ्गं विशेषविधिनाब्जज

38.101

केवलं हेम हैमस्य यथालाभं क्षते क्षिपेत् ।
सर्वं रत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम्

38.102

एतत्पूर्वं तथा चान्यधातूत्थानां महामते ।
ईषत्सुवर्णमिश्रेण पूरयेत्स्वेन धातुना

38.103

यदि वै विधिनानेन क्रियमाणेन पौष्कर ।
न भवेच्चित्तनैर्मल्यम् आचर्तव्यं क्रियान्तरम्

38.104

संमतेन गुरुणां च प्राग्वद् अर्चनपूर्वकम् ।
आवीक्षयन्ति वै साक्षात् नयेच्चामूर्ततां पुनः

38.105

आपाद्यम् अपरं तेन बिम्बद्रव्येण चाक्षतम् ।
सर्वावयवसंपूर्णं मनोहारि विलक्षणम्

38.106

संभवे सति तच्छश्वद् विना कालान्तरेण तु ।
यस्मात् कमलसंभूत संकल्पाद् एव शाश्वतम्

38.107

स्थानम् आसादयन्त्याहुस्तस्य पूर्वपितामहाः ।
प्रपितामहपूर्वास्तु विवदन्ति परस्परम्

38.108

प्रायशो मुक्तदोषास्तु सन्तानेन कृता वयम् ।
यास्यामो वासुदेवत्वं यदि चेच्छति तत्पुनः

38.109

ततः शीघ्रतरं कार्यं प्रतिष्ठाख्यं मखं महत् ।
प्रीतये चातुरात्म्यानाम् अनूनां (?मीषां) तत्त्ववेदिनाम्

38.110

ऋषीणां विबुधानां च पितृणां पद्मसंभव ।
मानवानां च भूतानां त्रैलोक्योदरवर्तिनाम्

38.111

भिन्नागमोत्थिताद् भग्नबिम्बाद् धातुमयाद् द्विज ।
कृतबिम्बान्तरं कुर्याद् एवम् आमुष्मिकादिकम्

38.112

अतस्तदेव विहितं तद् भेदं वा तद् अन्वयात् ।
लोकद्वयोद्भवं येन कर्ताप्नोति शुभं महत्

38.113

संस्थितानां स्वदेशे च विहितानां धनादिना ।
द्रव्यप्रमाणं कर्तव्यं पूर्वैर् भेदैर् विभाजितम्

38.114

योर्ऽथे वै बान्धवादीनां कुर्याद्वै प्रतिमां विभोः ।
सर्वदोषविनिर्मुक्तो विष्णुलोकं स गच्छति

38.115

स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ।
ऋते विप्रादिकैर्विप्र देवबिम्बं निवेशितम्

38.116

विन्यस्तं तत्र यन्मन्त्रम् अङ्गमन्त्रैः सलाञ्छनैः ।
सह प्रयाति स्वं स्थानं बिम्बं त्यक्त्वा क्रियां विना

38.117

शप्त्वाचार्यं तथा कर्त्रा यदर्थं च प्रतिष्ठितम् ।
पिशाचभूतवेतालाः सयक्षाश्चैव राक्षसाः

38.118

स्थानं च पीठं बिम्बं च ध्वजान्तं संश्रयन्ति च ।
एवं ज्ञात्वा महाबुद्धे तथा कार्यं शुभेप्सुना

38.119

प्रतिष्ठितस्य बिम्बस्य यथा संपद्यते शुभम् ।
पूजाहोमप्रदानैश्च वादित्रैः सह गीतकैः

38.120

स्वगृहे चलबिम्बस्य पुष्पधूपादिकीं स्थितिम् ।
सर्वकालं यथाशक्त्या भक्तैः कार्या शुभाप्तये

38.121

यावज्जीवावधिः कालं तत्त्वमन्त्रैर् अधिष्ठिते ।
त्रैकाल्यं चलबिम्बे तु मन्त्रं मन्त्री स्वकं यजेत्

38.122

द्वादशाक्षरपूर्वं वा सामान्यं गुरुणां पुरा ।
न्यस्तं संप्रतिपन्नानां भक्तानां हितकाम्यया

38.123

संहृत्यैवं यथाशास्त्रं भक्त्या भोगफलाप्तये ।
निवेद्य मात्रासहितं स्वगुरोर्भवशान्तये

38.124

तदङ्घ्रिगौ करौ कृत्वा विज्ञाप्य नतमस्तकः ।
त्वया देहपरित्यागकाले योग्यस्य वा मम

38.125

न्यस्तव्यं वैष्णवैः पूर्णं मदनुग्रहकाम्यया ।
देहसंन्यासकाले तु स्वशिष्यस्यानुकम्पया

38.126

एवं हि गुरुणा कार्या योग्यस्यान्यस्य चोदना ।
तेनाप्यन्यस्य देहान्ते संयतस्य महामते

38.127

सत्क्रियस्य च भक्तस्य तद् अभावान्महामते ।
स्थितिर्वायतने विप्र विधेया गृहमेधिना

38.128

असंपत्तेस्तु भोगानाम् अन्नाद्यं संपरित्यजेत् ।
विभोराराधनार्थाय शुचिः स्नातः प्रसन्नधीः

38.129

मूर्ध्नि दत्त्वाम्बुनार्घ्यं प्राक् सपुष्पं केवलं तु वा ।
अम्बुपूजेयमाद्या वै भोगानां मूलमेव हि

38.130

यतो रसमयाः सर्वे तद्रसः परमेश्वरः ।
नारायणाख्यो भगवांस्तदर्घ्यं चोत्तमं स्मृतम्

38.131

पादयोस्तत्पुनर्दद्यात् भोगजालं यतो ऽखिलम् ।
स्वकारणपुटान्तस्थम् आनन्त्यम् उपयाति च

38.132

अचिराद् एव भक्तानां मन्त्रिणां मन्त्रयाजिनाम् ।
क्ष्मानलाम्बरवायव्यविभवेनापि यद्यपि

38.133

पुष्पधूपादयो भोगा मन्त्रान्ताः परिकीर्तिताः ।
तत्रापि रसमूला वै व्यक्तिस्तेषां तदात्मिका

38.134

स्थितमानन्दभावेन खादीनां चैव तद्रसम् ।
सर्वः सर्वत्र वै येन रसिको दृश्यते ऽब्जज

38.135

इत्येवं मानवीयानाम् अर्चनां कमलोद्भव ।
चलानाम् अचलानां च संस्थानं समुदाहृतम्

38.136

मुक्त्वा द्विजेन्द्रकर्मार्चाम् अन्यां वै वैष्णवीं चलाम् ।
नार्करुद्रेन्द्रसंस्थानां संस्थानं भगवद्गृहे

38.137

विहितं प्रतिमानां च प्रमादजनकं च तत् ।
न मूर्त्यन्तरदेवानां मूर्तयो व्यूहलक्षणाः

38.138

भुवनान्तर्गताः कार्या विधिना सुस्थिरेण तु ।
प्रादुर्भावान्तराणां च प्रादुर्भावास्तथैव च

38.139

निषिद्धं भित्तिगेहेषु उच्चस्थेषु निवेशनम् ।
देवानां भवनाद्वामे उच्छ्राया[?या]मसमं विना

38.140

यथोक्तं मुख्यकल्पाद् वै हेत्वपेक्षावशाद् भुवः ।
व्यत्ययं कर्तुमिच्छेद्यः श्रद्धाभक्तिपुरःसरम्

38.141

पूजाहवनपूर्वं च आज्ञाम् आदाय दैशिकीम् ।
तथैव च समूहोत्थां भुवनान्तरवर्तिनाम्

38.142

सुराणाम् अर्चितानां च कदाचिन्न विरोधकृत् ।
अन्यथा क्ष्मामराणां च भक्तिभागानुवर्तिनाम्

38.143

आदृष्टविग्रहाणां च पीठानाम् अशुभं भवेत् ।
एवम् आयतनस्थानां गृहीतान्तरवर्तिनाम्

38.144

विभवव्यूहमूर्तीनां मन्त्रमूर्तेर्ऽचने सति ।
विहितं वैष्णवानां च विप्रादीनाम् उपार्जनम्

38.145

आराधनार्थम् आदौ तु मन्त्रान्तम् अखिलं तु वै ।
मुख्यत्वेनानुकल्पे हि यदन्यस्थण्डिलादिकैः

38.146

ऊनम् अष्टाष्टकाच्चापि भोगजालाद् असंभवे ।
सर्वेषाम् एव भोगानां कर्मणां कमलो ऽद्भव

38.147

ऊनाधिकविशालार्था भगवद्यागलक्षणा ।
विधेया परमा शान्तिः सततं च शुभार्थिना

38.148

पौष्कर उवाच ---
सर्वदोषप्रशमनी यथा कार्याथ देशिकैः ।
शान्तिर्मान्त्री परा देवी ताम् आदिश जगत्पते

38.149

श्रीभगवानुवाच ---
सर्वदोषप्रशमनं भक्तानां भावितात्मनाम् ।
हितं पूर्वोदितं चक्रं पङ्कजं वेश्मवर्जितम्

38.150

यस्माद्वा स्थाप्य पीठं च विष्वक्सेनान्तम् अर्चनम् ।
नोपुयज्यति वै तत्र ऋते सर्वेश्वरार्चनात्

38.151

व्यतिरिक्ता निराशानाम् अम्बरस्थाम्बरेषु च ।
विधिज्ञेन स्थितिः कार्या ऋग्विदर्चापयेत् ततः

38.152

पीठम् अश्रान्वितं कृत्वा पुरं त्वाचरणान्वितम् ।
तत्र पूर्वोदितन्यासं कुर्याद् आधारपूर्वकम्

38.153

स्वदेहवत् तमालक्ष्य स्मृत्वाध्यक्षप्रकाशितम् ।
तद् वाचकेन मूर्तेस्तु चित्सामान्येन सांप्रतम्

38.154

यथेह च सवेद्यादि स्मृत्वा युक्तस्वविग्रहे ।
न हि सांकर्यदोषो ऽस्ति अध्यक्षाधिष्ठिते सति

38.155

तथैवाधारशक्त्यादि विष्वक्सेनान्तम् अर्चनम् ।
निर्देषं मण्डले किन्तु भगवच्छब्दपूर्वकम्

38.156

सर्वस्य नाम चोच्चार्य तदन्ते त्वात्मने नमः ।
एवम् आसनदेवानां धर्मादीनां समर्चनम्

38.157

स्थानभेदस्थितानां च कृत्वा तदनु पौष्कर ।
मण्डले मन्त्रमूर्तीनाम् आहूतानां समर्चनम्

38.158

संपूर्णं शान्तये तत्स्याद् असंपूर्णम् अशान्तये ।
अतः स्वशक्त्या शान्त्यर्थे सदानं वह्नितर्पणम्

38.159

भगवद्यागपूर्वं तु सर्वत्र विहितं सदा ।
तच्च ज्ञानानुविद्धेन कर्मणार्घ्यादिकैः सह

38.160

सम्यक्ततो द (?र)यीं ज्ञात्वा सद्रव्यं संस्थितं शुभम् ।
यथा बीजाङ्कुराभ्यां तु अनन्यत्वमनादिमत्

38.161

फलाप्तये फलेप्सूनां जगत्यस्मिंस्तथाब्जज ।
अन्योन्यानुगतत्वं हि संस्थितं ज्ञानकर्मणोः

38.162

ज्ञातव्यम् अविवेकाच्च बुध्या तु सुविशुद्धया ।
भगवद्वासुदेवाख्यपरस्य परमात्मनः

38.163

अनुग्रहार्थम् उल्लासं ज्ञानकर्मसमन्वितम् ।
मन्त्रमुद्रासमेतं च कर्मिणाम् अनुकम्पया

38.164

तत्त्वशक्तिसमोपेतं ज्ञानाद्यैरन्वितं गुणैः ।
अणिमाद्यष्टकेनापि सिद्धिबीजेन वै सह

38.165

शान्तये सर्वदोषाणां शश्वत् परपदाप्तये ।
परमेश्वरोल्लासः (1) पारमेश्वरम् उल्लासम् इत्यभिन्नं द्विजोत्तम ।
परिज्ञेयं यथा वह्नेर्निर्धूमस्यार्चिषः शुभाः

38.166

समुद्रस्योर्मयो यद्वद् रश्मयो भास्करस्य च ।
संकल्पाद् भक्तिपूर्वात् तु सूर्यवद्धृदयाम्बुजे

38.167

करोति नित्यम् उदयं भव्यबुद्धेः महामहे ।
संकल्पलक्षणैर् भोगैर् मखैरिष्ट्वा तु पूर्ववत्

38.168

बहिः शुभतरैः पश्चात् भोगैर् आज्यादिकैस्ततः ।
तर्पितश्चानलाधारे यथोक्तविधिनाब्जज

38.169

देशिकद्विजमूर्तिश्च सान्नपानधनादिना ।
परितोषं परं नीतं शान्तिं यच्छति वै पर(?रा)म्

38.170

पौष्कर उवाच ---
कर्मणां शान्तिकादीनाम् आधारे मण्डलादिके ।
ध्यातम् अस्य जगद्धातुर् ज्ञातुम् इच्छाम्यहं प्रभो

38.171

श्रीभगवानुवाच ---
व्यक्तिः संपूज्यते या या ज्ञानाद्यैः सा गुणैर् युता ।
ज्ञातव्या कमलोद्भूत नित्या सर्वात्मना विभोः

38.172

संसारदुःखशान्त्यर्थं तज्जा वा सा सुशान्तये ।
संयजेद् गोचरीकृत्य भक्त्या सुश्रद्धया तु वै

38.173

वाचकैर् द्वादशार्णाद्यैः शश्वच्चाभिमताप्तये ।
विचित्राकृतिर् अस्त्राङ्गवस्त्रस्रग्भूषणादिकैः

38.174

शक्तिपूतैः सुसंपूर्णा तथान्यैः साधनैः स्वकैः ।
शुद्धसंविन्मयं त्वेवं व्यक्तविग्रहम् आच्युतम्

38.175

पौरुषेण तु रूपेण स्मर्तव्यं सत्पदाप्तये ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च

38.176

मुञ्चन्तम् अनिशं देहाद् आलोकं ज्ञानलक्षणम् ।
प्रयत्नेन विना ज्ञानं न्यासकृद् ध्यायिनां महत्

38.177

स्रग्वस्त्राभरणैर् युक्तं स्वानुरूपैर् अनूपमैः ।
चिन्मयैः स्वप्रकाशैस्तु अन्योन्यरुचिरञ्जितैः

38.178

पूर्वकर्मानलार्तानांध्यायिनां स्वेदशान्तये ।
स्वदत्तेन्दुचयोत्थेन ह्लादेयद् गोगणेन तु

38.179

विद्याकलाभिधे शक्ती संधत्ते शङ्खचक्रवत् ।
ज्ञानक्रियात्मके विद्धि इच्छासंवलिते ऽब्जज

38.180

अनन्तशक्तिर् भगवांस्तम् अनन्तगुणं स्मृतम् ।
दृश्यदृष्टान्तसूर्येन्दुवह्नितत्त्वैर् विलक्षणम्

38.181

स्वबोधप्रत्ययेनैव इयत्तास्य विधीयते ।
सर्वम् एवैष भगवान् किमु सर्वम् अतः परम्

38.182

ध्येयम् अस्य यदा भाति सा विद्या स्वात्मनि स्थिता ।
भक्त्या यथोचितध्यानाद् एतस्माद् एव शान्तये

38.183

एवम् अस्य परं रूपं परमं विनिबोधतु ।
ध्यायिनां भव्यबुद्धीनां परमानन्ददं हि यत्

38.184

धनुकुञ्चितनीलालिग (?द) लिताञ्जनसन्निभैः ।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः

38.185

किरीटमकुटाक्रान्तैः शोभितं सुशिरोरुहैः ।
स्थलाब्जकाशसंकाशपद्मरागरुचिप्रभैः

38.186

पाणिपादतलै रक्तैर्वदनैर् अधरादिकैः ।
नासाश्रवणरन्ध्रान्तैर् मुक्ताभासादिकैर् द्विजैः

38.187

ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनैः ।
एवं हृत्पुण्डरीके प्राक् पुण्डरीकाक्षम् अच्युतम्

38.188

नानामन्त्रप्रभाकान्तिध्यानम् इच्छाप्रदं भवेत् ।
बहिर्वै मण्डले ध्यानं भवदुःखं नयेत् क्षयम्

38.189

परस्माद् भगवत्तत्त्वाद् अनन्यत्वेन वर्तते ।
अत्र स्थितं बहिर्ज्ञेयं मन्त्रव्यूहं सदोदितम्

38.190

नानाव्यक्तिस्वरूपेण भविनां मोक्षदं हि यत् ।
तत्र तावत् परिज्ञेया क्रमशो वै पुरोदिताः

38.191

निर्दिष्टलक्षणा ब्रह्मन् वराहाद्यास्तु शक्तयः ।
तासां व्यक्तं क्रमाद् ध्यानं यथावत् प्राक् प्रकाशितम्

38.192

परस्य ब्रह्मणस्त्वेवं नित्या वा व्यापकामला ।
मूर्तिर्वै वासुदेवाख्या त्वभेदेन स्थिताब्जज

38.193

ज्वाला ज्योत्स्त्ना प्रभा यद्वत् वह्नेर् इन्दोर् विवस्वतः ।
स्वेच्छया यो ऽभिमानाख्यरूपं धत्ते यथोदितम्

38.194

अनुग्रहार्थम् एवं वै भगवन्मन्त्रशक्तयः ।
व्ययञ्जयन्ति स्वकं रूपम् आभिमानिकम् उत्तमम्

38.195

यमालम्ब्याचिरेणैव जपाद् ध्यानात् समर्चनात् ।
सर्वम् आप्नोति मन्त्रज्ञः तव भक्तिप्रदः स्थितः

38.196

साहजं प्राकृतं कर्मबन्धं कर्मात्मजं हि यत् ।
संस्थितं हि यथा ताम्रं धातोरब्जज कालिकम्

38.197

भूत्वा सर्वज्ञशक्तिः सा स्वयं मन्त्रतरात्मना ।
क्रमात् कर्मात्मतत्त्वानाम् अनुवेधं करोति च

38.198

भक्तियुक्तम् असंबाधं शश्वद् ये चाप्नुवन्ति ते ।
पिबन्ति परमं ब्रह्म ईशं मन्त्रात्मनाप्तये

38.199

लब्धाधिकाराः क्रमशः संप्राप्य स्वेश्वरे पदे ।
प्रयान्ति मन्त्रसामर्थ्याद् यस्मान्नायान्ति ते पुनः

38.200

ज्ञात्वैवं कमलोद्भूत ध्येयाः पूज्यास्तथैव हि ।
ये प्रधानतरा मन्त्रा मूर्तयो ऽपि जगत्प्रभोः

38.201

आराधनाज्जपाद् ध्यानात् परिज्ञानाच्च ते शुभम् ।
यच्छन्ति पदम् आत्मीयं तत् तद् अक्षयम् आच्युतम्

38.202

दहन्ति वह्निवत् कर्मजालं कर्मात्मनां महत् ।
एवं ज्ञात्वाब्जसंभूत सुप्रसिद्धैस्तु वाचकैः

38.203

द्वादशाक्षरपूर्वैस्तु षडष्टाक्षरपश्चिमैः ।
स्वसंज्ञाख्यैः स्वबीजैर्वा संप्राप्तैर् देशिकाननात्

38.204

स्मर्तव्या वासुदेवाख्या द्विभेदाः परमेश्वराः ।
चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया

38.205

एवम् अन्ये वराहाद्याश्चतुर्व्यूहेन वै सह ।
तथैव केशवाद्या ये द्वादशाः (?श) संप्रकीर्तिताः

38.206

अनुज्झितस्वरूपस्य नानामूर्तियुतस्य च ।
नानाव्यत्ययसंस्थस्य यजनं चतुरात्मनः

38.207

यत् तु नानार्थसिद्ध्यर्थं तथा रुचिगुणाप्तये ।
सम्यग् ज्ञात्वा तु षाड्गुण्यं महिमा शान्तता परा

38.208

प्राप्तुम् इच्छति यच्छीघ्रं धीमता तेन पौष्कर ।
पूजनीयं यथावस्थम् अध्यक्षान्तं हि केवलम्

38.209

प्राग्वद्विभवमूर्तीनां पञ्च व्यूहाद्यपेक्षया ।
ऐश्वर्यपूर्वषाड्गुण्यं चातुरात्म्याद्यम् इच्छति

38.210

सप्रद्युम्नाच्युताध्यक्षवासुदेवाद्यम् अर्चयेत् ।
यः पुनर्मूर्तिपूर्वं तु इच्छेद् गुणगणं महत्

38.211

संकल्पसिद्धयः सर्वा विविधाश्चाणिमादयः ।
सर्वेश्वरो ऽनुगन्तव्य अध्यक्षान्तं तु साच्युतम्

38.212

प्रद्युम्नान्तं तु सततं समाधावर्चने हितम् ।
मुख्यत्वेन तु वै यस्य चलाद्यं गुणसंग्रहम्

38.213

प्रतिभाति गुरोर्वक्त्रं धीरं तस्यार्चने पुनः ।
वासुदेवाच्युताध्यक्षक्रमं प्रद्युम्नपश्चिमम्

38.214

षट्कं तु वीर्यपूर्वं वै इच्छत्याराधनात्तु यः ।
अप्रद्युम्नं तम् अध्यक्षमच्युतं संयजेत्तदा

38.215

तेजःपूर्वं तु षाड्गुण्यं योर्ऽचनाद् अभिवाञ्छति ।
तस्यार्चने तु विहितं भूयो ऽध्यक्षादिकं त्रयम्

38.216

प्रागर्चनात्तु मूर्तीनां केवलाद् अर्चनात् तु वा ।
कैवल्यं भगवत्तत्त्वं मन्त्रज्ञः समवाप्नुयात्

38.217

मूर्तित्रयं तदन्ते यत् सर्वगं यद्यपि स्थितम् ।
तथापि विश्वविभवं यत्सत्यं त्वात्मना प्रभुः

38.218

ज्ञात्वैवम् अर्चनीयं तु तमेव समनन्तरम् ।
जाग्रद् ईश्वरम् अध्यक्षं त्वया नाथात्मना सह

38.219

त्रयाणाम् अच्युतादीनां प्राथम्येन तु पूजनात् ।
तत्पदेष्वादिदेवस्य क्रमाद् आराधयेत् त्रयम्

38.220

चातुरात्मीययोगेन गुणानाम् एवम् अर्चनम् ।
कुर्याद् वै विधिवन्मन्त्री यथा तदवधारय

38.221

ज्ञानं बलमथैश्वर्यं वीर्यं च तदनन्तरम् ।
चतुष्टयम् इदं भिन्नं यजनात् सिद्धिकृत् सकृत्

38.222

बलम् ऐश्वर्यवीर्ये च तेजोनिष्ठं चतुष्टयम् ।
यं य इच्छत्यभिमतं परिज्ञानाद् अवाप्नुयात्

38.223

तेजः शक्तिस्तथा ज्ञानं बलं वीर्यान्तम् एव हि ।
इष्टं चतुष्टयं दद्यात् मन्त्रिणाम् इदम् अब्जज

38.224

ज्ञानात्मने समुच्चार्य प्रणवाद्यं पदं शुभम् ।
यथा ज्ञानगुणस्योक्तं सर्वेषाम् एवमेव हि

38.225

अनुज्झितक्रमेणैव व्यत्ययेनोदितेन च ।
मोक्षभोगाप्तये त्वेवम् अर्चनं विविधं स्मृतम्

38.226

भेदभिन्नं जगद्योनेर् अभेदेन यजेत् पुनः ।
द्वादशारे महाचक्रे तथासंख्यच्छदोदरे

38.227

गुणातीतस्तु भगवान् पूर्ववत् कणिकान्तरे ।
द्वादशाक्षरमन्त्रेण पत्रगं हि तदक्षरैः

38.228

नमः प्रणवसंरुद्धैः प्रादक्षिण्येन प्राक् पदात् ।
प्राप्तये गुणभूतानां षट्कयुक्तं हि यच्च ते

38.229

दिव्यानां चातुरात्म्यानां त्रयं संचरितं हि यत् ।
त्रयं गुणमयं चान्यत् चाकाराणां क्रमाद् यजेत्

38.230

उपायैस्तैः फलप्राप्त्यै तस्माद् यष्टव्यम् इच्छया ।
भक्तिश्रद्धासमेतेन ज्ञानपूर्वेण कर्मणा

38.231

स्ववर्णाश्रमधर्मेण सह सम्यक् समाधिना ।
आ अनुग्रहकालाच्च यावज्जीवावधि द्विज

38.232

तीव्रप्रभावशान्ताच्च ज्ञानम् आराधनेन च ।
देहेनानेन तेनैव ह्यनेनान्यतरेण वा

38.233

मन्दमन्दवशाद् भाववशाद् अमरपूजितः ।
एवं यद् अधिकारेण कुर्याद् आराधनं हि यः

38.234

भोगैर्यथोदितैः शुद्धैः क्रियाभिर्विविधैस्ततः ।
निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं स्वमन्त्रराट्

38.235

नानर्चितं विभोर्भोगं कल्पितं विनिवेद्य च ।
प्रणवाद्यन्तकेनैव सनमस्कपदेन तु

38.236

कल्पयामीति नाम्ना तद् भोगानां विध्युपार्जनम् ।
धिया निवेदनं तेषां शिरसावनतेन यत्

38.237

समर्पणे यद् विज्ञेयं वाचकेन हृदेश्वरात् ।
पूरकेण हृतानां प्राक् बहिःस्थानां क्रमेण तु

38.238

हृदयङ्गमसंज्ञं यत् पञ्चकं त्वर्हणादिकम् ।
कृतम् अञ्जलिमुद्रायां श्रद्धापूतेन चेतसा

38.239

निवेदनीयं बहुधा यथासंभवमेव वा ।
परमाश्रित्य वै यत्तु इन्द्रियैः संयतैः सह

38.240

वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ।
स्वश्वासोपहतं चैव न भवेत् तद् यथाब्जज

38.241

सुभर्जितानां बीजानां प्रसवं न पुनर्यथा ।
क्रियाफलानां च तथा प्रथमं चाच्युतार्चनात्

38.242

आस्तां तावन्महाबुद्धे कर्मसंज्ञं हिताच्चयुतम् ।
फलहीनं हि चामूलाद् भवक्षयकरं परम्

38.243

अश्वमेधादयो यज्ञा नूनं कर्मफलप्रदाः ।
ते ऽपि सन्मन्त्रभक्तानां न यच्छन्ति फलं स्वकम्

38.244

ज्ञस्वभावास्तु वै यज्ञाः सम्यग्बुध्वा पराशयम् ।
यछन्ति परमां शान्तिं भगवत्तत्त्ववेदिनाम्

38.245

स्वर्गाद्यं फलमन्येषां मर्त्यभोगं तु वेप्सितम् ।
फलम् आमुष्मिकं चैव ऐहिकं वाब्जसंभव

38.246

कृत्वा बुद्धिनिविष्टं तु जपादीन् श्रद्धया चरेत् ।
भक्तिपूतेन विप्रेन्द्र तात्पर्येण तु वै सह

38.247

साङ्गं सपरिवारं च इष्ट्वैवम् अजम् अव्ययम् ।
शक्तिव्यक्तिविभेदेन आदिमूर्तिक्रमात्तु वै

38.248

ऋङ्मयेनाथ यजुषा पूजनीयं तमेव हि ।
अचिराख्ये पदे मन्त्रे तन्त्रैर् अभिमताप्तये

38.249

परं ब्रह्म परं धाम पवित्रं परमैश्वरम् ।
सामर्थ्याद् अच्युतं नेत्रा नाम्ना यत्समुदाहृतम्

38.250

व्यक्तम् अस्य परब्रह्म क्वचिन्नयनलक्षणम् ।
अन्तर्निगूढमन्त्राणां वर्तते ऽन्यत्र वै बहिः

38.251

अत एव षडङ्गानि पञ्चाङ्गानि महामते ।
वाचकानि तु वाच्यानि युक्तान्याराधनात्तु वै

38.252

नेत्राख्यं भगवत्तत्त्वं यदङ्गेभ्यो ऽतिरिच्यते ।
शिरो ऽम्बरे तु मन्त्राणां प्रधानेतरवर्तिनाम्

38.253

स्वबीजं विनियोक्तव्यं स्थित्यर्थं प्राक् प्रभात्मकम् ।
परावरस्वरूपेण स्मरेत् तत्स्थं दिगीश्वरम्

38.254

औदयेन तु योगेन मन्त्राणि च परात् पदात् ।
यथाक्रमस्थान्याहूय अर्चनावसरं प्रति

38.255

निवेश्य च यथाशास्त्रम् अस्त्रावरणपश्चिमम् ।
संपन्ने विधिवद् यागे पुनः सर्वेश्वरे हरौ

38.256

क्रमात् प्रविलयं कुर्यात् साधकः सिद्धिम् इच्छताम् ।
एवं नियन्तृशक्तिर् वै नेत्राख्या पारमेश्वरी

38.257

प्रभा (?भ) वत्वेन मन्त्राणाम् अप्ययत्वेन वर्तते ।
बहिर्वा कमले हार्दे स्मर्तव्या सामलान्तरे

38.258

निषेधाख्येन बीजेन सानुस्वारेण स्वेनं च ।
सहस्रानलसूर्येन्दुवराहायुतभास्वरा

38.259

वाच्यवाचकयोगेन माननीयं सदैव हि ।
सहसृष्टिस्वरेणैव सृष्टौ सर्वं यद् ईप्सितम्

38.260

भोगबीजम् अखण्डं च प्रतीपं मन्त्रिणां पुनः ।
शश्वद् अज्ञानानुसिद्धं च संप्रयच्छति पूजनात्

38.261

नित्यमन्त्रोपसंहारवेलायाम् उदये ऽपि च ।
यथावद् आदौ बोद्धव्यं क्रमान् मन्त्रं यथास्थितम्

38.262

बीजं पिण्डं पदाख्यं च तथा मन्त्रं सलक्षणम् ।
भेदम् एतद्धि मन्त्राणां फलं भेदेन चान्वितम्

38.263

नानावाच्यस्वरूपेण यतः सर्वेश्वरः स्थितः ।
चतुष्प्रकारैर् अमलैर्वाचकैर् उपचर्यते

38.264

वाचकानां हि वाच्यानाम् एवमस्ति परस्परम् ।
आपेक्षिकं वैश्वरूप्यं संसिद्धे नियमे सति

38.265

विना पिण्डाक्षरैर्ब्रह्मन् संज्ञाख्यैः पदलक्षणैः ।
स्वकैर्बीजाक्षरैः कुर्याद् वाच्यस्य परिकल्पनम्

38.266

सोपाङ्गानां तु चाङ्गानां द्वादशानां स्वसंज्ञया ।
केवलानां तु षण्णां वै पञ्चानाम् अपि चेच्छया

38.267

ते ऽनुस्वारयुताः सर्वे कार्याः प्रणवमध्यगाः ।
न्यासात्मवान् मनोमूर्तेः सामान्याराधने परम्

38.268

कर्मानुरूपमन्ते तु नमस्कारादिकं न्यसेत् ।
तथा फलाभिसन्धाने नमस्कारः प्रकीर्तितः

38.269

संप्राप्तौ त्वणिमादीनां स्वाहाकारम् उदीरयेत् ।
आप्यायने तु वै वौषट् सर्वत्र कमलोद्भव

38.270

वश्यार्थे चापि विद्वेषे दुष्टोच्चाटनकर्मणि ।
हुंफट्कारं च विहितम् अन्योन्यप्रीतये वषट्

38.271

तृप्त्यर्थे बलिदाने च तेजसो ह्यभिवृद्धये ।
ऋते सप्रणवाद् विप्र नमस्कारपदात् तु वै

38.272

मन्त्राणां कर्मसंन्यासकर्तॄणां जातयो ऽपराः ।
निषिद्धास्तत्फलोपेतास्तथा सिद्धान्तिनां नृणाम्

38.273

मन्त्रसिद्धान्तवेतॄणां मन्त्रज्ञानां विशेषतः ।
तथा तन्त्रान्तरज्ञानां मन्त्रिणां कमलोद्भव

38.274

सह जातिगणेनैव विधिना मन्त्रसिद्धयः ।
फलार्थिनाम् अनुज्ञाताः कामभोगरतात्मनाम्

38.275

प्रकृतिप्रत्ययाधीना मालामन्त्रादिकास्तु ये ।
श्रुतिमन्त्रैः समोपेतास्तुतिमन्त्राश्च ये स्मृताः

38.276

आवर्जयन्ति तज्ज्ञानां सततं चित्तम् अब्जज ।
नतिनः प्रणवाद्या ये त्यागपिण्डं तथाब्जज

38.277

मन्त्राणां विविधार्थानां तेषां वै पारमेश्वरी ।
शक्तिर्नित्योदिता सूक्ष्मा सत्ताख्या ज्ञानलक्षणा

38.278

आविश्वसाधनं कार्या तेषाम् इच्छा क्रियाब्जज ।
विकासयति सद् विप्र प्रदाने मुक्तये ऽपि च

38.279

भक्तिक्रियापराणां च हितार्थं नित्यसेविनाम् ।
विद्वान् यथोक्तनीत्या तु ओषध्यो मूलम् ऊर्ध्वगाः

38.280

दग्धाग्निनापि कुर्वन्ति सम्यग्ज्ञातक्रिये भुवि ।
किं पुनस्त्वागमज्ञैस्तु भक्त्या तु विधिपूर्वकम्

38.281

उपदेष्टा प्रबुद्धानां कुर्वन्ति च मनोहितम् ।
तेषां गन्ता रहः सर्वं बद्धाद्यं शब्दडम्बरम्

38.282

हितं यत् पदमन्त्राणां समाश्रित्यानुपूर्वकम् ।
पौष्कर उवाच ---
ज्ञातुम् इच्छामि भगवन् कालभेदेन वै सह ।
स्वरूपं मन्त्रसिद्धानाम् आगमानां यथास्थितम्

38.283

कालभेदः ---
श्रीभगवानुवाच ---
कालम् एकं द्विजश्रेष्ठ तद् व्यापारवशात् पुनः ।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै

38.284

नाडिकाकलितं यद् वै अहोरात्रं तु षडृतु ।
पञ्चधा विषमांशैस्तद् आप्रभाताद् विभज्य च

38.285

ब्राह्मं मुहूर्तम् आसाद्य मन्त्रज्ञः प्रयतः शुचिः ।
शोधयित्वा स्वकं देहम् आयामाद्यैर् यथोदितैः

38.286

मन्त्रविन्यस्तदेहोत्थं कुर्यान् मन्त्रार्चनं ततः ।
जपस्तोत्रावसानं च यावद् आदित्यदर्शनम्

38.287

कुर्याद् भोगार्चनं पश्चात् पुष्पमूलफलादिकम् ।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत्

38.288

प्राग्वदाराधनं मन्त्रं तृतीयप्रहरावधि ।
ततश्चतुर्थप्रहरे शास्त्राध्ययनम् आचरेत्

38.289

चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया ।
अस्तंगते दिनकरे आसाद्याराधनालयम्

38.290

कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् ।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि

38.291

क्षपयित्वा निशांशं तु उत्थाय शयनात् ततः ।
योगं युञ्जीत वै मान्त्रं प्राग्वद्धृत्कमलोदरे

38.292

तल्पम् आसाद्य वै भूयः प्रबुद्धः कमलोद्भव ।
उत्थाय शयनं त्यक्त्वा ततः पूर्वोक्तम् आचरेत्

38.293

कालभेदम् इमं विद्धि शास्त्रभेदम् अथोच्यते ।
कर्तव्यत्वेन वै यत्र चातुरात्म्यम् उपास्यते

38.294

क्रमागतैः स्वसंज्ञाभिब्राह्मणैर् आगमं तु तत् ।
विद्धि सिद्धान्तसंज्ञं च तत्पूर्वम् अथ पौष्कर

38.295

नानाव्यूहसमेतं च मूर्तिद्वादशकं हि यत् ।
तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं तु वै

38.296

प्रादुर्भावान्तरयुतं धृ (वृ) तं हृत्पद्मपूर्वकम् ।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म्यसदिगीश्वरैः

38.297

सगणैर् अस्त्रनिष्ठैस्तु तं विद्धि कमलोद्भव ।
मन्त्रसिद्धान्तसंज्ञं च शास्त्रं सर्वफलप्रदम्

38.298

विना मूर्तिचतुष्केण यत्रान्यद् उपचर्यते ।
मन्त्रेण भगवद् रूपं केवलं यागसंयुतम्

38.299

युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ।
भिन्नैर् आभरणैर् अस्त्रैर् आवृतं च सविग्रहैः

38.300

तन्त्रसिद्धान्तसंज्ञं तच्छास्त्रं भोगापवर्गदम् ।
मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै

38.301

चतुस्त्रिद्वयादिकेनैव योगेनाभ्यर्चिते तु वै (?न तु) ।
संवृताः परिवारेण स्वेन स्वेनान्वितास्तु वा

38.302

यच्छक्त्याराधितं सर्वं विद्धि तन्त्रान्तरं तु तत् ।
एवं नानागमानां च सामान्यं विद्धि सर्वदा

38.303

नामद्वयं च सिद्धान्तं पञ्चरात्रेति पौष्कर ।
एकैकं बहुभिर्भेदैर् आमूलादेव संस्थितम्

38.304

नानाशयवशेनैव सिद्धाद्यैः प्रकटीकृतम् ।
संक्षिप्तं सप्रपञ्चं च तृतीयम् उभयात्मकम्

38.305

सेतिहासपुराणैस्तु वेदैर् वेदान्तसंयुतैः ।
ये जन्मकोटिभिः सिद्धास्तेषाम् अन्तो ऽत्र वै स्मृतः

38.306

(य) तस्मात् सम्यक् परं ब्रह्म वासुदेवाख्यम् अव्ययम् ।
एतस्मात् प्राप्यते शास्त्राद् ज्ञानपूर्वेण कर्मणा

38.307

सिद्धान्तसंज्ञा विप्रास्य सार्थका अत एव हि ।
पुराणं वेदवेदान्तं तथान्यत्साङ्ख्ययोगजम्

38.308

पञ्चप्रकारं विज्ञेयं यत्र रात्र्यायते ऽब्जज ।
फलोत्कर्षवशेनैव पञ्चरात्रमिति स्मृतम्

38.309

सदागमाख्यं मूलं तु परब्रह्मप्रकाशकम् ।
दिव्यसिद्धिप्रदं चैव शान्तिकृद् विघ्नकर्मणाम्

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc