पौष्करसंहिता · अध्याय 37
जन्माभ्यासवशाच्चापि नूनं कर्मक्षयो भवेत् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम षट्त्रिंशो ऽध्यायः ॥
(समुदित श्लोकसंख्या 461)
अथ सप्तत्रिंशो ऽध्यायः
पौष्कर उवाच ---
पादमुद्राङ्कितानां च उपलानां जगत्प्रभो ।
चक्रपद्माङ्कितानां च न्यासं संस्कारपूर्वकम्
आधाराणां तथान्येषां ज्ञातुम् इच्छामि सांप्रतम् ।
एवं चानादिसिद्धानां पाषाणानां जगत्पते
शङ्खाद्यैर् अङ्कितानां च लाञ्छनैः पारमेश्वरैः ।
प्राप्तैः संपूजनार्थं तु गृहस्थैर्वा वनस्थितैः
अन्येषां चैवमादीनां यागनिष्पत्तये तु वै ।
चलानाम् अचलानां च संविधानं ममादिश
श्रीभगवान् उवाच ---
आपादितं पुरा द्रव्यं शिल्पिना च यतात्मना ।
कृत्वा संस्कारसंशुद्धं द्रव्यैः प्राङ् मन्त्रप्रभावितैः
यत्र यत्रानुरूपं च तत्र तन्न्यासम् आचरेत् ।
तदानुग्रहशक्त्यन्तम् आक्षितेः कमलोद्भव
मन्त्राणां सन्निधिः कार्यश्चलपीठे तु केवले ।
तात्कालिकं तु विहितं निरोधं तत्र चार्चनम्
आधारशक्तेर् आरभ्य मन्त्रग्रामस्य पौष्कर ।
सुस्थिरे सन्निरोधं च सर्वेषां विहितं सदा
तत्रावाह्य यजेन् मन्त्रम् इष्ट्वा चोत्थापयेत् पुनः ।
न हितं पूज्यमन्त्रस्य पूजाकालं विनाब्जज
साधनात् सन्निमित्तत्वात् ज्ञानेनात्र निरोधनम् ।
पुष्पाद्याहरणे काले प्रत्यहं परमेश्वरः
अनुग्रहपरस्त्वास्ते स तत्रैव खशब्दवत् ।
चलबिम्बेन सह वै एकीभावगतस्य वा (वै)
पीठस्य मन्त्रविन्यासं विहितं चलपीठवत् ।
सुस्थिरस्यैकयोनेर्वा वियोगे सुस्थिरस्य च
मन्त्राणां विहितं न्यासं स्थिरपीठोदितं तु वै ।
आपादाद् ब्रह्मरन्ध्रान्तं चलबिम्बस्य पौष्कर
प्राकृतानां तु तत्त्वानां कुर्याद् वै सन्निवेशनम् ।
क्षित्यादिकानां पादान्तम् अव्यक्ताद् वा धरान्तिमम्
सर्वतत्त्वमयं मन्त्रं तस्य वा केवलं हृदि ।
प्राधानिकं योजनीयम् अभिन्नं तत्त्वकारणम्
अथेज्यावसरे प्राप्ते मन्त्रतन्त्रे नियोजयेत् ।
जडत्वविनिवृत्यर्थम् तत्त्वमन्त्रगणस्य च
जीवभूतं तु तं विप्र नित्यं शुद्धं सदोदितम् ।
साङ्गम् आवाह्य मन्त्रं च लाञ्छनाद्यैः परिष्कृतम्
उपसंहृत्य तत्रस्थं निष्पन्ने वार्चने सति ।
विन्यासम् उपसंहारं मान्त्रं यत्समुदीरितम्
तीर्थक्षेत्रधराणां च विहितं तत्प्रवासनम् ।
नित्यप्रतिष्ठिते बिम्बे प्रासादे स्वगृहे ऽपि वा
अन्यत्र वाङ्कणादौ तु तस्य कुर्यात् निरोधनम् ।
आधारपीठमन्त्रैस्तु लाञ्छनीयैः स्वकैः सह
अस्थिराणां प्रतिष्ठानां विशेषम् इदम् आचरेत् ।
यथोदिते तु संपन्ने स्थापिते परमेश्वरे
कुर्यात् ततो ऽनुवेधं च आधाराच्च शिखा वि(?व)धि ।
सामर्थ्यशक्तसूत्रेण ईश्वरेणाक्षयेन च
सति येन विलुप्तस्य विम्बाद्यैर् अन्वितस्य च ।
न जहाति मन्त्रौघस्तस्य कालान्तरेण च
अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान् ।
निवेशयति यो बिम्बम् अपरं द्रव्यजं तु वा
तद्विज्ञानानुविद्धं च जायते समनन्तरम् ।
एवंविधस्य ज्ञानस्य त्रैलोक्ये ऽस्मिन् हि पद्मज
प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी ।
सन्निवेशं जगद्धातुर् यत्र यत्सिद्धसेवितम्
तद् असिद्धैर्न नेतव्यम् अन्यथात्वं मलीमसे ।
[ट यस्तज्ज्ञस्तत्त्वविद् भक्तः श्रद्दधानः सदास्तिकः
बुध्वावनिविपर्यासमेकं कालान्तरोद्भवम् ।
प्रयत्नैः सुचिकित्स्यं यत् तद् अंतर्धानशङ्कया
प्रसन्नाद्यैः समादाय तदाज्ञां व्रतपूर्विकाम् ।
प्रणवेन महायोगं(?याग)पूर्वं पूर्णान्तम् अर्चनम्
समापाद्य सदानं च सन्निवेश्यासने ऽपरे ।
परमेश्वरम् अन्यथा जायते तस्मिन् सदे(?ह)
व्याधितस्करदुर्भिक्षंराष्ट्रभङ्गपुरःसरम् ।
आगामि वर्तमानं च देशङ्गाद्युपप्लवैः
चालनं विधिपूर्वं तु तु कृतं नानिष्टदं भवेत् ।
पुनरन्यत्र वा तस्मिन् स्थाने कुर्याच्च योजनम्
यथाशास्त्रोक्तविधिना सम्यगुत्सवपूर्वकम् ।
किन्तु प्रबोधयेन्मन्त्रं तन्त्रं यत्सक्रियां विना
स्थितं शान्तसमानौ (?धौ) तु आश्रये चाक्षये सति ।
चालनाद् विधिनिर्मुक्ताद् दोषः संचालकस्य यत्
तद्धोमार्चनदाने तु स्थापनात् प्राक् समं नयेत् ।
सुस्थिरं वाचलं बिम्बं तत्र कृत्वा निवेश्य च
गोभूसुवर्णदानं च यथाशक्त्या समाचरेत् ।
धातुमृच्छैलदारूत्थं वस्त्रादिष्वतारितम्
अकस्माद् भगवद् बिम्बं धत्ते वै म्लानतां यदि ।
व्यत्ययात् तत्क्रियालोपाद् अकालपरिपूजनात्
महद्भयं सराष्ट्रस्य पूजकस्य जनस्य च ।
तस्मान्मन्त्रवरं साङ्गं तन्त्रसंशोधितं च यत्
कलशे मण्डले ऽग्नौ तु सप्ताहं तर्पयेत् क्रमात् ।
हेमन्तशैशिरे काले दैवीम् अर्चाम् तु शैलजाम्
स्नापयित्वार्चयित्वा च विधिदृष्टेन कर्मणा ।
सुवस्त्रवेष्टितां कृत्वा गव्येन हविषा ततः
आपीठात् पिण्डतां नीत्वा रञ्जयेच्चन्दनादिना ।
पत्रच्छेदमयैः पुष्पैः सिताद्यैर् अपि (?पिचु) निर्मितैः
नानादेशोद्भवैश्चान्यैः सितैः पीतादिकैः शुभैः ।
छायामारुतसंशुष्कैः हरितैर्भेदसंयुतैः
पूजां यथोदितां कृत्वा भूषणैर्विविधैः सह ।
वाससा स्थूलशुक्लेन कार्पासेनावकुण्ठ्य च
कुङ्कुमेनामलेंनैव कम्बलेनाविकेन वा ।
सितेन सुघनेनैव अभुक्तेनाहतेन च
शीतकाले ह्यतीते तु अपनीयाज्यकम्बलम् ।
पावनार्थं द्विजेन्द्राणां नृपाणां भावितात्मनाम्
भक्तानां नागरादीनां यच्छेत् संप्रार्थितं क्रमात् ।
भूतये ऽशुभशान्त्यर्थं रक्षार्थं प्रार्थनं क्रमात्
विजयेनापमृत्यूनां व्याधीनाम् उपशान्तये ।
प्राप्ते निदाघकाले तु प्रत्यहं शीतवारिणा
यथोक्तेन विधानेन कुर्यात् स्नानम् अधिक्रमात् ।
मसूरमाषचूर्णेन रजनीशालिजेन च
समुद्वर्त्य च संक्षाष्य हविषाभ्यञ्जनादिना ।
वाससा निर्मलं कृत्वां चन्दनेन सितेन च
शीतकेनोदकेनाथ क्षालनीयं तदालयम् ।
संमार्ज्य गोमयेनैव कृत्वा बाह्योपलेपनम्
विकीर्य पत्रपुष्पाणि कुमुदोत्पलपङ्कजान् ।
जलार्द्रैस्तालवृन्तैस्तु वीजयेत् बिम्बम् आच्युतम्
स्तुत्वा च विविधैः स्तोत्रैः स्वरेणोच्चतरेण तु ।
ततः प्रदक्षिणीकृत्य द्विचतुःसंख्ययाब्जज
नैकं त्रिपञ्चसंख्यं च गणनाविषमं च यत् ।
यतः समो हि भगवान् देवः सर्वस्य वै हरिः
संन्यासी दण्डवत्कुर्यात् प्रणिपातं च सर्वदिक् ।
प्रदक्षिणसमोपेतं बहुधोत्थाय चाग्रतः
विहितं स्नातकादीनाम् अन्येषाम् एवम् एव हि ।
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा
नतपृष्ठशिरोजानुललाटतटहृत्करः ।
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम्
स्मरन्नष्टाक्षरं बुद्ध्या असकृत् वितते क्षितौ ।
सङ्कटे सति भूभागे भगवत्यग्रतः स्थितः
यथा तु भक्तितः कुर्यात् बद्ध्वा तु करसंपुटम् ।
हृद्देशे मूर्ध्नि कम्पैस्तु सह सर्वेश्वरं स्मरेत्
कृतेनानेन विधिना स्वशक्त्या वलितेन वा ।
यथेष्टं फलम् आप्नोति पुमान् भक्तिक्रियापरः
निष्कामः शाश्वतं स्थानं प्राप्नुयात् सुरपूजितम् ।
भक्तैः संपूजितं भक्त्या ये पश्यन्ति जगत्प्रभुम्
श्रद्धया चानुमोदन्ते ते ऽपि तत्फलभागिनः ।
संसारक्षयम् अक्षय्यं कर्मिर्(?म)णां क्षयम् एति च
द्विविधेन ह्युपायेन नान्यथा तु कथञ्चन ।
समन्त्राच्च क्रियाकाण्डात् संपूर्णात् पञ्चलक्षणात्
सम्यग्बोधपरिज्ञानात् भगवद् भक्तिरञ्जनात् ।
कर्मणा मनसा वाचा यो नित्यं भगवन्मयः
शासने त्वधिकारीणाम् अवतिष्ठेत्तु तत्त्वतः ।
पारम्यं वेत्ति शास्त्रस्य मोक्षदस्याच्युतस्य च
मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0