भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 36

36.1

इति श्रीपाञ्चरात्रे महोपनिषदि
पौष्करसंहितायां धूपाधारलक्षणो नाम
पञ्चत्रिंशो ऽध्यायः ॥
ओं
अथ षट्त्रिंशो ऽध्यायः ।
पौष्कर उवाच ---
भगवन् ज्ञातुम् इच्छामि त्वया यत् समुदीरितम् ।
महात्मनो ऽनुविध्दं च लक्षणेनोपलक्षितम्

36.2

यद् यद् आयतनं दिव्यं सिध्दायतनम् एव च ।
नृणाम् उपायभूतं यद् अज्ञानां ज्ञानिनाम् अपि

36.3

यत्राराधनपूर्वं हि मान्त्रम् अभ्येति मन्त्रिणाम् ।
शश्वत् प्रसन्नता देव तथा तत्त्वजयो महान्

36.4

निर्विघ्नेन भवत्याशु स्नातकब्रह्मचारिणाम् ।
यतीनां मुक्तसङ्गानां विरतानां गृहाश्रमात्

36.5

श्रीभगवानुवाच ---
आक्षितेर् भेदभिन्नं वै मायामयम् इदं जगत् ।
क्षेत्रारव्यैर् भगवत्तत्त्वैः क्षेत्रनाथसमन्वितैः

36.6

नानाविभवरूपैस्तु व्याप्तव्यूहात्मपूर्वकैः ।
नित्यनिर्मलषाड्गुण्यविग्रहैस्तैः स्वयं पुनः

36.7

अनुग्रहार्थं भविनाम् अकृतज्ञाल्पमेधसाम् ।
भक्तानाम् अप्यभक्तानां नास्तिकानां तथैव च

36.8

भूचक्राक्षं गते द्वीपे ह्यनादिप्रथितं हि यत् ।
क्षेत्रं स्वकर्मफलदं पुण्यं परिमितं तु वै

36.9

नृणाम् अनुग्रहार्थं तु स्थानभेदैर् अधिष्ठितम् ।
अमूर्तेस्तु स्वसंज्ञाभिः कारुण्यात् क्षेत्रसत्तमैः

36.10

तथा क्षेत्राधिपैः किन्तु मूर्तैर् युक्ता नवाब्जज ? ।
बीजभावेन भूमौ वा स्थितिं कृत्वा स्थितां(रां)ततः

36.11

ज्ञानाद्यैर् वाणिमाद्यैः तु अव्यक्तैः क्ष्मानलादिकैः ।
तत्त्वबीजकलारूपैर् ब्रह्मसत्तासमन्वितैः

36.12

सहावतीर्य चासृष्टेः प्राग् व्यक्तिं यान्ति वै ततः ।
स्वयम् एवात्मभावेन सर्वानुग्रहकाम्यया

36.13

क्ष्मामण्डलोपसंहारकालं क्षेत्रवरैः सह ।
वशित्वावरदेहांस्तु प्रधानमुनिविग्रहान्

36.14

स्वास्मिन् स्वस्मिन् हि युगपत् क्षेत्रे क्षेमगतिप्रदे ।
स्वकामनैकभूतां च मूर्तिं चैवाभिमानिकीम्

36.15

कृत्वा वै व्यक्तिभावं च प्रमाणैर् उत्तमादिकैः ।
यथाकालानुरूपैश्च वासुधेनोपलात्मना

36.16

अतः तद्रूपनाम्ना वै ख्याता क्षेत्रेश्वरा भुवि ।
प्रख्याताः तुल्यनाम्नान्ये देवाः सायतनास्तु वै

36.17

एवं क्षेत्रेश्वरैः क्षेत्रैः कर्मभूमिर् अधिष्ठिता ।
क्षेत्रैर् अमूर्तैश्चिद्रूपैर् मूर्तैः क्षैत्राधिपैः तथा

36.18

इति युक्त्यावतीर्णा ये क्षेत्राणां क्षैत्रनायकाः ।
ते ऽपि कालान्तरेणैव स्वयं दोषं शिलामयम्

36.19

बुध्वान्तर्धानम् आयान्ति देशभंगादिकैर् द्विज ।
विचारैः प्रचुरैः भूयः प्राग्वद् व्यक्तिं व्रजन्ति च

36.20

स्वयंवावनिमध्यात् तु स्वसामर्थ्येन चोदयेत् ।
कुर्वन्ननम्बुनिधेर् यद्वद् अम्बुदौघम् अचोदितम्

36.21

इति मत्प्रतिपन्नानां स्वप्ने प्रत्यक्षतो ऽपि वा ।
वदन्ति योगक्षेमाद्यं स्वयं वा तन्मयात्मनाम्

36.22

तत्तत्त्वतो ऽतिभक्तनां सत्यार्थं सर्वदा भवेत् ।
असत्यार्थमतो ऽन्येषां किन्तु पुष्करसंभव

36.23

इत्युत्कर्षं भवत्येषाम् अस्तित्वेन समन्वितम् ।
निरासार्थम् अभक्तानाम् नास्तिकत्वेन वासता

36.24

तुष्टये ह्यास्तिकानां तु तीर्थादीनां हि सिद्धये ।
क्षेत्रेशा वासुदेवास्ते स्थिताश्चोपलकुक्षिषु

36.25

क्वचित् साक्षात् तथा चक्रशंखपद्मगदात्मना ।
विशेषेण त्रिकूटे तु गिरौ रैवतके तु वै

36.26

सालग्रामे तु सहयाद्रौ तथा विष्णुपदे द्विज ।
व्यावर्ते चैव कृष्णाश्वे कुक्षौ तु तुहिनाचले

36.27

महेन्द्रे मलये विन्ध्ये पारियात्रे ऽथवार्बुदे ।
सत्यव्रतस्थे हस्त्यद्रौ विकटे पर्वतोत्तमे

36.28

सिंहाचले मम क्षेत्रे पुण्ये वा सुमनोहरे ।
एवं कमलसंभूत वासुदेवैर् अधिष्ठिते

36.29

अनेकाकृतिभेदस्थैर् अनेकैकेन केन चित् ।
अयत्नात् कल्पिते क्षेत्रे स्वनुध्या तु व्रजन्ति ये

36.30

आश्रित्य क्षेत्रनाथं तु विपद्यन्ते च तत्र ये ।
अवसाने तु वा चा चान्ये धरांशे मध्यमे तु वा

36.31

आद्ये वा देवदृग् दृष्टे ते प्रयान्ति क्रमेण तु ।
तस्य वै क्षेत्रताथस्य सत्यत्त्वक्ष्मागतस्य च

36.32

तत् सालोक्यं तु सामीप्यं सायुज्यम् अमलेक्षण ।
परिग्रहविहीनं च विवेकराहितं जनम्

36.33

शरणागतभूतं तु अपि चेन्नास्तिकं पुरा ।
तथान्तिकं श्रद्धधानं निश्चेष्टं चापि पौष्कर

36.34

विसंज्ञं बन्धुभिर् नीतं कारूण्यात् कमलोद्भव ।
त्राहित्युक्त्वा जगन्नाथं क्षिप्त्वा स्त्रीबालपूर्वकैः

36.35

ज्ञात्वा विमुक्तदेहं तं सह पुर्यष्टकेन तु ।
महता तूर्यघोषेण कृत्वा रथवरे तु वै

36.36

जित्वान्तकभटान् रौद्रान् बलात् क्षेत्रेशकिंकरैः ।
नृसिंहकपिलक्रोडवामनाश्वशिरोमुखैः

36.37

ससौम्यवदनैः पद्मशंखचक्रगदाधरैः ।
सीरनन्दकधृग वज्रपाशाङ्कुश धनुर्धरैः

36.38

मुसलादितथादण्डहस्तैश्च गरूडाननै ।
आनीय क्षेत्रनाथस्य त्वभिगच्छापयन्ति च

36.39

देवक्षेत्रे त्वदीये ऽस्य विमुक्तं पाञ्चभौतिकम् ।
शरीरम् अद्यानाथस्य कुरूशश्वद् यथोचितम्

36.40

क्षैत्रनाथस्तु तद् वाक्यं समाकर्ण्याञ्च गणेरितम् ।
करूणानुगतेनैव तं निरीक्ष्य तु चक्षुषा

36.41

कृतं विगतपापं तु तस्मिन्नायतने पुरा ।
संप्राप्तस्य स्वके स्थाने दोषशेषं हि वै पुनः

36.42

संसर्गेण लयं नीत्वा क्रमात् कालान्तरेण वै ।
द्वाभ्याम् एवं प्रकारेण यद् अन्यच्चात्मसात् कृतम्

36.43

तत्स्थं लिङ्गवशात्कृष्य स्वशक्त्या च स्वविग्रहात् ।
संस्कारयोग्यतां ज्ञात्वा सम्यज्ज्ञानाप्तये तु वै

36.44

ददाति कर्मभूमौ तु जन्म सत्कर्मिणां कुले ।
सव क्षेत्रै वा परक्षेत्रे तत्र सालोकनं हि यत्

36.45

कालात् प्राप्ताधिकारश्च कृत्वा व्याप्तां समासतः ।
यथोचितम् अनुष्ठानं त्रयोदशवि[धं] शुभम्

36.46

तत् तेन कृतकृत्यं स्यात् तदर्धेन तु चापरम् ।
तृतीयंम् अब्जसंभूत सम्यज्ज्ञानेन युज्यते

36.47

ज्ञा(न)तमात्रं हि वै कालाद् इन्द्रियव्यक्तिलक्ष(णं)णात् ।
स्वयं चीर्णव्रतं प्राग्वत् तत् क्षेत्रे बुध्दिपूर्वकम्

36.48

तीव्रभावेन वै पश्चाद्देहत्यागं व्रतादिना ।
कुर्यात् क्षेत्राधिपस्याग्रे तद् वत्तं गतकल्मषम्

36.49

पृथग्देहारणीं कृत्वा ज्ञानं यद (धर्म) मलं शुभम् ।
स तस्योपदौदिशत्याज्यं ? तत्रै (वे) व कमलेक्षण

36.50

यत्प्राप्य परमं धाम वासुदेवाख्यम् एव च ।
योगिनां तीर्थपुण्यानि ब्रह्मन्नापतितानि च

36.51

सदाव्याधारभावेन हयंगभावं व्रजन्ति वै ।
योगोत्कृष्टप्रकृष्टं च प्राप्यन्ति ज्ञानिनो ऽपि ये

36.52

शश्वज्ज्ञानसमाकीर्णं निर्विघ्नेनाप्नुवन्ति च ।
एवमाया (?य) तनाद् ब्रह्मन्नुपायं भविनां परम्

36.53

यतो ऽस्ति च अतो हेतोः सेवनीयं सदैव हि ।
अभिजातस्य बीजस्य यथामलमरीचयः

36.54

प्रारोहजननीं शक्तिं सन्तापान् ध्वंसयन्ति च ।
विना स्वरूपहानेर् वै सां ह्येवमेव हि

36.55

स्वप्रभावेन वै सम्यक् स्वशक्तिकिरणैः शुभैः ।
प्रक्षीणकल्पमषं कृत्वा क्षेत्रे वै क्षेत्रवासिनाम्

36.56

कुर्वन्त्यनुग्रहं पश्चात् क्षीणपापस्य तस्य च ।
मृदम्बुहुतभुग् वातपातैर् गगनलक्षणैः

36.57

प्रसिद्धयंत्रितं ह्यत्र असिध्दं तद्वयं श्रुणु ।
यद् अन्नाम्बु परित्यागाद्वातं तद् वात संज्ञितम्

36.58

सर्वद्वारोपरोधेन यद् अन्नाभासमुत्तमम् ।
कालं वा देह पातीयं सन्यग् ज्ञात्वात्र पौष्कर

36.59

कार्यम् आरादने यत्नात् तत्र भक्त्या शुभैषिणा ।
यदि न प्राप्नुयात् चैव जन्माभ्यासादवाप्यते

36.60

विलयं यान्ति वै येन त्राहि (?नाघानि) जन्मनि जन्मनि ।
कृतबुध्देर् मनुष्यस्य पापेनातिबलीयसा

36.61

न सञ्जाता च तत् प्राप्तिर् यद्यप्यब्जसमुद्भव ।
न शासनस्य घोरस्य चान्तकस्य स भाजनम्

36.62

मान्यो यमभटानां च यज्ञयाजी यथा पुमान् ।
आस्तां हि तावन्मनुजा नियमाद्यैर् अलंकृताः

36.63

भावभक्तिविशेषाढ्याः प्राणिनो ऽन्येपि तत्र ये ।
प्राक्संस्कारवशाज्जाताः ते ऽपि जात्यन्तरं पुनः

36.64

नाप्नुवन्ति मृता विप्र सद्विवेकविवर्जिताः ।
मम भक्ताय(?तना)नां च इत्येषां यस्तु विन्दति

36.65

नृणां मध्ये स धन्यो वै दुष्कृतैर् नातिबाध्यते ।
कर्मणां वै ह्यभुक्तानां न नाशोस्ति च यद्यपि

36.66

तानवं क्षेत्रमाहात्म्यप्रभावात् संप्रयान्ति ते ।
जन्माभ्यासवशेनैव नूनं कर्मक्षयो भवेत्

36.67

सामर्थ्यात् क्षेत्रनाथानां सक्षेत्राणां महामते ।
क्षेत्रेष्वेवं प्रकारेषु दानं यच्छन्ति ये ऽर्थिनाम्

36.68

विभोराराधनार्थं तु भक्त्या कुर्वन्ति वा तपः ।
साधयन्ति च मन्त्रेशं तर्पयन्ति तिलादिभिः

36.69

यजन्ति मखैर् देवान् लभन्ते ते ऽखिलं फलम् ।
द्वादशाक्षरपूर्वेः तु प्रसिध्दैः कमलोद्भव

36.70

मन्त्रैर् जितन्ता मत्रान्तैः प्राप्तैर्वाथ गुरोर् मुखात् ।
स्वकेन मन्त्रेमुख्येन विधिवत् परमेश्वरम्

36.71

आराध्यायतनस्थं च यत् यत्किञ्चिद् अधिकारिणाम् ।
द्विजेन्द्र द्विजमुख्यानां दीयते पाञ्चकालिनाम्

36.72

तद् अक्षयं परिज्ञेयं भवभोगाभिलाषिणाम् ।
दानान्निवृत्तरागाणां तत् पुनर् मोक्षसिद्धये

36.73

ग्राम मण्डलदेशान्तर्मर्यादायतनवासिनाम् ।
दत्तम् आत्मसमैः ? भूत्यै बहुभिर् निरूजो ऽश्नुते

36.74

संपूर्णासु स्वशक्त्या च नित्यं जन्मनि जन्मनि ।
अनन्तभविकं विध्दि तत् दिव्यायतनात् पुनः

36.75

अज्ञेयं लक्षभविकं तत् सिध्दायतनात् तु वै ।
सहस्रभविकं विप्र विप्रप्रवरकल्पितात्

36.76

दशाङ्गभविकं तद्वै कृतं यत् क्षत्रियेन तु ।
तदर्धभविकं विद्धि सद्वैश्यपरिकल्पितात्

36.77

सत्शूद्र कल्पिते विप्र दत्तम् आयतने तु वै ।
द्विषटक् भवनं तद्वै दानं ज्ञेयं द्विजोत्तम

36.78

अनन्यशरणेभ्यो वै वर्णेभ्यः परिकल्पिते ।
द्विजेन्द्रायतने दत्तं फलं तत् पुनरेव हि ?

36.79

व्यामिश्रयाजिभिर् वर्णैर् निर्मितायतनास्तु ये ।
पूर्वोक्तेभ्यः प्रयच्छन्ति तदर्धभविकं क्रमात्

36.80

फलकामफले प्सूनां निष्कामानां हि पौष्कर ।
सर्वायतनगो देवः सर्वमूर्तिष्ववस्थितः

36.81

मूर्त्यन्तरगतश्चापि प्रादुर्भावगतस्त्वपि ।
प्रादुर्भावान्त (रा) या ? वृत्तिं ददाति परमं पदम्

36.82

आचर्तव्यम् अतः तस्माद्यत्नेन महता द्विज ।
मन्त्राराधनपूर्वेण कर्मणा चिद्विलक्षणम्

36.83

तस्माद्विमुक्तरागाणां नृणाम् अच्युतयाजिनाम् ।
व्यज्यते स्वात्मवृत्तिस्थं वासुदेवम् अजं विभुम्

36.84

तदधिष्ठितचित्तस्तु यत्र यत्र यजेत् बहिः ।
तत्र तत्र तदा तेषां व्यज्यते ब्रह्म शाश्वतम्

36.85

पौष्कर उवाच ---
देवायतनजातानां नृणाम् अशुभकारिणाम् ।
मृतानां तत्र वाह्य (?न्य) त्र ज्ञातुम् इच्छाम्यहं गतिम्

36.76

श्रीभगवान् उवाच ---
केनचित् प्राक्तनेनैव कर्मणाविमलेन च ।
आचरन्त्यब्जसंभूत मतेर्वै दुष्कृतं पुनः

36.87

ज्ञात्वापि क्षेत्रमाहात्म्यं विवशात् तु बलात् तु वै ।
तं म्रियन्तं च तत्रास्थे (?न्ते) जन्माभ्यासवशेन तु

36.88

क्षेत्रे च पापतः तेषां संक्षिपत्यन्तकस्य च ।
शश्वद्दुष्कृत शान्यर्थं उपायैर् नातिशासनैः (?श्वतैः)

36.89

त्वम् एव तेषां कुरूषे भुक्तशेषं हि कल्मषम् ।
शमयत्यचिरादेव आचरन्ति यथाशुभम्

36.90

भूयः प्राप्तेन देहे (?भोगे) न अस्मदीये परिग्रहे ।
स चाज्ञां शिरसा तां वै कृत्वा चैव महामते

36.91

करूणानुगतेनैव संशोधयति चेतसा ।
एवं विगतदोषाः ते यान्ति कालान्तरेण तु

36.92

सा[हचर्याच्]च साकल्यात् सत्संपर्काद्विशेषतः ।
प्रक्षीणकल्मषा नूनं पुनरायान्ति वैदिकीम्

36.93

समाचरन्ति तद्वस्तु सायुज्यं यान्ति येन वै ।
पौष्कर उवाच ---
तदुत्पन्ना विपद्यन्ति पापिष्ठा ह्यत्र वै यदि ।
का गतिर् भवते तेषां नराणाम् अतिपापिनाम्

36.94

श्रीभगवानुवाच ---
शोधयत्यन्तकः तेषां दुष्कृतिं नातिशासनैः ।
गतदोषाः समायान्ति मानुष्यं हि तदा पुनः

36.95

मतिर् देहविपत्त्यर्था तीव्रेण मनसाब्जज ।
प्रयाति पूर्ववच्छुद्धिं यथा दुष्कृतिनो नराः

36.96

तत्र जाताश्च निर्देषा ये ऽन्यत्र विलयं गताः ।
प्रयान्ति सांप्रतं ते वै विमानैर् अन्तकास्पदम्

36.97

संपूजयत्यसौ तेषां ब्रूयाद्बद्धाञ्जलिस्ततः ।
स्थानम् आयतनं[येषां] भगवन्तं व्रजन्तु वै

36.98

सालोक्यसंज्ञं विमलं भवबन्धक्षयंकरम् ।
मदीयदर्शितेनैव मार्गेणानेन साधुना

36.99

भवतां संप्रयातानां शुभं तत्र भविष्यति ।
तद्वासिनां यथान्येषां भगवत् तत्त्ववेदिनाम्

36.100

एवं अब्जसमुद्भूत फलम् आयतनात् भवेत् ।
नराणां निर्विवेकानां तदन्येषां तु किं पुनः

36.101

क्षितिः पादौ च खं नाभिर्द्यैः शिरः शशिभास्करौ ।
नेत्रे लोका महत्पूर्वा विभोर्यस्य शिरोरूहाः

36.102

दिशः श्रोत्रे भुजाश्चैव विदिशः सर्व एव हि ।
आधारशक्तिपर्यन्तं यस्य पातालसंततिः

36.103

स्थितिः पादतलोद्देशे नित्याकृतिधरस्य च ।
विभोर् वै राजमान्यस्य सर्वगस्य महात्मनः

36.104

सर्वं पदात्मकं यस्माद् भक्तानाम् अत एव हि ।
नह्यनायतनं देशम् आस्तिकानां द्विजास्ति वै

36.105

चराचरम् इदं सर्वं नास्तिकानां तमोमयम् ।
सुप्रसिद्धं तु वै स्थानमास्तां तावन्महामते

36.106

भक्त्यावस्थापिता यत्र स्थाने विप्रवरादिकैः ।
अचला वा चला रम्या चित्रमृत्काष्ठशैलजा

36.107

हेमादिधातुलोहोत्था या काचित् प्रतिमा हरेः ।
नृणां तत्र विपन्नानां तन्माहात्म्यवशात् तु वै

36.108

स्थितिः त्रिविष्टपे तेषाम् अनत्युत्कृष्टलक्षणा ।
अन्ते परिच्युते जन्म येषाम् आयतनेषु च

36.109

यथाक्रमं (कर्म) महाबुद्धे परिज्ञेयं हि मत्परैः ।
साक्षाद्वृत्तिर् द्विजेन्द्रीया क्षेत्रक्षेत्रेषु जायते

36.110

क्षत्रियायतनाद्वि (द्वृ)द्धि जन्मामरविनिर्मिते ।
सद्वैश्यकलितोद्देशे जन्म पुष्करसंभव

36.111

मुनिभिर् निर्मितस्थाने अच्युतायतने ऽब्जज ।
मा जन्म मौद्गलीयाच्च प्राप्नोत्याराधनान्नरः

36.112

कल्पितं मन्त्रसिद्धेन नरेणायतनम् महत् ।
भोगोत्कर्षं हि वै नॄणां तथा कालान्तरेण च

36.113

मन्त्रज्ञैः कल्पितान्तं च यावद् आयतनम् द्विज ।
शश्वत् पापक्षयं चान्यत् क्षत्रियं तदनन्तरम्

36.114

क्रमेण सवितानं च नातिदीर्धेण पौष्कर ।
कालान्तरेण वै तेषां दोषाणां तु परिक्षयम्

36.115

अवतीर्य क्षितिं पश्चाद् भुक्तशेषं हि पद्मज ।
क्षपयत्याशु तत्रैव नियमैः पूर्वदुष्कृतम्

36.116

प्राग्वत् स्मृताः क्रमेणेव ते यान्ति परमं पदम् ।
पाता ये विहिताश्चात्र देहत्यागविघौ शुभे

36.117

विवेकिनां न विहिताः प्रायश्चित्तस्थमेव हि ।
आजन्म सञ्चितानां च दुष्कृतानां क्षयाय वै

36.118

लभन्ते तैस्तु निर्दग्धैर् देहान्ते पदम् आच्युतम् ।
तस्मात् क्षेत्रं समासाद्य प्रायश्चित्तं समाचरेत्

36.119

स्वयं पापफलं ज्ञात्वा सत्त्वम् आश्रित्य शाश्वतम् ।
विरूद्धचित्तबुद्धिस्तु येन याति शुभां स्थितिम्

36.120

बलवा न्य(?वद्य)दपि क्षेत्रं नॄणां शुभगतिप्रदम् ।
तद्विवेकं द्वितीयं वै स्वसामर्थ्यं तु नोज्ज्ञति

36.121

मनो बुद्धीन्द्रियगणं करणग्रामसंयुतम् ।
आम्लाद्यस्य संशुद्धमन्ते वा तपसा महत्

36.122

कुर्वन्त्यनुग्रहं तस्य शश्वदायतनादयः ।
जीव भावस्थितो जन्तुः परलोकं गतस्तु वा

36.123

भूगुणा अपि चादेयाः सर्वत्र विधिगौरवात् ।
यथा महानुभावानाम् पुरूषाणां तु याचकाः

36.124

संहृष्टम् अन्नपानार्थं गुणज्ञम् अगुणं तु वै ।
त्यजन्त्यगुणतांश्चैव सगुणं वापि चान्यथा

36.125

ज्ञात्वैवं क्षेत्रमाहात्म्यं तपोध्यानजपादिकैः ।
कर्मवाक्चित्तसंतोषादुपशोभां नयेत् पराम्

36.126

श्रीभगवानुवाच ---
चतुर्भिर् वासुदेवाद्यैर् मूर्तिभिः प्रागुदीरितैः ।
केशवाद्यैर् द्वादशभिर् मत्स्याद्यैर् दशभिः ततः

36.127

क्ष्मान्तं षड्विंशसंख्यं यत् तत्त्ववृन्दं पुरोदितम् व्याप्तम् ईश्वरपूर्वं वै द्वादशानाम् सह स्थितम्

36.128

सुस्थूलेनानुरूपेण दशकं तेन चावृतम् ।
तत्त्वं तत्त्वं समासाद्य वासुदेवादिना सह

36.129

स्थितिर् एवं हि सर्वेषां देवानां भवशान्तये ।
गुणषट्कसमोपेतं वैश्वरूप्यं महामते

36.130

स्वव्यापारवशेनैव व्यञ्जयन्ति सदैव हि ।
अनुग्रहवशेनैव विभोरिच्छावशेन तु

36.131

सर्वैः क्षितितलं व्याप्तं नानाकारधरैः सदा ।
एकैका वैभवे मूर्तिर् अनन्तेनात्मतां यथा

36.132

यान्ति नानात्मनाम् एवं वाहनायुधलाञ्छनैः ।
अतश्चेल्लोकनार्थायैच्छातः प्राभवेन तु

36.133

स्थितिर् नानाप्रकारा वै सर्वेषां च स्वभूतिषु ।
नियतः सायुधानां च लाञ्छनानां च यद्यपि

36.134

तथापि सर्वमूतीनां सर्वे साधारणाः स्मृताः ।
यद्यप्येवं हि वै विप्र तत्रापि विनिबोध मे

36.135

न च अन्यभ्रान्तिशान्त्यर्थं विशेषं लाञ्छनैर् ध्वजैः ।
प्रादुर्भावाः तु विज्ञेयाः स्वव्यापारवशात्तु वै

36.136

प्रादुर्भावान्तरास्तद्वदंशस्य तु वशादपि ।
आद्यका रक्षकाधाराः ? केचित् तु ध्वजलाञ्छनैः

36.137

तुल्यम् एवं त्रयाणां तु प्रादुर्भावगणं परम् ।
अपरे केशवादीनां तुल्यम् उद्वहति (?न्ति) द्विज

36.138

आकारैर् लाछनैः सार्धं तद् विशेषेण वै सह ।
पौष्कर उवाच ---
श्रोतुम् इच्छामि भगवन् सर्वेषां लाञ्छनादिकम् ।
विशेषो यः लयोद्दिष्टो भविनां भवशान्तये

36.139

श्रीभगवानुवाच ---
शृणु लाञ्छनविन्यासम् आदिदेवादितः क्रमात् ।
मत्तो निगदतः सम्यक् यथावद् अमलेक्षण

36.140

आद्यः पाणिः चतुर्णा वै दक्षिणे त्वभयप्रदः ।
वरप्रदो वा भक्तानां धातव्यममलेक्षण

36.141

वामो शङ्खोद्वहं विद्धि नानास्थित्या चतुर्ष्वपि ।
आद्यस्य पश्चिमाभ्यां तु वामदक्षिणयोः पुनः

36.142

कालचक्रं गदां गुर्वीम् अच्युतस्यावधारय ।
लाङ्गलं मुसलोपेतं वामहस्ते सदक्षिणे

36.143

पश्चिमे भुजयुग्मे ऽस्य संहते च धनुः शरे ।
खेटकं नन्दकोपेतम् अनिरूद्धस्य पौष्कर

36.144

द्वाभ्यां पश्चिमपाणिभ्यां मध्यहस्तादितः तु वै ।
इत्येवं हि चतुर्मूर्तेर् एतन्मूर्त्यन्तरेषु च

36.145

शंखचक्रगदापद्मलांछनानां स्थितिं श्रुणु ।
आदिदेवीयदेवानां त्रयाणां तावदुच्यते

36.146

वामे पश्चिमगे चक्रं विद्धि शङ्खं तु दक्षिणे ।
दक्षिणे मुख्यहस्ते ऽब्जं गदा तदपरे तु वै

36.147

एवं हि भगवान् धत्ते केशवः कमलादिकम् ।
सव्यापसव्य हस्ताभ्यां मुख्याभ्यां तु गदाम्बुजे

36.148

वामादौ शङ्खचक्रौ तु स धत्ते पश्चिमद्वये ।
नारायणाख्यो भगवान् माधवाख्यो निबोधतु

36.149

मुख्ये सव्यापसव्पये तु शङ्खं धत्ते गदां प्रभुः ।
पश्चिमे पद्मचक्रे तु सर्वपूर्वे भुजद्वये

36.150

मूर्तित्रयम् इदं दिव्यं कुन्देन्दुस्फटिकप्रभम् ।
भगवद्वासुदेवेन सहास्य चतुरात्मना

36.151

त्रितयस्य परिज्ञेया मोक्षदा भवभोगदा ।
कामपालीयदेवानां त्रयाणां कमलोद्भव

36.152

पद्मं मुख्यकरे वामे गदान्यस्मिन् हि दक्षिणे ।
विभोर्गोविन्दसंज्ञस्य इत्येवं समुदाहृतम्

36.153

विन्यासं लाञ्छनानां च विष्णोरथ निबोधतु ।
वामदक्षिणपाणिभ्याम् अग्रतः शंख पङ्कजे

36.154

एवं पश्चिमहस्ताभ्यां चक्रं कौमोदकीद्वयम् ।
मधुसूदनसंज्ञस्य संनिवेशम् अतः शृणु

36.155

पद्मं मुख्यकरे वामे पाञ्चजन्यं तु दक्षिणे ।
गदा पश्चिमतः सव्ये चक्रं दक्षिणतः परे

36.156

त्रयम् एवं हि देवानां सह वै ज्ञानमूर्तिनाम् ।
चातुरात्म्याद् द्वितीयां तु पद्मरागोज्ज्वलद्युतिम्

36.157

अथ प्रद्युम्नदेवानां त्रयाणां क्रम उच्यते ।
वर्णभेदेन सह वै लाञ्छनग्रहणं शृणु

36.158

अग्रतो वामपाणौ च चक्रम् अन्यकरे गदा ।
वामे तु पश्चिमे शङ्खं पद्मं तदपरे स्मृतम्

36.159

विभोः त्रिविक्रमाख्यस्य वामनस्यावधारय ।
गदाग्रवामहस्ते तु चक्रं मुख्ये तु दक्षिणे

36.160

वामे तु पश्चिमे पद्मं शङ्खं तत् दक्षिणे करे ।
श्रीधरस्य गदा वामे मुख्यहस्ते प्रकीर्तिता

36.161

चक्रम् अग्रे ऽपसव्याख्ये शङ्खं वामे तु पश्चिमे ।
तदान्यस्मिन् परे पद्मं चक्रं कोटिसमप्रभम्

36.162

मूर्तित्रितयम् एते(?तद्) वै सह च स्वामिना द्विज ।
हेमधामप्रभं ज्ञेयं चातुरात्म्यतया स्थितम्

36.163

अतो ऽनिरूद्धमूर्तीनां त्रितयं चावधारय ।
लाञ्छनोद्वहनं चैव वर्णभेदेन वै सह

36.164

पद्मं अग्रकरे वामे तत् द्वितीये तु हेतिराट् ।
सव्यापसव्यहस्ताभ्यां पश्चिमाभ्यां क्रमेण तु

36.165

पद्मकोशं गदां गुर्वीं पद्मनाभे निबोधतु ।
अग्रगे चक्रराख्यपद्मं मुड्वामेकरे परे

36.166

वामे गदां पश्चिमगे तदन्यस्मिंश्च शङ्खराट् ।
धत्ते दामोदरो वामे गदां चाग्रस्थिते शुभाम्

36.167

अपसव्ये ऽग्रगे शङ्खं वामे चक्रं तु पश्चिमे ।
पश्चिमे त्वपसव्ये तु कमलं सूर्यवर्चसम्

36.168

अतसीपुष्पसङ्काशम् इदं मूर्तिगणं स्मृतम् ।
सहानिरूद्धदेवेन अस्यापि चतुरात्मता

36.169

विश्वेश्वरस्य वै विष्णोः स्थितये ऽस्मिन् जगत्त्रये ।
अमूर्तानां च मूर्तानाम् आयुधानां स्थितिं शृणु

36.170

पाणिद्वयेन चाक्रान्तौ पार्श्वद्वये पृथक् स्थितौ ।
तन्मुखं च निरीक्षन्तौ गदाचक्रौ महामते

36.171

शङ्खपाणिं च शङ्खेशं युग्मम् अन्येन हेतिना ।
द्वयादिकं करजालं यत् तन्नानाभिसमन्वितम्

36.172

पांशांङ्कुशासिपद्माद्यैर् युक्तं चान्यैर् वरायुधैः ।
मूर्त्यन्तराणां मूर्तीनां षोडशानाम् अतः शृणु

36.173

मुख्यहस्ते चतुर्णां तु पाञ्चजन्यं निराकृतिम् ।
सर्वदेहं हि सञ्चिन्त्य गदाचक्रे द्विजोत्तम

36.174

हस्तद्वयेन चाक्रान्तौ साकारं च विभोर् मुखम् ।
पिबन्तम् इव मृत्पात्रे ? स्मर्तव्यं तत्परायणैः

36.175

अमूर्तमन्त्रसंस्थानम् इदानीम् अवधारय ।
तम् इच्छया च स्मर्तव्यं शोभालीलावशाद् अपि

36.176

नानादेशजनस्थित्या आसृष्टेः संस्थितं यथा ।
आमूर्तेः सहमूर्तानां संधारणम् अथोच्यते

36.177

पश्चिमाभ्यां भुजाभ्यां तु यस्य यद्विहितं द्वयम् ।
मूर्धदेशात् समाक्रान्तं निरीक्षन्तं विभोर् मुखम्

36.178

आज्ञाप्रतीक्षकं चैव हस्ते तं(?तद्)व्यजनादिकम् ।
कक्षान्तर् गतहस्तं वा अथ विस्मयमुद्रया

36.179

युक्तं सम्पुटसंज्ञाख्यं मुद्रया वाब्जसंभव ।
चतुर्वदनपादा वै धान(?ध्यान)रूपं तु संस्थितिः

36.180

सर्वेषां विहिता विप्र प्रयोजनवशेन तु ।
साधकेच्छावशाच्चैव तथा कालवशात् तु वै

36.181

प्रार्थिनश्चोपविंष्टास्तु भोगशय्यागतास्त्वथ ।
चक्राम्बुरूहपीठस्था हृहि धामत्रयान्वितम्

36.182

द्वादशाक्षरपूर्वैस्तु वाचकैः प्रागुदीरितैः ।
सामान्यैर् द्विजमन्त्रैर् वा षड्भिःषाड्गुण्यलक्षणैः

36.183

योर्ऽचयेत् भक्तिपूर्वं तु स्वशक्त्या विभवेन वा ।
स मुक्तदोष अभ्येति तत् तत् पदम् अनामयम्

36.184

व्यक्तं क्षेत्रवशे यस्मिन् स्वयं बाहये ऽवतारितम् ।
सिद्धेर् विशेषनाम्ना च तत्र सिध्यन्ति साधकाः

36.185

स्वमन्त्रजपिनो भक्ता नित्यशुद्धाः क्रियापराः ।
अथ मूर्त्यन्तराणां च देवानां कमलो द्भव

36.186

ध्वजाद्यं य च्च संकेतं तन्मे निगदतः शृणु ।
त्रयं वदामि देवीयं केशवाद्यं प्रकीर्तितम्

36.187

भूषितं प्रपताकेन महद् गरूडकेतुना ।
महता तालवृक्षेण लाङ्गलीयेन पौष्कर

36.188

गोविन्दाद्यं त्रयं यद्वै विज्ञेयम् उपशोभितम् ।
ध्वजेन मकराख्येन प्रद्युम्नं येन च द्विज

36.189

त्रिविक्रमाद्यं त्रितयं नित्यम् एव विभूषितम् ।
कुरङ्गलाछनेनैव अनिरूद्धेन लाञ्छितम्

36.190

त्रयं दामोदरान्तं च हृषीकेशादिकम् हि यत् ।
विश्वेश्वरस्य च विभोर् इच्छारूपधरस्य च

36.191

विहिताः सर्व एवैते रूपैश्वर्येण वै सह ।
वराहनारसिंहाद्यैर् देवैस्त्रिभुवनेश्वरैः

36.192

प्रादुर्भावान्तरोपेतैः[देवैः] सर्वगुणोज्वलैः ।
यथोचितैश्चातुरात्म्यैः केशवाद्यैस्ततो ऽब्जज

36.193

हंसमत्स्यहयैः कूर्मसिंहसूकरसंज्ञकैः ।
यथोक्तलक्षणैर् ब्रह्मन् शक्तितः प्रतिपत्तिजैः

36.194

वृत्तित्वेन जगत्यस्मिन् अर्चनाध्यानकर्मणि ।
यतीनां मुक्तसङ्गानां सिद्धानां क्षेत्रवासिनाम्

36.195

एवं यथोक्तवदनैर् नृशरीरैर् महाभुजैः ।
नृवराहनृसिंहाख्यैर् नृवाजिवदनाभिधैः

36.196

अनुगृहधिया व्याप्तं भूभागम् अमलेक्षण ।
तथा वामननाथेन खर्वमूतिधरेण च

36.197

स्नातकब्रह्मचारी च लाञ्छनैर् भूषितेन च ।
तस्य रूपान्तरेणैव सुखानां सुखदेन च

36.198

त्रिविक्रमाख्यसंज्ञेन त्रैलोक्याक्रान्तमूर्तिना ।
रामसंज्ञेन विभुना ज्वलत् परशुपाणिना

36.199

भारावतरणं येन पृथिव्यां बहुशः कृतम् ।
एतैर् अन्यैर् द्विजश्रेष्ठ वक्ष्यमाणसमन्वितैः

36.200

सबाहयाभ्यंतरं व्याप्तं ब्रह्माण्डनिचयं हि यत् ।
प्रादुर्मावान्तरैः सार्धं प्रादुर्भावैर् द्विजाखिलैः

36.201

अप्ययैः प्रभवाख्यैस्तु गौणमुख्यैः सुरेश्वरैः ।
स्वभावम् अजहच्छश्वद् आकारान्तरम् आकृतेः

36.202

यत् तत्त्वम् अंशसंभूतं प्रादुर्भावान्तरं तु तत् ।
प्रादुर्भावान्तरोपेतं प्रादुर्भावगणं परम्

36.203

शृणु मे गदतः सम्यक् यैर् व्याप्तम् अखिलं जगत् ।
रामो ऽपरः क्षत्रजन्मा भ्रात्रा(?तृ)भेदैः स्त्रिभिः सह

36.204

निहन्ता राक्षसानां यो मनुष्यो ऽहम् इति स्मरन् ।
कृतकृत्यस्तु यो वेत्ता स्वभावं दिव्यम् उत्तमम्

36.205

अपरः सीरपाणिर् वै रामः कृष्णात्मना सह ।
शिशुभावं समाश्रित्य यो महद्दिव्यकर्मकृत्

36.206

काल्किश्च विष्णुर् भगवान् नष्टधर्मावतारकृत् ।
उर्व्यां म्लेंछगणं हत्वा विद्धि तम् यत् कलौ युगे

36.207

धर्मात्मा भगवान् विष्णुः प्रादुर्भावं च शाश्वतम् ।
प्रादुर्भूतं हि वै यस्मान्नराद्यं कृष्णपश्चिमम्

36.208

सपञ्चकालषट्कर्मम (?स्व) स्वधर्मैः समन्वितम् ।
जपध्यानसमोपेतम् एवं यः पाति सर्वदा

36.209

चतुर्मूर्तिमयं विप्र नरो नारायणो हरिः ।
कृष्णसंज्ञश्च भगवान् प्रादुर्भावोत्तरम् विभोः

36.210

प्रकाशितं चतुर्धा ते अतो ऽन्यम् अवधारय ।
विश्वरूपः स भगवान बहुविग्रहलक्षणम्

36.211

तत्रैकम् अन्तराख्यं हि कृष्णनाथस्य पौष्कर ।
मानुष्यत्वे ऽवतीर्णस्य त्रयम् आद्यम् अनश्वरम्

36.212

सहस्रवदनः श्रीमान् सहस्राङ्घ्रिकरस्तथा ।
मूर्तामूर्तं च यो धत्ते गोत्रेष्वमरसंग्रहम्

36.213

जलारविन्दनाभश्च प्रादुर्भावेश्वरो महान् ।
प्रभवाप्ययकृद्योगैर् बहुभेदैरूपासितैः

36.214

मधुकैटभमाथी च प्रादुर्भावेश्वरस्य च ।
प्रादुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः

36.215

मन्दरोत्पातकृद्देव वस्त्वत्वमृताहरण स्तथा ।
सुधाकलशधृक् चैव वनिताकृतिविग्रहः

36.216

भूयो रूपान्तरं तस्य राहोश्चिच्छेद मस्तकम् ।
एवं चतुर्धा भगवानेष एव महामते

36.217

प्रादुर्भावान्तरोपेतं प्रादुर्भावोत्तमोत्तमम् ।
समस्तसौभाग्यनिधिर् लक्ष्मीनाथः परः प्रभुः

36.218

न द्वितीयः प्रसन्नात्मा नृणां भोगापवर्गदः ।
लक्ष्मीरूपान्तरैर् युक्तः चतुर्भिर् गरूडासनः

36.219

पुनः तदासनं चान्यद् अदष्टभेदैःश्रियान्वितः ।
देवादीनां मनोवृत्तिपूरको भोगपूर्वकम्

36.220

भोगवान् कालनेमिघ्नः पक्षीन्द्रवरवाहनः ।
सहस्रारकरःश्रीमान् श्रीवत्सांङ्कितलक्षणः

36.221

कालवैश्वानरः शालिनाथ (ः) पाथोनिवासिनः ? ।
आधारशक्तिज्ञंस्य आ (?अ) मूर्तस्य च वै विभोः

36.222

अभिमानतनुर्यो वै नानाभेदैश्च वर्तते ।
गजेन्द्रग्राहमोक्षी च संसाराद्रसलक्षणात्

36.223

ज्ञानोपदेष्टा भगवान् कपिलाक्षस्त्वधोक्षजः ।
विद्यामूर्तिश्चतुर्वक्त्रो ब्रह्मा वै लोकपूजितः

36.224

तमंशभूतं वै सम्यक् विश्वव्यञ्जनलक्षणम् ।
युगावसाने संहारं यः करोति च सर्वदा

36.225

शङ्कराख्यो महारूद्रः प्रादुर्भावान्तरं हि तत् ।
देवस्यानलशालेर् वै सर्वाधः संस्थितस्य च

36.226

लोकेश्वरः शान्ततनुर्बौध्दं यस्मापरं विदुः ।
निर्य (?य) न्ता बुद्धिधर्माणां हिंसादोषस्य दूषकः

36.227

अग्नीषोमात्मसंज्ञस्य देवस्य परमात्मनः ।
सूर्याचन्द्रमसौ विद्धि साकारौ लोचनेश्वरौ

36.228

तद्वक्त्रं दैवतं चान्यद्धुतभुक् परमेश्वरः ।
मन्त्रपूतं सदादाय हुतमाज्यपुरस्सरम्

36.229

ब्रह्माण्डभुवनं सर्वं सन्तर्पयति सर्वदा ।
विश्वेशप्राणशक्तेर् वै वाय्वाख्यम् अधिदैवतम्

36.230

जगत्सन्धारकं चैव नानास्कन्धात्मना तु वै ।
एते भगवदाकारास्तिष्ठन्त्यस्मिजगत्त्रये

36.231

नानावेशस्वरूपैश्च नानासंस्थानलक्षणैः ।
नानाकार्यवशेनैव नानाकारवशेन तु

36.232

एवं कृतकशब्दाद्यैर् भगवांस्तत्क्षणेन च ।
आराध्याकृतितुल्येन तज्जपध्यानसेविनाम्

36.233

यथाभिमतरूपेण गुणषट्कान्वितेन च ।
ज्ञस्वभावेन नित्येन स्वरूपेणामलात्मना

36.234

विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
सर्वत्र यास्ति सर्वेषां यथोक्तानां महामते

36.235

वासुदेवादिमूर्तीनां वैश्वरूप्यम् अनश्वरम् ।
योगैश्वर्यप्रभावेन अच्युतेच्छावशादपि

36.236

ज्ञात्वैवम् अब्जसंभूत न कार्यो हृदि विस्मयः ।
स्फुटे[श्वभ्रस्व]रूपेण नानानामान्वितेन वै

36.237

दृष्टो(?ष्टे)भगवदाकारे स्वयं व्यक्तादिकेन च ।
क्षितिमध्ये ऽवतीर्णे च पूर्वोद्दिष्टेन वर्त्मना

36.238

तीर्थोद्देशेषु सर्वेषु क्षेत्रेषु विविधेषु च ।
गिरिशृङ्गेषु रम्येषु तन्मध्येषु गुहासु च

36.239

वनेषूपवनाढयेषु पातालतलभूमिषु ।
लोकोन्तरेषूर्ध्वगेषु देवैर् गन्धर्वसत्तमैः

36.240

नास्तिका भिन्नमर्यादा मोहमायामलान्विताः ।
विकल्पदोषैराविष्टाः भ्रान्तबुद्धिजडीकृताः

36.241

चरणाम्बुजनालं तु परामृश्यन्ति ये ऽधमा ।
मज्जन्ति नरके घोरे पितृभिःसहिताश्चिरात्

36.242

सदायतनदेवानां मूलं ये चान्विषन्ति वै ।
मूर्ध्नश्छेदो भवेत्तेषां भावोपहतचेतसाम्

36.243

धृतिशक्तिमयं मूलं देवानामपि दुर्दृशम् ।
तत्कथं लक्ष्यते मूढैर्यन्मूर्तद्रव्यतां गतम्

36.244

मानमेयैःस्वतन्त्रं च यथा तत्परम[द्भु]तम ।
यैरेतन्मध्यषट्कं तु क्षेत्रेशाङ्घ्रिकजैस्स्थितैः(?तम्)

36.245

गुणैर्दिव्ययगुणोपेतैरूर्जितैः प्राकृतैर्गुणैः ।
स्वयमेवं जयन्नाथैर् अवतीर्य च या स्थितिः

36.246

गृहीता सुस्थिरा चैव सुसिद्धैश्चापि कल्पिता ।
दोषैसदिग्विभागाद्यैर् अन्यदात्वेन यान्ति च

36.247

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते

36.248

दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ।
पौरूषायतनानां च सिद्धाख्यानां महामते

36.249

स्वयमेवावतीर्णानां तत्त्वेशानामपि क्षितौ ।
अतःसंसारभीतैश्च भक्तैःसर्वेश्वरस्य च

36.250

गम्यैश्च तेर्ऽचनीयाश्च कालं वै जीवितावाधि ।
नित्यं तूपासितव्याश्च तत्रस्थैराश्रमान्वितैः

36.251

प्राप्ताधिकारैर् दीक्षान्तसमयज्ञादिकैर्नरैः ।
यदैव कृतदीक्षाणाम् अधिकारसमन्वितम्

36.252

अच्युताराधनार्थं तु निःश्रेयसपदाप्तये ।
तदैव प्रतिषिद्धं च देवतान्तरपूजनम्

36.253

परमेतद्धि समयम् अप्रमेयरतात्मनाम् ।
सा प्रसिद्धा तु वै व्यक्ताद् आकारात् परमेश्वरात्

36.254

व्यूहाद् वा विभवाख्याच्च ऋते नान्यत् पुरोदितात् ।
समर्चनीयम् आकारं न बुधैर्वसुधागतम्

36.255

क्वचिद्भगवदंशैस्तु प्रादुर्भावैर् अधिष्ठिताः ।
दृश्यन्ते पार्थिवा लिङ्गाः श्रूयन्ते च द्विजोत्तम

36.256

यद्यप्येवं महाबुद्धे वैष्णवानां तथापि हि ।
विरुद्धत्वाद् अनर्च्यास्ते नोपाधिर् वैष्णवी हि सा

36.257

स्वयंमुवापि ये केचित् सुरसिद्धावतारिताः ।
स्कन्दरुद्रमहेन्द्राद्याः प्रतिषिद्धास्तु तेर्ऽचने

36.258

अन्तर्यामी च सर्वेषां देवानां पुरुषोत्तमः ।
यद्यप्यव्यक्तरूपे च व्यक्तौ सिद्धिःस्वका स्वका

36.257

भावभक्तिवशाद् विप्र स्वक्रि (की) याधिगमादपि ।
ज्ञात्वैवं भक्तिसांकर्यं न कुर्यादेवमेव हि

36.260

वर्जनीयं प्रयत्नेन य इच्छेद् उत्तमां गतिम् ।
विप्रा एकायनाख्या ये ते भक्तास्तत्त्वतो ऽच्युते

36.261

एकान्तिनःसुतत्त्वस्था देहान्तान्नान्यान्ययाजिनः ।
कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना

36.262

प्राप्नुवन्ति च देहान्ते वासुदेवत्वम् अब्जज ।
व्यामिश्रयाजिनश्चान्ये भक्ताभासाः तु ते स्मृताः

36.263

परिज्ञेयाः तु ते विप्रा नानामार्गगणार्चनात् ।
तस्मात् संसिद्धदेहस्तु दीक्षाख्येन तु कर्मणा

36.264

यावज्जपाधिकारं तु नारायणपरो भवेत् ।
जपहोमक्रियासक्तः समास्ते स्तुतितत्परः

36.265

देहान्ते वैष्णवं लोकं प्राप्नुयात् पुनरेव हि ।
जन्म चासाद्य चोत्कृष्टम् आबाल्याद् द्विजसत्तम

36.266

भगवत्कर्मनिष्णातः तत्परस्तन्मयो भवेत् ।
नाभिसन्धाय च फलम् आपत्कालगतो ऽपि वै

36.267

त्यक्त्वा देहं पुनर्जन्म नाप्नुयादिह पौष्कर ।
पौष्कर उचाच ---
भगवन् भूतभव्येश क्षेत्रैः क्षेत्रवरैस्सह ।
पारम्येन च यैर्व्याप्तं क्षित्यन्तं तत्त्वसंग्रहम्

36.268

वासुदेवाख्यसद्ब्रह्मतत्वाद् आरभ्य वै क्रमात् ।
वक्तुमर्हसि मे शश्वत् सर्वानुग्रहकाम्यया

36.269

श्रीभगवानुवाच ---
षाड्गुण्यदेहसंज्ञेन स्वस्थेन चतुरात्मना ।
स्वर्गान्तं स्वपदा व्याप्तम् अधिदेवात्मना द्विज

36.270

या वै सर्वेश्वरी शक्तिर् ईश्वराख्या विशामनी ।
ज्ञानादिभेदभिन्नेन आद्येन चतुरात्मना

36.271

व्याप्ता चाव्यक्तलिङ्गेन भारूपेण महात्मना ।
या परा प्रकृतिर्दैवी सत्वैकगुणलक्षणा

36.272

पूर्णा शक्तिसमूहेन वैभवीयेन पद्मज ।
सह मूर्त्यन्तरेणैव प्रादुर्भावान्तरस्तथा

36.273

प्रादुर्भावमयैर्बीजैः समूहे चतुरात्मना ।
जीवक्षेत्रज्ञकात्मनामधेयम् अनश्वरम्

36.274

वर्तते वै समासाद्य नित्यं सैवेश्वरेच्छया ।
त्रैगुण्यसाम्यम् आधारम् अव्यक्ताख्यं च शाश्वतम्

36.275

तत्रस्थम् अभिमानाख्यरूपेण परमेश्वर म् ।
स्फुटम् अव्यक्तभेदं च चातुरात्म्यं जगत्प्रभुम्

36.276

द्विभुजं पुरूषाकारयुक्तम् आदित्यसन्निभैः (?भम्) ।
ध्वजैर् आभरणैश्चिह्नैःशङ्खचक्रादिसंज्ञितैः

36.277

अव्यक्ते बुद्धितत्त्वे च स्थितं व्यक्ततरं विभुम् ।
चतुर्मूर्तिं चतुर्वक्त्रं चतुर्बाहुं चतुर्गतिम्

36.278

लाञ्छनैर् ध्वजपर्यन्तैर् व्यक्तैर्युक्तमनश्वरैः ।
अहङ्कारं समाश्रित्य अव्यक्तं कमलोद्भव

36.279

स्थिता मूर्त्यन्तराःसर्वे केशवाद्यास्तु वै स्मृताः ।
हंसाद्याःषण्मयोक्ता ये यथासंसिद्धिलक्षणाः

36.280

मनस्तत्त्वं समासाद्य सम्यक् ज्ञानगुणान्विताः ।
बुद्धीन्द्रियगुणं विप्र षडेते पुनरन्यथा

36.281

पौरूषं देहमासाद्य संस्थिताः परमेश्वराः ।
कल्किनिष्ठा षड्भुजाश्च वामनाद्या द्विजेश्वराः

36.282

कर्मेन्द्रियसमूहं तु तिष्ठन्त्याश्रित्य सर्वदा ।
धर्माद्या विश्वरूपान्ता ये च सर्वगुणैर्युताः

36.283

तन्मात्रापञ्चकं खाद्यं समाश्रित्य च संस्थिताः ।
आकाशाद्यं समूहं यद्भूतानामब्जसंभव

36.284

संस्थिता वै समाश्रित्य प्रागुक्ता विबुधोत्तमाः ।
उक्तशेषैर् महाबुद्धे प्रादुर्भावान्तरैः सह

36.285

उपरागं यथासाद्य लोकत्रयसमन्वितम् ।
एकदेशं समायाति तीर्थसंङ्गं कुरूक्षितौ

36.286

अनुग्रहधिया चैव परया कृपया द्विज ।
अन्तकाले तु बुद्धानां देवैर्व्याप्तम् अनुस्मरन्

36.287

अध्यक्षो दैवतं क्ष्मान्तं विग्रहं तत्त्वसंग्रहम् ।
वाच्यवाचकयुक्तास्तु ते ऽपि यान्ति परां गतिम्

36.288

यस्माद्वै भगवच्छक्त्या त्वनुकम्पाख्यया द्विज ।
आविश्य बान्धवैःस्निग्धं जन्तोः सङ्गतिसिद्धये

36.289

तत्तस्यानेन विधिना आपादयति वै शुभम् ।
तीर्थे वायतने क्षेत्रे विसंज्ञस्य महामते

36.290

पौष्कर उवाच ---
क्षेत्रैः क्षैत्रेश्वरोपेतैर् भूतानाम् इह यत्प्रभो ।
अनुग्रहार्थम् आक्रान्तं तमादिशतु साम्प्रतम्

36.291

श्रीभगवानुवाच ---
कर्मभूमौ मनुष्याणां भव्याः क्षेत्राः तथा हि ये ।
अगम्याः त्वपि तेषां ये सुरसिद्धगणं विना

36.292

साम्प्रतं मे च ते शश्वदेकाग्रम् अवधारय ।
आर्यावर्ते तु भूभागे पृथिव्यां पुण्यसंज्ञके

36.293

मध्यदेशसमोपेते चतुर्दिक्परिनिष्ठिते ।
सामुद्रजललेखायां तत्पर्यन्ते महान्तरे

36.294

आसृष्टेरवतीर्णा येः स्वाधिष्ठानैःसहाखिलाः ।
आदिदेवादयो देवा व्यक्तिविग्रहलक्षणाः

36.295

यत्र यत्र च भूभागे यो यस्सार्वेश्वरं वपुः ।
यस्माद्यस्मात्तु वै तस्माद् आसृष्टेरेत्य संस्थिताः

36.296

क्षेत्रशेनान्विताश्चैव तीर्थेशेन तथैव हि ।
यस्माद्देवालयोदेशात् ध्मातस्य जलजस्य च

36.297

भवेच्छब्दात्तवेधश्च तावत् क्षेत्रं तदुच्यते ।
दिव्याद्यायतनादीनाम् अन्तरं यदनश्वरम्

36.298

क्रोशाधिकसमं न्यूनं मानेनानेन येन तु ।
अन्तर्वेदी च सा ज्ञेया नारायणरतात्मनाम्

36.299

यजने श्राद्धकरणे दाने वोत्क्रमणेर्ऽचने ।
जपध्याने तपोयज्ञे अग्निसन्तर्पणेन(?ऽपि) च

36.300

स्थितं यदेकदेशे तु दीपालोको द्विजोत्तम ।
आभासयति भूभागं परतस्तद्वदेव हि

36.301

स्वक्षेत्रं क्षेत्रनाथं च समासाद्य च वर्तते ।
ऐहिकामुष्मिकी चैव सिद्धिर् भवति देहिनाम्

36.302

तत्र तावच्चतुर्मूर्तेर् मूर्त्यन्तरगणस्य च ।
सन्निवेशं पृथिव्यां वै साम्प्रतं त्ववधारय

36.303

पुष्करं क्षेत्रमाश्रित्य पुण्डरीकाक्षसंज्ञया ।
वासुदेवस्तु भगवान्नित्यसन्निहितःस्थितः

36.304

एवं क्षेत्रवरैः सर्वमेत्य विश्वेश्वरःस्वयम् ।
चतुर्मूर्तिद्विजाद्यं वै आसृष्टेःसंस्थितिं क्रतौ

36.305

चतुर्णां मूर्तिभेदं यद् द्विषट्कपरिसंख्यया ।
क्षेत्रैः तीर्थान्वितैस्तेषां संस्थानम् अवधारय

36.306

केशवः क्लेशहा लोके वै (?द्वै) रूप्येण क्षितौ स्थितः ।
अभिव्यक्तेन रूपेण गोविन्दः पुरूषोत्तमः

36.307

भूभागपदमाश्रित्य संस्थितो नगसाहृये

36.308

स्थाने वृन्दावनाख्ये ऽपि द्विधैव कमलोद्भव ।
विष्णुर्लो[काघ] हे विप्र स्थितो विष्णुपदेन च

36.309

मन्दराख्यगिरिं चैव आसाद्य मधुसूदनः ।
भूतानाम् अनुकम्पार्थम् अवतीर्य च संस्थितः

36.310

यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः ।
स्थितः कमलसंभूत नृणां च सुगतिप्रदः

36.311

मूर्त्यन्तरं वामनाख्यं सहयाद्रौ कमलोद्भव ।
स्वतत्त्वादेत्य विश्रान्तं भविनां शोकशान्तये

36.312

नर्मदाख्यं हि चाक्रम्य जलं पापक्षयङ्करम् ।
श्रीधरः संस्थितो देवः कौण्डले च श्रिया सह

36.313

हृषीकेशस्तु भगवान् संस्थितो ऽप्यात्मना भुवि ।
धराधरे ध्वजाख्ये तु क्षेत्रे कुब्जाम्रके ऽब्जज

36.314

पद्मनाभस्तु माध्येशस्त्ववतीर्य च संस्थितः ।
दाक्षिणां दिशम् आश्रित्य समीपे जलधिक्षितौ

36.315

गिरौ रेवतके विप्र स्वतत्त्वादेत्य वर्तते ।
दामोदरस्तु भगवान् हितार्थं भावितात्मनाम्

36.326

एभिर् मूर्त्यन्तरैः सार्धं मूर्तिभिः विश्वमन्दिरम् ।
समासाद्य द्विजश्रेष्ठ अतो ऽन्येषां च संस्थितिम्

36.327

निबोधतु महाबुद्धे सावधानेन चेतसा ।
सिद्धामरार्चितं विद्धि श्वेतद्वीपे तु हंसराट्

36.318

मत्स्यात्मा भगवानप्सु अश्वात्मा बडबामुखे ।
रसातले तु कूर्मात्मा विन्ध्यारण्ये तु पौष्कर

36.319

विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम् ।
सौकरीयेन रूपेण क्षेत्रे तत्संज्ञके तु वै

36.320

गाङ्गे शुभजले कूले सुरसिद्धनिषेविते ।
हेमोत्तमाङ्गदृग्देवो हेमशैलमहान्तरे

36.321

नौबन्धनगिरावेव मीनवक्त्रः स्थितः प्रभुः ।
कृष्णाश्वे ऽश्वशिरो देवो क्षितिक्षेत्रे क्षमार्चिते

36.322

लवणोदधिपर्यन्ते भूभागे सिद्धसेविते ।
कूर्मवक्त्रश्च भगवान् संस्थितः शङ्खचक्रधृक्

36.323

नृहरिः कृतशौचे तु उज्जयिन्याम् अपि द्विज ।
विशाखमूलसंज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा

36.324

कोकामुखे वराहस्तु वाराहे तु नगोत्तमे ।
कन्दमाले विवै(?चे)तस्ते कुलकुक्षौ हिमाचले

36.325

वामनं खर्वमूर्तिं च वैश्वरूप्येण संस्थितम् ? ।
मध्यदेशे तु गङ्गायाः कुरूक्षेत्रे तु पौष्कर

36.326

यामुनं कुलमासाद्य प्रादुर्भावान्तरं महत् ।
स्थितं त्रिविक्रमाख्यं यस्त्रैलोक्याक्रान्ताविग्रहः

36.327

नगोत्तमे महेन्द्राख्ये परश्वथकरो द्विज ।
रामसंज्ञश्च भगवान् संस्थितः क्षत्रियान्तकः

36.328

धराधरे चित्रकूटे रक्षःक्षयकरो महान् ।
संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः

36.329

रामो ऽन्यःसीरपाणिर् वै यामुनं भ्रामयञ्जलम् ।
संस्थितो मानुषीयेषु भूभागेषु शुभेषु च

36.330

सामुद्रे ऽपि ततो द्वीपे द्वारकाख्ये ऽमरार्चिते ।
वर्तते भगवान् कृष्णः सर्वात्मा परमेश्वरः

36.331

कल्की विष्णुश्च भगवान् स्तूयमानो द्विजैः स्थितः ।
समासाद्य विपाशां च नदीं नियतमानसः

36.332

धर्ममूर्तिर् महात्मा वै धर्मारण्ये सुरार्चिते ।
अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः

36.333

नरसंज्ञं जगन्नाथं सिद्धैः संपूजितेषु च ।
भूभागेषु च रम्येषु नित्यसन्निहितः स्थितः

36.334

गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः ।
संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च

36.335

सालिग्रामे च भगवान् राजेन्द्राख्ये वने द्विज ।
तथैव वसुधांशेन स्थितो देवव्रताभिधे

36.336

कृष्णो ऽपरश्चतुर्मूर्तिर् अवतीर्य धरातले ।
स्थितःपिण्डारके विप्र मोचयन्दुष्कृताज्जनान्

36.337

श्वेतद्वीपे कुरूक्षेत्रे हिमवन्ताचले ऽब्जज ।
वेदिकायामपि नरे विश्वरूपःस्थितः प्रभुः

36.338

क्षीरोदधौ पद्मनाभःशेषाहिशयनोपरि ।
स्थितो नाभ्यब्जसंभूतो यस्माच्चैव पितामहः

36.339

चतुर्धा रूपमाश्रित्य विश्वे ऽस्मिन् सैव वर्तते ? ।
हिताय सर्वलोकानां यथावद् अवधारय

36.340

आसाद्य शयनं ब्रह्मन् पातालतलसंस्थितः ।
[रूप]मादाय चाग्नेयं यो ऽन्ते संहरते जगत्

36.341

वटमूलं समाश्रित्य प्रयागे सुरपूजिते ।
जगदेकार्णवं कृत्वा दिव्यम् आसाद्य पादपम्

36.342

सन्तिष्ठते स भगवांस्तस्मिंस्तीरे क्षितौ द्विज ।
न्यग्रोधशायिनं चैव ध्योयेद्दिव्यगतिप्रदम्

36.343

हिमाचलैकदेशे तु तुङ्गे वै भृगुसंज्ञके ।
मधुकैटभमाथी च संस्थितः सो ऽवनीतले

36.344

क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते ।
मन्द्रराद्रिकरो देवो वर्तते देवपूजितः

36.345

तत्रैवामृतजिद्देवः संस्थितः सिद्धसेवितः ।
कान्तारूपधरश्चैव सुधाकलशधृक् तथा

36.346

सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः ।
द्विधा कर्ता गणोपेतं देवं गरूडवाहनम्

36.347

सालवृक्षभुजोद्देशे सालिग्रामे स्थितो विभुः ।
त्रिकूटगिरिपृष्ठे तु गम्ये गगनचारिणाम्

36.348

गजोद्धृतिच्छलेनैव अप्रमेयाख्यया स्थितः ।
श्वेतद्वीपपतिर् देव अवतीर्य च संस्थितः

36.349

गंगासमुद्रसंयोगे क्षित्युदेशे मनोरमे ।
यज्ञभुग् भगवान् देवो नैमिशे सिद्धपूजिते

36.350

सैन्धवारण्यम् आश्रित्य अनन्तो भगवांस्स्थितः ।
शार्ङ्गपाणिस्तु देवेशो दण्डकारण्यसंज्ञके

36.351

रक्षोगणकुलं चैव संस्थितः तज्जयैषिणाम् ।
उत्पलावर्तके देशे शौरिसंज्ञो ऽच्युतःस च

36.352

क्षितौ समुद्रसिन्ध्वोरब्धेः सङ्गमे सिद्धसेविते ।
ज्ञानोपदेष्टा भगवान् संस्थितो दुःखशान्तये

36.353

आसाद्य सूकरक्षेत्रं देवो गरूडवाहनः ।
संस्थितो गरूडारूढः पारिजातकराङ्कितः

36.354

सिद्धैः सुरगणैः सार्धं गगने चापि पौष्कर ।
देवदेवेशनाम्नाथ हस्तिपर्वतमस्तके

36.355

एकदेशं समासाद्य सर्वस्य वरदः स्थितः ।
माल्योदपाणिर् वैकुष्ठो मगधायां महामते

36.356

ओड्डीन्ये पुण्यभूभागे संस्थितः पुरूषोत्तमः ।
अचिन्त्यात्माथ भगवान् पर्वते गन्धमादने

36.357

शिपिविष्टाख्यया देवः शिपिविष्टव्रते स्थितः ।
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे

36.358

कापिलं मूर्तिम् आसाद्य वासुदेवः स्थित प्रभुः ।
अवतीर्य स्वतत्त्वाच्च ब्रह्मसंज्ञः प्रजापतिः

36.359

मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः ।
मगधामण्डले विप्र महाबोधधराश्रितः

36.360

संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।
देवदक्षिणगाक्ष्णोर् वै यो ऽभिमानतनुर् द्विजः

36.361

सूर्यसंज्ञस्तु भगवान् हेमशैलोपरि स्थितः ।
अच्युतो वामनेत्रे तु यो ऽभिमानतनुर् विभुः

36.362

भगवान् सोमसंज्ञः तु सोमतीर्थाश्रमे ऽपि च ।
अग्निस्वरूपमजितं संस्थितं बडबानले

36.363

वस्वात्मा गगने विप्र भासते त्वसुरान्तकृत् ।
विष्णुनाम्ना पुनर् देवः त्वनेकायुधमण्डितः

36.364

जयाख्ययोज्जयिन्यां वै स्थितः पापजये नृणाम् ।
काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे

36.365

चक्रपाणिस्तु भगवान् भक्तानां मोक्षदः स्थितः ।
सुरोत्तमाभिधानश्च गदापाणिस्तु पौष्कर

36.366

सदा सन्निहितं विद्धि गङ्गाद्वारे सुरैः सह ।
चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्त्रश्चतुर्गतिः

36.367

स्थितः पिण्डारके देवो विष्वक्सेनः सनातनः ।
शुभम् आसाद्य भूभागं प्राग्ज्योतिषपुरे तथा

36.368

देवं विश्वेश्वराख्यं च स्थितमेत्य स्वगोचरात् ।
सातत्रनाभिधक्षेत्रे सिद्धविद्याधरान्विते

36.369

स्वामिसंज्ञो जगन्नाथः स्थितो मन्दाकिनीतटे ।
भल्लातके महायोगे ध्यायिनाम् अपवर्गदः

36.370

रसातले नृसिंहाख्ये देविकाया स्ततटाश्रिते ।
रिपुक्षयाख्यया विप्र देवः सर्वेश्वरः स्थितः

36.371

शङ्कराख्ये तु भूभागे सर्वदेवनिषेविते ।
ज्ञानमूर्तिर् जगन्नाथः संस्थितःशुभकृन्नृणाम्

36.372

पृथिव्यां तु पितृक्षेत्रे मोचयन्तानृणत्रयात् ।
जनार्दनाख्यया ब्रह्मन् विश्वात्मा भगवान् स्थितः

36.373

एते ऽवताराः कथिता लेशतः कमलोद्भव ।
एभिः क्षितितलं व्याप्तं पौनःपुन्येन च स्वयम्

36.374

संसारिणां जनानां तु अनुग्रहधियाब्जज ।
सङ्कीर्तनम् अगम्यानां त्रिसन्ध्यं नित्यम् आचरेत्

36.375

मतिं चक्रे(? कुर्याच्च) गम्यानां सेवने दर्शने ऽपि च ।
म्लेच्छानां तेषु देशेषु क्षितौ क्षेत्रादयो हि ये

36.376

साङ्कर्यपरिहारेण द्रष्टव्यास्ते सदैव हि ।
ऋषिभिः सामरैः सिद्धैः स्वाश्रमेषु महत्सु च

36.377

जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च ।
सर्वे भगवादाकारा विभवव्यूहलक्षणाः

36.378

उ (?मु) क्ता गताश्च ये चान्ये समुत्प्रेक्ष्य धियास्वयम् ।
प्रतिष्ठिताश्च विधिवत् समन्त्राः सत्यविक्रमाः

36.379

स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया ।
सौम्याग्नेयोभयाख्येन सन्निवेशवशेन वै

36.380

लीलारूचिमयेनैव चित्तसौख्यप्रदेन च ।
भुजाद्यायुधसन्धानकेतुभेदेन वै सह

36.381

अलंकृतश्च भूभागो मनुजैस्त्वेवमेव हि ।
भक्तैर् अनुग्रहीतैश्च सिद्धाद्यैश्च यथोदितम्

36.382

आदिदेवादयश्चैते तत्त्वेशाः समुदीरिताः ।
परस्मिन् भगवत्तत्वे तत्त्वभेदेन व्यवस्थिताः

36.383

सूर्यस्य रश्मयो यद्वद्वह्नेर्चिर्गणं यथा ।
जलधेरूर्मयो यद्वत् तद्वदेवाब्जसंभव

36.384

चित्सामान्यानि(न्नि)त्यशुद्धा व्यापकाः परमेश्वराः ।
तत्त्वसत्तां समाश्रित्य ज्ञानाद्यैः समलंकृताः

36.385

अणिमाद्यष्टकोपेताः संस्थिताः स्वात्मना तु वै ।
अध्वावनिषु सर्वासु नित्यं कुर्वन्ति सन्निधिम्

36.386

मुक्तये सर्वभूतानां विशेषेण तु वै भुवि ।
आविश्वप्रभवात् कालादारभ्य प्रलयावधि

36.387

क्षेत्रेषु तीर्थतीरेषु शब्दब्रह्मयात्मना ।
सामान्येनापि मन्त्रेण तद्विवर्तेन भात्मना

36.388

ततो व्यक्तेतरं रूपम् आश्रयन्ति च पार्थिवम् ।
हितार्थं सर्वलोकानाम् अवतीर्णम् अनश्वरम्

36.389

जगत्यायतनाख्यायाम् अत्र सिध्यन्ति योगिनः ।
कालान्तरेण व्यक्तीनां मज्जनं जायते यदि

36.390

सन्निधिं शक्तिभावेन नित्यं कुर्वन्ति तत्र च ।
योगेश्वरामराः सिद्धाः स्मृत्वाकारं तदात्मकम्

36.391

शैलमुद्दारूधातूत्थां व्यक्तिं संस्थापयन्ति च ।
यत्रानुवेधं कुरूर्(?व)ते मन्त्रशक्तिधरा स्तु ये

36.392

येनाच्युतीयनाम्ना वै यद्यत्स्वानान्तरं स्मृतम् ।
सन्निधिस्थस्य वै रूपं शब्दमूर्तिधरस्य च

36.393

भिन्नात्मनां स्वयंव्यक्तिरूपेष्वव्यक्तकेषु च ।
सन्निरूद्धेषु मन्त्रेषु इच्छावृत्तिगतेषु च

36.394

आकाराः संन्निवेशाच्च पारमेश्वरम् अन्यथा ।
अन्यथा वै जगत्यस्मिन् ख्याताख्यातं च शाश्वतम्

36.395

एवम् आयतनानां च नित्यत्वं संप्रकाशितम् ।
अनादित्वम् असंख्यं च महत्त्वम् अपि पौष्कर

36.396

जाता ये मां प्रसिद्धिर् वै सति व्यक्तिवशाद् द्विज ।
विना व्यक्तिस्वरूपेण शब्देनाप्यक्षयात्मना

36.397

व्द्यात्मनापि हि चान्यत्र शब्दव्याक्तिमयात्मना ।
अन्ये मुनिवरा विप्र दृष्ट्वा स्थानं मनोरमम्

36.398

निर्देषं सलिलं शुद्धं पादपौषधिसंकुलम् ।
स्थितिं कृत्वा स्थिरां तत्र कर्मणा मनसा ततः

36.399

सुलक्षणं तु पाषाणं दृष्ट्वा चान्यत्र वाहृतम् ।
विश्वकर्मकुलोद्भूतं समाज्ञाप्य तु शिल्पिनम्

36.400

उपले ऽस्मिज्जगद्योनेर्विष्णोः सर्वेश्वरस्य च ।
पादारविन्दमुद्रां च सम्पाद्य च मनोहराम्

36.401

एवम् अन्ये तु मुनयः स्वस्थानेषु महामते ।
शङ्खचक्रगदापद्मपूर्वा ये हरिलाञ्छनाः

36.402

निवेशं तत्र कृत्वा वै भक्तिपूतेन कर्मणा ।
अपरे तु द्विजश्रेष्ठा भक्तिबृंहितमानसाः

36.403

कुर्वन्ति सन्निवेशं च भक्तानां हितकाम्यया ।
पूवोक्तेषु च देशेषु सिद्धाद्यै रचितेषु च

36.404

मुद्रितेषु सहस्रारपूर्वमुद्रागणेषु च ।
पाषाणैर्वा महाबुद्धेरासृष्टेः पूजनेषु च

36.405

कृत्वा संस्काररूपं तु न्यासं यत्रोचितं हि यत् ।
कुर्वन्ति विधिपूर्वं तु नित्यं त्रैकाल्यम् अर्चनम्

36.406

ऋक्सामपूर्वैः सन्मन्त्रैर्द्विषट्कार्णसमन्वितैः ।
भगवत्पदसिध्यर्थं शिष्यादीनां शुभाप्तये

36.407

एवं पुष्करसंभूत ग्रामाश्च विषयाखिलाः ।
नगराःसपुरा राज्ञां प्रख्याता ये क्षितौ शुभाः

36.408

ऋषिभिर् मनुजैःशुद्धैः स्वयं सर्वेश्वरेण तु ।
भक्तानां अनुकम्पार्थं नीताः पुण्यपदात्मताम्

36.409

विभवव्यूहभेदेन स्थिता चानुग्रहेच्छया ।
तस्कराद्युपघाते तु अन्तर्भावगते द्विज

36.410

पूर्वमन्त्रादयो मन्त्राः तत्र ये प्राङ्निरोधिताः ।
बिम्बम् उज्झित्य तिष्ठन्ति तद्ब्रह्मविवराम्बरे

36.411

संस्कारं न कृतं यावत् पूर्वं तत् स्थावरोदितम् ।
वर्धते च महादोषो दिनार्धं दिनम् अन्यथा

36.412

तद्देशजानां सर्वेषां साधकानां नृपस्य च ।
द्विजेन्द्राद्यैर् अतस्माद् वणिग्भिर्वा कुटुग्बिभिः

36.413

देशिकैर् नरनाथेन कार्यं च भयनारानम् ।
सर्वेषां पापशमने कृतमन्त्रगणं हि यत्

36.414

प्रातिमं विग्रहं शश्वत्सर्वेषां श्रेयसे तु वै ।
निर्जनायतनानां तु धर्मार्थं यः समाचरेत्

36.415

दोषोपशमनं तस्य सर्वदुःखक्षयो भवेत् ।
भविनाम् आप्तपूर्णानां महामोहक्षय च

36.416

ब्रह्मण्यधिपतित्वेन आकारं चाच्युतं हि यत् ।
सविशेषैः समोपेतं विभूत्यंशैः समन्वितम्

36.417

प्रजापतिः तम् आसाद्य संक्रान्तं बुद्धिदर्पणे ।
तेन कर्णपथं नीतं शिल्पिनः स्वात्मजस्य च

36.418

संपन्नस्य च होमाद्यैर् देशिकैः संस्कृतस्य च ।
संक्रामन् ह्यचिरात्तत्र गौणम् आकारमैश्वरम्

36.419

सह विन्यासकाले तु वाचकेन महात्मना ।
एवमेवम् अनादित्वं द्रव्यजास्वाकृतीषु च

36.420

संसिद्धभूतिदृष्टिर् वै तुल्यकालं तु भूतले ।
विश्ववद्विस्मृतिं नैति शिल्पिबुद्धिसमाश्रितम्

36.421

स हि यच्छति भक्तानां कृत्वाकारं सुलक्षणम् ।
यस्य चाभिमतस्तादृक् भावभक्तिवशात् तु वै

36.422

दृष्टा स्वयंव्यक्तिमतो भुवि बिम्बं तु वै बुधः ।
ब्रह्मरुद्रैकसूर्याख्यम् आच्युतं विद्धि तन्महत्

36.423

यद् उक्तं व्यूहभेदस्थं मूर्तिभेदैः समन्वितम् ।
तथैव हि समाराध्यं बुध्या कमललोचन

36.424

आराधने समाधौ वा उपविष्टास्तु चोत्थिताः ।
संस्थिताःस्थानकैश्चान्ये तमो(?पो)मूर्तिष्वनुष्ठितैः

36.425

धारयत्यद्भूतं चैव लाच्छनद्वयम् इच्छया ।
द्वयं करद्वयेनैव लम्बमानचतुष्टयात्

36.426

शङ्खचक्रगदापद्मपूर्वाद्यायुधसंग्रहात् ।
यथोद्दिष्टक्रमेणेव लोकेशादिषु वै पुरा

36.427

ज्यादयश्चेच्छया (वा) चान्ये करैस्तिर्यक् प्रसारितैः ।
सूचयन्त्यतिभक्तानाम् उद्भुजत्वेन संपदम्

36.428

मन्दभक्तिभराणां तु तिर्यक् संस्थानसंस्थितैः ।
महदात्मपदं दिव्यं यद् [अन्तस्थं हि संपदात्]

36.429

येषामन्तरिता भक्तिर्नॄणां व्याभिश्रयाजिनाम् ।
प्राप्तिस्त्रिविष्टपे तेषां भुजवृन्दादयो मुखात्

36.430

समः सर्वेषु भूतेषु ब्रह्मन् यद्यप्यहं सदा ।
उपदेक्ष्यामि युक्त्या वै मद्भक्ता यान्ति संपदम्

36.431

अपरैर् अष्टभेदस्थैर् वर्णैर् वा ब्राह्मणादिकैः ।
प्रस्थापिताश्च विधिवत् प्रतिमा या नृपोत्तमैः

36.432

प्रतिबिम्बमयीं व्यक्तिं स्वयमेवाच्युतेन वा ।
जीर्णदोषं विना चैव चालनं यद् अशान्तिकम्

36.433

क्षतम् उत्पातपूर्वैस्तु दोषैस्तु नृपनाशकृत् ।
तदस्तमितमन्त्राणां भूयः संस्थापने कृते

36.434

उदयं जायते शश्वच्छान्तये किन्तु पौष्कर ।
देशिकेन्द्रैर् यथाध्याताः सूर्येन्द्वनलसंनिभाः

36.435

प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः ।
कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु

36.436

कृता वै ध्वस्तदोषाश्च निर्विध्नं निर्मलाः पुनः ।
निवेशिताः सुसिद्धाद्यैस्तीर्थैः क्षेत्रवनेषु च

36.437

निवारयन्ति ये मोहाद् विभवव्यूहमूर्तिषु ।
संस्थानमानम् आकारं दोषं कालान्तरे स्थितम्

36.438

ते चान्तकाले मज्जन्ति घोरे तमसि दुःसहे ।
स्वल्पवित्तैर् अतः तस्माद् अल्पबोधसमन्वितैः

36.439

वर्जनीयं विनानेन देवं श्रेयो ऽभिवाञ्छितैः ।
स्वयम् एव जगन्नाथस्त्ववतीर्य यथास्थितः

36.440

गृहीतःसुस्थिरस्त्वेवम् असिद्धैश्चापि कल्पितः ।
दोषैः सदिग्विभङ्गाद्यैर् अन्यथात्वं न याति च

36.441

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरतां चैव जगत्यस्मिन् हि वर्तते

36.442

भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमेयया ।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह

36.443

पौरुषायतनानां च सिद्धाख्यानां महामते ।
स्वयमेवावतीर्णानां तत्त्वेशानाम् इह क्षितौ

36.444

एवं क्षेत्रेश्वराणां तु सक्षेत्राणां मयाब्जज ।
प्रकाशितं रहस्यं च मुक्तये भविनां मया

36.445

फलार्थिनां च भविनां क्षेत्रे क्षेत्रेशसेविनाम् ।
यथाभिमतसंप्राप्तिम् इहैवायान्त्यनश्वरीम्

36.446

अथ भूमितले जाता प्रलयाख्ये महान्ति ते ।
क्षेत्रे क्षेत्रेश्वराणां तु रहस्यम् अवधारय

36.447

ज्ञानाद्यैः साणिमाद्यैस्तु अव्यक्तैः क्ष्मावसानिकैः ।
तत्त्वबीजैर् उपादेयैर् ब्रह्मसत्तासमन्वितैः

36.448

सहावतीर्य वा सृष्टेः प्राग्व्यक्तिं यान्ति वै ततः ।
स्वयमेवार्थभावेन सर्वानुग्रहकाम्यया

36.449

क्ष्मामण्डलोपसंहारकालं क्षेत्रधरैः सह ।
स्थितिम् ईश्वरतत्त्वे तु कुर्वन्ति च तदिच्छया

36.450

सविश्वव्यक्तिसमये प्राग्व्यक्तिं प्रवदन्ति च ।
जातिजन्मतथादेशदुःखैर् देहोत्थितैः सह

36.451

आधिव्याधिप्रपूर्वैस्तु मानसैर् दुःसहैस्तथा ।
इत्येवमादिभिर्देषैर् मुच्यते [त्वापृते] कथम्

36.452

सम्यग्ज्ञानं विजानन्तो (?न्तं) क्षेत्रीयानुग्रहेण वा ।
आविष्कृता भवेद् भक्तिस्तीव्रभक्ताद्यनुग्रहात्

36.453

जायते च मतिर्नॄणाम् अन्ते क्षेत्रे द्विजाच्युते ।
नेच्छन्ति सविकल्पासु अभक्ता नास्तिकोत्तमाः

36.454

विवेकः पुरुषादीनाम् आयातं च (?तश्च) फलाद्विभोः ।
पुरुषार्थपरित्यागं न कार्यं बोधितेन वै

36.455

जीवनं च जगत्यस्मिन् विप्रकर्मसमन्वितम् ।
ईश्वरस्तन्निरासे तु शक्तो बहुविधैर् मखैः

36.456

तदस्तित्वं गुरुमुखात् तत्संवेदनसंयुतम् ।
श्रद्दधानाश्च भक्ताश्च लभन्ते च नरोत्तमाः

36.457

ज्ञातव्यम् आत्मनात्मानं ततः सर्वज्ञम् ईश्वरम् ।
अभिमानम् अनाद्यं यत् प्राकृतं सत्वजं त्वथ

36.458

अस्मितालक्षणं घोरं सर्वदावाञ्छितप्रदम् ।
विज्ञेयम् आत्मनात्मानं तावद् यावन्निबोधितम्

36.459

बीजानां हि यथाकालं व्या(?व्यु)प्तानां फलम् अल्पदा(?दम्) ।
एवं व्यापाना(?दा)नाच्च क्षेत्रेष्वायतनेषु च

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc