भाषा

ENहिગુ
ग्रंथ पाठ

पौष्करसंहिता · अध्याय 35

35.1

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां धूपघण्टालक्षणं नाम चतुस्त्रिंशोध्यायः ॥
अथ पञ्चत्रिंशोध्यायः
श्रीभगवानुवाच ---
इत्युक्तं धूपघण्टाया लक्षणं लक्ष्मिवर्धनम् ।
यस्यां सञ्चाल्यमानायां धूपदानावधौ द्विज

35.2

सन्निधिं भजते शश्वन्मन्त्र आराधकस्य च ।
अथाङ्गुलैः स्वकैः कुर्याद् अध्वमानमयैस्तु वा

35.3

चतुर्विशतिभिर्ब्रह्मन् धूपं दाहकम् उत्तमम् ।
आयामेनाथ शिल्पीयैरायशुद्धैस्तु पूर्ववत्

35.4

स्वचतुर्थांशमानेन तद्वक्त्रम् अनलाश्त्रेयम् ।
चतुरश्रं समापाद्य वृत्तं वाष्टाश्रम् अब्जज

35.5

अस्याष्टाश्रस्य वै मध्ये कुर्याच्चक्रं तु साम्बुजम् ।
कमलं वा सहेतीशं स्वस्तिकं वा नलगृहम्

35.6

युक्तमुष्णीषपट्टेन निष्ठोद्देशात्तु कम्बुना ।
चतुरश्रस्य वृत्तस्य तच्चक्रस्याथ मे शृणु

35.7

लक्षणं हि यथावस्थं सविशेषं महामते ।
चतुरत्रं समापाद्य क्षेत्रं वा वर्तुलं समम्

35.8

तदन्तरे ऽब्जम् अब्जोत्थनलिनीनालराजितम् ।
केवलं तु सचक्रं वा विधिवद् भोगभाजितम्

35.9

आमध्याद् अष्टधा तं वै कृत्वा वै सुसमैः पुरा ।
भ्रमं दद्यात् षडंशेन कर्णिकाकोटरात् ततः

35.10

भ्रमन्तं कर्णिकाखातं निम्नतां च नयेद् द्विज ।
तन्मानं गोलकार्धेन जानीयान्मुद्रितं यथा

35.11

तृतीयांशेन षड्भागात् परितः कर्णिकोच्छ्रितिः ।
किञ्जल्कैस्तु सुसंवीतं तन्मानेनोपलक्षितैः

35.12

सप्तमांशात्तु यच्छिष्टं बहिः केसरसन्ततेः ।
भागद्वयं तु वै येन दलजालं समाप्य च

35.13

यथाभिमतसंख्यं च एवं भागेन तद्बहिः ।
मुक्ताजालसमोपेतं चक्रमापाद्य पूर्ववत्

35.14

अष्टमांशाच्चतुर्थांशं भागम् आदाय वै द्विज ।
क्षेत्रस्य चोक्तमानस्य वेद्यर्थम् अनुयोज्य च

35.15

वेद्याः कोणचतुष्के तु (च)कुर्याच्छङ्खचतुष्टयम् ।
चतुरश्रस्य या प्रोक्ता वेदिका शङ्खभूषिता

35.16

स्थितिर्नैषा च विहिता वृत्तक्षेत्रस्य पद्मज ।
पद्मपृष्ठाद् विनिष्क्रान्तं यथाभिमतवर्तुलम्

35.17

वेदिकावनिपर्यन्तं चक्रनेम्यवधिं तु वा ।
वक्त्राकारं सुवृत्तं वा तदुद्देशात् तु तं पुनः

35.18

वेदिसंधारणार्थं तु प्रोच्छ्रितं पङ्कजद्वयम् ।
तन्मध्ये लक्षणोपेतं स्थितं पद्मासनादिना

35.19

कुर्याद् आग्नेयम् आकारं तत्पादयुगलं तु वै ।
प्रसारितं खवक्त्रं च प्रोच्छ्रितं श्रोत्रेदशगम्

35.20

नालावसाने संपाद्य कर्णिकाकमले द्विज ।
अर्धप्रकुल्लै रचितैः पद्मपत्रैस्तथागतैः

35.21

तन्मूले साधिका कुर्यात् तद्विस्तारां महामते ।
क्ष्माक्षेत्रं स्वस्तिकोपेतं सुषिरं सुदृढं तु वा

35.22

पृष्ठदेशे ऽथ पद्मस्य मरुत्क्षेत्रं सबिन्दुकम् ।
कुर्याद् आधारभूतं च क्ष्माक्षेत्रस्योन्नतेः समम्

35.23

सार्धं क्ष्माव्यासविस्तारं तत्समं द्विगुणं तु वा ।
चक्रनेम्याश्रितं चैव प्रलीनं तच्च सुस्वनम्

35.24

आद्यं वा किङ्किणीजालं विघ्नविद्रावणं परम् ।
इत्येवं सविशेषं हि लक्षणं समुदाहृतम्

35.25

मान्त्रस्य धूपमात्रस्य सामान्यम् अथ मे शृणु ।
वृत्तस्याभ्यन्तरे पद्मं कर्णिकाकेसरान्वितम्

35.26

अष्टपत्रं समापाद्य व्योमक्तृविभूषितम् ।
मुक्तासूत्रान्वितं वाथ एवमेव सवेदिकम्

35.27

अन्तरा द्वादशारेण साम्बुजेनाथ वा[हितम्] ।
विचित्रपत्रविततं कुर्यात् पृष्ठावधेस्ततः

35.28

प्रफुल्लपत्रस्थाने तु उष्णीषांशुकभूषितम् ।
वक्त्रविश्रामभूतं च आधारवलयान्वितम्

35.29

शुद्धं सुश्लक्ष्णनालं च नलिनीरचनोज्झितम् ।
एवम् अभ्यूह्यमाकारं मानेनाभिमतेन तु

35.30

सर्वलोहैः स्वशक्त्या तु कृतं यच्छति वै सुखम् ।
मन्त्रिणां सूगहस्थानां भक्तानां कमलोद्भव

35.31

वक्ष्ये समुद्गराख्यस्य लक्षणं तं निबोधतु ।
विस्तारोद्दिष्टमानेन सुषिरं वृत्तसंपुटम्

35.32

सुसमं प्राक्समापाद्य समुद्गकमिवाब्जज ।
सनालं च तयोरेकम् उपरिष्टाच्च मध्यतः

35.33

प्रकुल्लकमलेनैव अधोवक्त्रेण पद्मज ।
द्वितीयम् ऊर्ध्ववक्त्रेण स्थगितं पङ्कजेन तु

35.34

सच्छिद्रं बीजसङ्घेन युक्तम् ऊर्ध्वस्थितं हि यत ।
नालम् आपाद्य मूलाद्वै विनतेन गजाङ्घ्रिणा

35.35

नालदेशगलाद् द्वाभ्यां स्थित्यर्थं विनियोज्य च ।
एवं प्रफुल्लरूपाणां लक्षणं समुदाहृतम्

35.36

प्रोत्थितानाम् इदानीं वै लक्ष्म शृणु यथागतम् ।
प्रागायामाच्चतुर्थांशं वैतत्येन महामते

35.37

चतुरश्रायतं क्षेत्रं निक्षिप्य वसुधातले ।
अष्टधाथ तमायामं सुसमं संविभज्य च

35.38

चतुर्धा विस्तृतेश्चैव कुर्यात्तदनु पद्मज ।
अष्टभागोन्नतं पीठं प्रागुक्तरचनान्वितम्

35.39

पादाद्युष्णीषपर्यन्तं यथाविस्तारविस्तृतम् ।
पीठार्धेन उच्छ्रितं चैव विस्तारात् त्र्यंशसंमितम्

35.40

कमलं पीठमध्ये तु कुर्याद् द्वितयकर्णिकम् ।
अष्टपत्रं सकिञ्जल्कं व्योमवृत्तविभूषितम्

35.41

विस्ताराच्चार्धभागेन पृथुलं चोन्नतेः पुनः ।
सार्धभागचतुष्केन अष्टाश्रं वा सुवर्तुलम्

35.42

चतुस्श्रं तु वा रम्यं तदेव रचनान्वितम् ।
स्तम्भम् आपाद्यम् एवं हि यथाभिमतम् अब्जज

35.43

येभ्यो यद्वर्तुलं तद्वै विचित्ररचनान्वितम् ।
स्तम्भमरुतकविश्रान्तं बाहुल्येनांशसंमितम्

35.44

पीठतुल्यं तु विस्ताराद्द्वादशारविभूषितम् ।
नाभिनेमिप्रथीयुक्तं मुक्ताहाराद्यलंकृतम्

35.45

प्राग्वत् सकिङ्किणीकं च चक्रम् आपाद्य पद्मज ।
तदक्षमध्यसंरूढं सार्धांशेनोन्नतं तु वै

35.46

अग्रात् पीठसमं चैव बाहुल्याच्चक्रसंमितम् ।
विस्ताराद् अर्धभागेन अष्टोद्देशाच्च संकटम्

35.47

क्रमशश्चानुपातेन तद्विस्तारं विधीयते ।
मुखम् एवं समापाद्य सधूमस्य अनलस्य च

35.48

सदाश्रवं सदाकालं विभोरर्चनकर्मणि ।
जलजैः स्थलजैश्चैव प्राणिभिर् नाकजैस्ततैः

35.49

पत्रवल्लीवितानैश्च सशङ्खैः स्वस्तिकैः कजैः ।
कुसुमस्तबकैः स्वच्छैः सिद्धविद्याधरादिकैः

35.50

देवाङ्गनासमेतैश्च दिक्षु वेशो भवेद्बहिः ।
एतत् प्रासादयुक्तस्य वृत्तपीठाननस्य च

35.51

यथावद् उपदेक्ष्यामि सन्निवेशमतोब्जज ।
वलित्रितयसंयुक्तं शङ्खाननमिवासनम्

35.52

पद्ममानोन्नोतं कुर्याद् आसनोपरि पद्मज ।
स्तम्भाधारं विचित्रं च द्विव्यम् आमलसारकम्

35.53

रचनारचितं स्तम्भं रक्तपूर्वम् अथोच्छ्रितम् ।
वलयावलितुल्यं वा स्तम्भनालस्य तूपरि

35.54

चक्रवत् कमलं कुर्चात् सकिञ्जल्कं द्विषट्पदम् ।
विस्तीर्णकर्णिकं विप्र प्राग्वद् वक्त्रं तदूर्ध्वगम्

35.55

यथोक्तरचनोपेतं परितः किन्तु वर्तुलम् ।
मुक्तासूत्रान्वितं चैव किङ्किणीजाललाम्बितम्

35.56

एभ्यश्चोक्तम् अथैकं वै सविधानं तदब्जज ।
जलजस्थलजा यात्म्यरचना(?व्योम्य )रचिता मया

35.57

समभ्यूह्य च सा कार्या सर्वेषां सर्वदाब्जज ।
स्फुटावस्य -------?यस्मिन् वै कृताङ्गे ?त्यन्तराजते

35.58

इदमुक्तं समासेन लक्षणं च सविस्तृतम् ।
धूपदाहक्रियाङ्गस्य नानाकृतिधरस्य च

35.59

संपाद्यैवं च संस्कृत्य नीत्वा सत्यन्तता ?पुनः ।
स्वमन्त्राधिष्ठितं कृत्वा पूज्यम् आधारसंस्थितम्

35.60

मूलतः स्वस्तिकास्थाने क्ष्मातत्त्वं पञ्चलक्षणम् ।
सलिलं कमलं विद्धि चक्रम् अग्निं महत्प्रभम्

35.61

किङ्किणीजालमनिलम् आकाशं कर्णिकोदरे ।
इत्येवं साधिभूताधिदैवतानुगतं हि वै

35.62

प्राक् प्रोक्तं भावनीयं च सिद्धये ऽखिलकर्मणाम् ।
चक्रस्य सकलं रूपं नाभ्यरानेमिसप्रधि

35.63

निष्कलं हि सुवृत्तं यत् व्योमवृत्तेति गीयते ।
एवं लक्षणसंयुक्तं धूपपात्रं समर्चयेत्

35.64

संस्कृत्य च यथान्यायं स्ववंशस्य च कीर्तयेत् ।
स्वनामचिह्नितं कृत्वा प्रतिपाद्य महामते

35.65

हरेरायतने दिव्ये सुरसिद्धनिषेविते ।
त्रेकाल्यं बलिदानेन धूपधूमेन वै सह

35.66

वादयेत् सुस्वनां घण्टां भेरीशब्दादिकैर्युताम् ।
स्तोत्रेः प्रदक्षिणीकुर्याद् बहुधा दिव्यम् आलयम्

35.67

सिद्धसंघं च तत्रस्थं शब्दब्रह्मैकम् आसनम् ।
श्रुत्वा घण्टारवं बाह्यात् परितोषं महामते

35.68

कस्येदम् अचिराद्याति अमिव्यक्तिम् अनाहतम् ।
भव्यानाम् उपदेशार्थं येनेदं व्यञ्जितं बहिः

मूल पाठ: Pauṣkarasaṃhitā 27-43 · Edition: Prabhakar Pandurang Apte: Pauṣkarasaṃhitā : dvitīyo bhāgaḥ, Tirupati 2006 (Rashtriya Sanskrit Vidyapeetha Series, 120) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc